ब्रह्मपुराणम् - अध्यायः १२१
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथैकविंशत्यधिकशततमोऽध्यायः
विदर्भासंगमरेवतीसंगमादितीर्थवर्णनम्
ब्रह्मोवाच
विदर्भासगमं पुण्यं रेवतीसंगमं तथा ।
तत्र यद्धत्तमाख्यास्ये यत्पुराणविदो विदुः ॥१॥
भरद्वाज इति ख्याता ऋषिरासीत्तपोऽधिकः ।
तस्य स्वसा रेवतीति कुरूपा विकृतस्वरा ॥२॥
तां दृष्ट्वा विकृतां भ्राता भरद्वाजः प्रतापवान् ।
चिन्तया परया युक्तो गङ्गाया दक्षिणे तटे ॥३॥
कस्मै दद्यामिमां कन्यां स्वसारं भीषणाकृतिम् ।
न कश्चित्प्रतिगृहणाति दातव्या च स्वसा तथा ॥४॥
अहो भूयान्न कस्यापि कन्या दुःखैककारणम् ।
मरणं जीवतोऽप्यस्य प्राणिनस्तु पदे पदे ॥५॥
एवं विमृशतस्तस्य स्वाश्रमे चातिशोभने ।
द्रष्टुं मिनिवरः प्रायाद्भरद्वाजं ननाम सः ॥६॥
द्व्चष्टवर्षः शुभवपुः शान्तो दान्तो गुणाकरः ।
नाम्ना कठ इति ख्यातो भरद्वाजं ननाम सः ॥७॥
विधिवत्पूज्य तं विप्रं भरद्वाजः कठं तदा ।
तस्याऽऽगमनकार्यं च पप्रच्छ पुरतः स्थितः ॥८॥
कठोऽप्याह भरद्वाजं विद्यार्थ्यहमुपागतः ।
तथा च दर्शनाकाङ्क्षी यद्युक्तं तद्विधीयताम् ॥९॥
भरद्वाजः कठं प्राह अधीष्व यदभीप्सितम् ।
पुराणं स्मृतयो वेदा धर्मस्थानान्यनेकशः ॥१०॥
सर्वं वेद्मि महाप्राज्ञ रुचिरं वद मा चिरम् ।
कुलीनो धर्मनिरतो गुरुशुश्रूषणे रतः ॥
अभिमानी श्रुतधरः शिष्यः पुण्यैरवाप्यते ॥११॥
कठ उवाच
अघ्यापयस्व भो ब्रह्मञ्शिष्यं मां वीतकल्मषम् ।
शुश्रूषणरतं भक्तं कुलीनं सत्यवादिनम् ॥१२॥
ब्रह्मोवाच
तथेत्युक्त्वा भरद्वाजः प्रादाद्विद्यामशेषतः ।
प्राप्तविद्यः कठः प्रीतो भरद्वाजमथाब्रवीत् ॥१३॥
इत्छेयं दक्षिणां दातुं गुरो तव मनःप्रियाम् ।
वदस्व दुर्लभं वाऽपि गुरो तुभ्यं नमोऽस्तु ते ॥१४॥
विद्यां प्राप्यापि ये मोहात्स्वगुरोः पारितोषिकम् ।
न प्रयच्छन्ति निरयं ते यान्त्याचन्द्रतारकम् ॥१५॥
भरद्वाज उवाच
गृहाण कन्यां विधिवद्भार्यां कुरु मम स्वसाम् ।
अस्यां प्रीत्या वर्तितव्यं याचेयं दक्षिणामिमाम् ॥१६॥
कठ उवाच
भ्रातृवत्पुत्रवच्चापि शिष्यः स्यात्तु गुरोः सदा ।
गुरुश्च पितृवच्च स्यात्संबन्धोऽत्र कथं भवेत् ॥१७॥
भरद्वाज उवाच
मद्वाक्यं कुरु सत्यं त्वं ममाऽज्ञा तव दक्षिणा ।
सर्वं स्मृत्वा कठाद्य त्वं रेवतीं भर तन्मनाः ॥१८॥
ब्रह्मोवाच
तथेत्युक्त्वा गुरोर्वाक्यात्कठो जग्राह पाणिना ।
रेवतीं विधिवद्दत्तां तां समीक्ष्य कठस्त्वथ ॥१९॥
तत्रैव पूजयामास देवेशं शंकरं तदा ।
रेवत्या रूपसंपत्त्यै शिवप्रीत्यै च रेवती ॥२०॥
सुरूपा चारुसर्वाङ्गी न रूपेणोपमीयते ।
अभिषेकोदके तत्र रेवत्या यद्विनिःसृतम् ॥२१॥
साऽभवत्तत्र गङ्गायां तस्मात्तन्नामतो नदी ।
रेवतीति समाख्याता रूपसौभग्यदायिनी ॥२२॥
पुनर्दर्भैश्च विविधैरभिषेकं चकार सः ।
पुण्यरूपत्वसंसिद्घ्यै विदर्भा तदभून्नदी ॥२३॥
श्रद्धया संगमे स्नात्वा रेवतीगङ्गयोर्नरः ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥२४॥
तथा विदर्भागौतम्योः संगमे श्रद्धया मुने ।
स्नानं करोत्यसौ याति भुक्तिं मुक्तिं च तत्क्षणात् ॥२५॥
उभयोस्तीरयोस्तत्र तीर्थानां शतमुत्तमम् ।
सर्वपापक्षयकरं सर्वसिद्धिप्रदायकम् ॥२६॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये विदर्भासंगमरेवतीसंगमादितीर्थवर्मनं नामैकविंशत्यधिकशततमोऽध्यायः ॥१२१॥
गौतमीमाहात्म्ये द्विपञ्चाशत्तमोऽध्यायः ॥५२॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP