संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ७७

ब्रह्मपुराणम् - अध्यायः ७७

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


अथ सप्तसप्ततितमोऽध्यायः
तमीमहत्त्ववर्णनम्
ब्रह्मोवाच
त्र्यम्बकश्च इति प्राह गौतमं मुनिभिर्वृतम् ॥१॥

द्विजस्तमात्रे तीर्थानि संभविष्यन्ति गौतम् ।
सर्वत्राहं संनिहितः सर्वकामप्रदस्तथा ॥२॥

ब्रह्मोवाच
गङ्गद्वारे प्रयागे च तथा सागरसंगमे ।
एतेषु पुण्यदा पुंसां मुक्तिदा सा भगीरथी ॥३॥

नर्मदा तु सरिच्छ्रेष्ठा पर्वतेऽमरकण्टके ।
यमुना संगता तत्र प्रभासे तु सरस्वती ॥४॥

कृष्णा भीमरथी चैव तुङ्गभद्रा तु नारद ।
तिसृणां संगमो यत्र तत्तीर्थं मुक्तिदं नृणाम् ॥५॥

पयोष्णी संगता यत्र तत्रत्या तच्च मुक्तिदम् ।
इयं तु गौतमी वत्स यत्र क्वापि ममाऽऽज्ञया ॥६॥

सर्वेषां सर्वदा नॄणां स्नानान्मुक्तिं प्रदास्यति ।
किंचित्काले पुण्यतमं किंचित्तीर्थं सुरागमे ॥७॥

सर्वेषां सर्वदा तीर्थं गौतमी नात्र संशयः ।
तिस्रः कोट्योऽर्धकोटी च योजनानां शतद्वये ॥८॥

तीर्थानि मुनिशार्दूल संभविष्यन्ति गौतम ।
इयं माहेश्वरी गङ्गा गौतमी वैष्णवीति च ॥९॥

ब्राह्मी गोदावरी नन्दा सुनन्दा कामादायिनी ।
ब्रह्मतेजः समानीता सर्वपापाप्रणाशनी ॥१०॥

स्मरणादेव पापौघहनत्री मम सदा प्रिया ।
पञ्चानामपि भूतानामापः श्रेष्ठत्वमागताः ॥११॥

तत्रापि तीर्थभूतास्तु तस्मादापः पराः स्मृता ।
तासां भागीरथी श्रेष्ठा ताभ्योऽपि गौतमी तथा ॥१२॥

आनीता सजटा गङ्गा अस्या नान्यच्छुभावहम् ।
स्वर्गे भुवि तले वाऽपि तीर्थं सर्वार्थदं मुने ॥१३॥

ब्रह्मोवाच
इत्येतत्कथितं पुत्र गौतमाय महात्मने ।
साक्षाद्धरेण तुष्टेन मया तव निवेदितम् ॥१४॥

एवं सा गौतमी गङ्गा सर्वेभ्योऽप्यधिका मता ।
तत्स्वरूपं च कथितं कुतोऽन्या श्रवणस्पृहा ॥१५॥

इति श्रीमहापुराणे आदिब्राह्मो तीर्थमाहात्म्ये सप्तसप्ततितमोऽध्यायः ॥७७॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP