संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः १८४ ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः १८४ ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः १८४ Translation - भाषांतर श्रीकृष्णबालचरितवर्णनम्व्यास उवाचविमुक्तो वसुदेवोऽपि नन्दस्य शकटं गतः ।प्रहृष्टं दृष्टवान्नन्दं पुत्रो जातो ममेति वै ॥१॥वसुदेवोऽपि तं प्राह दिष्ट्या दिष्ट्येति सादरम् ।वार्धकेऽपि समुत्पन्नस्तनयोऽयं तवाधुना ॥२॥दत्तो हि वार्षिकः सर्वो भवद्भिर्नृपतेः करः ।यदर्थमागतस्तस्मान्नात्र स्थेयं महात्मनाः ॥३॥यदर्थमागतः कार्यं तन्निष्पन्नं किमास्यते ।भवद्भिर्गम्यतां नन्द तच्छीघ्रं निजगोकुलम् ॥४॥ममापि बालकस्तत्र रोहिणीप्रसवो हि यः ।स रक्षणीयो भवता यथाऽयं तनयो निजः ॥५॥व्यास उवाचइत्युक्ताः प्रययुर्गोपा नन्दगोपपुरोगमाः ।शकटारोपितैर्भाण्डैः करं दत्त्वा महाबलाः ॥६॥वसतां गोकुले तेषां पूतना बालघातिनी ।सुप्तं कृष्णमुपादाय रात्रौ च प्रददौ स्तनम् ॥७॥यस्मै यस्मै स्तनं रात्रौ पूतना संप्रयच्छति ।तस्य तस्य क्षणेनाङ्गं बालकस्योपहन्यते ॥८॥कृष्णस्तस्याः स्तनं गाढं कराभ्यामतिपीडितम् ।गृहीत्वा प्राणसहितं पपौ क्रोधसमन्वितः ॥९॥सा विमुक्तमहारावा विच्छिन्नस्नायुबन्धना ।पपात पूतना भूमौ म्रियमाणाऽतिभिषणा ॥१०॥तन्नादश्रुतिसंत्रासाद्विबुद्धास्ते व्रजौकसः ।ददुशुः पूतनोत्सङ्गे कृष्णं तां च निपातिताम् ॥११॥आदाय कृष्णं संत्रस्ता यशोदा च ततो द्विजाः ।गोपुच्छभ्रामणाद्यैश्च बालदोषमपाकरोत् ॥१२॥गोपुरीषमुपादाय नन्दगोपोऽपि मस्तके ।कृष्णस्य प्रददौ रक्षां कुर्वन्निदमुदैरयत् ॥१३॥नन्दगोप उवाचरक्षते त्वामशेषाणां भूतानां प्रभवो हरिः ।यस्य नाभिसमुद्भूतात्पङ्काजादभवज्जगत् ॥१४॥येन दंष्ट्राग्रविधृता धारयत्यवनी जगत् ।वराहरूपधृग्देवः स त्वां रक्षतु केशवः ॥१५॥गुह्यं स जठरं विष्णुर्जङ्घा पादौ जनार्दनः ।वामनो रक्षतु सदा भवन्तं यः क्षणादभूत् ॥१६॥त्रिविक्रमक्रमाक्रान्तत्रैलोक्यस्फुरदायुधः ।शिरस्ते पातु गोविन्दः कण्ठं रक्षतु केशवः ॥१७॥मुखबाहू प्रबाहू च मनः सर्वेन्द्रियाणि च ।रक्षत्वव्याहतैश्वर्यस्तव नारायणोऽव्ययः ॥१८॥त्वां दिक्षु पातु वैकुण्ठो विदिक्षु मदुसूदनः ।हृषीकेशोऽम्बरे भूमौ रक्षतु त्वां महीधरः ॥१९॥व्यास उवाचएवं कृतस्वस्त्ययनो नन्दगोपेन बालकः ।शायितः शकटस्याधो बालपर्यङ्किकातले ॥२०॥ते चा गोपा महद्दृष्ट्वा पूतनायाः कलेवरम् ।मृतायाः परमं त्रायं विस्मयं च तदा ययुः ॥२१॥कदाचिच्छकटस्याधः शयानो मधुसुदनः ।चिक्षेप चरणावूर्ध्व स्तनार्थो प्ररुरोद च ॥२२॥तस्य पादप्रहारेण शकटं परिवर्तितम् ।विध्वस्तभाण्डकुम्भं तद्विपरीतं पपात वै ॥२३॥ततो हाहाकृतः सर्वो गोपगोपीजनो द्विजाः ।आजगाम तदा ज्ञात्वा बालमुत्तानशायिनम् ॥२४॥गोपाः केनेति जगदुः शकटं परिवर्तितम् ।तत्रैव बालकाः प्रोचुर्बालेनानेन पातितम् ॥२५॥रुदता दृष्टमस्माभिः पादविक्षेपताडितम् ।शकटं परिवृत्तं वै नैतदन्यस्य चेष्टितम् ॥२६॥ततः पुनरती वाऽऽसन्गोपा विस्मितचेतसः ।नन्दगोपोऽपि जग्राह बालमत्यन्तविस्मितः ॥२७॥यशोदा विस्मयारूढा भग्नभाण्डकपालकम् ।शकटं चार्चयामास दधिपुष्पफलाक्षतैः ॥२८॥गर्गश्च गोकुले तत्र वसुदेवप्रचोदितः ।प्रच्छन्न एव गोपानां संस्कारमकरोत्तयोः ॥२९॥ज्येष्ठं च राममित्याह कृष्णं चैव तथाऽपरम् ।गर्गो मतिमतां श्रेष्ठो नाम कुर्वन्महामतिः ॥३०॥अल्पेनैव हि कालेन विज्ञातौ तौ महाबलौ ।घृष्टजानुकरौ विप्रा बभूवतुरुभावपि ॥३१॥करोषभस्मदिग्धाङ्गौ भ्रममाणावितस्ततः ।न निवारयितुं शक्ता यशोदा तौ न रोहिणी ॥३२॥गोवाटमध्ये क्रीडन्तौ वत्सवाटगतौ पुनः ।तदहर्जातगोवत्सपुच्छाकर्षणतत्परौ ॥३३॥यदा यशोदा तौ बालावेकस्थानचरावुभौ ।शशाक नो वारयितुं क्रीडन्तावतिचञ्चलौ ॥३४॥दाम्ना बद्ध्वा तदा मध्ये निबबन्ध उलूखले ।कृष्णमक्लिष्टकर्माणमाह चेदममर्षिता ॥३५॥यदि शक्तोऽसि गच्छ त्वमतिचञ्चलचेष्टित ॥३६॥व्साय उवाचइत्युक्त्वा च निजं कर्म सा चकार कुटुम्बिनी ।व्यग्रायामथ तस्यां स कर्षमाण उलूखलम् ॥३७॥यमलार्जुनयोर्मध्ये जगाम कमलेक्षणः ।कर्षता वृक्षयोर्मध्ये तिर्यगेवमुलूखलम् ॥३८॥भग्नावुत्तुङ्गशाखाग्रौ तेन तौ यमलार्जुनौ ।ततः कटकटाशब्दसमाकर्णनकातरः ॥३९॥आजगाम व्रजजनो ददृशे च महाद्रुमौ ।भग्नस्कन्धौ निपतितौ भग्नशाखौ महीतले ॥४०॥ददर्श चाल्पदन्तासमयं स्मितहासं च बालकम् ।तोयर्मध्यगतं बद्धं दाम्ना गाढं तथोदरे ॥४१॥ततश्च दामोदरतां स ययौ दामबन्धनात् ।गोपवृद्धास्ततः सर्वे नन्दगोपपुरोगमाः ॥४२॥मन्त्रयामासुरुद्विग्ना महोत्पातातिभीरवः ।स्थानेनेह न नः कार्यं व्रजामोऽन्यन्महावनम् ॥४३॥उत्पाता बहवो ह्यत्र दृश्यन्ते नाशहेतवः ।पूतनाया विनाशश्च शकटस्य विपर्ययः ॥४४॥विना वातादिदोषेण द्रुमयोः पतनं तथा ।वृन्दावनमितः स्तानात्तस्माद्गच्छाम मा चिरम् ॥४५॥यावद्भौममहोत्पातदोषो नाभिभवेद्व्रजम् ।इति कृत्वा मतिं सर्वे गमने ते व्रजैकसः ॥४६॥ऊचुः स्वं स्वं कुलं शीघ्रं गम्यतां मा विलम्ब्यताम् ।ततः क्षणेन प्रययुः शकटैर्गोधनैस्तथा ॥४७॥यूथशो वत्सपालीश्च कालयन्तो व्रजौकसः ।सर्वावयवनिर्धूतं क्षणमात्रेण तत्तदा ॥४८॥काककाकीसमाकीर्णः व्रजस्थानमभूद् द्विजाः ।वृन्दावनं भगवता कृष्णेनाक्लिष्टकर्मणाः ॥४९॥शुभेन मनसा ध्यानं गवां वृद्धिमभीप्सता ।ततस्तत्रातिरुक्षेऽपि घर्मकाले द्विजोत्तमाः ॥५०॥प्रावृट्काल इवाभूच्च नवशष्पं समन्ततः ।स समावासितः सर्वो व्रजो वृन्दावने ततः ॥५१॥शकटीवाटपर्यनतचन्द्रार्धाकारसंस्थितिः ।वत्सबालौ च संवृत्तौ रामदामोदरौ ततः ॥५२॥तत्र स्थितौ तौ गोष्ठे चेरतुर्बाललीलया ।बर्हिपत्रकृतापीडौ वन्यपुष्पावतंसकौ ॥५३॥गोपवेणुकृतातोद्यपत्रवाद्यकृतस्वनौ ।काकपक्षधरौ बालौ कुमाराविव पावकौ ॥५४॥हसन्तौ च रमन्तौ च चेरतुस्तन्महद्वनम् ।क्वचिद्धसन्तावन्योन्यं क्रीडमानौ तथा परैः ॥५५॥गोपपुत्रैः समं वत्सांश्चारयन्तौ विचेरतुः ।कालेन गच्छता तौ तु सप्तवर्षौ बभूवतुः ॥५६॥सर्वस्य जगतः पालौ वत्सपालौ महाव्रजे ।प्रावृट्कालस्ततोऽतीव मेघौघस्थगिताम्बरः ॥५७॥बभूव वारिधाराभिरैक्यं कुर्वन्दिशामिव ।प्ररूढनवपुष्पाढ्या शक्रगोपवृता मही ॥५८॥यथा मारकते वाऽऽसीत्पद्मरागविभूषिता ।ऊहुरुन्मार्गगामीनि निम्नगाम्भांसि सर्वतः ॥५९॥मानां सि दुर्विनीतानां प्राप्य लक्ष्मीं नवामिव ।विकाले च यथाकामं व्रजमेत्य महाबलौ ॥गोपैः समानैः सहितौ चिक्रीडातेऽमराविव ॥६०॥इति श्रीमहापुराणे आदिब्राह्मे बालचरिते वृन्दावनप्रवेशवर्णनं नाम चतुरशीत्यधिकशततमोऽध्यायः ॥१८४॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP