संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३४ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३४ Translation - भाषांतर ॥ श्रीसूत उवाच ॥इतिहासं पुनर्वक्ष्ये धनुष्कोटिप्रशंसनम् ॥सृगालस्य च संवादं वानरस्य च सत्तमाः ॥१॥सृगालवानरौ पूर्वमास्तां जातिस्मरावुभौ॥पुरापि मानुषे भावे सखायौ तौ बभूवतुः॥२॥अन्यां योनिं समापन्नौ सार्गालीं वानरीं तथा ॥सख्यं समीयतुरुभौ सृगालो वानरो द्विजाः ॥३॥कदाचिद्रुद्रभूमिष्ठं सृगालं वानरोऽब्रवीत् ॥श्मशानमध्ये संप्रेक्ष्य पूर्वजातिमनुस्मरन् ॥४॥॥ वानर उवाच ॥सृगाल पातकं पूर्वं किमकार्षीः सुदारुणम् ॥यस्त्वं श्मशाने मृतकान्पूतिगंधांश्च कुत्सितान् ॥अत्सीत्युक्तोऽथ कपिना सृगालस्तमभाषत ॥५॥॥ सृगाल उवाच ॥अहं पूर्वभवे ह्यासं ब्राह्मणो वेदपारगः ॥६॥वेदशर्माभिधो विद्वान्सर्वकर्मकलापवित् ॥ब्राह्मणाय प्रतिश्रुत्य न मया तत्र जन्मनि ॥७॥कपे धनं तदा दत्तं सृगालोऽहं ततोऽभवम्॥तस्मादेवंविधं भक्ष्यं भक्षयाम्यतिकुत्सितम् ॥८॥प्रतिश्रुत्य दुरात्मानो न प्रयच्छंति ये नराः ॥कपे सृगालयोनिं ते प्राप्नुवंत्यतिकुत्सिताम् ॥९॥यो न दद्यात्प्रतिश्रुत्य स्वल्पं वा यदि वा बहु ॥सर्वाशास्तस्य नष्टाः स्युः षंढस्येव प्रजोद्भवः ॥१०॥प्रतिश्रुत्याप्रदाने तु ब्राह्मणाय प्लवंगम ॥दशजन्मार्जितं पुण्यं तत्क्षणादेव नश्यति ॥११॥प्रतिश्रुत्याप्रदानेन यत्पापमुपजायते ॥नाश्वमेधशतेनापितत्पापं परिशुध्यति ॥१२॥न जानेहमिदं पापं कदा नष्टं भवेदिति ॥तस्मात्प्रतिश्रुतं द्रव्यं दातव्यं विदुषा सदा ॥१३॥प्रतिश्रुत्याप्रदानेन सृगालो भवति ध्रुवम् ॥तस्मात्प्राज्ञेन विदुषा दातव्यं हि प्रतिश्रुतम् ॥१४॥इत्युक्त्वा स सृगालस्तं वानरं पुनरब्रवीत् ॥भवता किं कृतं पापं येन वानरतामगात् ॥१५॥अनागसो वनचरान्पक्षिणो हिंसि वानर ॥तत्पातकं वदस्वाद्य वानरत्वप्रदं मम ॥इत्युक्तः स सृगालेन सृगालं वानरोऽब्रवीत् ॥१६॥॥ वानर उवाच ॥पुरा जन्मन्यहं विप्रो वेदनाथ इति स्मृतः ॥१७॥विश्वनाथो मम पिता ममांबा कमलालया ॥सृगाल सख्यमभवदावयोः प्राग्भवेऽपि हि ॥१९॥त्वं न जानासि तत्सर्वं वेद्म्यहं पुण्य गौरवात् ॥तपसाराध्य गिरिशं तत्प्रसादात्पुरा मम ॥१९॥अतीतभाविविज्ञानमस्ति जन्मांतरेऽपि च ॥गोमायो तद्भवे शाकं ब्राह्मणस्य हृतं मया ॥२०॥तत्पापाद्वानरो जातो नरकानुभवादनु ॥नाहर्तव्यं विप्रधनं हरणान्नरकं भवेत् ॥२१॥अनंतरं वानरत्वं भविष्यति न संशयः ॥तस्मान्न ब्राह्मणस्वं तु हर्तव्यं विदुषा सदा ॥२२॥ब्रह्मस्वहरणात्पापमधिकं नैव विद्यते ॥पीतवंतं विषं हंति ब्रह्मस्वं सकुलं दहेत् ॥२३॥ब्रह्मस्वहरणात्पापी कुंभीपाकेषु पच्यते ॥पश्चान्नरकशेषेण वानरीं योनिमश्नुते ॥२४॥विप्रद्रव्यं न हर्तव्यं क्षंतव्यं तेष्वतः सदा ॥बाला दरिद्राः कृपणा वेदशास्त्रादिवर्जिताः ॥२५॥ब्राह्मणा नावमंतव्याः क्रुद्धाश्चेदनलोपमाः ॥अतीतानागतं ज्ञानं सृगालाखिलमस्ति मे ॥२६॥ज्ञानमस्ति न मे त्वेकमेतत्पापविशोधनम्॥जातिस्मरोऽपि हि भवान्भाविकार्यं न बुध्यते ॥२७॥अतीतेष्वपि किंचिज्ज्ञः प्रतिबंधवशाद्भवान् ॥अतो भवान्न जानीते भाव्यतीतं तथाखिलम् ॥२८॥कियत्कालं सृगालातो भुक्ता व्यसनमीदृशम् ॥आवयोरस्य पापस्य को वा मोचयिता भवेत् ॥२९॥एवं प्रब्रुवतोस्तत्र प्लवंगमसृगालयोः॥यदृच्छया दैवयोगात्पूर्वपुण्यवशाद्द्विजाः ॥३०॥आययौ स महातेजाः सिंधुद्वीपाह्वयो मुनिः॥भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः ॥३१॥रुद्राक्षमालाभरणः शिवनामानि कीर्तयन् ॥सृगालवानरौ दृष्ट्वा सिंधुद्वीपाभिधं मुनिम् ॥प्रणम्य मुदि तौ भूत्वा पप्रच्छतुरिदं तदा ॥३२॥॥ सृगालवानरावूचतुः ॥भगवन्सर्वधर्मज्ञ सिंधुद्वीप महामुने ॥३३॥आवां रक्ष कृपादृष्ट्या विलोकय मुहुर्मुदा ॥कपित्वं च सृगालत्वमावयोर्येन नश्यति ॥३४॥तमुपायं वदस्वाद्य त्वं हि पुण्यवतां वरः ॥अनाथान्कृपणानज्ञान्बालान्रोगातुराञ्जनान् ॥३५॥रक्षंति साधवो नित्यं कृपया निरपेक्षकाः ॥ताभ्यामितीरितः प्राज्ञः सिंधुद्वीपो महामुनिः ॥प्राह तौ कपिगोमायू ध्यात्वा तु मनसा चिरम् ॥३६॥॥ सिंधुद्वीप उवाच ॥जानाम्यहं युवां सम्यग्घे सृगालप्लवंगमौ ॥३७॥सृगाल प्राग्भवे त्वं वै वेदशर्माभिधो द्विजः ॥ब्राह्मणाय प्रतिश्रुत्य धान्यानामाढकं त्वया ॥३८॥न दत्तं तेन पापेन सार्गालीं योनिमाप्तवान् ॥त्वं च वानर पूर्वस्मिन्वेदनाथाभिधो द्विजः ॥३९॥ब्राह्मणस्य गृहाच्छाकं हृतं चौर्यात्त्वया तत ॥प्राप्तोसि वानरीं योनिं सर्वपक्षिभयंकरीम् ॥४०॥युवयोः पापशांत्यर्थमुपायं प्रवदाम्यहम् ॥दक्षिणांबुनिधौ रामधनुष्कोटौ युवामरम् ॥४१॥गत्वात्र कुरुतं स्नानं तेन पापाद्विमोक्ष्यथः ॥पुरा किरातीसंसर्गात्सुमतिर्ब्राह्मणः सुराम् ॥पीतवान्त्स धनुष्कोटौ स्नात्वा पापाद्विमोचितः ॥४२॥॥ सृगाल वानरावूचतुः ॥सुमतिः कस्य पुत्रोऽसौ कथं च स सुरां पपौ ॥४३॥कथं किरात्यां सक्तोऽभूत्सिंधुद्वीप महामते ॥आवयोर्विस्तरादेतद्वद त्वं कृपायाधुना ॥४४॥॥ सिंधुद्वीप उवाच ॥महाराष्ट्राभिधे देशे ब्राह्मणः कश्चिदास्तिकः ॥यज्ञदेव इति ख्यातो वेदवेदांगपारगः ॥४५॥दयालुरातिथेयश्च शिवनारायणार्चकः ॥सुमतिर्नाम पुत्रोऽभूद्यज्ञदेवस्य तस्य वै ॥४६॥पितरौ स परित्यज्य भार्यामपि पतिव्रताम् ॥प्रययावुत्कले देशे विटगोष्ठीपरायणः ॥४७॥काचित्किराती तद्देशे वसन्ती युवमोहिनी ॥यूनां समस्तद्रव्याणि प्रलोभ्य जगृहे चिरम् ॥४८॥तस्या गृहं स प्रययौ सुमतिर्ब्राह्मणाधमः ॥सुमतिं सा न जग्राह किराती निर्धनं द्विजम् ॥४९॥तया त्यक्तोऽथ सुमतिस्तत्संयोगैकतत्परः ॥इतस्ततश्चोरयित्वा बहुद्रव्याणि संततम् ॥५०॥दत्त्वा तया चिरं रेमे तद्ग्रहे बुभुजे च सः ॥एकेन चषकेणासौ तया सह सुरां पपौ ॥५१॥एवं स बहुकालं वै रममाणस्तया सह ॥पितरौ निजपत्नीं च नास्मरद्विषयातुरः ॥५२॥स कदाचित्किरातैस्तु चौर्यं कर्तुं ययौ सह ॥द्रव्यं हर्तुं किरातास्ते लाटानां विषयं ययुः ॥५३॥विप्रस्य कस्यचिद्गेहे सोऽपि कैरातवेषधृक्॥ययौ चोरयितुं द्रव्यं साहसी खङ्गहस्तवान् ॥५४॥तद्गृहस्वामिनं विप्रं हत्वा खड्गेन साहसी ॥समादाय बहु द्रव्यं किरातीभवनं ययौ ॥५५॥तं यांतमनुयाति स्म ब्रह्महत्या भयंकरी ॥नीलवस्त्रधरा भीमा भृशं रक्तशिरोरुहा ॥५६॥गर्जंती साट्टहासं सा कंपयन्ती च रोदसी ॥अनुद्रुतस्तया सोऽयं बभ्राम जगतीतले ॥५७॥एवं भ्रमन्भुवं सर्वां कदाचित्सुमतिः स्वयम् ॥स्वं ग्रामं प्रययौ भीत्या हे सृगालप्लवंगमौ ॥५८॥अनुद्रुतस्तया भीतः प्रययौ स्वगृहं प्रति ॥ब्रह्महत्याप्यनुद्रुत्य तेन साकं गृहं ययौ ॥५९॥पितरं रक्ष रक्षेति सुमतिः शरणं ययौ ॥मा भैषीरिति तं प्रोच्य पिता रक्षितुमुद्यतः ॥तदानीं ब्रह्महत्येयं तत्तातं प्रत्यभाषत ॥६०॥। ब्रह्महत्योवाच ॥मैनं त्वं प्रतिगृह्णीष्व यज्ञदेव द्विजोत्तम ॥६१॥असौ सुरापी स्तेयी च ब्रह्महा चातिपातकी ॥मातृद्रोही पितृद्रोही भार्यात्यागी च पापकृत् ॥६२॥किरातीसंगदुष्टश्च नैनं मुञ्चाम्यहं द्विज ॥गृह्णासि चेदिमं विप्र महापातकिनं सुतम् ॥६३॥त्वद्भार्यामस्य भार्यां च त्वां च पुत्रमिमं द्विज ॥भक्षयिष्यामि वंशं च तस्मान्मुञ्च सुतं त्विमम् ॥६४॥इमं त्यजसि चेत्पुत्रं युष्मान्मोक्ष्यामि सांप्रतम् ॥नैकस्यार्थे कुलं हन्तुमर्हसि त्वं महामते ॥इत्युक्तः स तया तत्र यज्ञदेवोऽब्रवीच्च ताम् ॥६५॥॥ यज्ञदेव उवाच ॥बाधते मां सुतस्नेहः कथमेनं परित्यजे ॥ब्रह्महत्या तदाकर्ण्य द्विजोक्तं तमभाषत ॥६६॥॥ ब्रह्महत्योवाच ॥अयं हि पतितोऽभूत्ते वर्णाश्रमबहिष्कृतः ॥६७॥पुत्रेस्मिन्मा कुरु स्नेहं निंदितं तस्य दर्शनम्॥इत्युक्त्वा ब्रह्महत्या सा यज्ञदेवस्य पश्यतः ॥६८॥तलेन प्रजहारास्य पुत्रं सुमतिनामकम् ॥रुरोद तात तातेति पितरं प्रब्रुवन्मुहुः ॥६९॥रुरुदुर्जनको माता भार्यापि सुमतेस्तदा ॥एतस्मिन्नंतरे तत्र दुर्वासाः शंकरांशजः ॥७०॥दिष्टवा समाययौ योगी हे सृगालप्लवंगमौ ॥यज्ञदेवोऽथ तं दृष्ट्वा मुनिं रुद्रावतारकम्॥श्रुत्वा प्रणम्य शरणं ययाचे पुत्रकारणात् ॥७१॥॥ पितोवाच ॥दुर्वासस्त्वं महायोगी साक्षाद्वै शंकरांशजः ॥७२॥त्वद्दर्शनमपुण्यानां भविता न कदाचन ॥ब्रह्महा च सुरापी च स्तेयी चाभूत्सुतो मम ॥७३॥एनं प्रहर्तुमायाता ब्रह्महत्या विवर्तते ॥भूयाद्यथा मे पुत्रोऽयं महापातकमोचितः ॥७४॥घोरा च ब्रह्महत्येयं यथा शीघ्रं लयं व्रजेत् ॥तमुपायं वदस्वाद्य मम पुत्रे दयां कुरु ॥७९॥अयमेव हि पुत्रो मे नान्योऽस्ति तनयो मुने ॥अस्मिन्मृते तु वंशो मे समुच्छिद्येत्समूलतः ॥७६॥ततः पितृभ्यः पिंडानां दातापि न भवेद्ध्रुवम् ॥अतः कृपां कुरुष्व त्वमस्मासु भगवन्मुने ॥७७॥इत्युक्तः स तदोवाच दुर्वासाः शंकरांशजः ॥ध्यात्वा तु सुचिरं कालं यज्ञदेवं द्विजोत्तमम् ॥७८॥॥ दुर्वासा उवाच ॥य़ज्ञदेव कृतं पापमतिक्रूरं सुतेन ते ॥नास्य पापस्य शांतिः स्यात्प्रायश्चित्तायुतैरपि ॥७९॥अथापि ते सुतस्याहमस्य पापस्य शांतये ॥प्रायश्चित्तं वदिष्यामि शृणु नान्यमना द्विज ॥८०॥श्रीरामधनुषः कोटौ दक्षिणे सलिलार्णवे ॥स्नाति चेत्तव पुत्रोऽयं पातकान्मोक्ष्यते क्षणात् ॥८१॥दुर्विनीताभिधो विप्रो यत्र स्नानाद्द्विजोत्तम ॥गुरुस्त्रीगम पापेभ्यस्तत्क्षणादेव मोचितः ॥८२॥सैषा श्रीधनुषः कोटी राघवस्य स्वयं हरेः ॥स्नानमात्रेण पापौघं नाशयेत्त्वत्सुतस्य सा ॥८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां सृगालवानरसंवादे सुमतिमहापातक विमोक्षोपायकथनंनाम चतुस्त्रिंशोऽध्यायः ॥३४॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP