ब्रह्मपुराणम् - अध्यायः ११४
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
अथ चतुर्दशाधिकशततमोऽध्यायः
अविघ्नतीर्थवर्णनम्
ब्रह्मोवाच
अविध्नं तीर्थमाख्यातं सर्वविघ्नविनाशनम् ।
तत्रापि वृत्तमाख्यास्ते श्रृणु नारद भक्तितः ॥१॥
देवसत्रे प्रवृत्ते तु गौतम्याश्चोत्तरे तटे ।
समाप्तिर्नैव सत्रस्य संजाता विघ्नदोषतः ॥२॥
ततः सुरगणाः सर्वे मामवोचन्हरिं तदा ।
ततो ध्यानगतोऽहं तानवोचं वीक्ष्य कारणम् ॥३॥
विनायककृतैर्विघ्नैर्नै तत्सत्रं समाप्यते ।
तस्मात्स्तुवन्तु ते सर्वे आदिदेवं विनायकम् ॥४॥
तथेत्युक्त्वा सुरगणाः स्नात्वा ते गौतमीतटे ।
अस्तुवन्भक्तिततो देवा आदिदेवं गणेश्वरम् ॥५॥
देवा ऊचुः
यः सर्वकार्येषु सदा सुराणामपीशविष्ण्वम्बुजसंभवानाम् ।
पूज्यो नमस्यः परिचिन्तनीयस्तं विघ्नराजं शरणं व्रजामः ॥६॥
न विघ्नराजेन समोऽस्ति कश्चिद्देवो मनोवाञ्छितसंप्रदाता ।
निश्चित्य चैतत्त्रिपुरान्तकोऽपि, तं पूजयामास वधे पुराणाम् ॥७॥
करोतु सोऽस्माकमविघ्नमस्मिन्महाक्रतौ सत्वरमाम्बिकेयः ।
ध्यातेन येनाखिलदेहभाजां, पूर्णा भविष्यन्ति मनोभिलाषाः ॥८॥
महोत्सवोऽभूदखिलस्य देव्या, जातः सुतश्चिन्तितमात्र एव ।
अतोऽवदन्सुरसंघाः कृतार्थाः, सद्योजातं विघ्नराजं नमन्तः ॥९॥
यो मातुरुत्सङ्गगतोऽथ मात्रा, निवार्यमाणोऽपि बलाच्च चन्द्रम् ।
संगोपयामास पितुर्जटासु, गणाधिनाथस्य विनोद एषः ॥१०॥
पपौ स्तनं मातुरथापि तृप्तो, यो भ्रातृमात्सर्यकषायबुद्धिः ।
लम्बोदरस्त्वं भव विघ्नराजो, लम्बोदरं नाम चकार शंभुः ॥११॥
संवेष्टितो देवगणैर्महेशः, प्रवर्ततां नृत्यमितीत्युवाच ।
संतोषितो नूपुररावमात्राद्गणेश्वरत्वेऽभिषिषेच पुत्रम् ॥१२॥
यो विघ्नपाशं च करेण बिभ्रत्स्कंधे कुठारं च तथा परेण ।
अपूजितो विघ्नमथोऽपि मातुः, करोति को विघ्नपतेः समोऽन्यः ॥१३॥
धर्मार्थकामादषु पूर्वपूज्यो, देवासुरैः पूज्यत एव नित्यम् ।
यस्यार्चनं नैव विनाशमस्ति, तं पूर्वपूज्यं प्रथमं नमामि ॥१४॥
यस्यार्चनात्प्रार्थनयाऽनुरूपां, दृष्ट्वा तु सर्वस्य फलस्य सिद्धिम् ।
स्वतन्त्रसामर्थ्यकृतातिगर्वं, भ्रातृप्रियं त्वाखुरथं तमीडे ॥१५॥
यो मातरं सरसैर्नृत्यगीतैस्तथाऽभिलाषैरखिलैर्विनोदैः ।
संतोषयामास तदाऽतितुष्टं, तं श्रीगणेशं शरणं प्रपद्ये ॥१६॥
सुरोपकारैरसुरैश्च युद्धैः, स्तोत्रैर्नमस्कारपरैश्च मन्त्रैः ।
पितृप्रसादेन सदा समृद्धं, तं श्रीगणेशं शरणं प्रपद्ये ॥१७॥
जये पुराणामकरोत्प्रतीपं, पित्राऽपि हर्षात्प्रतिपूजितो यः ।
निर्विघ्नतां चापि पुनश्चकार, तस्मै गणेशाय नमस्करोमि ॥१८॥
ब्रह्मोवाच
इति स्तुतः सुरगणैर्विघ्नेशः प्राह तान्पुनः । ११४.१९॥
गणेश उवाच
इति निर्विघ्नता सत्रे मत्तः स्यादसुरारिणः ॥२०॥
ब्रह्मोवाच
देवसत्रे निवृत्ते तु गणेशः प्राह तान्सुरान् ॥२१॥
गणेश उवाच
स्तोत्रेणानेन ये भक्त्या मां स्तोष्यन्ति यतव्रताः ।
तेषां दारिद्र्यदुःखानि न भवेयुः कदाचन ॥२२॥
अत्र ये भक्तितः स्नानं दानं कुर्युरतन्द्रिताः ।
तेषां सर्वाणि कार्याणि भवेयुरिति मन्यताम् ॥२३॥
ब्रह्मोवाच
तद्वाक्यसमकालं तु तथेत्यूचुः सुरा अपि ।
निवृत्ते तु मखे तस्मिन्सुरा जग्मुः स्वमालयम् ॥२४॥
ततः प्रभृति तत्तर्थमविघ्नमिति गद्यते ॥
सर्वकामप्रदं पुंसां सर्वविघ्नविनाशनम् ॥२५॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्येऽविघ्नतीर्थवर्णनं नाम चतुर्दशाधिकशततमोऽध्यायः ॥११४॥
गौतमीमाहात्म्ये पञ्चचत्वारिंशोऽध्यायः ॥११४॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP