ब्रह्मपुराणम् - अध्यायः ३३
ब्रह्मपुराणास आदिपुराण म्हणतात. यात सृष्टीची उत्पती, पृथुचे पावन चरित्र, सूर्य आणि चन्द्रवंशाचे वर्णन, श्रीकृष्ण-चरित्र, कल्पान्तजीवी मार्कण्डेय मुनि चरित्र, तीर्थांचे माहात्म्य अशा अनेक भक्तिपुरक आख्यानांची सुन्दर चर्चा केलेली आहे.
मार्तण्डमाहात्म्य-वर्णनम्
मुनय ऊचुः
भूयोऽपि कथयास्माकं कथां सूर्य्यसमाश्रिताम् ।
न तृप्तिमधिगच्छामः श्रुण्वन्तस्तां कथां शुभाम् ॥१॥
योऽयं दीप्तो महातजा वह्निराशिसमप्रभः ।
एतद्वेदितुमिच्छमाः प्रभावोऽस्य कुतः प्रभो ॥२॥
ब्रह्मोवाच
तमोभूतेषु लोकषु नष्टे स्थावरजङ्गमे ।
प्रकृतेर्गुमहेतुस्तु पूर्व्वं बुद्धिरजायत ॥३॥
अहङ्कारस्ततो जातो महाभूतप्रवर्त्तकः ।
वाय्वग्निरापः खं भूमिस्ततस्त्वण्डमजायत ॥४॥
तस्मिन्नण्डे त्विमे लोकाः सप्त चैव प्रतिष्ठताः ।
पऋतिवी सप्तभिर्द्वोपैः समुद्रैश्चैव सप्तभिः ॥५॥
तत्रैवावस्थितो ह्यासीदहं विष्णुर्महेश्वरकः ।
विमूढास्तामसाः सर्व्वे प्रध्यायन्ति तमीश्वरम् ॥६॥
ततो वै सुमहातेजाः प्रादुर्भूतस्तमोनुदः ।
ध्यानयोगेन चास्माभिर्विज्ञातं सविता तदा ॥७॥
ज्ञात्वा च परमात्मानं सर्व एव पृथक् पृथक् ।
दिव्याभिः स्तुतिभिर्देवः स्तुतोऽऽस्माभिस्तदेश्वरः ॥८॥
आदिदेवोऽसि देवानामैस्वर्य्याच्च त्वमीश्वरः ।
आदिकर्त्ताऽसि भूतानां देवदेवो दिवाकरः ॥९॥
जीवनः सर्व्वभूतानां देवगन्धर्व्वरक्षसाम् ।
मुनिकिन्नरसिद्धानां त्थैवोरगपक्षिणाम् ॥१०॥
त्वं ब्रह्मा त्वं महीदेवस्त्वं विष्णुस्त्वं प्रजापतिः ।
वायुरिन्द्रश्च सोमश्च विवश्वान्वरुणस्तथा ॥११॥
त्वं कालः सुष्टिकर्त्ता च हर्त्ता भर्त्ता तथा प्रभुः ।
सरितः सागराः शैला विद्युदिन्द्रधनूंषि च ॥१२॥
प्रलयः प्रभवश्चैव व्यक्ताव्यक्तः सनातनः ।
ईश्वरात्परतो विद्या विद्यायाः परतः शिवः ॥१३॥
शिवात्परतरो देवस्त्वमेव परमेश्वरः ।
सर्व्वतः पाणिपादान्तः सर्व्वतोक्षिशिरोमुखः ॥१४॥
सहस्रांशुः सहस्रास्यः सहस्रचरणेक्षणः ।
भूतादिर्भूर्भुवः स्वश्च महः सत्यं तपो जनः ॥१५॥
प्रदीप्तं दीपनं दिव्यं सर्वलोकप्रकाशकम् ।
दुर्निरीक्षं सुरेन्द्राणां यद्रूपं तस्य ते नमः ॥१६॥
सुरसिद्धगणैर्जुष्टं भृग्वत्रिपुलहादिभिः ।
स्तुतं परममव्यक्तं यद्रूपं तस्य ते नमः ॥१७॥
वेद्यं वेदविदां नित्यं सर्वज्ञानसमन्वितम् ।
सर्वदेवातिदेवस्य यद्रूपं तस्य ते नमः ॥१८॥
विश्वकृद्विश्वभूतं च वश्वानरसुरार्च्चितम् ।
विश्वस्थितमचिन्त्यं च यद्रूपं तस्य ते नमः ॥१९॥
परं यज्ञात् परं वेदात् परं लोकात् परं दिवः ।
परमात्मेत्यभिख्यातं यद्रूपं तस्य ते नमः ॥२०॥
अविज्ञेयमनालक्ष्यमध्यानगतमव्ययम् ।
अनादिनिधनं चैव यद्रूपं तस्य ते नमः ॥२१॥
नमो नमः कारणकारणाय, नमो नमः पापविमोचनाय ।
नमो नमस्ते दितिजार्दनाय, नमो नमो रोगविमोचनाय ॥२२॥
नमो नमः सर्व्ववरप्रदाय, नमो नमः सर्व्वसुखप्रदाय ।
नमो नमः सर्वधनप्रदाय, नमो नमः सर्व्वमतिप्रदाय ॥२३॥
स्तुतः स गवानेवं तैजसं रूपमास्थितः ।
उवाच वाचा कल्याण्या को वरो वः प्रदीयताम् ॥२४॥
देवा ऊचुः
तवातितैजसं रूपं न कश्चित्सोढुमुत्सहेत् ।
सहनीयं तद्भवतु हिताय जगतः प्रभो ॥२५॥
एवमस्त्विति सोऽप्युवत्वा भगवानादिकृत् प्रभुः ।
लोकानां कार्यसिद्ध्यर्थं धर्म्मवर्षहिमप्रदः ॥२६॥
ततः सांख्याश्च योगाश्च ये चान्ये मोक्षकाङक्षिणः ।
ध्यायन्ति ध्यायिनो देवं हृदयस्थं दिवाकरम् ॥२७॥
सर्वलक्षणहीनोऽपि युक्तो वा सर्व्वपातकैः ।
सर्व्वञ्च तरते पापं देवमर्कं समाश्रितः ॥२८॥
अग्निहोत्रञ्च वेदाश्च यज्ञाश्च बहुदक्षिणाः ।
भानोर्भक्तिनमस्कारकलां नार्हन्ति षोडशीम् ॥२९॥
तीर्थानां परमं तीर्थं मङ्गलानाञ्च मंगलम् ।
पवित्रञ्च पवित्राणाम् प्रपद्यन्ते दिवाकरम् ॥३०॥
शक्राद्यैः संस्तुतं देवं ये नमस्यन्ति भास्करम् ।
सर्वकिल्विषनिर्म्मुक्ताः सूर्य्यलोकं व्रजन्ति ते ॥३१॥
मुनय ऊचुः
चिरात्प्रभृति नो ब्रह्मन् श्रोतुमिच्छा प्रवर्त्तते ।
नाम्नामष्टशतं ब्रूहि यत्त्वयोक्तं पुरा रवेः ॥३२॥
ब्रह्मोवाच
अष्टोत्तरशतं नाम्नां श्रृणुध्वं गदतो मम ।
भास्करस्य परं गुह्यं स्वर्गमोक्षप्रदं द्विजाः ॥३३॥
ॐ सूर्योऽर्य्यमा भगस्त्वष्टा पूषाऽर्कः सविता रविः ।
गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥३४॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।
सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥३५॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैस्चरः ।
ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दोवैश्रवणो यमः ॥३६॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।
धर्म्मध्वजो वेदकर्त्ता वेदाङ्गो वेदवाहनः ॥३७॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।
कलाकाष्ठामुहूर्त्तास्च क्षपा यामास्तथा क्षणाः ॥३८॥
संवत्सरकरोश्वतथः कालचक्रो विभावसुः ।
पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥३९॥
कालाध्यक्षः प्रजाध्यक्षो विश्वकर्म्मा तमोनुदः ।
वरुणः सागरोंऽशश्च जीमूतो जीवनोऽरिहा ॥४०॥
भूताश्रयो भूतपतिः सर्व्वलोकनमस्कृतः ।
स्रष्टा संवर्त्तको वह्निः सर्व्वस्याऽऽदिरलोलुपः ॥४१॥
अनन्तः कपिलो भानुः कामदः सर्वतोमुखः ।
जयो विशालो वरदः सर्व्वभूतनिषेवितः ॥४२॥
मनः सुपर्णो भूतादिः शीघ्रगः प्राणधारणः ।
धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥४३॥
द्वादशात्मा रविर्दक्षः पिता माता पितामहः ।
स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥४४॥
देहकर्त्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।
चराचरात्मा सूक्ष्मात्मा मैत्रेयः द्विजोत्तमाः ॥४५॥
एतद्वै कीर्त्तनीयस्य सूर्य्यस्यामिततोजसः ।
नाम्नामष्टशतं रम्यं मया प्रोक्तं द्विजोत्त्माः ॥४६॥
सुरगणपितृयक्षसोवितं, ह्यसुरनिशाकरसिद्धबन्दितम् ।
वरकनकहुताशनप्रभं, प्रणिपतितोऽस्मि हिताय भास्करम् ॥४७॥
सूर्योदये यः सुसमाहितः पठेत्, स पुत्रदारान् धनरत्नसञ्चयान् ।
लभेत जातिस्मरतां नरः स तु, स्मृतिञ्च मेधाञ्च स विन्दते पराम् ॥४८॥
इमं स्तवं देववरस्य यो नरः प्रकीर्त्तयेच्छुद्धमनाः समाहितः ।
विमुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥४९॥
इति श्री आदिब्राह्मे महापुराणे स्वयंभ्वृषिसंवादे सूर्य्यनामाष्टोत्तरशतं नाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥
N/A
References : N/A
Last Updated : November 11, 2016
TOP