संस्कृत सूची|संस्कृत साहित्य|पुराण|ब्रह्मपुराणम्|
अध्यायः ५६

ब्रह्मपुराणम् - अध्यायः ५६

ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.


विस्तेरेण विष्णुमार्कण्डेयसंवादकथनम्
ब्रह्मोवाच
इत्थं स्तुतस्तदा तेन मार्कण्डेयेन भो द्विजाः ।
प्रीतः प्रोवाच भगवान्मेघगम्भीरया गिरा ॥१॥

श्रीभगवानुवाच
ब्रृहि कामं मुनिश्रेष्ठ यत्ते मनसि वर्तते ।
ददामि सर्वं विप्रर्षे मत्तो यदभिवाञ्छसि ॥२॥

श्रुत्वा स वचनं विप्राः शिशोस्तस्य महात्मनः ।
उवाच परमप्रोतो मुनिस्तद्गतमानसः ॥३॥

मार्कण्डेय उवाच
ज्ञातुमिच्छामि देव त्वां मायां वै तव चोत्तमाम् ।
त्वत्प्रसादाच्च देवेश स्मृतिर्न परिहीयते ॥४॥

द्रुतमन्तः शरीरेण सततं पर्य (रि) वर्तितम् ।
इच्छामि पुण्डरीकाक्ष ज्ञातुं त्वामहमव्ययम् ॥५॥

इह भूत्वा शिशुः साक्षात्किं भवानवतिष्ठते ।
पीत्वा जगदिदं सर्वमेतदाख्यातुमर्हसि ॥६॥

किमर्थं च जगत्सर्वं शरीरस्थं तवाऽनघ ।
कियन्तं च त्वया कालमिह स्थेयमरिंदम ॥७॥

ज्ञातुमिच्छामि देवेश ब्रूहि सर्वमशेषतः ।
त्वत्तः कमलपत्राक्ष विस्तरेण यथातथम्॥
महदेतदचिन्त्यं च यदहं दृष्टवान्प्रभो ॥८॥

ब्रह्मोवाच
इत्युक्तः स तदा तेन देवदेवो महाद्युतिः ।
सान्त्वयन्स तदा वाक्यमुवाच वदतां वरः ॥९॥

श्रीभगवानुवाच
कामं देवाश्च मां विप्र नहि जानन्ति तत्त्वतः ।
तव प्रीत्य प्रवक्ष्यामि यथेदं विसृजाम्यहम् ॥१०॥

पितृभक्तोऽसि र्विप्रर्षे मामेव शरणं गतः ।
ततोदृष्टोऽस्मि ते साक्षाद्‌ब्रह्मचर्यं चते महत् ॥११॥

आपो नारा इति पुरा संज्ञाकर्म कृतं मया ।
तेन नारायणोऽस्म्युक्तो मम तास्त्वयनं सदा ॥१२॥

अहं नारायणे नाम प्रभवः शाश्वतोऽव्ययः ।
विधाता सर्वभूतानां संहर्ता च द्विजोत्तम ॥१३॥

अहं विष्णुरहं ब्रह्मा शक्रश्चापि सुराधिपः ।
अहं वैश्रवणो राजा यमः प्रेताधिपस्तथा ॥१४॥

अहं शिवश्च सोमश्च कश्यपश्च प्रजापतिः ।
अहं धाता विधाता च यज्ञश्चाहं द्विजोत्तम ॥१५॥

अग्निरास्यं क्षितिः पादौ चन्द्रादित्यौ मे स्थितः ।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः ॥१६॥

सदिशं च नभः कायो वायुर्मनसि मे स्थितः ।
मया क्रतुशतैरिष्टं बहुभिश्चाऽऽप्तदक्षिणैः ॥१७॥

यजन्ते वेदविदुषो मां देवयजने स्थितम् ।
पृथिव्यां क्षत्रियेन्द्राश्च पार्थिवाः स्वर्गकाड्क्षिणः ॥१८॥

यजन्ते मां तथा वैश्याः स्वर्गलोकजिगीषवः ।
चुतःसमुद्रपर्यन्तां मेरुमन्दरभूषणाम् ॥१९॥

शेषो भूत्वाऽहमेको हि धारयामि वसुंधराम् ।
वाराहं रूपमास्थाय ममेयं जगती पुरा ॥२०॥

मज्जमाना जले विप्रवीर्येणास्मि समुद्धृता ।
अग्निश्च वाडवो विप्र भूत्वाऽहं द्विजसत्तम ॥२१॥

विबाम्यपः समाविष्टस्ताश्चैव विसृजाम्यहम् ।
ब्रह्म वक्त्रं भुजौ क्षत्रमूरू मे संश्रिता विशः ॥२२॥

पादौ शूद्रा भवन्तीमे विक्रमेण क्रमेण च ।
ऋग्वेदः सामवेदश्च यजुर्वेदस्त्वथर्वणः ॥२३॥

मत्तः प्रादुर्भवन्त्येते मामेव प्रविशन्ति च ।
यतयः शान्तिपरमा यतात्मानो बुभुत्सवः ॥२४॥

कामक्रोधद्वेषमुक्ता निःसङ्गा वीतकल्मषाः ।
सत्त्वस्था निरहंकारा नित्यमध्यात्कोविदाः ॥२५॥

मामेव सततं विप्राश्चिन्तयन्त उपासते ।
अहं संवर्तको ज्योतिरहं संवर्तकोऽनलः ॥२६॥

अहं संवर्तकः सूर्यस्त्वहं संवर्तकोऽनिलः ।
तारारूपाणि दृस्यन्ते यान्येतानि नभस्तले ॥२७॥

मम वै रोमकूपाणि विद्धि त्वं द्विजसत्तम ।
रत्नाकराः समुद्राश्च सर्व एव चतुर्दिशः ॥२८॥

वसनं शयनं चैव निलयं चैव विद्धि मे ।
कामः क्रोधश्च हर्षश्च भयं मोहस्तथैव च ॥२९॥

ममैव विद्धि रूपाणि सर्वाण्येतानि सत्तम ।
प्राप्नुवन्ति नरा विप्र यत्कृत्वा कर्म शोभनम् ॥३०॥

सत्यं दानं तपश्चोग्रमहिंसां सर्वजन्तुषु ।
मद्विधानेन विहिता मम देहविचारिणः ॥३१॥

मयाऽभिभूतविज्ञानाश्चेष्टयनति न कामतः ।
सम्यग्वेदमधीयाना यजन्तो विविधैर्मखैः ॥३२॥

शान्तात्मानो जितक्रोधाः प्राप्नुवन्ति द्विजातयः ।
प्राप्तुं शक्यो न चैवाहं नरैर्दुष्कृतकर्मभिः ॥३३॥

लोभाभिभूतैः कृपणैरनार्यरकृतात्मभिः ।
तन्मां महाफलं विद्धि नराणां भावितात्मनाम् ॥३४॥

सुदुष्प्रापं विमूढानां मां कुयोगनिषेविणाम् ।
यदा यदा हि धर्मस्य ग्लानिर्भवति सत्तम ॥३५॥

अभ्युत्‌थानमधर्मस्य तदाऽऽत्मानं सृजाम्यहम् ।
दैत्या हिंसानुरक्ताश्च अवध्याः सुरसत्तमैः ॥३६॥

राक्षसाश्चापि लोकेऽस्मिन्यदोत्पत्स्यन्ति दारुणाः ।
तदाऽहं संप्रासूयामि गृहेषु पुण्यकर्मणाम् ॥३७॥

प्रविष्टो मानुषं देहं सर्वं प्रशमयाम्यहम् ।
सृष्ट्वा देवमनुष्यांश्च गन्धर्वोरगराक्षसान् ॥३८॥

स्थावरामि च भूतानि संहराम्यात्ममायया ।
कर्मकाले पुनर्देहमनुचिन्त्य सृजाम्यहम् ॥३९॥

आविश्य मानुषं देहं मर्यादाबन्धकारणात् ।
श्वेतः कृतयुगे धर्मः श्यामस्त्रेतायुगे मम ॥४०॥

रक्तो द्वापरमासाद्य कृष्णः कलियुगे तथा ।
त्रयो भागा ह्यधर्मस्य तस्मिन्काले भवन्ति च ॥४१॥

अन्तकाले च संप्राप्ते काले भूत्वाऽतिदारुणः ।
त्रैलोक्यं नाशयाम्येकः सर्वं स्थापरजङ्गमम् ॥४२॥

अहं त्रिधर्मा विश्वात्मा सर्वलोकसुखावहः ।
अभिन्नः सर्वगोऽनन्तो हृषीकेश उरुक्रमः ॥४३॥

कालचक्रं नयान्येको ब्रह्मरूपं ममैव तत् ।
शमनं सर्वभूतानां सर्वभूतकृतोद्यमम् ॥४४॥

एवं प्रणिहितः सम्यङ्ममाऽऽत्मा मुनिसत्तम ।
सर्वभूतेषु विप्रेन्द्र न च मां वेत्ति कश्चन ॥४५॥

सर्वलोके च मां भक्ताः पूजयन्ति च सर्वशः ।
यच्च किंचित्त्वया प्राप्तं मयि स्थावरजङ्गमम् ॥४६॥

सुखोदयाय तत्सर्वं श्रेयसे च तवानघ ।
यच्च किंवित्त्वया लोके दृष्टं स्थावरजङ्गमम् ॥४७॥

विहितः सर्व एवासौ मयाऽऽत्मा भूतभावनः ।
अहं नाराणो नाम शङ्खचक्रगदाधरः ॥४८॥

यावद्युगानां विप्रर्षे सहस्रं परिवर्तते ।
तावत्स्वपिति विश्वात्मा सर्वविश्वानि मोहयन् ॥४९॥

एवं सर्वमहं कालमिहाऽऽसे मुनिसत्तम ।
अशिशुः शिशुरूपेण यावद्ब्रह्मा न बुध्यते ॥५०॥

मया च दत्कत्तो विप्रन्द्र वरस्ते ब्रह्मरूपिणा ।
असकृत्परितुष्टेन विप्रर्षिगणपूजित ॥५१॥

सर्वमेकार्णवं कृत्वा नष्टे स्थावरजङ्गमे ।
निर्गतोऽसि मायऽऽज्ञातस्ततस्ते दर्शितं जगत् ॥५२॥

अभ्यनतरं शरीरस्य प्रविष्टोऽसि यदा मम ।
दृष्ट्वा लोकं समस्तं हि विस्मिनो नावबुध्यसे ॥५३॥

ततोऽसि वक्त्राद्विप्रर्षे द्रुतं निःसारितो मया ।
आख्यातस्ते मयाचाऽऽत्मा दुर्ज्ञेयो हि सुरासुरैः ॥५४॥

यावत्स भगवान्ब्रह्मा न बुध्येत महातपाः ।
तावत्त्वमिह स्रक्षयामि शरीराणि द्विजोत्तम ॥५५॥

ततो विबुद्धे तस्मिस्तु सर्वलोकपितामहे ।
एको भूतानि स्रक्षयामि शरीराणि द्विजोत्तम ॥५६॥

आकाशं पृथिवीं ज्योतिर्वायुः सलिलमेव च ।
लोके यच्च भवेत्किंचिदिह स्थावरजङ्गमम् ॥५७॥

ब्रह्मोवाच
एवमुक्त्वा तदा विप्राः पुनस्तं प्राह माधवः ।
पूर्णे युगसहस्रे तु मेघगम्भीरनिस्वनः ॥५८॥

श्रीभगवानुवाच
मुने ब्रूहि यदर्थं मां स्तुतवान्परमार्थतः ।
वरं वृणीष्व यच्छ्रेष्ठं ददामि नचिरादहम् ॥५९॥

आयुष्मानसि देवानां मद्‌भक्तोऽसि दृढव्रतः ।
तेन त्वमसि विप्रेन्द्र पुनर्दोर्घायुराप्नुहि ॥६०॥

ब्रह्मोवाच
श्रुत्वा वाणीं शुभां तस्य विलोक्य स तदा पुनः ।
मूर्ध्ना निपत्य सहसा प्रणम्य पुनरब्रवीत् ॥६१॥

मार्कण्डेय उवाच
दृष्टं परं हि देवश तव रूपं द्विजोत्तम ।
मोहोऽयं विगतः सत्यं त्वयि दृष्टे तु मे हरे ॥६२॥

एवमेवमहं नाथ इच्छेयं त्वत्प्रसादतः ।
लोकानां च हितार्थाय नानाभावप्रशान्तये ॥६३॥

शैवभागवतानां च वादार्थप्रतिषेधकम् ।
अस्मिन्क्षेत्रवरे पुण्ये निर्मले पुरुषोत्तमे ॥६४॥

शिवस्याऽऽयतनं देव करोमि परमं महत् ।
प्रतिष्ठेय तथा तत्र तव स्थाने च शंकरम् ॥६५॥

ततो ज्ञास्यन्ति लोकेऽस्मिन्नेकमूर्तो हरीश्वरौ ।
प्रत्युवाच जगन्नाथः स पुनस्तं महामुनिम् ॥६६॥

श्रीभगवानुवाच
यदेतत्परमं देवं कारणं भुवनेश्वरम् ।
लिङ्गमाराधनार्थाय नानाभावप्रशान्तये ॥६७॥

ममाऽऽदिष्टेन विप्रेन्द्र कुरु शीघ्रं शिवालयम् ।
तत्प्रभावाच्छिवलोके तिष्ठ च तथाऽक्षयम् ॥६८॥

शिवे संस्थापिते विप्र मम संस्थापनं भवेत् ।
नाऽऽवयोरन्तरं किंचिदेकभावौ द्विधा कृतौ ॥६९॥

यो रुद्रः स्वयं विष्णुर्यो विष्णुः स सहेश्वरः ।
उभयोरन्तरं नास्ति पवनाकासयोरिव ॥७०॥

मोहितो नाभिजानाति य एव गरुडध्वजः ।
वृषध्वजः स एवेति त्रिपुरध्नं त्रिलोचनम् ॥७१॥

तव नामाङ्कितं तस्मात्कुरु विप्र शिवालयम् ।
उत्तरे देवदेवस्य कुरु तीर्थं सुशोभनम् ॥७२॥

मार्कण्डेयह्रदो नाम नरलोकेषु विश्रुतः ।
भविष्यति द्विजश्रेष्ठ सर्वपापप्रणाशनः ॥७३॥

ब्रह्मोवाच
इत्युक्त्वा स तदा देवस्तत्रैवान्तरधीयत ।
मार्कण्डेयं मुनिश्रेष्ठाः सर्वव्यापी जनार्दनः ॥७४॥

इति श्रीमहापुराणे आदिब्रामह्मे स्वयंभ्वृषिसंवादे मार्कण्डेयस्य श्रीभगवद्‌दर्शनं नाम षट्पञ्चाशत्तमोऽध्यायः॥ ५६॥

N/A

References : N/A
Last Updated : November 11, 2016

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP