ब्रह्मपुराणम् - अध्यायः १९६
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
कालयवनोपाख्यानम्
व्यास उवाच
गार्ग्यं गोष्ठे दिजो(जं)श्यालः षण्ढ(ण्ड)इत्युक्तवान्द्विजाः ।
यदूनां संनिधौ सर्वे जहसुर्यादवास्तदा ॥१॥
ततः कोपसमाविष्टो दक्षिणापथमेत्य सः ।
सुतमिच्छंस्तपस्तेपे यदुचक्रभयावहम् ॥२॥
आराधयन्महादेवं सोऽयश्चूर्णमभक्षयत् ।
ददौ वरं च तुष्टोऽसौ वर्षे द्वादशके हरः ॥३॥
संभावयामास स तं यवनेसो ह्यनात्मजम् ।
तद्योषित्संगमाच्चास्य पुत्रोऽभूदलिसप्रभः ॥४॥
तं कालयवनं नाम राज्ये स्वे यवनेश्वरः ।
अभिषिच्य वनं यातो वज्राग्रकठिनोरसम् ॥५॥
स तु वीर्यमदोन्मत्तः पृथिव्यां बलिनो नृपान् ।
पप्रच्छ नारदश्चास्मै कथयामास यादवान् ॥६॥
म्लेच्छकोटिसहस्राणां सहस्रैः सोऽपि संवृतः ।
गजाश्वरथसंपन्नैश्चकार परमोद्यमम् ॥७॥
प्रययौ चाऽऽतव(प)च्छिन्नैः प्रयामणैः स दिने दिने ।
यादवान्प्रति समार्षो मुनयो मथुरां पुरीम् ॥८॥
कृष्णोऽपि चिन्तयामास क्षपितं यादवं बलम् ।
यवनेन समालोक्य मागधः संप्रयास्यति ॥९॥
मागधस्य बलं क्षीणं स कालयवनो बली ।
हन्ता तदिदमायातं यदूनां व्यसनं द्विधा ॥१०॥
तस्माद्दुर्गं करिष्यामि यदूनामतिदुर्जयम् ।
स्त्रियोऽपि यत्र युध्येयुः किं पुनर्वृष्णियादवाः ॥११॥
मयि मत्ते प्रमत्ते वा सुप्ते प्रवसितेऽपि वा ।
यादवाभिभवं दुष्टा मा कुर्वन्वै(र्युवै)रिणोऽधिकम् ॥१२॥
इति संचिन्त्य गोविन्दो योजनानि महोदधिम् ।
ययाचे द्वादश पुरीं द्वारकां तत्र निर्ममे ॥१३॥
महोद्यानां महावप्रां तडागशतशोभिताम् ।
प्रकारशतसंबाधामिन्द्रसयेवामरावतीम् ॥१४॥
मथुरावासिनं लोकं तत्राऽऽनीय जनार्दनः ।
आसन्ने कालयवने मथुरां च स्वयं ययौ ॥१५॥
वहिरावासिते सैन्ये मथुराया निरायुधः ।
निर्जगाम स गोविन्दो ददर्श यवनश्च तम् ॥१६॥
स ज्ञत्वा वासुदेवं तं बाहुप्रहरणो नृपः ।
अनुयातो महायोगिचेतोभिः प्राप्यते न यः ॥१७॥
तेनानुयातः कृष्णोऽपि प्रविवेश महागुहाम् ।
यत्र शेते महावीर्यो मुचुकुन्दो नरेश्वरः ॥१८॥
सोऽपि प्रविष्टो यवनो दृष्ट्वा शय्यागतं नरम् ।
पादेन ताडयामास कृष्णं मत्वा स दुर्मति ॥१९॥
दृष्ट्मात्रश्च तेनासौ जज्वाल यवनोऽग्निना ।
तत्क्रोधजेन मुनयो भस्मीभूतश्च तत्क्षणात् ॥२०॥
स हि देवासुरे युद्धे गत्वा जित्वा महासुरान् ।
निद्रार्तः सुमहाकालं निद्रां वव्रे वरं सुरान् ॥२१॥
प्रोक्तश्च दैवैः संसुप्तं यस्त्वामुत्थापयिष्यति ।
देहजेनाग्निना सद्यः स तु भस्मीभविष्यति ॥२२॥
एवं दग्ध्वा स तं पापं दृष्ट्वा च मधुसुदनम् ।
कस्त्वमित्याह सोऽप्याह जातोऽहं शशिनः कुले ॥२३॥
वसुदेवस्य तनयो यदुवंशसमुद्भवः ।
मुचुकुन्दोऽपि तच्छ्रुत्वा वृद्धगार्ग्यवचः स्मरन् ॥२४॥
संस्मृत्य प्रणिपत्यैनं सर्वं सर्वेश्वरं हरिम् ।
प्राह ज्ञातो भवान्विष्णोरंशस्त्वं परमेश्वरः ॥२५॥
पुरा गार्ग्येण कथितमष्टाविंशतिमे युगे ।
द्वापरान्ते हरेर्जन्म यदुवंशे भविष्यति ॥२६॥
स त्वं प्राप्तो न संदेहो मर्त्यानामुपकारकृत् ।
तथा हि सुमहत्तेजो नालं सोढुमहं तव ॥२७॥
तथा हि सुमहाम्भोदध्वनिधीरतरं ततः ।
वाक्यं तमिति होवाच युष्मत्पादसुलालितम् ॥२८॥
देवासुरे महायुद्धे दैत्याश्च सुमहाभटाः ।
न शेकुस्ते महत्तेजस्तत्तेजो न सहाम्यहम् ॥२९॥
संसारपतितस्यैको जन्तोस्त्वं शरणं परम् ।
संप्रसीद प्रपन्नार्तिहर्ता हर ममाशुभम् ॥३०॥
त्वं पयोनिधयः शैलाः सतिरश्च वनानि च ।
मोदिनी गगनं वायुरापोऽग्निस्त्वं तथा पुमान् ॥३१॥
पुंसः परतरं सर्वं व्याप्य जन्म विकल्पवत् ।
शब्दादिहीनमजरं वृद्धिक्षयविवर्जितम् ॥३२॥
त्वत्तोऽमरास्तु पितरो यक्षगन्धर्वराक्षसाः ।
सिद्धाश्चाप्सरससत्वत्तो मनुष्याः पशवः खगाः ॥३३॥
सरीसृपा मृगाः सर्वे त्वत्तश्चैव महीरुहाः ।
यच्च भूतं भविष्यद्वा किंचिदत्र चराचरे ॥३४॥
अमूर्तं मूर्तमथवा स्थूलं सूक्ष्मतरं तथा ।
तत्सर्वं त्वं जगत्कर्तर्नास्ति किंचित्त्वया विना ॥३५॥
मया संसारचक्रेऽस्मन्भ्रमता भगवन्सदा ।
तापत्रयाभिभुतेन न प्राप्ता निर्वृतिः क्वचित् ॥३६॥
दुःखान्येव सुकानीति मृगतृष्णा जलाशयः ।
मया नाथ गृहीतानि तानि तापाय मेऽभवन् ॥३७॥
राज्यमुर्वी बलं कोशो मित्रपक्षस्तथाऽऽत्मजाः ।
भार्या भृत्यजना ये च शब्दाद्य विषयाः प्रभो ॥३८॥
सुखबुद्ध्या मया सर्वं गृहीतमिदमव्यय ।
परिणामे च देवेश तापात्मकमभून्मम ॥३९॥
देवलोकगतिं प्राप्तो नाथ देवगणोऽपि हि ।
मत्तः साहाय्यकामोभूच्चछाश्वती कुत्र निर्वृतिः ॥४०॥
त्वामनाराध्य जगतां सर्वेषां प्रभवास्पदम् ।
शाश्वती प्राप्यते केन परमेश्वर निर्वृतिः ॥४१॥
त्वन्मायामूढमनसो जन्ममृत्युजरादिकान् ।
अवाप्य पापान्पस्यन्ति प्रेतराजानमन्तरा ॥४२॥
ततः पाशशतैर्बद्धा नरकेष्वतिदारुणम् ।
प्राप्नुवन्ति महद्दुःख विश्वरूपमिदं तव ॥४३॥
अहमत्यन्तविषयी मोहितस्तव मायया ।
ममत्वागाधगर्तान्ते भ्रमामि परमेश्वर ॥४४॥
सोऽहं त्वां शरणमपारमीसमीड्यं, संप्राप्तः परमपदं यतो न किंचित् ।
संसारश्रमपरितापतप्तचेता निर्विण्णे परिणतधाम्नि साभिलाषः ॥४५॥
इति श्रीमहापुराणे आदिब्राह्मे कालयवनवधे मुचुकुन्दस्तुतिनिरूपणं नाम षण्णवत्यधिकशततमोऽध्यायः ॥१९६॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP