सेतुखण्डः - अध्याय ५२
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
भूयोऽप्यहं प्रवक्ष्यामि सेतुमुद्दिश्य वैभवम् ॥
युष्माकमादरेणाहं शृणुध्वं मुनिपुंगवाः ॥१॥
स्थानानामपि सर्वेषामेतत्स्थानं महत्तरम् ॥
अत्र जप्तं हुतं तप्तं दत्तं चाक्षय मुच्यते ॥२॥
अस्मिन्नेव महास्थाने धनुष्कोटौ निमज्जनात्॥
वाराणस्यां दशसमावासपुण्यफलं भवेत् ॥३॥
तस्मिंस्थले धनुष्कोटौ स्नात्वा रामेश्वरं शिवम् ॥
दृष्ट्वा नरो भक्तियुक्तस्त्रिदिनानि वसेद्द्विजाः ॥४॥
पुण्डरीकपुरे तेन दशवत्सरवासजम् ॥
पुण्यं भवति विप्रेंद्रा महापातकनाश नम् ॥५॥
अष्टोत्तरसहस्रं तु मंत्रमाद्यं षडक्षरम् ॥
अत्र जप्त्वा नरो भक्त्या शिवसायुज्यमाप्नुयात् ॥६॥
मध्यार्जुने कुंभकोणे मायूरे श्वेतकानने ॥
हालास्ये च गजारण्ये वेदारण्ये च नैमिषे ॥७॥
श्रीपर्वते च श्रीरंगे श्रीमद्वृद्धगिरौ तथा ॥
चिदंबरे च वल्मीके शेषाद्रावरुणाचले ॥८॥
श्रीमद्दक्षिणकैलासे वेंकटाद्रौ हरिस्थले ॥
कांचीपुरे ब्रह्मपुरे वैद्येश्वरपुरे तथा ॥९॥
अन्यत्रापि शिवस्थाने विष्णुस्थाने च सत्तमाः ॥
वर्षवासभवं पुण्यं धनुष्कोटौ नरो मुदा ॥१०॥
माघमासे यदि स्नायादाप्नोत्येव न संशयः ॥
इमं सेतुं समुद्दिश्य द्वौ समुद्राविति श्रुतिः ॥११॥
विद्यते ब्राह्मणश्रेष्ठा मातृभूता सनातनी ॥
अदो यद्दारुरित्यन्या यत्रास्ति मुनिपुंगवाः ॥१२॥
विष्णोः कर्माणि पश्यंती सेतुवैभवशंसिनी ॥
श्रुतिरस्ति तथान्यापि तद्विष्णोरिति चापरा ॥१३॥
इतिहासपुराणानि स्मृतयश्च तपोधनाः ॥
एकवाक्यतया सेतुमाहात्म्यं प्रबुवंति हि ॥१४॥
चंद्रसूर्योपरागेषु कुर्व न्सेत्ववगाहनम् ॥
अविमुक्ते दशाब्दं तु गंगास्नानफलं लभेत् ॥१५॥
कोटिजन्मकृतं पापं तत्क्षणेनैव नश्यति ॥
अश्वमेधसहस्रस्य फलमाप्नोत्य नुत्तमम् ॥१६॥
विषुवायनसंक्रांतौ शशिवारे च पर्वणि ॥
सेतुदर्शनमात्रेण सप्तजन्मार्जिताशुभम् ॥१७॥
नश्यते स्वर्गतिं चैव प्रयांति द्विजपुंगवाः ॥
मकरस्थे रवौ माघे किंचिदभ्युदिते रवौ ॥१८॥
स्नात्वा दिनत्रयं मर्त्यो धनुष्कोटौ विपातकः ॥
गंगादिसर्वतीर्थेषु स्नानपुण्यमवाप्नुयात् ॥१९॥
धनुष्कौटौ नरः कुर्यात्स्नानं पंचदिनेषु यः ॥
अश्वमेधादिपुण्यं च प्राप्नुयाद्ब्राह्मणोत्तमाः ॥२०॥
चांद्रायणादिकृच्छ्राणामनुष्ठानफलं लभेत् ॥
चतुर्णामपि वेदानां पारायणफलं तथा ॥२१॥
माघमासे दशाहःसु धनुष्कोटौ निमज्जनात् ॥
ब्रह्महत्यायुतं नश्येन्नात्र कार्या विचारणा ॥२२॥
माघमासे धनुष्कोटौ दशपंचदिनानि यः ॥
स्नानं करोति मनुजः स वैकुंठमवाप्नुयात् ॥२३॥
माघमासे रामसैतौ स्नानं विंशद्दि नं चरन् ॥
शिवसामीप्यमाप्नोति शिवेन सह मोदते ॥२४॥
पंचविंशद्दिनं स्नानं कुर्वन्सारूप्यमाप्नुयात् ॥
स्नानं त्रिंशद्दिनं कुर्वन्सायुज्यं लभते ध्रुवम् ॥२५॥
अतोऽवश्यं रामसेतौ माघमासे द्विजोत्तमाः ॥
स्नानं समाचरेद्विद्वान्किंचिदभ्युदिते रवौ ॥२६॥
चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः ॥
महोदये रामसेतौ स्नानं कुर्वन्द्विजोत्तमाः ॥२७॥
अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति॥
ब्रह्महत्यादिपापानां नाशकं च प्रकीर्तितम् ॥२८॥
सर्वेषां नरकाणां च बाधकं परिकीर्तितम् ॥
संपदामपि सर्वासां निदानं परिकीर्तितम् ॥२९॥
इन्द्रादिसर्वलोकानां सालोक्यादिप्रदं तथा ॥
चंद्रसूर्योपरागे च तथैवार्द्धोदये द्विजाः ॥३०॥
महोदये धनुष्कोटौ मज्जनं त्वतिनिश्चितम् ॥
रावणस्य विनाशार्थं पुरा रामेण निर्मि तम् ॥३१॥
सिद्धचारणगंधर्वकिन्नरोरगसेवितम् ॥
ब्रह्मदेवर्षिराजर्षिपितृसंघनिषेवितम् ॥३२॥
ब्रह्मादिदेवतावृंदैस्सेवितं भक्तिपूर्वकम् ॥
पुण्यं यो रामसेतुं वै संस्मरन्पुरुषो द्विजाः ॥३३॥
स्नायाच्च यत्र कुत्रापि तटाकादौ जलाशये ॥
न तस्य दुष्कृतं किंचिद्भविष्यति कदाचन ॥३४॥
सेतुमध्यस्थतीर्थेषु मुष्टिमात्रप्रदानतः ॥
नश्यंति सकला रोगा भ्रूणहत्यादयस्तथा ॥३५॥
रामेण धनुषः पुण्यां यो रेखां पश्यते कृताम् ॥
न तस्य पुनरावृत्तिर्वैकुंठात्स्यात्कदाचन ॥३६॥
धनुष्कोटिरिति ख्याता या लोके पापनाशिनी ॥
विभीषणप्रार्थनया कृता रामेण धीमता ॥३७॥
धनुष्कोटिर्महापुण्या तस्यां स्नात्वा सभक्तिकम् ॥
दद्याद्दानानि वित्तानां क्षेत्राणां च गवां तथा ॥३८॥
तिलानां तंडुलानां च धान्यानां पयसां तथा ॥
वस्त्राणां भूषणानां च माषाणामोदनस्य च॥३९॥
दध्नां घृतानां वारीणां शाकानामप्युदश्विताम् ॥
शुद्धानां शर्कराणां च सस्यानां मधुनां तथा ॥४०॥
मोदकानामपूपानामन्येषां दानमेवच ॥
रामसेतौ द्विजाः प्रोक्तं सर्वाभीष्टप्रदायकम् ॥४१॥
अतो दद्याद्रामसेतौ वित्तलोभ विवर्जितः ॥
दत्तं हुतं च तप्तं च जपश्च नियमादिकम् ॥४२॥
श्रीरामधनुषः कोटावनंतफलदं भवेत् ॥
तेन वेदाश्च तुष्यंति तुष्यंति पितरस्तथा ॥४३॥
तुष्यंति मुनयः सर्वे ब्रह्माविष्णुः शिवस्तथा ॥
नागाः किंपुरुषा यक्षाः सर्वे तुष्यंति निश्चितम् ॥४४॥
स्वयं च पूतो भवति धनुष्कोट्यवलो कनात्॥
स्ववंशजान्नरान्सर्वान्पावयेच्च पितामहान् ॥४५॥
तारयेच्च कुलं सर्वं धनुष्कोट्यवलोकनात् ॥
रामस्य धनुषः कोट्या कृतरेवावगाहनात् ॥४६॥
पंचपातककोटीनां नाशः स्यात्तत्क्षणे ध्रुवम् ॥
श्रीरामधनुषः कोट्या रेखां यः पश्यते कृताम् ॥४७॥
अनेकक्लेशसंपूर्णं गर्भवासं न पश्यति ॥
यत्र सीताऽनलं प्राप्ता तस्मिन्कुंडे निमज्जनात् ॥४८॥
भ्रूणहत्याशतं विप्रा नश्यति क्षणमात्रतः ॥
यथा रामस्तथा सेतुर्यथा गंगा तथा हरिः ॥४९॥
गंगे हरे रामसेतो त्विति संकीर्तयन्नरः ॥
यत्र क्वापि बहिः स्नायात्तेन याति परां गतिम् ॥५०॥
सेतावर्धोदये स्नात्वा गन्धमादनपर्वते ॥
पितॄनुद्दिश्य यः पिंडान्दद्यात्सर्षपमात्रकान् ॥५१॥
पितरस्तृप्तिमायांति यावच्चंद्रदिवाकरौ ॥
शमीपत्रप्रमाणं तु पितॄनुद्दिश्य भक्तितः ॥५२॥
द्विजेन पिण्डं दत्तं चेत्सर्वपापविमोचितः ॥
स्वर्गस्थो मुक्तिमायाति नरकस्थो दिवं व्रजेत् ॥५३॥
सेतौ च पद्मनाभे च गोकर्णे पुरुषोत्तमे ॥
उदन्वदंभसि स्नानं सार्वकालिकमीप्सितम् ॥५४॥
शुक्रांगारकसौरीणां वारेषु लवणांभसि ॥
संतानकामी न स्नाया त्सेतोरन्यत्र कर्हिचित् ॥५५॥
अकृतप्रेतकार्यो वा गर्भिणीपतिरेव वा ॥
न स्नायादुदधौ विद्वान्सेतोरन्यत्र कर्हिचित् ॥५६॥
न कालापेक्षणं सेतोर्नित्यस्नानं प्रशस्यते ॥
वारतिथ्यृक्षनियमाः सेतोरन्यत्र हि द्विजाः ॥५७॥
उद्दिश्य जीवतः स्नायान्न तु स्नायान्मृतान्प्रति ॥
कुशैः प्रतिकृतिं कृत्वा स्नापयेत्तीर्थवारिभिः ॥५८॥
इमं मंत्रं समुच्चार्य प्रसन्नेंद्रियमानसः ॥
कुशोऽसि त्वं पवित्रोऽसि विष्णुना विधृतः पुरा ॥५९॥
त्वयि स्नाते स च स्नातो यस्यैतद्ग्रंधिवन्धनम् ॥
सर्वत्र सागरः पुण्यः सदा पर्वणि पर्वणि ॥६०॥
सेतौ सिन्ध्वब्धिसंयोगे गंगासागर संगमे ॥
नित्यस्नानं हि निर्दिष्टं गोकर्णे पुरुषोत्तमे ॥६१॥
नापर्वणि सरिन्नाथं स्पृशेदन्यत्र कर्हिचित् ॥
पितॄणां सर्वदेवानां मुनीनामपि शृण्वताम् ॥६२॥
प्रतिज्ञामकरोद्रामः सीतालक्ष्मणसंयुतः ॥
मया ह्यत्र कृते सेतौ स्नानं कुर्वंति ये नराः ॥६३॥
मत्प्रसादेन ते सर्वे यास्यंति पुनर्भवम् ॥
नश्यंति सर्वपापानि मत्सेतोरवलोकनात् ॥६४॥
रामनाथस्य माहात्म्यं मत्सेतोरपि वैभवम् ॥
नाहं वर्णयितुं शक्तो वर्षकोटिशतैरपि ॥६५॥
इति रामस्य वचनं श्रुत्वा देवमहर्षयः ॥
साधुसाध्विति संतुष्टाः प्रशशंसुश्च तद्वचः ॥६६॥
सेतुमध्ये चतुर्वक्त्रः सर्वदेवसमन्वितः ॥
अध्यास्ते तस्य रक्षार्थमीश्वरस्याज्ञया सदा ॥६७॥
रक्षार्थं रामसेतौ हि सेतुमाधवसंज्ञया ॥
महाविष्णुः समध्यास्ते निबद्धो निगडेन वै ॥६८॥
महर्षयश्च पितरो धर्मशास्त्रप्रवर्तकाः ॥
देवाश्च सहगन्धर्वाः सकिन्नरमहोरगाः ॥६९॥
विद्याधराश्चारणाश्च यक्षाः किंपुरुषास्तथा ॥
अन्यानि सर्वभूताति वसंत्यस्मिन्नहर्निशम् ॥७०॥
सोऽहं दृष्टः श्रुतो वापि स्मृतः स्पृष्टोऽवगाहितः ॥
सर्वस्माद्दुरिता त्पाति रामसेतुर्द्विजोत्तमाः ॥७१॥
सेतावर्धोदये स्नानमानंदप्राप्तिकारणम् ॥
मुक्तिप्रदं महापुण्यं महानरकनाशनम् ॥७२॥
पौषे मासे विष्णुभस्थे दिनेशे भानोर्वारे किंचिदुद्यद्दिनेशे ॥
युक्ताऽमा चेन्नागहीना तु पाते विष्णोर्ऋक्षे पुण्यमर्धोदयं स्यात् ॥७३॥
तस्मिन्नर्धोदये सेतौ स्नानं सायुज्यकारणम्॥
व्यतीपातसहस्रेण दर्शमेकं समं स्मृतम् ॥७४॥
दर्शायुतसमं पुण्यं भानुवारो भवेद्यदि ॥
श्रवणर्क्ष यदि भवे द्भानुवारेण संयुतम् ॥७५॥
पुण्यमेव तु विज्ञेयमन्योन्यस्यैव योगतः ॥
एकैकमप्यमृतदं स्नानदानजपार्चनात् ॥७६॥
पंचस्वपि च युक्तेषु किमु वक्तव्यमत्र हि ॥
श्रवणं ज्योतिषां श्रेष्ठममा श्रेष्ठा तिथिष्वपि ॥७७॥
व्यतीपात तु योगानां वारं वारेषु वै रवेः ॥
चतुर्णामपि यो योगो मकरस्थे रवौ भवेत्॥ ७८॥
तस्मिन्काले रामसेतौ यदि स्नायात्तु मानवः ॥
गर्भं न मातुराप्नोति किन्तु सायुज्यमाप्नुयात् ॥७९॥
अर्धोदयसमः कालो न भूतो न भविष्यति ॥
एवं महोदयः कालो धर्मकालः प्रकीर्तितः ॥८०॥
एतेषु पुण्यकालेषु सेतौ दानं प्रकीर्तितम् ॥
आचारश्च तपो वेदो वेदांतश्रवणं तथा ॥८१॥
शिवविष्ण्वादिपूजापि पुराणार्थप्रवक्तृता ॥
यस्मिन्विप्रे तु विद्यंते दानपात्रं तदुच्यते ॥८२॥
पात्राय तस्मै दानानि सेतौ दद्याद्द्विजातये ॥
यदि पात्रं न लभ्येत सेतावाचारसंयुतम् ॥८३॥
संकल्प्योद्दिश्य सत्पात्रं प्रदद्याद्ग्राममागतः ॥
अतो नाधमपात्राय दातव्यं फलकांक्षिभिः ॥
उत्तमं सेतुमाहात्म्यं वक्तुर्देयं न चान्यतः ॥८४॥
अत्रेतिहासं वक्ष्यामि वसिष्ठोक्तमनुत्तमम् ॥
दिलीपाय महाराज्ञे दानपात्रवि वित्सवे ॥८५॥
॥ दिलीप उवाच ॥
दानानि कस्मै देयानि ब्रह्मपुत्र पुरोहित ॥
एतन्मे तत्त्वतो ब्रूहि त्वच्छिष्यस्य महामुने ॥८६॥
॥ वसिष्ठ उवाच ॥
पात्राणामुत्तमं पात्रं वेदाचारपरायणम् ॥
तस्मादप्यधिकं पात्रं शूद्रान्नं यस्य नोदरे ॥८७॥
वेदाः पुराणमंत्राश्च शिवविष्ण्वादिपूजनम् ॥
वर्णाश्रमाद्यनुष्ठानं वर्तते यस्य संततम् ॥८८॥
दरिद्रश्च कुटुंबी च तत्पात्रं श्रेष्ठमुच्यते ॥
तस्मिन्पात्रे प्रदत्तं वै धर्म कामार्थमोक्षदम् ॥८९॥
पुण्यस्थले विशेषेण दानं सत्पात्रगर्हितम् ॥
अन्यथा दशजन्मानि कृकलासो भविष्यति ॥९०॥
जन्मत्रयं रासभः स्यान्मंडूकश्च द्विजन्मनि ॥
एकजन्मनि चाण्डालस्ततः शूद्रो भविष्यति ॥९१॥
ततश्च क्षत्रियो वैश्यः क्रमाद्विप्रश्च जायते ॥
दरिद्रश्च भवेत्तत्र बहुरोगसमन्वितः ॥९२॥
एवं बहुविधा दोषा दुष्टपात्रप्रदानतः ॥
तस्मात्सर्वप्रयत्नेन सत्पात्रेषु प्रदापयेत् ॥९३॥
न लभ्यते चेत्तत्पात्रं तदा संकल्पपूर्वकम् ॥
एकं सत्पात्रमुद्दिश्य प्रक्षिपेदुदकं भुवि ॥९४॥
उद्दिष्टपात्रस्य मृतौ तत्पुत्राय समर्पयेत् ॥
तस्यापि मरणे प्राप्ते महादेवे समर्प येत्॥
अतोनाधमपात्राय दद्यात्तीर्थे विशेषतः ॥९५॥
॥ श्रीसूत उवाच ॥
एवमुक्तो वसिष्ठेन दिलीपः स द्विजोत्तमाः ॥९६॥
तदा प्रभृति सत्पात्रे प्रायच्छद्दानमुत्तमम् ॥
अतः पुण्यस्थले सेतावत्रापि मुनिपुंगवाः ॥९७॥
यदि लभ्येत सत्पात्रं तदा दद्याद्धनादिकम् ॥
नो चेत्संकल्पपूर्वं तु विशिष्टं पात्रमुत्तमम्॥ ९८॥
समुद्दिश्य जलं भूमौ प्रक्षिपेद्भक्तिसंयुतः ॥
स्वग्राममागतः पश्चात्तस्मिन्पात्रे समर्पयेत् ॥९९॥
पूर्वंसंकल्पितं वित्तं धर्मलोपोऽन्यथा भवेत् ॥
न दुःखं पुनराप्नोति किं तु सायुज्यमाप्नुयात् ॥१००॥
अर्धोदयसमः कालो न भूतो न भवि ष्यति ॥
कुम्भकोणं सेतुमूलं गोकर्णं नैमिषे तथा ॥१॥
अयोध्या दंडकारण्यं विरूपाक्षं च वेंकटम् ॥
शालिग्रामं प्रयागं च कांची द्वारावती तथा ॥२॥
मधुरा पद्मनाभं च काशी विश्वेश्वरालया ॥
नद्यः सर्वाः समुद्राश्च पर्वतं भास्करं स्मृतम् ॥३॥
मुंडनं चोपवासश्च क्षेत्रेष्वेषु प्रकीर्तितम् ॥
लोभान्मोहादकृत्वा यः स्वगृहं याति मानवः ॥४॥
सहैव यांति तद्गेहे पातकानि च तेन वै ॥
चतुर्विंशतितीर्थानि पर्वते गन्ध मादने ॥५॥
तत्र लक्ष्मणतीर्थे तु वपनं मुनिभिः स्मृतम् ॥
तीरे लक्ष्मणतीर्थस्य लोमवर्ज्यं शिवाज्ञया ॥६॥
शिरोमात्रस्य वपनं कृत्वा दत्त्वा च दक्षिणाम् ॥
स्नात्वा लक्ष्मणतीर्थे च दृष्ट्वा लक्ष्मणशंकरम् ॥७॥
सर्वपापविनिर्मुक्तः शंकरं याति मानवः ॥
अर्धोदये सदा स्नानं सेतावेवं समाचरेत् ॥८॥
नास्ति सेतुसमं तीर्थं नास्ति सेतुसमं तपः ॥
नास्ति सेतुसमं पुण्यं नास्ति सेतुसमा गतिः ॥९॥
उपरागसहस्रेण सममर्धोददयं स्मृतम् ॥
अर्धोदयसमः कालो नास्ति संसारमोचकः ॥११०॥
तस्मिन्नर्धोदये रामसेतौ स्नानं तु यद्भवेत् ॥
न तत्तुल्यं भवेत्पुण्यं सर्वशास्त्रेषु सर्वदा ॥११॥
षष्टिवर्षसहस्राणि भागीरथ्यवगाहनात् ॥
यत्पुण्यमृषिनिर्दिष्टं तत्पुण्यं मुनिपुंगवाः ॥१२॥
एकवारं रामसेतौ स्नानात्सिध्यति निश्चितम् ॥
अर्द्धोदये विशेषेण तथैव च महोदये ॥१३॥
मकरस्थे रवौ माघे प्रयागे पापमोचने ॥
माघस्नानसहस्रेण यत्पुण्यं लभते नरः ॥१४॥
तस्मिन्नर्धोदये विप्रा रामसेतौ निमज्जनात् ॥
एकवारेण तत्पुण्यं लभते नात्र संशयः ॥१५॥
त्रैलोक्यस्थेषु तीर्थेषु स्नातानां यत्फलं भवेत् ॥
सकृदर्द्धोदये सेतौ स्नात्वा तत्पुण्यभाग्भवेत् ॥१६॥
ब्रह्मज्ञानविहीनानां कृतघ्नानां दुरा त्मनाम् ॥
पापिनामितरेषां च महापातकिनां तथा ॥१७॥
सेतावर्द्धोदये स्नानाद्विशुद्धिरिति निश्चिता ॥
स्थलांतरे कृतघ्नानां निष्कृतिर्नास्ति कर्हिचित् ॥१८॥
सेतावर्धोदये स्नानात्तेषामपि हि निष्कृतिः ॥
सेतावर्द्धोदये स्नानं ये न कुर्वंति मोहतः ॥१९॥
संसारेषु निमज्जंति ते यथांधाः पतंत्यधः ॥
सेतावर्धोदये स्नात्वा भित्त्वा भास्करमण्डलम् ॥१२०॥
ब्रह्मलोकं प्रयास्यंति नात्र कार्या विचारणा ॥
अर्द्धोदये तु संप्राप्ते स्नात्वा सेतौ विमुक्तिदे ॥२१॥
स्नात्वा सम्यग्जगन्नाथं राघवं सीतया सह ॥
रामेश्वरं महादेवं सुग्रीवादिमुखान्कपीन् ॥२२॥
ध्यात्वा देवानृषींश्चापि तथा पितृगणानपि ॥
तर्पयेदपि तान्सर्वान्स्वदारिद्र्यविमुक्तये ॥२३॥
अर्द्धोदयाख्यममलं जगन्नाथं समर्चयेत् ॥
सेतावर्द्धोदये काले तेन प्रीणाति केशवः ॥२४॥
दिवाकर नमस्तेऽस्तु तेजोराशे जगत्पते ॥
अत्रिगोत्रसमुत्पन्न लक्ष्मी देव्याः सहोदर ॥२५॥
अर्घं गृहाण भगवन्सुधाकुम्भ नमोस्तु ते ॥
व्यतीपातमहायोगिन्महापातकनाशन ॥२६॥
सहस्रबाहो सर्वात्म न्गृहाणार्घ्यं नमोऽस्तु ते ॥
तिथिनक्षत्रवाराणामधीश परमेश्वर ॥२७॥
मासरूप गृहणार्घ्यं कालरूप नमोऽस्तु ते ॥
इति दत्त्वा पृथङ्मंत्रैरर्घ्यमर्द्धोदये नरः ॥२८॥
उपायनानि विप्रेभ्यो दद्याद्वित्तानुसारतः ॥
चतुर्दश द्वादशाष्टौ सप्त षट् पंच वा द्विजान् ॥२९॥
यथाशक्त्यन्नपानाद्यैः पृथङ्मंत्रैः समर्चयेत् ॥
कांस्यपात्रं समादाय नूतनं दारवं तु वा ॥१३०॥
विप्राणां पुरतः स्थाप्य पयसा परिपूरितम् ॥
सफलं सगुडं साज्यं सतांबूलं सदक्षिणम् ॥३१॥
दद्याद्यज्ञोपवीतं च गां सवत्सां पयस्विनीम् ॥
अलंकृतेभ्यो विप्रेभ्यो यथाशक्ति वदेदिदम् ॥३२॥
श्रवणर्क्षे जग न्नाथ जन्मर्क्षे तव केशव ॥
यन्मया दत्तमर्थिभ्यस्तदक्षयमिहास्तु मे ॥३३॥
नक्षत्राणामधिपते देवानाममृतप्रद ॥
त्राहि मां रौहिणीकांत कला शेषनमोऽस्तु ते ॥३४॥
दीननाथ जगन्नाथ कलानाथ कृपाकर ॥
त्वत्पादपद्मयुगलभक्तिरस्त्वचला मम ॥३५॥
व्यतीपात नमस्तेऽस्तु सोम सूर्योग्निसंनिभ ॥
यद्दानादिकृतं किचित्तदक्षयमिहास्तु ते ॥३६॥
अर्थिनां कल्पवृक्षोऽसि वासुदेव जनार्दन ॥
मासर्त्वयनकालेश पापं शमय मे हरे ॥३७॥
इत्यर्चयित्वा विप्रेंद्रास्ततः श्राद्धं समाचरेत् ॥
हिरण्यश्राद्धमामं वा पाकश्राद्धमथापि वा ॥३८॥
पार्वणं च ततः कुर्याद्वित्त शाठयं न कारयेत् ॥
आचार्यं पूजयेत्पश्चाद्वस्त्रभूषणकुण्डलैः ॥३९॥
प्रतिमामर्पयेत्तस्मै गां च छत्रमुपानहम् ॥
एवमर्द्धोदये सेतौ व्रतं कुर्याद्द्वि जोत्तमाः ॥१४०॥
तेनैव कृतकृत्यः स्यात्कर्तव्यं नास्ति किंचन ॥
स्थलांतरेऽप्येवमेतद्व्रतमर्धोदये चरेत् ॥४१॥
सेतुः समुद्रे रामेण निर्मितो गन्धमादने ॥
सेतुः सेतुरिति प्राज्ञास्तस्य नात्र प्रकीर्तनात् ॥४२॥
स्नानकाले मनुष्याणां पातकानां तु कोटयः ॥
तत्क्षणादेव नश्यंति यास्यंत्यप्यत्युतं पदम् ॥४३॥
निमिषं निमिषार्द्धं वा सेतौ तिष्ठति यो नरः ॥
तद्दृष्टिगोचरं गंतुं न शक्ता यमकिंकराः ॥४४॥
रामसेतुं धनु ष्कोटिं रामं सीतां च लक्ष्मणम् ॥
रामनाथं हनूमंतं सुग्रीवादिमुखान्कपीन् ॥४५॥
विभीषणं नारदं च विश्वामित्रं घटोद्भवम् ॥
वसिष्ठं वामदेवं च जाबालिमथ काश्यपम् ॥४६॥
रामभक्तास्तथा चान्यांश्चिंतयन्मनसा तदा ॥
सर्वदुःखाद्विमुच्येत प्रयाति परमं पदम् ॥४७॥
सत्य क्षेत्रे हरिक्षेत्रे कृष्णक्षेत्रे च नैमिषे ॥
शालग्रामे बदर्य्यां च हस्तिशैले वृषाचले ॥४८॥
शेषाद्रौ चित्रकूटे च लक्ष्मीक्षेत्रे कुरंगके ॥
कांचिके कुम्भकोणे च मोहिनीपुर एव च ॥४९॥
ऐन्द्रे श्वेताचले पुण्ये पद्मनाभे महास्थले ॥
फुल्लाख्ये घटिकाद्रौ च सारक्षेत्रे हरि स्थले ॥१५०॥
श्रीनिवासे महाक्षेत्रे भक्तनाथमहास्थले ॥
अलिंदाख्ये महाक्षेत्रे शुकक्षेत्रे च वारुणे ॥५१॥
मधुरायां हरिक्षेत्रे श्रीगोष्ठ्यां पुरुषोत्तमे ॥
श्रीरंगे पुण्डरीकाक्षे तथान्यत्र हरिस्थले ॥५२॥
स्नानेन यानि पापानि विनश्यन्ति द्विजोत्तमाः ॥
तानि सर्वाणि नश्यंति सेतुस्नानेन निश्चितम् ॥५३॥
रघुनाथकृते सेतौ महामुनिनिषेविते ॥
न स्नांति ये नरास्तेषां न संसारनिवर्तनम् ॥ ॥५४॥
ये वा नमः शिवायेति मन्त्रं पञ्चाक्षरं शुभम् ॥
न वदन्ति न शृण्वन्ति न स्मरन्ति मुनीश्वराः ॥५५॥
नमो नाराय णायेति प्रणवेन समन्वितम् ॥
मंत्रमष्टाक्षरं वापि न जपंति स्मरंति वा ॥५६॥
एवं श्रीरामचंद्रस्य षडक्षरमनु तथा ॥
न जपंति न शृण्वंति न स्मरंति च सत्तमाः ॥५७॥
तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ॥
उपोषणं न कुर्वंति ये वा हरिदिने शुभे ॥५८॥
न धारयंति ये भस्म त्रिपुंड्रोद्धूलनादिना ॥
जाबालोपनिषन्मंत्रैस्सप्तभिर्मस्तकादिके ॥५९॥
शिवं वा केशवं वापि तथान्यानपि वै सुरान् ।
न पूजयंति वेदोक्त मार्गेण द्विजपुंगवाः ॥१६०॥
तेषां पापानि नश्यंति रामसेतौ निम्जनात् ॥
शिवविष्ण्वादिदेवेभ्यो धूपं दीपं च चंदनम् ॥६१॥
पुष्पाणि न प्र यच्छंति भक्तिपूर्वं द्विजोत्तमाः ॥
शिवविष्ण्वादिदेवानां श्रीरुद्रैश्चमकैस्तथा ॥६२॥
श्रीमत्पुरुषसूक्तेन पावमायादि सूक्तकैः ॥
त्रिमधु त्रिसुपर्णैश्च पंच शांत्यादिना तथा ॥६३॥
नाभिषेकं प्रकुर्वंति ये नराः पापचेतसः ॥
तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥६४॥
शिवविष्ण्वादि देवानां नमस्कारप्रदक्षिणे ॥
न प्रकुर्वंति भक्त्या ये पापोपहतबुद्धयः ॥६५॥
धनुर्मासेऽप्युषःकाले न पूजां च प्रकुर्वते ॥
शिवविष्ण्वादिदेवानां महानैवेद्यपूर्वकम् ॥६६॥
तेषां पापानि नश्यंति रामसेतौ निमज्जनात् ॥
कीर्तयंति न ये विष्णोर्नामानि तु हरस्य वा ॥६७॥
शालिग्रामशिला चक्रं शिवनाभं च ये नराः ॥
न पूजयंति मोहेन द्वारकाचक्रमेव वा ॥६८॥
गंगामृदं च तुलसीमृत्तिकां गोपिचंदनम् ॥
न धारयंति ये मूढा ललाटे चोरसि द्विजाः ॥६९॥
दोर्द्वंद्वे च गले सम्यक्सर्वपापौघशांतये ॥
रुद्राक्षं तुलसीकाष्ठं यो न धारयते नरः ॥१७०॥
तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
ब्राह्मे मुहूर्ते संप्राप्ते निद्रां त्यक्त्वा प्रसन्नधीः ॥७१॥
हरिशंकरनामानि तत्स्तोत्राण्यथ वा द्विजाः ॥
यो हि चिंतयते नित्यं विशिष्टं मंत्रमेव वा ॥७२॥
तस्य पापानि नश्यंति धनुष्कोटौ निमज्जनात्॥
प्रातर्जलाशये गत्वा स्नात्वाऽऽचम्य विशुद्धधीः ॥७३॥
प्रसन्नात्मा मुनिश्रेष्ठाः संध्योपासनपूर्वकम् ॥
नोपास्ते च नरो यस्तु गायत्रीं वेदमातरम् ॥७४॥
नौपासनं वा कुर्वंति सायंप्रातरतंद्रिताः ॥
माध्याह्निकं न कुर्वंति ये वा पापहताशयाः ॥७५॥
ब्रह्मयज्ञं वैश्वदेवं मध्याह्नेऽतिथिपूजनम् ॥
नाचरंति च सायं ये पूजामतिथिसंमताम् ॥७६॥
तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
भिक्षां यतीनां मध्याह्ने न प्रयच्छंति ये नराः ॥७७॥
येऽप्यधीतां त्रयीं विप्रा विस्मरंति कुबुद्धयः ॥
नाधीयते त्रयीं वापि वेदांगानि तथा पुनः ॥७८॥
प्रत्याब्दिकं मातृपित्रोः श्राद्धं ये नाचरंति वै ॥
श्राद्धं महालयं नित्यमष्टकाश्राद्ध मेव वा ॥७९॥
अन्यन्नैमित्तिकं श्राद्धं ये न कुर्वंति लोभतः ॥
ये चैत्रे तु पौर्णमास्यां चित्रगुप्तस्य तुष्टये ॥१८०॥
पानकं कदलीपक्वं पायसान्नं सशर्करम् ॥
सगुडं साम्रफलकं पनसादिफलैर्युतम् ॥८१॥
तांबूलं पादुके छत्रं वस्त्रपुष्पाणि चंदनम् ॥
विप्रेभ्यो न प्रयच्छंति लोभोपहतबुद्धयः॥ ८२॥
तेषां पापानि नश्यंति धनुष्कोटौ निमज्जनात् ॥
दुर्वृत्तो वा सुवृत्तो वा यो धनुष्कोटिसेवकः ॥८३॥
तस्य संसारविच्छित्तिः पुन र्जन्म विना भवेत् ॥
संसारसागरं तर्तुं य इच्छेन्मुनिपुंगवाः ॥८४॥
रामचन्द्रधनुष्कोटिं स गच्छेदविलंबितम् ॥
सत्यं वच्मि हितं वच्मि सारं वच्मि हितं पुनः ॥८५॥
रामचन्द्रधनुष्कोटिं गच्छध्वं मुक्तिसिद्धये ॥
रामचन्द्रधनुष्कोटौ कुर्यात्स्नानं विमुक्तये ॥८६॥
नास्त्युपायांतरं विप्रा भूयोभूयो वदाम्यहम् ॥
रामचंद्रधनुष्कोटौ स्नानं कुर्वंति ये नराः ॥८७॥
तेषामयत्नतः सिध्येत्संसारभय नाशनम् ॥
सत्यं ज्ञानमनंतं यत्पूर्णं ब्रह्म सनातनम् ॥८८॥
तत्प्राप्तिः स्याद्धनुष्कोटौ मज्जनान्नात्र संशयः ॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्राः सेतुमाहात्म्यमुत्तमम् ॥८९॥
महादुःखप्रशमनं महारोगनिबर्हणम् ॥
दुःस्वप्ननाशनं पुण्यमपमृ त्युनिवारणम् ]।१९०॥
महाशांतिकरं पुंसां पठतां शृण्वतामपि ॥
स्वर्गापवर्गदं पुण्यं सर्वतीर्थफलप्रदम् ॥९१॥
कीर्तयेद्य इदं पुण्यं शृणु याद्वा समाहितः ॥
सोऽग्निष्टोमादियज्ञानां फलमाप्नोति पुष्कलम् ॥९२॥
चतुर्णां सांगवेदानां शतावृत्या तु यत्फलम् ॥
तत्फलं समवाप्नोति ह्येतन्माहात्म्यकीर्तनात् ॥९३॥
अत्रैकाध्यायपठनाच्छ्रवणाद्वा मुनीश्वराः ॥
अश्वमेधस्य यज्ञस्य प्राप्नोत्यविकलं फलम् ॥९४॥
अध्यायद्वयपाठेन श्रवणेन तथैव च ॥
गोमेधाख्यस्य यज्ञस्य फलमाप्नोत्यनुत्तमम् ॥९५॥
दशाध्यायान्पठेद्यस्तु शृणुयाद्वा सभक्तिकम् ॥
स्वर्गलोकमवाप्नोति शक्रेण सह मोदते ॥९६॥
विंशत्यध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ॥
ब्रह्मलोकमवाप्नोति ब्रह्मणा सह मोदते ॥९७॥
त्रिंशदध्यायपठनाच्छ्रवणाच्च मुनीश्वराः ॥
विष्णुलोकमवाप्नोति विष्णुना सह मोदते ॥९८॥
चत्वारिंशत्तमाध्यायान्पठेद्वा शृषुयादपि ॥
रुद्रलोकमवाप्नोति रुद्रेण सह मोदते ॥९९॥
यः पंचाशत्तमाध्यायान्पठते शृणुतेऽपि वा ॥
स सांबं हरमाप्नोति शिवं चन्द्रार्धशेखरम् ॥२००॥
यः पठेच्छ्रणुयाच्चेदं कृत्स्नं माहात्म्यमुत्तमम् ॥
स सांबशिवसालोक्यमाप्नोत्येव न संशयः ॥१॥
यः पठेच्छ्रणुयाच्चेदं द्विवारं मुनिसतमाः ॥
स याति शिवसामीप्यं विमानवरसंस्थितः ॥२॥
यस्त्रिवारं पठेदेतच्छृणुयाद्वा समाहितः ॥
शिवसारूप्यमाप्नोति शिवस्य प्रीतिमावहन् ॥३॥
चतुर्वारं पठेद्यस्तु शृणुयाद्वेदमुत्तमम् ॥
स सायुज्यमवाप्नोति शिवस्य गिरिजापतेः ॥४॥
दिनेदिने पठेन्मर्त्यः श्लोकं श्लोकार्धमेव वा ॥
पादं वा पादमात्रं वा अक्षरं वर्णमेव वा ॥५॥
तत्तद्दिनकृतं पापं तत्क्षणादेव नश्यति ॥
कृत्स्नेऽस्मिन्सेतुमाहात्म्ये पठितेऽपि श्रुतेऽपि वा ॥६॥
श्लोकेष्वत्रैव वर्तंते वर्णा यावंत एव हि ॥
तावत्यो ब्रह्महत्याश्च तावन्मद्यनिषेवणम् ॥७॥
तावत्सुवर्णस्तेयं च तावान्गुर्वंगनागमः ॥
तावत्संसर्गदोषाश्च नश्यंत्येवं हि तत्क्षणात् ॥८॥
यावतोऽस्मिन्महापुण्ये वर्तंते वर्णराशयः ॥
तावत्कृत्वश्चतुर्विंशत्तीर्थेषु स्नानजं फलम् ॥९॥
तथान्येष्वपि तीर्थेषु सेतुमध्यगतेषु वै ॥
तत्फलं समवाप्नोति पाठेन श्रवणेन वा ॥२१०॥
येनेदं लिखितं भक्त्या सेतुमाहात्म्यमुत्तमम् ॥
विनष्टाज्ञानसंतानः शिवसायुज्यमाप्नुयात् ॥११॥
यस्येदं वर्तते गेहे माहात्म्यं लिखितं शुभम् ॥
भूतवेतालकादिभ्यो भीतिस्तत्र न विद्यते ॥१२॥
व्याधिपीडा न तत्रास्ति नास्ति चोरभयंतथा ॥
शन्यंगारकमुख्यानां ग्रहाणां नास्ति पीडनम् ॥१३॥
यद्गृहे वर्तते पुण्यमिदं माहा त्म्यमुत्तमम् ॥
रामसेतुं विजानीत तद्गृहं मुनिपुंगवाः ॥१४॥
चतुर्विंशति तीर्थानि तत्रैव निवसंति हि ॥
तत्रैव वर्तते पुण्यो गन्धमादनपर्वतः ॥१५॥
ब्रह्मविष्णुमहेशाश्च वर्तंते तत्र सादरम् ॥
लिखित्वा सेतुमाहात्म्यं ब्राह्मणाय निवेदयेत् ॥
चतुःसागरपर्यंता तेन दत्ता वसुंधरा ॥१६॥
॥ सेतुमाहात्म्यदानमन्त्रः ॥
सेतुमाहात्म्यदानस्य कला नार्हंति षोडशीम् ॥
दानान्यन्यानि सर्वाणि ह्यतः शान्तिं प्रयच्छ मे ॥
किं पुनर्बहु नोक्तेन वसत्यत्र जगत्त्रयम् ॥१७॥
श्रावयेच्छ्राद्धकाले यो ह्येकमध्यायमत्र वै ॥
नश्येच्छ्राद्धस्य वैकल्यं पितरोऽप्यतिहर्षिताः ॥१८॥
यः पर्वकाले संप्राप्ते ब्राह्मणाञ्छ्रावयेदिदम् ॥
अध्यायमेकं श्लोकं वा गावोस्य निरुपद्रवाः ॥
बहुक्षीरा सवत्साश्च महिष्योऽस्य भवंति हि ॥१९॥
पठनीयमिदं पुण्यं मठे देवालयेऽपि वा ॥
नदीतटाकतीरेषु पुण्ये वारण्यभूतले ॥
श्रोत्रियाणां गृहे वापि नैवान्यत्र तु कर्हिचित् ॥२२०॥
विषुवायन कालेषु पुण्ये च हरिवासरे ॥
अष्टम्यां च चतुर्दश्यां पठनीयं विशेषतः ॥२१॥
इदं हि पाठ्यं श्रावण्यां मासि भाद्रपदे तथा ॥
धनुर्मासे च पाठ्यं स्यात्पाठ्यं चैवोत्तरायणे ॥२२॥
नियमेनैव माहात्म्यं पठनीयमिदं द्विजाः ॥
श्रोतारो नियमैर्युक्ताः शृणुयुश्चेदमुत्तमम् ॥२३॥
कीर्त्यंते पुण्यतीर्थानि माहात्म्येऽस्मिन्बहूनि वै ॥
कीर्त्यंते पुण्यशीलाश्च तथा राजर्षिसत्तमाः ॥२४॥
ऋषयश्च महाभागाः कीर्त्यंतेऽस्मिन्ननुत्तमे ॥
धर्माधर्मौ च कीर्त्येते पुण्येस्मिन्द्विजपुंगवाः ॥२५॥
ब्रह्मा विष्णुश्च रुद्रश्च कीर्त्यंतेऽत्र त्रिमूर्तयः ॥
इदं पवित्रं पापघ्नं श्रुत्यर्थैरुपबृंहि तम् ॥२६॥
संमतं स्मृतिकर्तॄणां द्वैपायनमुनिप्रियम् ॥
श्रोतव्यं पठितव्यं च आत्मनः श्रेय इच्छता ॥२७॥
श्रावकाय च दातव्यं यत्किंचित्कांचनादिकम् ॥
स्वस्वशक्त्यनुरोधेन वित्तशाठ्यं न कारयेत् ॥२८॥
वस्त्रं हिरण्यं धान्यं वा भूमिं गां च यथाबलम् ॥
दत्त्वा संभावनीयोऽयं श्रावकः श्रोतृभिर्जनैः ॥२९॥
पूजिते श्रावके तस्मिन्पूजिताः स्युस्त्रिमूर्तयः ॥
जगत्त्रयं पूजितं स्यात्पूजितासु त्रिमूर्तिषु ॥२३०॥
अवतीर्णो महीं साक्षाद्रामो दाशरथिर्हरिः ॥
ससीतालक्ष्मणो नित्यं श्रोतृभ्यः श्रावकाय च ॥३१॥
दत्त्वेह लोके भोगांश्च मुक्तिं चांते प्रयच्छति ॥
द्वैपायनमुखांभोजान्निःसृतं शुभदं परम् ॥३२॥
इदं वै सेतुमाहात्म्यं धर्मराजो युधिष्ठिरः ॥
भीमसेनादिभिः सर्वैरनुजैरपि संवृतः ॥३३॥
नियमाचारसंयुक्तः ससैन्यश्च दिनेदिने ॥
शृणोति पठतो धौम्यमहर्षेः स्वपुरोधसः ॥३४॥
॥ श्रीसूत उवाच ॥
भोभो स्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥
मत्सकाशादिदं गुह्यं माहात्म्यं श्रुतिसंमितम् ॥३५॥
श्रुतं भवद्भिर्नियतैर्नित्यं पठत सादरम् ॥
पाठयध्वं स्वशिष्येभ्यो नियतेभ्यो निरन्तरम् ॥३६॥
इत्युक्त्वा तान्मुनीन्सूतो रोमांचितकलेवरः ॥
गुरुं हृदा स्मरन्व्यासं ननर्ताश्रूणि वर्तयन् ॥३७॥
अत्रांतरे महाविद्वान्पाराशर्यो महामुनिः ॥
आशु प्रादुरभूत्तत्र शिष्यानुग्रहकांक्षया ॥३८॥
तमागतं विलोक्याथ मुनिं सत्यवतीसुतम् ॥
सूतः सर्वैश्च सहितो नैमिषारण्यवासिभिः ॥३९॥
व्यासस्य चरणांभोजे दंडवत्प्रणिपत्य तु ॥
जलमानंदजं तत्र नेत्राभ्यांपर्यवर्तयत् ॥२४०॥
प्रणतं प्रियशिष्यं तं दोर्भ्यामुत्थाप्य वै मुनिः ॥
आशीर्भिरभिनंद्यैनमालिंग्य च मुहुर्मुहुः ॥४१॥
नैमिषारण्यमुनिभिरानीते परमासने ॥
द्वैपायनो महातेजा निषसाद तपोधनः ॥४२॥
मुनिष्वप्युपविष्टेषु सूतेऽपि च निजाज्ञया ॥
शौनकादीन्मुनीन्सर्वाञ्छक्तेः पौत्रोऽभ्यभाषत ॥४३॥
मया ज्ञातमिदं सर्वं नैमिषारण्यवासिनः ॥
मम शिष्येण सूतेन सेतुमाहात्म्यमुत्तमम् ॥
कथितं भवतामद्य महापातकनाशनम् ॥४४॥
श्रुतीनां च स्मृतीनां च पुराणानां तथैव च ॥
शास्त्राणां चेतिहासानामन्येषामपि कृत्स्नशः ॥४५॥
एष पर्यवसन्नोऽर्थो माहात्म्यं यत्त्विदं महत् ॥
सर्वेष्वपि पुराणेषु इदं बहुमतं मम ॥४६॥
शृणोति धर्मजो धौम्यादिदं नित्यं ममाज्ञया ॥
अतो भवंतोऽपि सदा सेतुमाहात्म्यमुत्तमम् ॥४७॥
पठंतु शृण्वंतु तथा शिष्याणां पाठयंतु च ॥
तच्छ्रुत्वा वचनं तस्य ते प्राहुर्बाढमित्यपि ॥४८॥
ततो व्यासोऽपि सूतेन शिष्येण च समन्वितः ॥
अनुज्ञाप्य मुनीन्त्सर्वान्कैलासं पर्वतं ययौ ॥४९॥
ऋषयो नैमिषारण्यनिलयास्तुष्टिमागताः ॥
प्रत्यहं सेतुमाहात्म्यं शृण्वंति च पठंति च ॥२५०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये द्विपंचाशत्तमोऽध्यायः ॥५२॥
इदं स्कांदमहापुराणान्तर्गतब्रह्मखण्डान्तर्गतसेतुमाहात्म्यं समाप्तम् ॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP