संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|ब्रह्मपुराणम्| अध्यायः २२० ब्रह्मपुराणम् अध्यायः १ अध्यायः २ अध्यायः ३ अध्यायः ४ अध्यायः ५ अध्यायः ६ अध्यायः ७ अध्यायः ८ अध्यायः ९ अध्यायः १० अध्यायः ११ अध्यायः १२ अध्यायः १३ अध्यायः १४ अध्यायः १५ अध्यायः १६ अध्यायः १७ अध्यायः १८ अध्यायः १९ अध्यायः २० अध्यायः २१ अध्यायः २२ अध्यायः २३ अध्यायः २४ अध्यायः २५ अध्यायः २६ अध्यायः २७ अध्यायः २८ अध्यायः २९ अध्यायः ३० अध्यायः ३१ अध्यायः ३२ अध्यायः ३३ अध्यायः ३४ अध्यायः ३५ अध्यायः ३६ अध्यायः ३७ अध्यायः ३८ अध्यायः ३९ अध्यायः ४० अध्यायः ४१ अध्यायः ४२ अध्यायः ४३ अध्यायः ४४ अध्यायः ४५ अध्यायः ४६ अध्यायः ४७ अध्यायः ४८ अध्यायः ४९ अध्यायः ५० अध्यायः ५१ अध्यायः ५२ अध्यायः ५३ अध्यायः ५४ अध्यायः ५५ अध्यायः ५६ अध्यायः ५७ अध्यायः ५८ अध्यायः ५९ अध्यायः ६० अध्यायः ६१ अध्यायः ६२ अध्यायः ६३ अध्यायः ६४ अध्यायः ६५ अध्यायः ६६ अध्यायः ६७ अध्यायः ६८ अध्यायः ६९ अध्यायः ७० अध्यायः ७१ अध्यायः ७२ अध्यायः ७३ अध्यायः ७४ अध्यायः ७५ अध्यायः ७६ अध्यायः ७७ अध्यायः ७८ अध्यायः ७९ अध्यायः ८० अध्यायः ८१ अध्यायः ८२ अध्यायः ८३ अध्यायः ८४ अध्यायः ८५ अध्यायः ८६ अध्यायः ८७ अध्यायः ८८ अध्यायः ८९ अध्यायः ९० अध्यायः ९१ अध्यायः ९२ अध्यायः ९३ अध्यायः ९४ अध्यायः ९५ अध्यायः ९६ अध्यायः ९७ अध्यायः ९८ अध्यायः ९९ अध्यायः १०० अध्यायः १०१ अध्यायः १०२ अध्यायः १०३ अध्यायः १०४ अध्यायः १०५ अध्यायः १०६ अध्यायः १०७ अध्यायः १०८ अध्यायः १०९ अध्यायः ११० अध्यायः १११ अध्यायः ११२ अध्यायः ११३ अध्यायः ११४ अध्यायः ११५ अध्यायः ११६ अध्यायः ११७ अध्यायः ११८ अध्यायः ११९ अध्यायः १२० अध्यायः १२१ अध्यायः १२२ अध्यायः १२३ अध्यायः १२४ अध्यायः १२५ अध्यायः १२६ अध्यायः १२७ अध्यायः १२८ अध्यायः १२९ अध्यायः १३० अध्यायः १३१ अध्यायः १३२ अध्यायः १३३ अध्यायः १३४ अध्यायः १३५ अध्यायः १३६ अध्यायः १३७ अध्यायः १३८ अध्यायः १३९ अध्यायः १४० अध्यायः १४१ अध्यायः १४२ अध्यायः १४३ अध्यायः १४४ अध्यायः १४५ अध्यायः १४६ अध्यायः १४७ अध्यायः १४८ अध्यायः १४९ अध्यायः १५० अध्यायः १५१ अध्यायः १५२ अध्यायः १५३ अध्यायः १५४ अध्यायः १५५ अध्यायः १५६ अध्यायः १५७ अध्यायः १५८ अध्यायः १५९ अध्यायः १६० अध्यायः १६१ अध्यायः १६२ अध्यायः १६३ अध्यायः १६४ अध्यायः १६५ अध्यायः १६६ अध्यायः १६७ अध्यायः १६८ अध्यायः १६९ अध्यायः १७० अध्यायः १७१ अध्यायः १७२ अध्यायः १७३ अध्यायः १७४ अध्यायः १७५ अध्यायः १७६ अध्यायः १७७ अध्यायः १७८ अध्यायः १७९ अध्यायः १८० अध्यायः १८१ अध्यायः १८२ अध्यायः १८३ अध्यायः १८४ अध्यायः १८५ अध्यायः १८६ अध्यायः १८७ अध्यायः १८८ अध्यायः १८९ अध्यायः १९० अध्यायः १९१ अध्यायः १९२ अध्यायः १९३ अध्यायः १९४ अध्यायः १९५ अध्यायः १९६ अध्यायः १९७ अध्यायः १९८ अध्यायः १९९ अध्यायः २०० अध्यायः २०१ अध्यायः २०२ अध्यायः २०३ अध्यायः २०४ अध्यायः २०५ अध्यायः २०६ अध्यायः २०७ अध्यायः २०८ अध्यायः २०९ अध्यायः २१० अध्यायः २११ अध्यायः २१२ अध्यायः २१३ अध्यायः २१४ अध्यायः २१५ अध्यायः २१६ अध्यायः २१७ अध्यायः २१८ अध्यायः २१९ अध्यायः २२० अध्यायः २२१ अध्यायः २२२ अध्यायः २२३ अध्यायः २२४ अध्यायः २२५ अध्यायः २२६ अध्यायः २२७ अध्यायः २२८ अध्यायः २२९ अध्यायः २३० अध्यायः २३१ अध्यायः २३२ अध्यायः २३३ अध्यायः २३४ अध्यायः २३५ अध्यायः २३६ अध्यायः २३७ अध्यायः २३८ अध्यायः २३९ अध्यायः २४० अध्यायः २४१ अध्यायः २४२ अध्यायः २४३ अध्यायः २४४ अध्यायः २४५ अध्यायः २४६ ब्रह्मपुराणम् - अध्यायः २२० ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे. Tags : brahmapuranpuranपुराणब्रह्मपुराणम्संस्कृत अध्यायः २२० Translation - भाषांतर श्राद्धकल्पवर्णनम्मुनय ऊचुःभूयः प्रब्रूहि भगवञ्श्राद्धकल्पं सुविस्तरात् ।कथं क्व च कदा केषु कैस्तद्ब्रूहि तपोधन ॥१॥व्यास उवाचश्रृणुध्वं मुनिशार्दूलाः श्राद्धकल्पं सुविस्तरात् ।यथा यत्र यदा येषु यैर्द्रव्यैस्तद्वदाम्यहम् ॥२॥ब्राह्मणैः क्षत्रियैर्वैश्यैः श्राद्धं स्ववरणोदितम् ।कुलधर्ममनुतिष्ठद्भिर्दातव्यं मन्त्रपूर्वकम् ॥३॥स्त्रीभिर्वर्णावरैः शूद्रैर्विप्राणामनुशासनात् ।अमन्त्रकं विधिपूर्वं वह्नियागविवर्जितम् ॥४॥पुष्करादिषु तीर्थेषु पुण्येष्वायतनेषु च ।शिखरेषु गिरीन्द्राणां पुण्यदेशेषु भो द्विजाः ॥५॥सरित्सु पुण्यतोयासु नदेषु च सरःसु च ।संगमेषु नदीनां च समुद्रेषु च सप्तसु ॥६॥स्वनुलिप्तेषु गेहेषु स्वष्वनुज्ञापितेषु च ।दिव्यपादपमूलेषु यज्ञियेषु ह्रदेषु च ॥७॥श्राद्धमेतेषु दातव्यं वर्ज्यमेतेषु चोच्यते ।किरातेषु कलिङ्गेषु कोङ्कणेषु कृमिष्वपि ॥८॥दशार्णेषु कुमार्येषु तङ्गणेषु क्रथेष्वपि ॥सिन्धोरुत्तरकूलेषु नर्मदायाश्च दक्षिणे ॥९॥पूर्वेषु करतोयाया न देयं श्राद्धमुच्यते ।श्राद्धं देयमुशन्तीह मासि मास्युडुपक्षये ॥१०॥पौर्णमासेषु(?)श्राद्धं च कर्तव्यमृक्षगोचरे ।नित्यश्राद्धमदैवं च मनुष्यैः सह गीयते ॥११॥नैमित्तिकं सुरैः सार्धं नित्यं नैमित्तिकं तथा ।काम्यान्यन्यानि श्राद्धानि प्रतिसंवत्सरं द्विजैः ॥१२॥वृद्धिश्राद्धं च कर्तव्यं जातकर्मादिकेषु च ।तत्र युग्मान्द्विजानाहुर्मन्त्रपूर्वं तु वै द्विजाः ॥१३॥कन्यां गते सवितरि दिनानि दश पञ्च च ।पूर्वेणैवेह विधिना श्राद्धं तत्र विधीयते ॥१४॥प्रतिपद्धनलाभाय द्वितीया द्विपदप्रदा ।पुत्रार्थिनी तृतीया तु चतुर्थी शत्रुनासिनी ॥१५॥श्रियं प्राप्नोति पञ्चम्यां षष्ठ्यां पूज्यो भवेन्नरः ।गणाधिपत्यं सप्तम्यामष्टम्यां बुद्धिमुत्तमाम् ॥१६॥स्त्रियो नवम्यां प्राप्नोति दशम्यां पूर्णकामताम् ।वेदांस्तथाऽऽप्नुयात्सर्वानेकादश्यां क्रियापरः ॥१७॥द्वादश्यां जयलाभं च प्राप्नोति पितृपूजकः ।प्रजावृद्धिं पशुं मेधां स्वातन्त्र्यं पुष्टिमुत्तमाम् ॥१८॥दीर्घायुरथमैश्वर्यं कुर्वाणस्तु त्रयोदशीम् ।अवाप्नोति न संदेहः श्राद्धं श्रद्धासमन्वितः ॥१९॥यथासंभविनाऽन्नेन श्राद्धं श्रद्धासमन्वितः ।युवानः पितरो यस्य मृताः शस्त्रेण वा हताः ॥२०॥तेन कार्यं चतुर्दश्यां तेषां तृप्तिमभीप्सता ।श्राद्धं कुर्वन्नमावास्यां यत्नेन पुरुषः शुचिः ॥२१॥सर्वान्कामानवाप्नोति स्वर्गं चानन्तमश्नुते ।अतः परं मुनिश्रेष्ठाः श्रृणुध्वं वदतो मम ॥२२॥पितॄणां प्रीतये यत्र यद्देयं प्रीतिकारिणा ।मासं तृप्तिः पितॄणां तु हविष्यान्नेन जायते ॥२३॥मासद्वयं मत्स्यमांसैस्तृप्तिं यान्ति पितामहाः ।त्रीन्मासान्हारिणं मांसं विज्ञेयं पितृतृप्तये ॥२४॥पुष्णाति चतुरो मासाञ्शशस्य पिशितं पितृन् ।शाकुनं पञ्च वै मासान्षण्मासाञ्शूकरामिषम् ॥२५॥छागलं सप्त वै मासानैणेयं चाष्टमासकान् ।करोति तृप्तिं नव वै रुरुमांसं न संशयः ॥२६॥गव्यं मांसं पितृतृप्तिं करोति दशमासिकीम् ।तथैकादश मासांस्तु औरभ्रं पितृतृप्तिदम् ॥२७॥संवत्सरं तथा गव्यं पयः पायसमेव च ।वाध्रीनमा(र्धोणसा)मिषं लोहं कालशाकं तथा मधु ॥२८॥रोहितामिषमन्नं च दत्तान्यात्मकुलोद्भवैः ।अनन्तं वै प्रयच्छन्ति तृप्तियोगं सुतांस्तथा ॥२९॥पितॄणां नात्र संदोहो गयाश्राद्धं च भो द्विजाः ।यो ददाति गुडोन्मिश्रांस्तिलान्वा श्राद्धकर्मणि ॥३०॥मधु वा मधुमिश्रं वा अक्षयं सर्वमेव तत् ।अपि नः स कुले भूयाद्यो नो दद्याज्जलाञ्जलिम् ॥३१॥पायसं मधुसंयुक्तं वर्षासु च मघासु च ।एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् ॥३२॥गौरीं वाऽप्युद्वहेत्कन्यां नीलं वा वृषमुत्सृजेत् ।कृत्तिकासु पितॄनर्च्य स्वर्गमाप्नोति मानवः ॥३३॥अपत्यकामो रोहिण्यां सौम्ये तेजस्वितां लभेत् ।शौर्यमार्द्रासु चाऽऽप्नोति क्षेत्राणि च पुनर्वसौ ॥३४॥पुष्ये तु धनमक्षय्यमाश्लेषे चाऽऽयुरुत्तमम् ।मघासु च प्रजां पुष्टिं सौभाग्यं फाल्गुनीषु च ॥३५॥प्रधानशीलो भवति सापत्यश्चोत्तरासु च ।प्रयाति श्रेष्ठतां शास्त्रे हस्ते श्राद्धप्रदो नरः ॥३६॥रूपं तेजश्च चित्रासु तथाऽऽपत्यमवाप्नुयात् ।वाणिज्यलाभदा स्वाती विशाखा पुत्रकामदा ॥३७॥कुर्वन्तां चानुराधासु ता दद्युश्चक्रवर्तिताम् ।आधिपत्यं च ज्येष्ठासु मूले चाऽऽरोग्यमुत्तमम् ॥३८॥आषाढासु यशः प्राप्तिरुत्तरासु विशोकता ।श्रवणेन शुभांल्लोकान्धनिष्ठासु धनं महत् ॥३९॥वेदवित्त्वमभिजिति भिषक्सिद्धिं च वारुणे ।अजाविकं प्रौष्ठपद्यां विन्देद्गावस्त(श्च त)थोत्तरे ॥४०॥रेवतीषु तथा कुप्यमश्विनीषु तुरङ्गमान् ।श्राद्धं कुर्वंस्तथाऽऽप्नोति भरणीष्वायुरुत्तमम् ॥४१॥एवं फलमवाप्नोति ऋक्षेष्वेतेषु तत्त्ववित् ।तस्मात्काम्यानि श्राद्धानि देयानि विधिवद्द्विजाः ॥४२॥कन्याराशिगते सूर्ये फलमत्यन्तमिच्छता ।यान्यान्कामानभिध्यायन्कन्याराशिगते रवौ ॥४३॥श्राद्धं कुर्वन्ति मनुजास्तांस्तान्कामाँल्लभन्ति ते ।नान्दीमुखानां कर्तव्यं कन्याराशिगते रवौ ॥४४॥पौर्णमास्यां तु कर्तव्यं वाराहवचनं यथा ।दिव्यभौमान्तरिक्षाणि स्थावराणि चराणि च ॥४५॥पिण्डमिच्छन्ति पितरः कन्याराशिगते रवौ ।कन्यां गते सवितरि यान्यहानि तु षोडश ॥४६॥क्रतुभिस्तानि तुल्यानि देवो नारायणोऽब्रवीत् ।राजसूयाश्वमेधाभ्यां य इच्छेद्दुर्लभं फलम् ॥४७॥अप्यम्बुशाकमूलाद्यैः पितॄन्कन्यागतेऽर्तयेत् ।उत्तराहस्तनक्षत्रगते तीक्ष्णांशुमालिनि ॥४८॥योऽर्चयेत्स्वपितॄन्भक्त्या तस्य वासस्त्रिविष्टपे ।हस्तर्क्षगे दिनकरे पितृराजानुशासनात् ॥४९॥तावत्पितृरुरी शून्या यावद्वृश्चिकदर्शनम् ।वृश्चिके समतिक्रान्ते पितरो दैवतैः सह ॥५०॥निः श्वस्य प्रतिगच्छन्ति शापं दत्त्वा सुदुः सहम् ।अष्टकासु च कर्तव्यं श्राद्धं मन्वन्तरासु वै ॥५१॥अन्वष्टकासु क्रमशो मातृपूर्वं तदिष्यते ।ग्रहणे च व्यतीपाते रविचन्द्रसमागमे ॥५२॥जन्मर्क्षे ग्रहपीडायं श्राद्धं पार्वणमुच्यते ।अयनद्वितये श्राद्धं विषुवद्वितये तथा ॥५३॥संक्रान्तिषु च कर्तव्यं श्राद्धं विधिवदुत्तमम् ।एषु कार्यं द्विजाः श्राद्धं पिण्डनिर्वापणावृते ॥५४॥वैशाखस्य तृतीयायां नवम्यां कार्तिकस्य च ।श्राद्धं कार्यं तु शुक्लायां संक्रान्तिविधिना नरैः ॥५५॥त्रयोदश्यां भाद्रपदे माघे चन्द्रक्षयेऽहनि ।श्राद्धं कार्यं पायसेन दक्षिणायनवच्च तत् ॥५६॥यदा च श्रोत्रियोऽभ्येति गेहं वेदविदग्निमान् ।तेनैकेन च कर्तव्यं श्राद्धं विधिवदुत्तमम् ॥५७॥श्राद्धीयद्रव्यसंप्राप्तिर्यदा स्यात्साधुसंमता ।पार्वणेन विधानेन श्राद्धं कार्यं तथा द्विजैः ॥५८॥प्रतिसंवत्सरं कार्यं मातापित्रोरमृतेऽहनि ।पितृव्यस्याप्यपुत्रस्य भ्रातुर्ज्येष्ठस्य चैव हि ॥५९॥पार्वणं देवपूर्वं स्यादेकोद्दिष्टं सुरैर्विना ।द्वौ दैवे पितृकार्यं त्रीनेकैकमुभयत्र वा ॥६०॥मातामहानामप्येवं सर्वमूहेन कीर्तितम् ।प्रेतीभूतस्य सततं भुवि पिण्डं जलं तथा ॥६१॥सतिलं सकुशं दद्याद्बहिर्जलसमीपतः ।तृतीयेऽह्नि च कर्तव्यं प्रेतास्थिचयनं द्विजैः ॥६२॥दशाहे ब्राह्मणः शुद्धो द्वादशाहेन क्षत्रियः ।वैश्यः पञ्चदशाहेन शूद्रो मासेन शुध्यति ॥६३॥सूतकान्ते गृहे श्राद्धमेकोदिदष्टं प्रचक्षते ।द्वादशेऽहनि मासे च त्रिपक्षे च ततः परम् ॥६४॥मासि मासि च कर्तव्यं यावत्संवत्सरं द्विजाः ।ततः परतरं कार्यं सपिण्डिकरणं क्रमात् ॥६५॥कृते सपिण्डीकरणे पार्वणं प्रोच्यते पुनः ।ततः प्रभृति निर्मुक्ताः प्रेतत्वात्पितृतां गताः ॥६६॥अमूर्ता मूर्तिमन्तश्च पितरो द्विविधाः स्मृताः ।नान्दीमुखास्त्वमूर्ताः स्युमूर्तिमन्तोऽथ पार्वणाः ॥एकोद्दिष्टाशिनः प्रेताः पितॄणां निर्णयस्त्रिधा ॥६७॥मुनय ऊचुःकथं सपिण्डीकरणं कर्तव्यं द्विजसत्तम ।प्रेतिभूतस्य विधिवद्ब्रूहि नो वदतां वर ॥६८॥व्यास उवाचसपिण्डीकरणं विप्राः श्रृणुध्वं वदतो मम ।तच्चापि देवरहितमेकार्घैकपवित्रकम् ॥६९॥नैवाग्नौकरणं तत्र तच्चाऽऽवाहनवर्जितम् ।अपसव्यं च तत्रापि भोजयेदयुजो द्विजान् ॥७०॥विशेषस्तत्र चान्योऽस्ति प्रतिमासक्रियादिकः ।तं कथ्यमानमेकाग्राः श्रृणुध्वं मे द्विजोत्तमाः ॥७१॥तिलगन्धोकैर्युक्तं तत्र पात्रचतुष्टयम् ।कुर्यात्पितॄणां त्रितयमेकं प्रेतस्य च द्विजाः ॥७२॥पात्रत्रये प्रेतपात्रादर्घं चैव प्रसेचयेत् ।ये समाना इति जपन्पूर्ववच्छेषमाचरेत् ॥७३॥स्ग्रीणामप्येवमेव स्यादेकोद्दिष्टमुदाहृतम् ।सपिण्डीकरणं तासां पुत्राभावे न विद्यते ॥७४॥प्रीतसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।मृताहनि च तत्कार्यं पितॄणां विधिचोदितम् ॥७५॥पुत्राभावे सपिण्डास्तु तदभावे सहोदराः ।कुर्युरेतं विधिं सम्यक्पुत्रस्य च सुताः सुताः ॥७६॥कुर्यान्मातामहानां तु पुत्रिकातनयस्तथा ।व्द्यामुष्यायणसंज्ञास्तु मातामहपितामहान् ॥७७॥पूजयेयुर्यथान्यायं श्राद्धैर्नेमित्तिकैरपि ।सर्वाभावे स्त्रियः कुर्युः स्वभर्तॄणाममन्त्रकम् ॥७८॥तदाभावे च नृपतिः कारयेत्त्वकुटुम्बिनाम् ।तज्जातीयैर्नरैः सम्यग्वाहाद्याः सकलाः क्रियाः ॥७९॥सर्वेषामेव वर्णानां बान्धवो नृपतिर्यतः ।एता वः कथिता विप्रा नित्या नैमित्तिकास्तथा ॥८०॥वक्ष्ये श्राद्धाश्रयामन्यां नित्यनैमित्तिकां क्रियाम् ।दर्शस्त(र्शं त)त्र निमित्तं तु विद्यादिन्दुक्षयान्वितः(तम्) ॥८१॥नित्यस्तु नियतः कालस्तस्मिन्कुर्याद्यथोदितम् ।सपिण्डकरणादूर्ध्वं पितुर्यः प्रपितामहः ॥८२॥स तु लेपभुजं याति प्रलुप्तः पितृपिण्डतः ।तेषां हि यश्चतुर्थोऽन्यः स तु लेपभुजो भवेत् ॥८३॥सोऽपि संबन्धतो हीनमुपभोगं प्रपद्यते ।पिता पितामहश्चैव तथैव प्रपितामहः ॥८४॥पिण्डसंबन्धिनो ह्येते विज्ञेयाः पुरुषास्त्रयः ।लेपसंबन्धिनश्चान्ये पितामहपितामहात् ॥८५॥प्रभृत्युक्तास्त्रयस्तेषां यजमानश्च सप्तमः ।इत्येष मुनिभिः प्रोक्तः संबन्धः साप्तपौरुषः ॥८६॥यजमानात्प्रभृत्यूर्ध्वमनुलेपभुजस्तथा ।ततोऽन्ये पूर्वजाः सर्वे ये चान्ये नरकौकसः ॥८७॥येऽपि तिर्यक्त्वमापन्ना ये च भूतादिसंस्थिताः ।तान्सर्वान्यजमानो वै श्राद्धं कुर्वन्यथाविधि ॥८८॥स समाप्यायते विप्रा येन येन वदामि तत् ।अन्नप्रकिरणं यत्तु मनुष्यैः क्रियते भुवि ॥८९॥तेन तृप्तिमुपायान्ति ये पिशाचत्वमागताः ।यदम्बु स्नानवस्त्रोत्थं भूमौ पतति भो द्विजाः ॥९०॥तेन ये तरुतां प्राप्तास्तेषां तृप्तिः प्रजायते ।यास्तु गन्धाम्बुकणिकाः पतन्ति धरणीतले ॥९१॥ताभिराप्यायनं तेषां देवत्वं ये कुले गताः ।उद्धतेष्वथ पिण्डेषु याश्चाम्बुकणिका भुवि ॥९२॥ताभिराप्यायनं तेषां ये तिर्यक्त्वं कुले गताः ।यो चादन्ताः कुले बालाः क्रियायोगाद्बहिष्कृताः ॥९३॥विपन्नास्त्वनधिकाराः संमार्जितजलाशिनः ।भुक्त्वा चाऽऽचामतां यच्च यज्जलं चाङ्घ्रिशौचजम् ॥९४॥ब्राह्मणानां तथैवान्यत्तेन तृप्तिं प्रयान्ति वै ।एवं यो यजमानस्य यश्च तेषां द्विजन्मनाम् ॥९५॥कश्चिज्जलान्नविक्षेपः शुचिरुच्छिष्ट एव वा ।तेनान्नेन कुले तत्र ये च योन्यन्तरं गताः ॥९६॥प्रयान्त्याप्यायनं विप्राः सम्यक्श्राद्धक्रियावताम् ।अन्यायोपार्जितैरर्थैर्यच्छ्राद्धं क्रियते नरैः ॥९७॥तृप्यन्ते ते न चाण्डालपुल्कसाद्यासु योनिषु ।एवमाप्यायनं विप्रा बहूनामेव बान्धवैः ॥९८॥श्राद्धं कुर्वद्भिरत्राम्बुविक्षेपैः संप्रजायते ।तस्माच्छ्राद्धं नरो भक्त्या शाकेनापि यथाविधि ॥९९॥कुर्वीत कुर्वतः श्राद्धं कुले कश्चिन्न सीदति ।श्राद्धं देयं तु विप्रेषु संयतेष्वग्निहोत्रिषु ॥१००॥अवदातेषु विद्वत्सु श्रोत्रियेषु विशेषतः ।त्रिणाचिकेतस्त्रिमधुस्त्रिसुपर्णः षडङ्गवित् ॥१०१॥मातापितृपरश्चैव स्वस्रीयः सामवेदवित् ।ऋत्विक्पुरोहिताचार्यमुपाध्यायं च भोजयेत् ॥१०२॥मातुलः श्वशुरः श्यालः संबन्धी द्रोणपाठकः ।मण्डलब्राह्मणो यस्तु पुराणार्थविशारदः ॥१०३॥अकल्पः कल्पसंतृष्टः प्रतिग्रहविवर्जितः ।एते श्राद्धे नियोक्तव्या ब्राह्मणाः पङ्क्तिपावनाः ॥१०४॥निमन्त्रयेन पूर्वेद्युः पूर्वोक्तान्द्विजसत्तमान् ।दैवे नियोगे पित्र्ये च तांस्तथैवोपकल्पयेत् ॥१०५॥तैश्च संयमिभिर्भाध्यं यस्तु श्राद्धं करिष्यति ।श्राद्धं दत्त्वा च भुक्त्वा च मैथुनं योऽधिगच्छति ॥१०६॥पितरस्तस्य वै मासं तस्मिन्प्रेतसि शेरते ।गत्वां च योषितं श्राद्धं यो भुङ्क्ते यस्तु ग(य)च्छति ॥१०७॥रेतोमूत्रकृताहारास्तं मासं पितरस्तयोः ।तस्मात्त्व(त्तु)प्रथमं कार्यं प्राज्ञेनोपनिमन्त्रणम् ॥१०८॥अप्राप्तौ तद्दिने वाऽपि वर्ज्या योषित्प्रसङ्गिनः ।भिक्षार्थमागतांश्चापि कालेन संयतान्यतीन् ॥१०९॥भोजयेत्प्रणिपाताद्यैः प्रसाद्य यतमानसः ।योगिनश्च तदा श्राद्धे भोजनीया विपश्चिता ॥११०॥योगाधारा हि पितरस्तस्मात्तान्पूजयेत्सदा ।ब्राह्मणानां सहस्राणि एको योगी भवेद्यदि ॥१११॥यजमानं च भोक्तॄंश्च नौरिवाम्भसि तारयेत् ।पितृगाथा तथैवात्र गीयते ब्रह्मवादिभिः ॥११२॥या गीता पितृभिः पूर्वमैलस्याऽऽसीन्महीपतेः ।कदा नः संततावग्य्रः कस्यचिद्भविता सुतः ॥११३॥यो योगिभुक्तशेषान्नो भुवि पिण्डान्प्रदास्यति ।गयायामथवा पिण्डं खड्गमांसं तथा हविः ॥११४॥कालशाकं तिलाज्यं च तृप्तये कृसरं च नः ।वैश्वदेवं च सौम्यं च खड्गमांसं परं हविः ॥११५॥विषाणवर्जं शिरसा पादादाशिषामहे ।दद्याच्छ्राद्धं त्रयोदश्यां मघासु च यथाविधि ॥११६॥मधुसर्पिःसमायुक्तं पायसं दक्षिणायने ।तस्मात्संपूजयेद्भक्त्या स्वपितॄन्विधिवन्नरः ॥११७॥कामानभिप्सन्सकलान्पापादात्मविमोचनम् ।वसून्रुद्रांस्तथाऽऽदित्यान्नक्षत्रग्रहतारकाः ॥११८॥प्रीणयन्ति मनुष्याणां पितरः श्राद्धतर्पिताः ।आयुः प्रजां धनं विद्यां स्वर्गं मोक्षं सुखानि च ॥११९॥प्रयच्छन्ति तथा राज्यं पितरः श्राद्धतर्पिताः ।तथाऽपराह्णाः पूर्वाह्णात्पितॄणामतिरिच्यते ॥१२०॥संपूज्य स्वागतेनैतान्सदनेऽभ्यागतान्द्विजान् ।पवित्रपाणिराचान्तानासनेषूपवेशयेत् ॥१२१॥श्राद्धं कृत्वा विधानेन संभोज्य च द्विजोत्तमान् ।विसर्जयोत्प्रियाण्युक्त्वा प्रणिपत्य च भक्तितः ॥१२२॥आद्वारमनुगच्छेच्च आगच्छेदनुमोदितः ।ततो नित्यक्रियां कुर्याद्भोजयेच्च तथाऽतिथीन् ॥१२३॥नित्यक्रियां पितॄणां च केचिदिच्छन्ति सत्तमाः ।न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत् ॥१२४॥पृथक्त्वेन वदनत्यन्ये केचित्पूर्वं च पूर्ववत् ।ततस्तदन्नं भुञ्जीत सह भृत्यादिभिर्नरः ॥१२५॥एवं कुर्वीत धर्मज्ञः श्राद्धं पित्र्यं समाहितः ।यथा च विप्रमुख्यानां परितोषोऽभिजायते ॥१२६॥इदानीं संप्रवक्ष्यामि वर्जनीयान्द्विजाधमान् ।मित्रध्रुक्कुनखी क्लीबः क्षयी शुक्ली वणिक्पथः ॥१२७॥श्यावदन्तोऽथ खल्वाटः काणोऽन्धो बधिरो जडः ।मूकः पङ्गुः कुणिः षण्ढो दुश्चर्मा व्यङ्गकेकरौ ॥१२८॥कुष्ठी रक्तेक्षणः कुब्जो वामनो विकटोऽलसः ।मित्रसत्रुर्दुष्कुलीनः पशुपालो निरागृतिः ॥१२९॥परिवित्तिः परिवेत्ता परिवेदनिकासुतः ।वृषलीपतिस्तत्सुतश्च न भवेच्छ्राद्धभुग्द्विजः ॥१३०॥वृषलीपुत्रसंस्कर्ता अनुढो दिधिषूपतिः ।भृतकाध्यापको यस्तु भृतकाध्यापितश्च यः ॥१३१॥सूतकान्नोपजीवी च मृगयुः सोमविक्रयी ।अभिशस्तस्तथा स्तेनः पतितो वार्धुषिः शठः ॥१३२॥पिशुनो वेदसंत्यागी दानाग्नित्यागनिष्ठुरः ।राज्ञः पुरोहितो भृत्यो विद्याहीनोऽथ मत्सरी ॥१३३॥वृद्धद्विड्दुर्धरः क्रूरो मूढो देवलकस्तथा ।नक्षत्रसूचकश्चैव पर्वकारश्च गर्हितः ॥१३४॥अयाज्ययाजकः षण्ढो गर्हिता ये च येऽधमाः ।न ते श्राद्धे नियोक्तव्या दृष्ट्वाऽमी पङ्क्तिदूषकाः ॥१३५॥असतां प्रग्रहो यत्र सतां चैवावमानना ।दण्डो देवकृतस्तत्र सद्यः पतति दारुणः ॥१३६॥हित्वाऽऽगमं सुविहितं बालिशं यस्तु भोजयेत् ।आदिधर्मं समुत्सृज्य दाता तत्र विनश्यति ॥१३७॥यस्त्वाश्रितं द्विजं त्यक्त्वा अन्यमानीय भोजयेत् ।तन्नः श्वासाग्निनिर्दग्धस्तत्र दाता विनश्यति ॥१३८॥वस्त्राभावे क्रिया नास्ति यज्ञा वेदास्तपांसि च ।तस्माद्वासांसि देयानि श्राद्धकाले विशेषतः ॥१३९॥कौशेयं क्षौमकार्पासं दुकूलमहतं तथा ।श्राद्धे त्वेतानि यो दद्यात्कामानाप्नोति चोत्तमान् ॥१४०॥यथा गोषु प्रभूतासु वत्सो विन्दति मातरम् ।तथाऽन्नं तत्र विप्राणां जन्तुर्यत्रावतिष्ठते ॥१४१॥नामगोत्रं च मन्त्राश्च दत्तमन्नं नयन्ति ते ।अपि ये निधनं प्राप्तास्तृप्तिस्तानुपतिष्ठते ॥१४२॥देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।नमः स्वाहायै स्वधायै नित्यमेव भवन्त्विति ॥१४३॥आद्यावसाने श्राद्धस्य त्रिरावृत्त्या जपेत्तदा ।पिण्डनिर्वपणे वाऽपि जपेदेवं समाहितः ॥१४४॥क्षिप्रमायान्ति पितरो राक्षसाः प्रद्रवन्ति च ।प्रीयन्ते त्रिषु लोकेषु मन्त्रोऽयं तारयत्युत ॥१४५॥क्षौमसूत्रं नवं दद्याच्छा(च्छो)णं कार्पासिकं तथा ।पत्रोर्णं पट्टसूत्रं च कौशेयं च विवर्जयेत् ॥१४६॥वर्जयेच्चादशं प्राज्ञो यद्यप्यव्याहतं भवेत् ।न प्रीणयन्त्यथैतानि दातुश्चाप्यनयो भवेत् ॥१४७॥न निवेद्ये भवेद्पिण्डः पितॄणां यस्तु जीवति ।इष्टेनान्नेन भक्ष्येण भोजयेत्तं यथाविधि ॥१४८॥पिण्डमग्नौ सदा दद्याद्भोगार्थो सततं नरः ।पत्न्यै दद्यात्प्रजार्थो च मध्यमं मन्त्रपूर्वकम् ॥१४९॥उत्तमां द्युतिमन्विच्छन्पिण्डं गोषु प्रयच्छति ।प्रज्ञो चैव यशः सीर्तिमप्सु चैव निवेदयेत् ॥१५०॥प्रार्थयन्दीर्घमायुश्च वायसेभ्यः प्रयच्छति ।कुमारशालामन्विच्चन्कुक्कुटेभ्यः प्रयच्छति ॥१५१॥एके विप्राः पुनः प्राहुः पिण्डोद्धरणग्रतः ।अनुज्ञातस्तु विप्रैस्तैः काममुद्ध्रियतामिति ॥१५२॥तस्माच्छ्राद्धं तथा कार्यं यथोक्तमृषिभिः पुरा ।अन्यथा तु भवेद्दोषः पितॄणां नोपतिष्ठति ॥१५३॥यवैर्व्रीहितिलैर्माषैर्गोधूमैश्चणकैस्तथा ।संतर्पयेत्पितॄनमुद्गैः श्यामाकैः सर्षपद्रवैः ॥१५४॥नीवारैर्हस्तिश्यामाकैः प्रियङ्गुभिस्तथाऽऽर्घयेत् ।प्रसातिकां(अस्तिकाः)सतूलिकां द(तीलकान्द)द्याच्छ्राद्धे विचक्षणः ॥१५५॥आम्रमाम्रातकं बिल्वं दाडिमं बीजपूरकम् ।प्राचीनामलकं क्षीरं नारिकेलं परुषकम् ॥१५६॥नारङ्गं च सखर्जूरं द्राक्षानीलकपित्थकम् ।पटोलं च प्रियालं च कर्कन्धूबदराणि च ॥१५७॥विकङ्कतं वत्सकं च कस्त्वारु(र्कारू)र्वारकानपि ।एतानि फलजातानि श्राद्धे देयानि यत्नतः ॥१५८॥गुडशर्करमत्स्यण्डी देयं फाणितमूर्मुरम् ।गव्यं पयो दधि घृतं तैलं च तिलसंभवम् ॥१५९॥सैन्धवं सागरोत्थं च लवणं सारसं तथा ।निवेदयेच्छुचीन्गन्धांश्चन्दनागुरुकुङ्कुमान् ॥१६०॥कालशाकं तन्दुलीयं वास्तुकं मूलकं तथा ।शाकमारण्यकं चापि दद्यात्पुण्पाण्यमूनि च ॥१६१॥जातिचम्पकलोध्राश्च मल्लिकाबाणबर्बरी ।वृन्ताशोकाटरूषं च तुलसी तिलकं तथा ॥१६२॥पावन्तीः शतपत्रां च गन्धशोफालिकामपि ।कुब्जकं तगरं चैव मृगमारण्यकेतकीम् ॥१६३॥यूथिकामतिमुक्तं च श्राद्धयोग्यानि भो द्विजाः ।कमलं कुमुदं पद्मं पुण्डरीकं च यत्नतः ॥१६४॥इन्दीवरं कोकनदं कह्लारं च नियोजयेत् ।कुष्ठं मांसी बालकं च कुक्कुटी जातिपत्रकम् ॥१६५॥नलिकोशीरमुस्तं च ग्रन्थिपर्णी च सुन्दरी ।पुनरप्येवमादीनि गन्धयोग्यानि चक्षते ॥१६६॥गुग्गुलुं चन्दनं चैव श्रीवासमगुरुं तथा ।धूपानि पितृयोग्यानि ऋषिगुग्गुलमेव च ॥१६७॥राजमाषांश्च चणकान्मसूरन्कोरदूषकान् ।विप्रुषान्मर्कटांश्चैव कोद्रवांश्चैव वर्जयेत् ॥१६८॥माहिषं चामरं मार्गमाविकैकशफोद्भवम् ।स्त्रैणमौष्ट्रमाविकं च दधि क्षीरं घृतं त्यजेत् ॥१६९॥तालं वरुणकाकोलौ बहुपत्रार्जुनीफलम् ।जम्बीरं रक्तबिल्वं च शालस्यापि फलं त्यजेत् ॥१७०॥मत्स्यसूकरकूर्माश्च गावो वर्ज्या विशेषतः ।पूतिकं मृगनाभिं च रोचनां पद्मचन्दनम् ॥१७१॥कालेयकं तूग्रगन्धं तुरुष्कं चापि वर्जयेत् ।पालङ्कं च कुमारीं च किरातं पिण्डमूलकम् ॥१७२॥गृञ्जनं चुक्रिकां चुक्रं वरुमां चनपत्रिकाम् ।जीवं च शतपुष्पां च नालिकां गन्धशूकरम् ॥१७३॥हलभृत्यं सर्षपं च पलाण्डुं लशुनं त्यजेत् ।मानकन्दं विषकन्दं वज्रकन्दं गदास्थिकम् ॥१७४॥पुरुषाल्वं सपिण्डालुं श्राद्धकर्मणि वर्जयेत् ।अलाबुं तिक्तपर्णां च कूष्माण्डं कटुकत्रयम् ॥१७५॥वार्ताकं शिवजातं च लोमशानि वटानि च ।कालीयं रक्तवाणां च बलाकां लकुचं तथा ॥१७६॥श्राद्धकर्मणि वर्ज्यानि विभीतकफलं तथा ।आरनालं च शुक्तं च शीर्णं पर्युषितं तथा ॥१७७॥नोग्रागन्धं च दातव्यं कोविदारकशिग्रुकौ ।अत्यम्लं पिच्छिलं सूक्ष्मं यातयामं च सत्तमाः ॥१७८॥न च देयं गतरसं मद्यगन्धं च यद्भवेत् ।हिङ्गूग्रगन्धं फणिशं भूनिम्बं निम्बराजिके ॥१७९॥कुस्तुम्बुरुं कलिङ्गोत्थं वर्जयेदम्लवेतसम् ।दाडिमं मागधीं चैव नागरार्द्रकतित्तिडीः ॥१८०॥आम्रातकं जीवकं च तुम्बुरुं च नियोजयेत् ।पायसं शाल्लीमुद्रान्मोदकादींश्च भक्तितः ॥१८१॥पानकं च रसालं च गोक्षीरं च निवेदयेत् ।यानि चाभ्यवहार्याणि स्वादुस्निग्धानि भो द्विजाः ॥१८२॥ईषदम्लकटून्येव देयानि श्राद्धकर्मणि ।अत्यम्लं चातिलवणमतिरिक्तकटूनि च ॥१८३॥आसुराणीह भोज्यानि तान्यतो दूरतस्त्यजेत् ।मृष्टस्निग्धानि यानि स्युरीषत्कट्वम्लकानि च ॥१८४॥स्वादूनि देवभोज्यानि तानि श्राद्धे नियोजयेत् ।छागमांसं वार्तिकं च तैत्तिरं शशकामिषम् ॥१८५॥शिवालावकराजीवमांसं श्राद्धे नियोजयेत् ।वाघ्रीणसं रक्तशिवं लोहं शल्कसमन्वितम् ॥१८६॥सिंहतुण्डं च खड्गं च श्राद्धे योज्यं तथोच्यते ।यदप्युक्तं हि मनुना रोहितं प्रतियोजयेत् ॥१८७॥योक्तव्यं हव्यकव्येषु तथा न विप्रयोजयेत् ।एवमुक्तं मया विप्रा वाराहेणावलोकितम् ॥१८८॥मया निषिद्धं भुञ्जानो रौरवं नरकं व्रजेत् ।एतानि च निषिद्धानि वाराहेण तपोधनाः ॥१८९॥अभक्ष्याणि द्विजातीनां न देयानि पितृष्वपि ।रोहितं शूकरं कूर्मं गोधाहंसं च वर्जयेत् ॥१९०॥चक्रवाकं च मद्गुं च शल्कहीनांश्च मत्स्यकान् ।कुररं च निरस्थिं च वासहातं च(?)कुक्कुटान् ॥१९१॥कलविङ्कमयूरांश्च भारद्वाजांश्च शार्ङ्गकान् ।नकुलोलूकमार्जारांल्लोपानन्यान्सुदुर्ग्रहान् ॥१९२॥टिट्टिभान्सार्धजम्बूकान्व्याघ्रॠक्षतरक्षुकान् ।एतानन्यांश्च संदुष्टान्यो भक्षयति दुर्मतिः । ॥१९३॥स महापापकारी तु रौरवं नरकं व्रजेत् ।पितृष्वेतांस्तु यो दद्यात्पापात्मा गर्हितामिषान् ॥१९४॥स स्वर्गस्थानपि पितॄन्नरके पातयिष्यति ।कुसुम्भशाकं जम्बीरं सिग्रुकं कोविदारकम् ॥१९५॥पिण्याकं विप्रुषं चैव मसूरं गृञ्जनं शणम् ।कोद्रवं कोकिलाक्षं च चक्रं कम्बुकपद्मकम् ॥१९६॥चकोरश्येनमांसं च बर्तुलालबुतालिनीम् ।फलं तालतरूणां च भुक्त्या नरकमृच्छति ॥१९७॥दत्त्वा पितृषु तैः सार्धः ब्रजेत्पूयवहं नरः ।तस्मात्सर्वप्रयत्नेन नाऽऽहरेत्तु विचक्षणः ॥१९८॥निषिद्धानि वराहेण स्वयं पित्रर्थमादरात् ।वरमेवाऽऽत्ममांसस्य भक्षणं मुनयः कृतम् ॥१९९॥न त्वेव हि निषिद्धानामादानं पुंभिरादरात् ।अज्ञानाद्वा प्रमादाद्वा सकृदेतानि च द्विजाः ॥२००॥भक्षितानि निषिद्धानि प्रायश्चित्तं ततश्चरेत् ।फलमूलदधिक्षीरतक्रगोमूत्रयावकैः ॥२०१॥भोज्यान्नभोज्यसंभुक्ते प्रत्येकं दिनसप्तकम् ।एवं निषिद्धाचरणे कृते सकृदपि द्विजैः ॥२०२॥शुद्धिं नेयं शरीरं तु विष्णुभक्तैर्विशेषतः ।निषिद्धं वर्जयेद्द्रव्यं यथोक्तं च द्विजोत्तमाः ॥२०३॥समाहृत्य ततः श्राद्धं कर्तव्यं निजशक्तितः ।एवं विधानतः श्राद्धं कृत्वा स्वविभवोचितम् ॥आब्रह्यस्तम्बपर्यन्तं जगत्प्रीणाति मानव ॥२०४॥मुनय ऊचुःपिता जीवति यस्याथ मृतौ द्वौ पितरौ पितुः ।श्राद्धं हि कर्तव्यमेतद्विस्तरशो वद ॥२०५॥व्यास उवाचयस्मै दद्यात्पिता श्राद्धं तस्मै दद्यात्सुतः स्वयम् ।एवं न हीयते धर्मो लौकिको वैदिकस्तथा ॥२०६॥मुनय ऊचुःमृतः पिता जीवति च यस्य ब्रह्मन्पितामहः ।स हि श्राद्धं कथं कुर्यादेतत्त्वं वक्तुमर्हसि ॥२०७॥व्यास उवाचपितुः पिण्डं प्रदद्याच्च भोजयेच्च पितामहम् ।प्रपितामहास्य पिण्डं वैह्यं शास्त्रेषु निर्णयः ॥२०८॥मृतेषु पिण्डं दातव्यं जीवन्तं चापि भोजयेत् ।सपिण्डीकरणं नास्ति न च पार्वणमिष्यते ॥२०९॥आचारमाचरेद्यस्तु पितृमेधाश्रितं नरः ।आयुषा धनुपुत्रैश्च वर्धत्याशु न संशयः ॥२१०॥पितृमेधाध्यायमिमं श्राद्धकालेषु यः पठेत् ।तदन्नमस्य पितरोऽश्नन्ति च त्रियुगं द्विजाः ॥२११॥एवं मयोक्तः पितृमेधकल्पः, पापापहः पुण्यविवर्धनश्च ।श्रोतव्य एष प्रयतैर्नरैश्च, श्राद्धेषु चैवाप्यनुकीर्तयेत ॥२१२॥इति श्रीमहापुराणे आदिब्राह्मे व्यासर्षिसंवादे श्राद्धकल्पनिरूपणं नाम विंशत्यधिकद्विशततमोऽध्यायः ॥२२०॥ N/A References : N/A Last Updated : November 11, 2016 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP