ब्रह्मपुराणम् - अध्यायः १६०
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
देवागमतीर्थवर्णनम्
ब्रह्मोवाच
देवागमं नाम तीर्थं सर्वक्रामप्रदं शिवम् ।
भुक्तिमुक्तिप्रदं नृणां पितॄणां तृप्तिकारकम् ॥१॥
तत्र वृत्तं समाख्यास्ये तव यत्नेन नारद ।
देवानामसुराणां च स्पर्धाऽभूद्धनहेतवे ॥२॥
स्वर्गः सुराणामभवदसुराणामिलाऽभवत् ।
कर्मभूमिमवष्टभ्य असुराः सर्वतोऽभवन् ॥३॥
देवानां यज्ञभागांश्च दातॄन्घ्नन्त्यसुरास्ततः ।
ततः सुरगणाः सर्वे यज्ञभागैर्विना कृताः ॥४॥
व्यथिता मामुपाजग्मुः किं कृत्यमिति चाब्रुवन् ।
मया चोक्ताः सुरगणा युद्धे जित्वाऽसुरान्बलात् ॥५॥
भुवं प्राप्स्यथ कर्माणि हवींषि च यशांसि च ।
तथेत्युक्त्वा गता देवा भूमिं ते समरार्थिनः ॥६॥
दैत्याश्च दानवाश्चैव राक्षसा बलदर्पिताः ।
एकीभूत्व ययुस्ते ।़पि जयिनो युद्धकाङ्क्षिणः ॥७॥
अहर्वृत्रो बलिस्त्वाष्ट्रिर्नमुचिः शम्बरो मयः ।
एते चान्ये च बहवो योद्धारो बलदर्पिताः ॥८॥
अग्नरिन्द्रोऽथ वरुणस्त्वष्टा पूषा तथाऽश्विनौ ।
मरुतो लोकपालाश्च नानायुद्धविशारदाः ॥९॥
ते दानवाः सर्व एव याम्यां वै दिशि संगरे ।
अकुर्वन्त महायत्नं दक्षिणार्णवसंस्थिताः ॥१०॥
त्रिकूटः पर्वतश्रेष्ठो राक्षसानां पुराऽभवत् ।
तद्वनेन ययुः सर्वे तैः सार्धं दक्षिणार्णवम् ॥११॥
सर्वेषां मेलनं यत्र पर्वतो मलयस्तु सः ।
मलयस्यापि देशोऽसौ देवारीणामभूत्तदा ॥१२॥
देवानां गौतमीतीरे तत्र संनिहितः शिवः ।
इति तेषां समायोगो देवानामभवत्किल ॥१३॥
देवाः स्वरथमारूढास्तत्र तत्र समागमन् ।
गौतम्याः सरिदम्बायाः पुलिने विमलाशयाः ॥१४॥
प्रसन्नाऽभीष्टदा या स्यात् पितॄणामखिलस्य तु ।
ततो देवगणाः सर्वे स्तुत्वा देवं महेश्वरम् ॥
अभयं चिन्तयामासुस्ते सर्वेऽथ परस्परम् ॥१५॥
देवा ऊचुः
अत्राप्युपायः कोऽस्माकं निर्जितानां परैर्हठात् ।
एकमेवात्र नः श्रेयो विजयो वाऽथवा मृतिः ॥
सपत्नैरभिभूतानां जीवितं धिङ्मनस्विनाम् ॥१६॥
ब्रह्मोवाच
एतस्मिन्नन्तरे पुत्र वागुवाचाशरीरिणी ॥१७॥
आकाशवागुवाच
क्लेशेनालं सुरगणा गौतमीमाशु गच्छत ।
भक्त्या हरिहरौ तत्र समाराधयतेश्वरौ ॥१८॥
गौदावर्यास्तयोश्चैव प्रसादात्किंतु दुष्करम् ॥१९॥
ब्रह्मोवाच
प्रसन्नाभ्यां हरीशाभ्यां देवा जयमभीप्सितम् ।
अवाप्य सर्वतो जग्मुः पालयन्तो दिवौकसः ॥२०॥
यत्र देवागमो जातस्तत्तीर्थं तेन विश्रुतम् ।
देवागमं प्रशंसन्ति मुनयस्तत्त्वदर्शिनः ॥२१॥
तत्राशीतिसहस्राणि शिवलिङ्गानि नारद ।
देवागमः पर्वतोऽसौ प्रिय इत्यपि कथ्यते ।
ततः प्रभृति तत्तीर्थं देवप्रियमतो विदुः ॥२२॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये देवागमतीर्थवर्णनं नाम षष्ट्यधिकशततमोऽध्यायः ॥१६०॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP