संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ८७

ब्रह्मपुराणम् - अध्यायः ८७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तशीतितमोऽध्यायः
अहल्यासंगमेन्द्रतीर्थवर्णनम्
ब्रह्मोवाच
अहल्यासंगमं चेह तीर्थं त्रैलोक्यपावनम् ।
श्रृणु सम्यङ्मुनिश्रेष्ठ तत्र वृत्तमिदं यथा ॥१॥

कौतुकेनातिमहता मया पूर्वं मुनीश्वर ।
सृष्टा कन्या बहुविधा रूपवत्यो गुणान्विताः ॥२॥

तासामेकां श्रेष्ठतमां निर्ममे शुभलक्षणाम् ।
तां बालां चारुसर्वङ्गीं दृष्ट्वा रूपगुणान्विताम् ॥३॥

को वाऽस्याः पोषणे शक्त इति मे बुद्धिराविशत् ।
न दैत्यानां सुराणां च न मुनीनां तथैव च ॥४॥

नास्त्यस्याः पोषणे शक्तितरिति मे बुद्धिरन्वभूत् ।
गुणज्येष्ठाय विप्राय तपोयुक्ताय धीमते ॥५॥

सर्वलक्षणयुक्ताय वेदवेदाङ्गवेदिने ।
गौतमाय महाप्राज्ञामददां पोषणाय ताम् ॥६॥

पालयस्व मुनिश्रेष्ठ यावदाप्स्यति यौवनम् ।
यौवनस्थां पुनः साध्वीमानयेथा ममान्तिकम् ॥७॥

एवमुक्त्वा गौतमाय प्रादां कन्यां सुमध्यमाम् ।
तामादाय मुनिश्रेष्ठ तपसा हतकल्मषः ॥८॥

तां पोषयित्वा विधिवदलंकृत्य ममान्तिकम् ।
निर्विकारो मुनिश्रेष्ठो ह्यहल्यामानयत्तदा ॥९॥

तां दृष्ट्वा विबुधाः सर्वे शक्रग्निवरुणादयः ।
मम देया सुरेशान इत्यूचुस्ते पृथक्पृथक् ॥१०॥

तथैव मुनयः साध्या दानवा यक्षराक्षसाः ।
तान्सर्वानागतान्दृष्ट्वा कान्यार्थमथ संगतान् ॥११॥

इन्द्रस्य तु विशेषण महांश्चाभूत्तदा ग्रहः ।
गौतमस्य तु माहात्म्यं गाम्भीर्यं धैर्यमेव च ॥१२॥

स्मृत्वा सुविस्मितो भूत्वा ममैवमभवत्सुधीः ।
देयेयं गौतमायैव नान्ययोग्या शुभानना ॥१३॥

तस्मा एव तु तां दास्ये तथाऽप्येवमचिन्तयम् ।
सर्वेषां च मतिर्धैर्यं मथितं बालयाऽनया ॥१४॥

अहल्येति सुरैः प्रोक्तं मया च ऋषिभिस्तदा ।
देवानृषींस्तदा वीक्ष्य मया तत्रोक्तमुच्चकैः ॥१५॥

तस्मै सा दीयते सुभ्रूर्यः पृथिव्याः प्रदक्षिणाम् ।
कृत्वोपतिषठते पूर्व न चानयस्मै पुनः पुनः ॥१६॥

ततः सर्वे सुरगणाः श्रुत्वा वाक्यं मयेरितम् ।
अहल्यार्थं सुरा जग्मुः पृथिव्याश्च प्रदक्षिणे ॥१७॥

गतेषु सुरसंघेषु गौतमोऽपि मुनीश्वर ।
प्रयत्नमकरोत्कंचिदहल्यार्थंमिमं तथा ॥१८॥

एतस्मिन्नन्तरे ब्रह्मन्सुरभिः सर्वकामधुक् ।
अर्धप्रसूता ह्यभवत्तां ददर्श स गौतमः ॥१९॥

स्याः प्रदक्षिणं चक्रे इयमुर्वीति संस्मरन् ।
लिङ्गस्य च सुरेशस्य प्रदक्षिणमथाकरोत् ॥२०॥

तयोः प्रदक्षिणं कृत्वा गौतमौ मुनिसत्तमः ।
सर्वेषां चैव देवानामेकं चापि प्रदक्षिणम् ॥२१॥

नैवाभवद्भुवो गन्तः संजातं द्वितयं मम ।
एवं निश्चित्य स मुनिर्ममान्तिकमथाभ्यगात् ॥२२॥

नमस्कृत्वाऽब्रवीद्वाक्यं गौतमो मां महामतिः ।
कमलासन विश्वात्मन्नमस्तेऽस्तु पुनः पुनः ॥२३॥

प्रदक्षिणीकृता ब्रह्मन्मयेयं वसुधाऽखिला ।
यदत्र युक्तं देवेश जानीते तद्भवान्स्वयम् ॥२४॥

मया तु ध्यानयोगन ज्ञात्वा गौतममब्रवम् ।
तवैव दीयते सुभ्रः प्रदक्षिणमिदं कृतम् ॥२५॥

धर्मं जानीहि विप्रर्षे दुर्ज्ञेयं निगमैरपि ।
अर्धप्रसूता सुरभिः सप्तद्वीपवती मही ॥२६॥

कृता प्रदक्षिणा तस्याः पृथिव्याः सा कृता भवेत् ।
लिङ्गं प्रदक्षिणीकृत्य तदेव फलमाप्नुयात् ॥२७॥

तस्मात्सर्वप्रयत्नेन मुने गौतम् सुव्रत ।
तुष्टोऽहं तव धैर्येण ज्ञानेन तपसा तथा ॥२८॥

दत्तेयमृषिशार्दूल कन्या लोकवरा मया ।
इत्युक्तवाऽहं गौतमाय अहल्यामददां मुने ॥२९॥

जाते विवाहे ते देवाः कृत्वेलायाः प्रदक्षिणम् ।
शनैः शनैरथाऽऽगत्य ददृशुः सर्व एव ते ॥३०॥

तं गौतममहल्यां च दाम्पत्यं प्रीतिवर्धनम् ।
ते चाऽऽगत्याथ पश्यन्तो विस्मिताश्चाभवन्सुराः ॥३१॥

अतिक्रान्ते विवाहे तु सुराः सर्वे दिवं ययुः ।
समत्सरः शचीभर्ता तामीक्ष्य च दिवं ययौ ॥३२॥

ततः प्रीतमनास्तस्मै गौतमाय महात्मने ।
प्रादां ब्रह्मगिरिं पुण्यं सर्वकामप्रदं शुभम् ॥३३॥

अहल्यायां मुनिश्रेष्ठो रेमे तत्र स गौतमः ।
गौतमस्य कथां पुण्यां श्रुत्वा शक्रस्त्रिविष्टपे ॥३४॥

तमाश्रमं तं च मुनिं तस्य भार्यामनिन्दिताम् ।
भूत्वा ब्राह्मणवेषेण द्रष्टुमागाच्छतक्रतुः ॥३५॥

स दृष्ट्वा भवनं तस्य भार्यां च विभवं तथा ।
पापीयसीं मतिं कृत्वा अहल्यां समुदैक्षत ॥३६॥

नाऽऽत्मानं न परं देशं कालं शापादृषेर्भयम् ।
न बुबोध तदा वत्स कामाकृष्टः शतक्रतुः ॥३७॥

तद्ध्यानपरमो नित्यं सुराज्येन गर्वितः ।
संतप्ताङ्गः कथं कुर्यां प्रवेशो मे कथं भवेत् ॥३८॥ ।

एवं वसन्विप्ररूपो नान्तरं त्वध्यगच्छत ।
स कदाचिन्महाप्राज्ञः कृत्वा पौर्वाह्णिकीं क्रयाम् ॥३९॥

सहितो गौतमः शिष्यैर्निर्गतश्चाऽश्रमाद्बहिः ।
आश्रमं गौतमी विप्रन्धान्यानि विविधानि च ॥४०॥

द्रष्टुं गतो मुनिवर इन्द्रस्तं समुदैक्षतः ।
इदमन्तरमित्युक्त्वा चक्रे कार्यं मनःप्रियम् ॥४१॥

रूपं कृत्वा गौतमस्य प्रियेप्सुः स शतक्रतुः ।
तां दृष्ट्वा चारुसर्वाङ्गीमहल्यां वाक्यमब्रवीत् ॥४२॥

इन्द्र उवाच
आकृष्टोऽहं तव गुणै रूपं स्मृत्वा स्खलत्पदः ।
इति ब्रुवन्हसन्हस्तमादायान्तः समाविशत् ॥४३॥

न बुबोध त्वहल्या तं जारं मेने तु गौतमम् ।
रममाण यथासौख्यं प्रागाच्छिष्यैः स गौतमः ॥४४॥

आगच्छन्तं नित्यमेव अहल्या प्रियवादिनी ।
प्रतियाति प्रियं वक्ति तोषयन्ती च तं गुणैः ॥४५॥

तामदृष्ट्वा महाप्राज्ञो मेने तन्महदद्भुतम् ।
द्वारस्थितं मुनिश्रेष्ठं सर्वे पश्यन्ति नारद ॥४६॥

अग्निहोत्रस्य शालाय रक्षिणो गृहकर्मिणः ।
ऊचुर्मुनिवरं भीता गौतमं विस्मयान्विताः ॥४७॥

रक्षिण ऊचुः
भगवन्किमिदं चित्रं बहिरन्तश्च दुश्यसे ।
प्रिययाऽन्तः प्रविष्टोसि तथैव च बहिर्भवान् ॥
अहो तपःप्रभावोऽयं नानारूपधरो भवान् ॥४८॥

ब्रह्मोवाच
तच्छ्रुत्वा विस्मितस्त्वन्तः प्रविष्टः को नु तिष्ठति ।
प्रिये अहल्ये भवति किं मां न प्रतिभाषसे ॥४९॥

इत्यृषेर्वचनं श्रुत्वा अहल्या जारमब्रवीत् ॥५०॥

अहल्योवाच
को भवान्मुनिरूपेण पापं त्वं कृतवानसि  ।
इति ब्रुवती शयनादुत्थिता सत्वरं भयात् ॥५१॥

स चापि पापकृच्छक्रो विडालोऽभून्मुनेर्भयात् ।
त्रस्तां च विकृतां दृष्ट्वा स्वप्रियां दूषितां तदा ॥५२॥

उवाच स मुनिः कोपात्किमिदं साहसं कृतम् ।
इति ब्रुवन्तं भर्तारं साऽपि नोवाच लज्जिता ॥५३॥

अन्वेषयंस्तु तं जारं बिडालं ददृशे मुनिः ।
को भवानिति तं प्राह भस्मीकुर्यां मृषा वदन् ॥५४॥

इन्द्र उवाच
कृताञ्जलिपुटो भूत्वा चैवमाह शचीपतिः ।
शचीभर्ता पुरां भेत्ता तपोधन पुरुष्टुतः ॥५५॥

ममेदं पापमापन्नं सत्यमुक्तं मयाऽनघ ।
महद्विगर्हितं कर्म कृतवानस्मयहं मुने ॥५६॥

स्मरसायकनिर्भिन्नहृदयाः किं न कुर्वते ।
ब्रह्मन्मयि महापापे क्षमस्व करुणानिधे ॥५७॥

सन्तः कृतापराधेऽपि न रौक्ष्य जातु कुर्वते ।
निशम्य तद्वचो विप्रो हरिमाह रुषाऽन्वितः ॥५८॥

गौतम उवाच
भगभक्त्या कृतं पापं सहस्रभगवान्भव ।
तामप्याह मुनिः कोपात्त्वं च शुष्कनदी भव ॥५९॥

ततः प्रसादयामास कथयन्ती तदाकृतिम् ॥६०॥

अहल्योवाच
मनासाऽप्यन्यपुरुषं पापिष्ठाः कामयन्ति याः ।
अक्षयान्यान्ति नरकांस्तासां सर्वेऽपि पूर्वजाः ॥६१॥

भूत्वा प्रसन्नो भगवन्वधारय मद्वचः ।
तव रूपेण चाऽऽगत्य मामगात्साक्षिणस्त्त्वमे ॥६२॥

तथेति रक्षिमः प्रोचुरहल्या सत्यवादिनी ।
ध्यानेनापि मुनिर्ज्ञात्वा शान्तः प्राह पतिव्रताम् ॥६३॥

गौतम उवाच
यदा तु संगता भद्रे गौतम्या सरिदीशया ।
नदी भूत्वा पुना रूपं प्राप्यसे प्रियकृन्मम ॥६४॥

इत्यृषेर्वचनं श्रुत्वा तथा चक्रे पतिव्रता ।
तया तु संगता देव्या अहल्या गौतमप्रियाः ॥६५॥

पुनस्तद्रुपमभवद्यन्मया निर्मितं पुरा ।
ततः कृताञ्जलिपुटः सुरारट् प्राह गौतमम् ॥६६॥

इन्द्र उवाच
मां पाहि मुनिशार्दूल पापिष्ठं गृहमागतम् ।
पादयोः पतितं दृष्ट्वा कृपया प्राह गौतमः ॥६७॥

गौतम उवाच
गौतमीं गच्छ भद्रं ते स्नानं कुरु पुरंदर ।
क्षणान्निर्धूतपापस्त्वं सहस्राक्षो भविष्यसि ॥६८॥

उभयं विस्मयकरं दृष्टवानस्मि नारद ।
अहल्यायाः पुनर्भावं शचीभर्ता सहस्रदृक् ॥६९॥

ततः प्रभुति तत्तीर्थमहल्यासंगमं शुभम् ।
इन्द्रतीर्थमिति ख्यातं सर्वकामप्रदं नृणाम् ॥७०॥

इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽहल्यासंगमेन्द्रतीर्थवर्णनं नाम सप्ताशीतितमोऽध्यायः ॥८७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP