ब्रह्मपुराणम् - अध्यायः १६३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
सारस्वततीर्थवर्णनम्
ब्रह्मोवाच
सारस्वतं नाम तीर्थं सर्वकामप्रदं शुभम् ।
भुक्तिमुक्तिप्रदं नॄणां सर्वपापप्रणाशनम् ॥१॥
सर्वरोगप्रशमनं सर्वसिद्धिप्रदायकम् ।
तत्रेमं श्रृणु वृत्तान्तं विस्तरेणाथ नारद ॥२॥
पुष्पोत्कटात्पूर्वभागे पर्वतो लोकविश्रुतः ।
शुभ्रो नाम गिरिश्रेष्ठो गौतम्या दक्षिणे तटे ॥३॥
शाकल्य इति विख्यातो मुनिः परमनैष्ठिकः ।
तस्मिञ्शुभ्रे पुण्यगिरौ तपस्तेपे ह्यनुत्तमम् ॥४॥
तपस्यन्तं द्विजश्रेष्ठं गौतमीतीरमाश्रितम् ।
सर्वे भूतगणा नित्यं प्रणमन्ति स्तुवन्ति तम् ॥५॥
अग्निशुश्रूषणपरं वेदाध्यनतत्परम् ।
ऋषिगन्धर्वसुमनःसेविते तत्र पर्वते ॥६॥
तस्मिन्गिरौ महापुण्ये देवद्विजभयंकरः ।
यज्ञद्वेषी ब्रह्महन्ता परशुर्नाम राक्षसः ॥७॥
कामरूपी विचरति नानारूपधरो वने ।
क्षणं च ब्रह्मरूपेण कदाचिद्व्याघ्ररूपधृक् ॥८॥
कदाचिद्देवरूपेण कदाचित्पशुरूपधृक् ।
कदाचित्प्रमदारूपः कदाचिन्मृगरूपतः ॥९॥
कदाचिद्बालरूपेण एवं चरति पापकृत् ।
यत्राऽऽस्ते ब्राह्मणो विद्वाञ्शाकल्यो मुनिसत्तमः ॥१०॥
तमायाति महापापी परशू राक्षसाधमः ।
शुचुष्मन्तं द्विजश्रेष्ठं परशुर्नित्यमेव च ॥११॥
नेतुं हन्तुं प्रवृत्तोऽपि न शशाक स पापकृत् ।
स कदाचिद्द्विजश्रेष्ठो देवानाभ्यर्च्य यत्नतः ॥१२॥
भोक्तुकामः किलाऽऽयातस्तत्रायात्परशुर्मुने ।
ब्रह्मरूपधरो भूत्वा शिथिसः पलितोऽबली ॥
कन्यामादाय कांचिच्च शाकल्यं वाक्यमब्रवीत् ॥१३॥
परशुरुवाच
भोजनस्यार्थिनं विद्धि मां च कन्यामिमां द्विज ।
आतिथ्यकाले संप्राप्तं कृतकृत्योऽसि मानद ॥१४॥
त एव धन्या लोकेऽस्मिन्येषामतिथयो गृहात् ।
पूर्णाभिलाषा निर्यान्ति जीवन्तोऽपि मृताः परे ॥१५॥
भोजने तूपविष्टे तु आत्मार्थं कल्पितं तु यत् ।
अतिथिभ्यस्तु या दद्याद्दत्ता तेन वसुंधरा ॥१६॥
ब्रह्मोवाच
एतच्छ्रुत्वा तु शाकल्यो ददामीत्येवमब्रवीत् ।
आसने चोपवेश्याथाज्ञानात्तं परशुं द्विजम् ॥१७॥
यथान्यायं पूजयित्वा शाकल्यो भोजनं ददौ ।
आपोशनं करे कृत्वा परशुर्वाक्यमब्रवीत् ॥१८॥
परशुरुवाच
दूरादभ्यागतं श्रान्तमनुगच्छन्ति देवताः ।
तस्मिंस्तृप्ते तु तृप्ताः स्युरतृप्ते तु विपर्ययः ॥१९॥
अतिथिश्चापवादी च द्वावेतौ विश्वबान्धवौ ।
अपवादी हरेत्पापमतिथिः स्वर्गसंक्रमः ॥२०॥
अभ्यागतं पथि श्रान्तं सावज्ञं योऽभिवीक्षते ।
तत्क्षणादेव नश्यन्ति तस्य धर्मयशःश्रियः ॥२१॥
तस्मादभ्यागतः श्रान्तो याचेऽहं त्वं द्विजोत्तम ।
दास्यसे यदि मे कामं तद्भोक्ष्येऽहं न चान्यथा ॥२२॥
ब्रह्मोवाच
दत्तमित्येव शाकल्यो भुङ्क्ष्वेत्येवाऽऽह राक्षसम् ।
ततः प्रोवाच परशुरहं राक्षससत्तमः ॥२३॥
नाहं द्विजस्तव रिपुर्न वृद्धः पलितः कृशः ।
बहूनि मे व्यतीतानि वर्षाणि त्वां प्रपश्यतः ॥२४॥
शुष्यन्ति मम गात्राणि ग्रीष्मे स्वल्पोदकं यथा ।
तस्मान्नेष्ये सानुगं त्वां भक्षयिष्ये द्विजोत्तम ॥२५॥
ब्रह्मोवाच
श्रुत्वा परशुवाक्यं तच्छाकल्यो वाक्यमब्रवीत् ॥२६॥
शाकल्य उवाच
ये महाकुलंभूता विज्ञातसकलागमाः ।
तत्प्रतिश्रुतमभ्येति न जात्वत्र विपर्ययम् ॥२७॥
यथोचितं कुरु सखे तथाऽपि श्रृणु मे वचः ।
निहन्तुमप्युद्यतेषु वक्तव्यं हितमुत्तमैः ॥२८॥
ब्राह्मणोऽहं वज्रतनुः सर्वतो रक्षको हरिः ।
पादौ रक्षतु मे विष्णुः शिरो देवो जनार्दनः ॥२९॥
बाहू रक्षतु वाराहः पृष्ठं रक्षतु कूर्मराट् ।
हृदयं रक्षतात्कृष्णो ह्यङ्गुली रक्षतान्मृगः ॥३०॥
मुखं रक्षतु वागीशो नेत्रे रक्षतु पक्षिगः ।
श्रोत्रं रक्षतु वित्तेशः सर्वतो रक्षताद्भवः ॥
नानापत्स्वेकशरणं देवां नारायणः स्वयम् ॥३१॥
ब्रह्मोवाच
एवमुक्त्वा तु शाकल्यो नय वा भक्ष वा सुखम् ।
मां राक्षसेन्द्र परशो त्वमिदानीमतन्द्रितः ॥३२॥
राक्षसस्तस्य वचनाद्भक्षणाय समुद्यतः ।
नास्त्येव हृदये नूनं पापिनां करुणाकणः ॥३३॥
दंष्ट्राकरालवदनो गत्वा तस्यान्तिकं तदा ।
ब्राह्मणं तं निरीक्ष्यैवं परशुर्वाक्यमब्रवीत् ॥३४॥
परशुरुवाच
शङ्खचक्रगदापाणिं त्वां पश्येऽहं द्विजोत्तम ।
सहस्रपादशिरसं सहस्राक्षकरं विभुम् ॥३५॥
सर्वभूतैकनिलयं छन्दोरूपं जगन्मयम् ।
त्वामद्य विप्र पश्यामि नास्ति ते पूर्वकं वपुः ॥३६॥
तस्मात्प्रसादये विप्र त्वमेव शरणं भव ।
ज्ञानं देहि महाबुद्धे तीर्थं ब्रूह्यघनिष्कृतिम् ॥३७॥
महतां दर्शनं ब्रह्मञ्जायते नहि निष्फलम् ।
द्वेषादज्ञानतो वाऽपि प्रसङ्गाद्वा प्रमादतः ॥३८॥
अयसः स्पर्शसंस्पर्शो रुक्मत्वायैव जायते ॥३९॥
ब्रह्मोवाच
एतद्वाक्यं समाकर्ण्य राक्षसेन समीरितम् ।
शाकल्यः कृपया प्राह वरदा सा सरस्वती ॥४०॥
तवाचिराद्दैत्यपते ततः स्तुहि जनार्दनम् ।
मनोरथफलप्राप्तौ नान्यन्नारायणस्तुतेः ॥४१॥
किंचिदप्यस्ति लोकेऽस्मिन्कारणं श्रृणु राक्षस ।
प्रसन्ना तव सा देवी मद्वाक्याच्च भविष्यति ॥४२॥
ब्रह्मोवाच
तथेत्युक्त्वा स परशुर्गङ्गां त्रैलोक्यपावनीम् ।
स्नात्वा शुचिर्यतमना गङ्गामभिमुखः स्थितः ॥४३॥
तत्रापश्यद्दिव्यरूपां दिव्यगन्धानुलेपनाम् ।
सरस्वतीं जगद्धात्रीं शाकल्यवचने स्थिताम् ॥४४॥
जगज्जाङ्यहरां विश्वजननीं भुवनेश्वरीम् ।
तामुवाच विनीतात्मा परशुर्गतकल्मषः ॥४५॥
परशुरुवाच
गुरुः शाकल्य इत्याह माकान्तं स्तुहि विध्वजम् ।
तव प्रसादात्सा शक्तिर्यथा मे स्यात्तथा कुरु ॥४६॥
ब्रह्मोवाच
तथाऽस्त्विति च सा प्राह परशुं श्रीसरस्वती ।
सरस्वत्याः प्रसादेन परशुस्तं जनार्दनम् ॥४७॥
तुष्टाव विविधैर्वाक्यैस्ततस्तुष्टोऽभवद्धरिः ।
वरं प्रादाद्राक्षसाय कृपासिन्धुर्जनार्दनः ॥४८॥
जनार्दन उवाच
यद्यन्मनोगतं रक्षस्तत्तत्सर्वं भविष्यति ॥४९॥
ब्रह्मोवाच
शाकल्यस्य प्रसादेन गौतम्याश्च प्रसादतः ।
सरस्वत्याः प्रसादेन नरसिंहप्रसादतः ॥५०॥
पापिष्ठोऽपि तदा रक्षः परशुर्दिवमेयिवान् ।
सर्वतीर्थाङ्घ्रिपद्मस्य प्रसादाच्छार्ङ्गधन्वनः ॥५१॥
ततः प्रभृति तत्तीर्थं सारस्वतमिति श्रुतम् ।
तत्र स्नानेन दानेन विष्णुलोके महीयते ॥५२॥
वाग्जवैष्णवशाकल्यपरशुप्रभवाणि हि ।
बहून्यभूवंस्तीर्थानि तस्मिन्वै श्वेतपर्वते ॥५३॥
इति श्रीमहापुराणे आदिब्राह्मे तीर्थमाहात्म्ये श्वेतपर्वतस्थशाकल्यादितीर्थवर्णनं नाम त्रिषष्ट्यधिकशततमोऽध्यायः ॥१६३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP