सेतुखण्डः - अध्याय ३०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
विहिताभिषवो मर्त्यः सर्वतीर्थेऽतिपावने ॥
ब्रह्महत्यादिपापघ्नीं धनुष्कोटिं ततो व्रजेत् ॥१॥
यस्याः स्मरणमात्रेण मुक्तः स्यान्मानवो भुवि ॥
धनुष्कोटिं प्रपश्यंति स्नांति वा कथयंति ये ॥२॥
अष्टाविंशतिभेदांस्ते नरकान्नोपभुंजते ॥
तामिस्रमंधतामिस्रं महारौरवरौरवौ ॥३॥
कुम्भीपाकं कालसूत्रमसिपत्रवनं तथा ॥
कृमिभक्षोंऽधकूपश्च संदंशं शाल्मली तथा ॥४॥
सूर्मिर्वैतरणी प्राणरोधो विशसनं तथा ॥
लालाभक्षोऽप्यवीचिश्च सारमेयादनं तथा ॥५॥
तथैव वज्रकणकं क्षारकर्दमपातनम् ॥
रक्षोगणाशनं चापि शूलप्रोतं वितोदनम् ॥६॥
दंदशूकाशनं चापि पर्यावर्तनसंज्ञितम् ॥
तिरोधानाभिधं विप्रास्तथा सूचीमुखाभिधम् ॥७॥
पूयशोणितभक्षं च विषाग्निपरिपीडनम् ॥
अष्टाविंशतिसंख्याकमेवं नरकसंचयम् ॥८॥
न याति मनुजो विप्रा धनुष्कोटौ निमज्जनात् ॥
वित्तापत्यकलत्राणां योऽन्येषामपहारकः ॥९॥
स कालपाशनिर्बद्धो यमदूतैर्भयानकैः ॥
तामिस्रनरके घोरे पात्यते बहुवत्सरम् ॥१०॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो निहत्य तु भर्तारं भुंक्ते तस्य धनादिकान् ॥११॥
पात्यते सोंऽधतामिस्रे महादुःखसमाकुले ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥१२॥
भूतद्रोहेण यो मर्त्यः पुष्णाति स्वकुटुंबकम् ॥
स तानिह विहायाशु रौरवे पात्यते ध्रुवम् ॥१३॥
विषोल्बणमहासर्पसंकुले यमपूरुषैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥१४॥
यः स्वदेहंभरो मर्त्यो भार्यापुत्रादिकं विना ॥
स महारौरवे घोरे पात्यते निजमांसभुक् ॥१५॥
स्नाति चेद्धनुषः कोटौ तस्मि न्नासौ निपात्यते ॥
यः पशून्पक्षिणो वापि सप्राणान्निरुणद्धि वै ॥१६॥
कृपालेशविहीनं तं क्रव्यादैरपि निंदितम् ॥
कुंभीपाके तप्ततैले पात यंति यमानुगाः ॥१७॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
मातरं पितरं विप्रान्यो द्वेष्टि पुरुषाधमः ॥१८॥
स कालसूत्र नरके विस्तृतायुतयोजने ॥
अधस्तादग्निसंतप्त उपर्यर्कमरीचिभिः ॥१९॥
खले ताम्रमये विप्राः पात्यते क्षुधयार्दितः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥२०॥
यो वेदमार्गमुल्लंघ्य वर्तते कुपथे नरः ॥
सोऽसिपत्रवने घोरे पात्यते यमकिंकरैः ॥२१॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो राजा राजभृत्यो वा ह्यदंड्ये दंडमाचरेत् ॥२२॥
शरीरदंडं विप्रे वा स शूकरमुखे द्विजाः ॥
पात्यते नरके घोरे इक्षुवद्यंत्रपीडितः ॥२३॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
ईश्वराधीनवृत्तीनां हिंसां यः प्राणिनां चरेत् ॥२४॥
तैरेव पीड्यमानोऽयं जंतुभिः स्वेन पीडितैः ॥
अंधकूपे महाभीमे पात्यते यमकिंकरैः ॥२५॥
तत्रांधकारबहुले विनिद्रो निर्वृतश्चरेत् ॥
चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥२६॥
योऽश्नाति पंक्तिभेदेन सस्यसूपादिकं नरः ॥
अकृत्वा पंचयज्ञं वा भुंक्ते मोहेन स द्विजाः ॥२७॥
प्रपात्यते यमभटैर्नरके कृमिभोजने ॥
भक्ष्यमाणः कृमिशतैर्भक्षयन्कृमिसंच यान् ॥२८॥
स्वयं च कृमिभूतः संस्तिष्ठेद्यावदघक्षयम्॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥२९॥
यो हरेद्विप्रवित्तानि स्तेयेन बलतोऽपि वा ॥
अन्येषामपि वित्तानि राजा तत्पुरुषोऽपि वा ॥३०॥
अयस्मयाग्निकुंडेषु संदंशैः सोऽतिपीडितः ॥
संदंशे नरके घोरे पात्यते यमपूरुषैः ॥३१॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
अगम्यां योभिगच्छेत स्त्रियं वै पुरुषाधमः ॥३२॥
अगम्यं पुरुषं योषिदभिगच्छेत वा द्विजाः ॥
तावयस्मयनारीं च पुरुषं चाप्ययस्मयम् ॥३३॥
तप्तावालिंग्य तिष्ठंतौ यावच्चंद्रदिवाकरौ ॥
सूर्म्याख्ये नरके घोरे पात्येते बहुकंटके ॥३४॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
बाधते सर्वजंतून्यो नानो पायैरुपद्रवैः ॥३५॥
शाल्मलीनरके घोरे पात्यते बहुकंटके ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥३६॥
राजा वा राजभृत्यो वा यः पाषंडमनुव्रतः ॥
भेदको धर्मसेतूनां वैतरण्यां निपात्यते ॥३७॥
स्नानि चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
वृषलीसंगदुष्टो यः शौचाद्याचारवर्जितः ॥३८॥
त्यक्तलज्जस्त्यक्तवेदः पशुचर्यारत स्तथा ॥
स पूयविष्ठामूत्रासृक्छ्लेष्मपित्तादिपूरिते ॥३९॥
अतिबीभत्सनरके पात्यते यमकिंकरैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥४०॥
अश्मभिर्मृगयुर्हन्याद्बाणै र्वा बाधते मृगान्॥
स विध्यमानो बाणौघैः परत्र यमकिंकरैः ॥४१॥
प्राणरोधाख्यनरके पात्यते यमकिंकरैः ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥४२॥
दांभिको यः पशून्यज्ञे विध्यनुष्ठानवर्जितः ॥
हंत्यसौ परलोकेषु वैशसे नरके द्विजाः ॥४३॥
कृन्त्यमानो यमभटैः पात्यते दुःखसंकुले ॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥४४॥
आत्मभार्यां सवर्णां यो रेतः पाययते तु सः ॥
परत्र रेतःपायी सन्रेतःकुंडे निपात्यते ॥४५॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
यो दस्युमार्ग माश्रित्य गरदो ग्रामदाहकः ॥४६॥
वणिग्द्रव्यापहारी च स परत्र द्विजोत्तमाः ॥
वज्रदंष्ट्राहिकाभिख्ये नरके पात्यते चिरम् ॥४७॥
स्नाति चेद्धनुषः कोटौ तस्मिन्नासौ निपात्यते ॥
विद्यंते यानि चान्यानि नरकाणि परत्र वै ॥४८॥
तानि नाप्नोति मनुजो धनुष्कोटिनिमज्जनात् ॥
धनुष्कोटौ सकृत्स्ना नादश्वमेधफलं लभेत् ॥४९॥
आत्मविद्या भवेत्साक्षान्मुक्तिश्चापि चतुर्विधा ॥
न पापे रमते बुद्धिर्न भवेद्दुःखमेव वा ॥५०॥
बुद्धेः प्रीति र्भवेत्सम्यग्धनुष्कोटौ निमज्जनात् ॥
तुलापुरुषदानेन यत्फलं लभ्यते नरैः ॥५१॥
तत्फलं लभ्यते पुंभिर्धनुष्कोटौ निमज्जनात् ॥
गोसहस्र प्रदानेन यत्पुण्यं हि भवेन्नृणाम् ॥५२॥
तत्पुण्यं लभते मर्त्यो धनष्कोटौ निमज्जनात् ॥
धर्मार्थकाममोक्षेषु यंयमिच्छति पूरुषः ॥५३॥
तंतं सद्यः समाप्नोति धनुष्कोटौ निमज्जनात् ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥५४॥
सद्यः पूतो भवेद्विप्रा धनुष्कोटौ निमज्जनात् ॥
प्रज्ञालक्ष्मीर्यशः संपज्ज्ञानं धर्मो विरक्तता ॥५५॥
मनःशुद्धिर्भवेन्नॄणां धनुष्कोटिनिमज्जनात्॥
ब्रह्महत्यायुतं चापि सुरापानायुतं तथा ॥५६॥
अयुतं गुरुदाराणां गमनं पापकारणम्॥
स्तेयायुतं सुवर्णानां तत्संसर्गश्च कोटिशः ॥५७॥
शीघ्रं विलयमाप्नोति धनुष्कोटौ निमज्जनात्॥
ब्रह्महत्यासमानानि सुरापानसमानि च ॥५८॥
गुरुस्त्रीगमनेनापि यानि तुल्यानि चास्तिकाः॥
सुवर्णस्तेयतुल्यानि तत्संसर्गसमानि च ॥५९॥
तानि सर्वाणि नश्यंति धनुष्को टि निमज्जनात्॥
उक्तेष्वेतेषु संदेहो न कर्तव्यः कदाचन ॥६०॥
जिह्वाग्रे परशुं तप्तं धारयामि न संशयः ॥
अर्थवादमिमं सर्वं ब्रुवन्वै नारकी भवेत् ॥६१॥
संकरः स हि विज्ञेयः सर्वकर्मबहिष्कृतः॥
अहो मौर्ख्यमहो मौर्ख्यमहो मौर्ख्यं द्विजोत्तमाः ॥६२॥
धनुष्कोट्यभिधे तीर्थे सर्वपातकनाशने ॥
अद्वैतज्ञानदे पुंसां भुक्तिमुक्तिप्रदायिनि ॥६३॥
इष्टकाम्यप्रदे नित्यं तथैवाज्ञाननाशने ॥
स्थितेऽपि तद्विहायायं रमतेऽन्यत्र वै जनः ॥६४॥
अहो मोहस्य माहात्म्यं मया वक्तुं न शक्यते ॥
स्नातस्य धनुषः कोटौ नांतकाद्भयमस्ति वै ॥६५॥
धनुष्कोटिं प्रपश्यंति तत्र स्नांति च ये नराः॥
स्तुवंति च प्रशंसंति स्पृशंति च नमंति च ॥
न पिबंति हि ते स्तन्यं मातॄणां द्विजपुंगवाः ॥६६॥
॥ ऋषय ऊचुः ॥
धनुष्कोट्याभिधा तस्य कथं सूत समागता ॥६७॥
तत्सर्वं ब्रूहि तत्त्वेन विस्तरान्मुनिपुंगव ॥
इति पृष्टो नैमिषीयैराह सूतः पुनश्च तान् ॥६८॥
॥ श्रीसूत उवाच ॥
रामेण निहते युद्धे रावणे लोककण्टके ॥
बिभीषणे च लंकायां राजनि स्थापिते ततः ॥६९॥
वैदेहीलक्ष्मणयुतो रामो दशरथा त्मजः ॥
सुग्रीवप्रमुखैर्वीरैर्वानरैरपि संवृतः ॥७०॥
सिद्धचारणगन्धर्वदेवविद्याधरर्षिभिः ॥
अप्सरोभिश्च सततं स्तूयमाननिजाद्भुतः ॥७१॥
लीलाविधृतकोदण्डस्त्रिपुरघ्नो यथा शिवः ॥
सर्वैः परिवृतो रामो गंधमादनमन्वगात् ॥७२॥
तत्र स्थितं महात्मानं राघवं रावणांतकम् ॥
प्रांजलिः प्रार्थयामास धर्मज्ञोऽथ विभीषणः ॥७३॥
सेतुनानेन ते राम राजानः सर्व एव हि ॥
बलोद्रिक्ताः समभ्येत्य पीडयेयुः पुरीं मम ॥७४॥
अतः सेतुमिमं भिंधि धनुष्कोट्या रघूद्वह ॥
इति संप्रार्थितस्तेन पौलस्त्येन स राघवः ॥७९॥
बिभेद धनुषः कोट्या स्वसेतुं रघुनं दनः ॥
अतो द्विजास्ततस्तीर्थं धनुष्कोटिरितिश्रुतम् ॥७६॥
श्रीरामधनुषः कोट्या यो रेखां पश्यते कृताम्॥
अनेकक्लेशसंयुक्तं गर्भवासं न पश्यति ॥७७॥
धनुष्कोट्यां कृता रेखा रामेण लवणांबुधौ ॥
तद्दर्शनाद्भवेन्मुक्तिर्न जाने स्नानजं फलम् ॥७८॥
नर्मदारोधसि तपो महापातक नाशनम्॥
गंगातीरे तु मरणमपवर्गफलप्रदम्॥ ७९॥
दानं द्विजाः कुरुक्षेत्रे ब्रह्महत्यादिशोधकम् ॥
तपश्च मरणं दानं धनुष्कोटौ कृतं नरैः ॥८०॥
महापातकनाशाय मुक्त्यै चाभीष्टसिद्धये ॥
भवेत्समर्थं विप्रेंद्रा नात्र कार्या विचारणा ॥८१॥
तावत्संपीड्यते जंतुः पातकैश्चोपपा तकैः ॥
यावन्नालोक्यते राम धनुष्कोटिर्विमुक्तिदा ॥८२॥
भिद्यते हृदयग्रंथिश्छिद्यंते सर्वसंशयाः ॥
क्षीयंते पापकर्माणि धनुष्कोट्यवलो किनः ॥८३॥
दक्षिणांभोनिधौ सेतौ रामचन्द्रेण निर्मिता ॥
या रेखा धनुषः कोट्या विभीषणहिताय वै ॥८४॥
सैव कैलासपदवीं वैकुण्ठब्र ह्मलोकयोः ॥
मार्गः स्वर्गस्य लोकस्य नात्र कार्या विचारणा ॥८५॥
तुल्यं यज्ञफलैः पुण्यैर्धनुष्कोट्यवगाहनम् ॥
सर्वमंत्राधिकं पुण्यं सर्वदा नफलप्रदम् ॥८६॥
कायकलेशकरैः पुंसां किं तपोभिः किमध्वरैः ॥
किं वेदैः किमु वा शास्त्रैर्धनुष्कोट्यवलोकिनः ॥८७॥
रामचंद्रधनुष्कोटौ स्नानं चेल्लभ्यते नृणाम् ॥
सितासितसरित्पुण्यवारिभिः किं प्रयोजनम् ॥८८॥
रामचंद्रधनुष्कोटिदर्शनं लभ्यते यदि ॥
काश्यां तु मरणान्मुक्तिः प्रार्थ्यते किं वृथा नरैः ॥८९॥
अनिमज्ज्य धनुष्कोटावनुपोष्य दिनत्रयम् ॥
अदत्त्वा कांचनं गां च दरिद्रः स्यान्न संशयः ॥९०॥
धनुष्कोट्य वगाहेन यत्फलं लभते नरः ॥
अग्निष्टोमादिभिर्यज्ञैरिष्ट्वापि बहुदक्षिणैः ॥९१॥
न तत्फलमवाप्नोति सत्यंसत्यं वदाम्यहम् ॥
धनुष्कोट्यभिधं तीर्थं सर्वतीर्थाधिकं विदुः ॥९२॥
दशकोटिसहस्राणि संति तीर्थानि भूतले ॥
तेषां सान्निध्यमस्त्यत्र धनुष्कोटौ द्विजोत्तमाः ॥९३॥
अष्टौ वसव आदित्या रुद्राश्च मरुतस्तथा ॥
साध्याश्च सह गन्धर्वाः सिद्धविद्याधरास्तथा ॥९४॥
एते चान्ये च ये देवाः सान्निध्यं कुर्वते सदा ॥
तीर्थेऽत्र धनुषः कोटौ नित्यमेव पितामहः ॥९५॥
सन्निधत्ते शिवो विष्णुरुमा मा च सरस्वती ॥
धनुष्कोटौ तपस्तप्त्वा देवाश्च ऋषयस्तथा ॥९६॥
विपुलां सिद्धिमगमंस्तत्फलेन मुनीश्वराः ॥
स्नायात्तत्र नरो यस्तु पितृदेवांश्च तर्पयेत् ॥९७॥
सर्वपापविनिर्मुक्तो ब्रह्मलोके महीयते ॥
अत्रैकं भोजयेद्विप्रं यो नरो भक्तिसंयुतः॥९८॥
इह लोके परत्रापि सोनंतसुखमश्नुते॥
शाकमूलफले वृत्तिं यो न वर्तयते नरः॥९९॥
स नरो धनुषःकोटौ स्नायात्त त्फलसिद्धये ॥
अश्वमेधक्रतुं कर्तुं शक्तिर्यस्य न विद्यते ॥१००॥
धनुष्कोटौ स हि स्नायात्तेन तत्फलमश्नुते ॥
ब्राह्मणः क्षत्रियो वैश्यः शूद्रो वापि मुनी श्वराः ॥१॥
निंद्ययोनौ न जायंते धनुष्कोट्वगाहनात्॥
मकरस्थे रवौ माघे धनुष्कोटौ तु यो नरः॥२॥
स्नायात्पुण्यं निगदितुं तस्याहं न क्षमो द्विजाः॥
माघमासे धनुष्कोटाववगाहेत यो नरः ॥३॥
स स्नातः सर्वतीर्थेषु गंगादिषु मुनीश्वराः ॥
प्राप्नुयादक्षयाँल्लोकान्मोक्षं चापि लभेत सः ॥४॥
जन्मप्रभृति यत्पापं स्त्रियो वा पुरुषस्य वा ॥
तत्सर्वं माघमासेऽत्र मज्जनाद्विलयं व्रजेत् ॥५॥
यथा सुराणां सर्वेषामुत्तमो रघुनंदनः ॥
तथैव च धनुष्कोटिः सर्वतीर्थोत्तमा स्मृता ॥६॥
तत्र स्नानं माघमासे सर्वाभीष्टप्रदायकम् ॥
त्रिंशद्दिनं माघमासे नियतोऽपि जितेंद्रियः ॥७॥
धनुष्कोटौ नरः स्नायादपुनर्भवसिद्धये ॥
एकभुक्तो जितक्रोधो माघमासेऽत्र यो नरः ॥८॥
स्नानं करोति विप्रेंद्रा मुच्यते ब्रह्महत्यया ॥
श्रीरामधनुषः कोटी माघमासे नरस्तु यः ॥९॥
स्नात्वांते शिवरात्रौ च निराहारो जितेंद्रियः ॥
कृत्वा जागरणं रात्रौ प्रतियामं विशेषतः ॥११०॥
राम नाथं महादेवमभ्यर्च्य विधिपूर्वकम् ॥
परेद्युरुदिते सूर्ये धनुष्कोटौ निमज्य च ॥११॥
अन्येष्वपि च तीर्थेषु स्नात्वा नियतमानसः ॥
निर्वर्त्य नित्यकर्माणि रामनाथं निषेव्य च ॥१२॥
यथाशक्ति द्विजानन्नैर्भोजयित्वा द्विजोत्तमाः ॥
भूमिं गां च तिलान्धान्यं दत्त्वा वित्तं च शक्तितः ॥१३॥
ब्राह्मणैरप्यनुज्ञातः स्वयं भुंजति वाग्यतः ॥
एवं कृतवतः पुंसो रामनाथो महेश्वरः ॥१४॥
विमोच्य सर्वपापानि भुक्तिं मुक्तिं प्रयच्छति ॥
अतः सर्वप्रयत्नेन माघमासे मुनीश्वराः ॥१५॥
स्नातव्यं हि धनुष्कोटौ नरैरत्र मुमुक्षुभिः ॥
धनुष्कोटौ नरः स्नानं सेतावर्धोदये तु यः। ॥१६॥
करोति तस्य पापानि नश्यंत्येव क्षणाद्द्विजाः ॥
स्नानं महोदये चात्र भुक्तिमुक्तिफलप्रदम्॥ १७॥
यः स्नायाद्धनुषः कोटावर्द्धोदयमहो दये ॥
तस्य वश्यास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥१८॥
धनुष्कोटौ द्विजाः स्नानमर्द्धोदयमहोदये॥
विनाप्यद्वैतविज्ञानं सायुज्यप्राप्तिकारणम्॥ ॥१९॥
तत्र स्नानं द्विजाः पुंसामर्द्धोदयमहोदये ॥
मन्वाद्युक्तं विना सत्यं प्रायश्चित्तं हि पापिनाम् ॥१२०॥
अत्र सेतौ धनुष्कोटावर्धोदयमहो दये ॥
स्नाति चेन्मनुजो विप्राः सत्यं यज्ञं विनाप्ययम् ॥२१॥
यज्ञानां फलमाप्नोति संपूर्णं नात्र संशयः ॥
चंद्रसूर्योपरागेषु यः स्नायादत्र मानवः ॥२२॥
तस्य पुण्यफलं वक्तुं शेषेणापि न शक्यते ॥
चंद्रसूर्योपरागेषु धनुष्कोट्यवगाहनम् ॥२३॥
ब्रह्महत्यादिपापानां प्रायश्चित्त मुदीरितम् ॥
श्रीरामधनुषः कोटौ चंद्रसूर्योपरागयोः ॥२४॥
स्नानं सायुज्यदं प्रोक्तं सर्वतीर्थफलप्रदम् ॥
चंद्रसूर्योपरागेषु अर्धोदयमहोदये ॥'॥ २५॥
स्नातव्यमत्र मनुजैर्भुक्तिमुक्तिफलेच्छुभिः ॥
अतः सर्वं परित्यज्य गच्छध्वं मुनिपुंगवाः ॥२६॥
धनुष्कोटिं महापुण्यां भुक्तिमुक्तिफल प्रदाम् ॥
तत्र गत्वा पितृभ्यश्च कुरुध्वं पिंडदापनम् ॥२७॥
आकल्पं पितृतृप्तिः स्यादत्र पिंडनिवापनात् ॥
पितॄणां तृप्तिदं स्थानत्रयं रामेण निर्मितम् ॥२८॥
सेतुमूले धनुष्कोट्यां गंधमादनपर्वते ॥
पिंडं दत्त्वा पितृभ्योऽत्र ऋणान्मुक्तो भविष्यति ॥२९॥
सेतुमूलं धनुष्कोटिं गंधमादनमेव च ॥
ऋणमोक्ष इति ख्यातं त्रिस्थानं देवनिर्मितम् ॥१३०॥
अतः सर्वप्रयत्नेन धनुष्कोटिर्निषेव्यताम् ॥
अत्रागत्य धनुष्कोटौ स्नात्वा नियमपूर्व कम् ॥३१॥
द्रोणाचार्यसुतः श्रीमानश्वत्थामा मुनीश्वराः ॥
सुप्तमारणदोषेण घोरेण मुमुचे क्षणात् ॥३२॥
एवं वः कथितं विप्रा धनुष्कोटेस्तु वैभवम् ॥
भुक्तिमुक्तिप्रदं नृणां सर्वपापनिबर्हणम् ॥१३३॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये धनुष्कोटिप्रशंसायां धनुष्कोटिवैभवकथनवर्णनंनाम त्रिंशोऽध्यायः ॥३०॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP