ब्रह्मपुराणम् - अध्यायः १९
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
जम्बूद्वीपवर्मनम्
लोमहर्षण उवाच
उत्तरेम समुद्रस्य हिमाद्रेश्चैव दक्षिणे ।
वर्ण तद्भारतं नाम भारती यत्र सन्नतिः ॥१॥
नवयोजनसाहस्रो विस्तारश्च द्विजोत्तमाः ।
कर्म्मभूमिरियं स्वर्गमपवर्गञ्च इच्छताम्र ॥२॥
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षपर्व्वतः ।
विन्ध्यश्च पारियात्रश्च सप्तात्र कुलर्व्वताः ॥३॥
अतः सम्प्राण्यते स्वर्गो मुक्तिमस्मात् प्रयाति वै ।
तिर्य्यवत्वं नरकं चापि यान्त्यतः पुरुषा द्विजाः ॥४॥
इतः स्वर्गश्च मोभश्च मध्यं चान्ते च गच्छति ।
न खल्वन्यत्र मर्त्त्यानां कर्म्मभूमौ विधीयते ॥५॥
भारतस्यास्य वर्षस्य नव भेदान्निशामय ।
इन्द्रद्वीपः कसेतुमांस्ताम्रपर्णो गभस्तिमान् ॥६॥
नागद्वीपस्तथा सौम्यो गन्धर्व्वस्त्वथ वारुणः ।
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः । १९.७॥
योजनानां सहस्रं च द्वीपोऽयं दक्षिणोत्तरात् ।
पूर्व्व किरातास्तिष्ठन्ति पश्चिमे यवनाः स्थिताः ॥८॥
ब्राह्मणाःक्षत्रिया वैश्या मध्ये शूद्राश्च भागशः ।
इज्यायुद्धवणिज्याद्यवृत्तिमन्तो व्यावस्थिताः ॥९॥
शतद्रुचन्द्रभागाद्या हिमवत्पादनिःसृताः ।
वेदस्मृतिसुखाश्चान्याः पारियात्रोद्भवा मुने ॥१०॥
नर्म्मदासुरामाद्यास्च नद्यो विन्ध्यविनिःसृताः ।
तापीपयोष्णीनिर्व्विन्ध्याकावेरीप्रमुखा नदीः ॥११॥
ऋक्षपादोद्भवा ह्येता श्रुताः पापं हरन्ति याः ।
गोदावरीभीमरथीकृष्णावेण्यादिकास्तथा ॥१२॥
सह्यपादोद्भवा नद्यः स्मृताः पापभयापहाः ।
कृतमालाताम्रर्णोप्रमुखा मलयोद्भवाः ॥१३॥
त्रिसान्ध्यऋषिकुल्याद्याः महेन्द्रप्रभवाः स्मृताः ।
ऋषिकुल्याकुमाराद्याः शुक्तिमत्पादसम्भवाः ॥१४॥
आसां नद्युपनद्यश्च सन्त्यन्यास्तु सहस्रशः ।
तास्विमे कुरुपञ्चालमध्यदेशादयो जनाः ॥१५॥
पूर्व्वदेशादिकाश्चैव कामरूपनिवासिनः ।
प्रोण्ड्राः कलिङ्गा मगधा दाक्षिणात्याश्च सर्व्वशः ॥१६॥
तथआपरान्त्याः सौराष्ट्राः शूद्राभीरास्तथाऽर्व्वुदाः ।
मारुका मालवाश्चैव पारियात्रनिवासिनः ॥१७॥
सौवीराः सौन्धवापन्नाः शाल्वाः शाकलवासिनः ।
मद्रारामास्तताम्बष्ठाः पारसीकादयस्तथा ॥१८॥
आसां पिबन्ति सलिलं वसन्ति सरितां सदा ।
समोपेता महाभागा हष्टपुष्टजनाकुलाः ॥१९॥
वसन्ति भारते वर्षे युगान्यत्र महामुने ।
कृतं त्रेता द्वापरं च कलिश्चाप्यत्र न क्वचित् ॥२०॥
तपस्तप्यन्ति यतयो जुह्वते चात्र यज्विनः ।
दानानि चात्र दीयन्ते परलोकार्थमादरात् ॥२१॥
पूरुषैर्यज्ञपुरुषो जम्बूद्वीपे सदेज्यते ।
यज्ञेर्यज्ञमयो विष्णुरन्यद्वीपेषु चान्यथा ॥२२॥
अत्रापि भारतं श्रेष्ठं जम्बूद्वीपे महामुने ।
यतो हि कर्म्मभूरेषा यतोऽन्या भोगभूमयः ॥२३॥
अत्र जन्मसहस्राणां सहस्रैरपि सत्तम ।
कदाचिल्लभते जन्तुर्मानुष्यं पुण्यसंचयात् ॥२४॥
गायन्ति देवाः किल गीतकानि, धन्यास्तु ये भारतभूमिभागे ।
स्वर्गापवर्गास्पदहेतुभूते, भवन्ति भूयः पुरषा मनुष्याः ॥२५॥
कर्म्माण्यसंकल्पिततत्फलानि, संन्यस्य विष्णौ परमात्मरूपे ।
अवाप्य तां कर्म्ममहीमनन्ते, तस्मिंल्लयं ये त्वमलाः प्रयान्ति ॥२६॥
जानीम नो तत्तु वयं विलीने, स्वर्गप्रदे कर्म्मणि देहबन्धम् ।
प्राप्स्यन्ति धन्याः खलु ते मनुष्या, ये भारते नेन्द्रियविप्रहीनाः ॥२७॥
नववर्षञ्च भो विप्रा जम्बूद्वीपमिदं मया ।
लक्षयोजनविस्तारं संक्षेपात् कथितं द्विजाः ॥२८॥
जम्बूद्वीपं समावृत्य लक्षयोजनविस्तरः ।
भो द्विजा वलयाकारः स्थितः श्रीरोदधिर्बहिः ॥२९॥
इति श्रीब्राह्मे महापुराणे जम्बूद्वीपनिरुपणं नामैकोनविंशोऽध्यायः ॥१९॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP