संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय ४८

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
रामनाथं समुद्दिश्य कथां पापविनाशिनीम् ॥
प्रवक्ष्यामि मुनिश्रेष्ठाः शृणुध्वं सुसमाहिताः ॥१॥
पांड्यदेशाधिपो राजा पुरासीच्छंकराभिधः ॥
ब्रह्मण्यः सत्यसंधश्च यायजूकश्च धार्मिकः ॥२॥
वेदवेदांगतत्त्वज्ञः परसैन्यविदारणः ॥
चतुरोऽप्याश्रमान्वर्णान्धर्मतः परिपालयन् ॥३॥
वैदिकाचारनिरतः पुराणस्मृतिपारगः ॥
शिवविष्ण्वर्चको नित्यमन्यदैवतपूजकः ॥४॥
महादानप्रदो नित्यं ब्राह्मणानां महात्मनाम् ॥
मृगयार्थं ययौ धीमान्स कदाचित्तपोवनम् ॥५॥
सिंहव्याघ्रेभमहिष क्रूरसत्वभयंकरम्॥
झिल्लिकाभीषणरवं सरीसृपसमाकुलम् ॥६॥
भीमश्वापदसंपूर्णं दावानलभयंकरम् ॥
महारण्यं प्रविश्याथ शंकरो राजशेखरः ॥७॥
अनेकसैनिकोपेत आखेटिकुलसंकुलः ॥
पादुकागूढचरणो रक्तोष्णीषो हरिच्छदः ॥८॥
बद्धगोधांगुलित्राणो धृतकोदण्डसायकः ॥
कक्ष्याबद्धमहाखङ्गः श्वेताश्ववरमास्थितः ॥९॥
सुवेषधारी सन्नद्धः पत्तिसंघसमावृतः ॥
कांतारेषु च सर्वेषु पर्वतेषु गुहासु च ॥१०॥
समुत्तीर्ण महास्रोता युवा सिंहपराक्रमः ॥
विचचार बलैः साकं दरीषु मृगयन्मृगान् ॥११॥
बध्यतां वध्यतामेष याति वेगान्मृगो वने ॥
एवं वदत्सु सैन्येषु स्वयमुत्प्लुत्य शंकरः ॥१२॥
मृगं हंति महाराजो विगाह्य विपिनस्थलीम् ॥
सिंहान्वराहान्महिषान्कुञ्जराच्छरभांस्तथा ॥१३॥
विनिघ्नन्स मृगानन्यान्वन्याञ्छंकरभूपतिः ॥
कुत्रचिद्विपिनोद्देशे दरीमध्यनिवासिनम् ॥१४॥
व्याघ्रचर्मधरं शांतं मुनिं नियतमानसम् ॥
व्याघ्रबुद्ध्या जघानाशु शरेणानतपर्वणा ॥१५॥
अतिवेगेन विप्रेंद्रास्तत्पत्नीं च ससायकः ॥
निजघान पतिप्राणां निविष्टां पत्युरंतिके ॥१६॥
विलोक्य मातापितरौ तत्पुत्रो निहतौ वने ॥
रुरोद भृशदुःखार्तो विललाप च कातरः ॥१७॥
भोस्तात मातर्मां हित्वा युवां यातौ क्व वाधुना ॥
अहं कुत्र गमिष्यामि को वा मे शरणं भवेत् ॥१८॥
को मामध्यापयेद्वेदाञ्छास्त्रं वा पाठयेत्पितः ॥
अंब मे भोजनं का वा दास्यते सोपदेशकम् ॥१९॥
आचाराञ्च्छिक्षयेत्को वा तात त्वयि मृतेऽधुना ॥
अंब बालं प्रकुपितं का वा मामुपलाप()येत् ॥२०॥
युवां निरागसावद्य केन पापेन सायकैः ॥
निहतौ वै तपोनिष्ठौ मत्प्राणौ मद्गुरू वने ॥२१॥
एवं तयोः सुतो विप्रा मुक्तकण्ठं रुरोद वै ॥
अथ प्रलपितं श्रुत्वा शंकरो विपिने चरन् ॥२२॥

तच्छब्दाभिमुखः सद्यः प्रययौ स दरीमुखम् ॥
तत्रत्या मुनयोऽप्याशु समागच्छंस्तमाश्रमम् ॥२३॥
ते दृष्ट्वा मुनयः सर्वे शरेण निहतं मुनिम्॥
तत्पत्नीं च हतां विप्रा राजानं च धनुर्धरम् ॥२४॥
विलपंतं सुतं चापि विलोक्य भृशविह्वलाः ॥
पुत्रमाश्वासयामासुर्मा रोदीरिति कातरम् ॥२५॥
॥ मुनय ऊचुः ॥
आढ्ये वापि दरिद्रे वा मूर्खे वा पंडितेऽपि वा ॥
पीने वाथ कृशे वापि समवर्ती परेतराट् ॥२६॥
वने वा नगरे ग्रामे पर्वते वा स्थलांतरे ॥
मृत्योर्वशे प्रयातव्यं सर्वैरपि हि जंतुभिः ॥२७॥
वत्स नित्यं च गर्भस्थैर्जातैरपि च जंतुभिः ॥
युवभिः स्थविरैः सर्वैर्यातव्यं यमपत्तनम् ॥२८॥
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥
काले प्राप्ते त्वयं देहस्त्यक्तव्यो द्विजपुत्रक ॥२९॥
ब्राह्मणैः क्षत्रियैर्वैश्यैः शूद्रैरपि च संकरैः ॥
यातव्यं प्रेतनिलये द्विजपुत्र महामते ॥३०॥
देवाश्च मुनयो यक्षा गंधर्वोरगराक्षसाः ॥
अन्ये च जंतवः सर्वे ब्रह्मविष्णुहरादयः ॥३१॥
सर्वे यास्यंति विलयं न त्वं शोचितुमर्हसि ॥
अद्वयं सच्चिदानंदं यद्ब्रह्मोपनिषद्गतम् ॥३२॥
न तस्य विलयो जन्म वर्धनं चापि सत्तम ॥
मलभांडे नवद्वारे पूयासृक्छोणितालये ॥३३॥
देहेऽस्मिन्बुद्बुदाकारे कृमियूथसमाकुले ॥
कामक्रोधभयद्रोहमोहमात्सर्यकारिणि ॥३४॥
परदारपरक्षेत्रपरद्रव्यैकलोलुपे ॥
हिंसासूयाशुचिव्याप्ते विष्ठामूत्रैकभाजने ॥३५॥
यः कुर्याच्छोभनधियं स मूढः स च दुर्मतिः ॥
बहुच्छिद्रघटाकारे देहेऽस्मिन्नशुचौ सदा ॥३६॥
वायोरवस्थितिः किं स्यात्प्राणाख्यस्य चिरं द्विज ॥
अतो मा कुरु शोकं त्वं जननीं पितरं प्रति ॥३७॥
तौ स्वकर्मवशाद्यातौ गृहं त्यक्त्वा त्विदं क्वचित्॥
तव कर्मवशात्त्वं च तिष्ठस्यस्मिन्महीतले ॥३८॥
यदा कर्मक्षयस्ते स्यात्तदा त्वं च मरिष्यसि ॥
मरिष्यमाणप्रेतो हि मृतप्रेतस्य शोचति ॥३९॥
यस्मिन्काले समुत्पन्नौ तव माता पिता तथा ॥
न तस्मिंस्त्वं समुत्पन्नस्ततो भिन्ना गतिर्हि वः ॥४०॥
यदि तुल्या गतिस्ते स्यात्ताभ्यां सह महामते ॥
तर्हि त्वयापि यातव्यं मृतौ यत्र हि तौ गतौ ॥४१॥
मृतानां बांधवा ये तु मुंचंत्यश्रूणि भूतले ॥
पिबंत्यश्रूणि तान्यद्धा मृताः प्रेताः परत्र वै ॥४२॥
अतः शोकं परित्यज्य धृतिं कृत्वा समाहितः ॥
अनयोः प्रेतकार्याणि कुरु त्वं वैदिकानि तु ॥४३॥
शरघातान्मृतावेतौ यस्मात्ते जननी पिता ॥
अतस्तद्दोषशांत्यर्थमस्थीन्यादाय वै तयोः ॥४४॥
रामनाथशिवक्षेत्रे रामसेतौ विमुक्तिदे ॥
स्थापयस्व तथा श्राद्धं सपिंडीकरणादिकम् ॥४५॥
तत्रैव कुरु शुद्ध्यर्थं तयोर्बाह्मणपुत्रक ॥
तेन दुर्मृत्युदोषस्य शांतिर्भवति नान्यथा ॥४६॥
॥ श्रीसूत उवाच ॥
एवमुक्तः स मुनिभिः शाकल्यस्य सुतो द्विजाः ॥
जांगलाख्यस्तयोः सर्वं पितृमेधं चकार वै ॥४७॥
अन्येद्युरस्थीन्यादाय हालास्यं प्रययौ च सः ॥
तस्माद्रामेश्वरं सद्यो गत्वाऽयं जांगलो द्विजः॥४८॥
मुनिप्रोक्तप्रकारेण तस्मिन्रामेश्वरस्थले॥
निधाय पित्रोरस्थीनि श्राद्धादीन्यकरोत्तथा॥४९॥
प्रथमाब्दिकपर्यंतं कार्यं तत्राकरोच्च सः॥
स्थित्वाब्दं स मुनेः पुत्र एको जांगलसंज्ञकः ॥५॥
आब्दिकांते दिने विप्रो रात्रौ स्वप्ने विलोक्य तु॥
स्वमातरं च पितरं शंखचक्रगदाधरौ ॥५१॥
गरुडोपरि संविष्टौ पद्ममालाविभूषितौ॥
शोभितौ तुलसीदाम्ना स्फुरन्मकरकुंडलौ ॥५२॥
कौस्तुभालंकृतोरस्कौ पीतांबरविराजितौ ॥
एवं दृष्ट्वा मुनिसुतो जांगलः सुप्रसन्नधीः ॥५३॥
स्वाश्रमं पुनरागत्य सुखेन न्यवसद्द्विजाः ॥
स्वप्नदृष्टं च वृत्तांतं मातापित्रोः स जांगलः ॥५४॥
तेभ्यो न्यवेदयत्सर्वं ब्राह्मणेभ्योऽतिहर्षितः ॥
श्रुत्वा ते मुनयो वृत्तमासन्संप्रीतमानसाः ॥५५॥
अथ राजानमालोक्य सर्वे तेऽपि महर्षयः ॥
अवदन्कुपिता विप्राः शपंतः शंकरं नृपम् ॥५६॥
पांड्यभूप महामूर्ख क्रौर्याद्ब्राह्मणघातक ॥
स्त्रीहत्या ब्रह्महत्या च कृता यस्मात्त्वयाधुना ॥५७॥
अतः शरीरसंत्यागं कुरु त्वं हव्यवाहने ॥
नोचेत्तव न शुद्धिः स्यात्प्रायश्चित्तशतैरपि ॥५८॥
त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भवेत् ॥
अस्मत्सकाशाद्गच्छ त्वं पांड्यानां कुलपांसन ॥५९॥
इत्युक्तो मुनिभिः पांड्यः शंकरो द्विजपुंगवाः ॥
तथास्तु देहसंत्यागं करिष्ये हव्यवाहने ॥६०॥
ब्रह्महत्याविशुद्ध्यर्थं भवतां सन्निधावहम् ॥
अनुग्रहं मे कुर्वंतु भवंतो मुनिसत्तमाः ॥६१॥
तथा शरीर संत्यागात्पातकं मे लयं व्रजेत् ॥
एवमुक्त्वा मुनीन्सर्वाञ्च्छंकरः पांड्यभूपतिः ॥६२॥
स्वान्मंत्रिणः समाहूय बभाषे वचनं त्विदम् ॥
भो मंत्रिणो ब्रह्महत्या मयाऽकार्यविचारतः ॥६३॥
स्त्रीहत्या च तथा क्रूरा महानरकदायिनी ॥
एतत्पातकशुद्ध्यर्थं मुनीनां वचनादहम् ॥६४॥
प्रदीप्ते ऽग्नौ महाज्वाले परित्यक्ष्ये कलेवरम् ॥
काष्ठान्यानयत क्षिप्रं तैरग्निश्च समिध्यताम् ॥६५॥
मम पुत्रं च सुरुचिं राज्ये स्थापयताचिरात् ॥
मा शोकं कुरुतामात्या दैवतं दुरतिक्रमम् ॥६६॥
इतीरिता नृपतिना मंत्रिणो रुरुदुस्तदा ॥
पांड्यनाथ महाराज रिपूणामपि वत्सल ॥६७॥
वयं हि भवता नित्यं पुत्रवत्परिपालिताः ॥
त्वां विना न प्रवेक्ष्याम पुरीं देवपुरोपमाम् ॥६८॥
हव्यवाहं प्रवेक्ष्यामो महा काष्ठसमेधितम् ॥
तेषां प्रलपितं श्रुत्वा पांड्य शंकरभूपतिः ॥
प्रोवाच मंत्रिणः सर्वान्वचनं सांत्वपूर्वकम् ॥६९॥
॥ शंकर उवाच ॥
किं करिष्यथ भोऽमात्या महापातकिना मया ॥७०॥
सिंहासनं समारुह्य न कर्तुं युज्यते बत ॥
चतुरर्णवपर्यंतधरापालनमंजसा ॥७१॥
मत्पुत्रं सुरुचिं शीघ्रमतः स्थापयतासने ॥
काष्ठान्यानयत क्षिप्रं प्रवेष्टुं हव्यवाहनम् ॥७२॥
मम मंत्रिवरा यूयं विलंबं त्यजताधुना ॥
इत्युक्ता मंत्रिणः काष्ठं समानिन्युः क्षणेन ते ॥७३॥
अग्निं प्रज्वलितं काष्ठैर्दृष्ट्वा शंकरभूपतिः ॥
स्नात्वाचम्य विशुद्धात्मा मुनीनां संनिधौ तदा ॥७४॥
अग्निं प्रदक्षिणीकृत्य तान्मुनीनपि सत्वरम्॥
अग्निं मुनीन्नमस्कृत्य ध्यात्वा देवमुमापतिम् ॥७५॥
अग्नौ पतितुमारेभे धैर्यमालंब्य भूपतिः॥
तस्मिन्नवसरे विप्रा मुनीनामपि शृण्वताम् ॥७६॥
अशरीरा समुदभूद्वाणी भैरवनादिनी॥
भोः शंकर महीपाल मानलं प्रविशाधुना ॥७७॥
ब्रह्महत्यानिमित्तं ते भयं मा भून्महामते ॥
तवोपदेशं वक्ष्यामि रहस्यं वेदसंमितम् ॥७८॥
शृणुष्वावहितो राजन्मदुक्तं क्रियतां त्वया ॥
दक्षिणांबुनिधेस्तीरे गंधमादनपर्वते ॥७९॥
रामसेतौ महापुण्ये महापातकनाशने ॥
रामप्रतिष्ठितं लिगं रामनाथं महेश्वरम् ॥८०॥
सेवस्व वर्षमेकं त्वं त्रिकालं भक्तिपूर्वकम् ॥
प्रदक्षिणप्रक्रमणं नमस्कारं च वै कुरु ॥८१॥
महाभिषेकः क्रियतां रामनाथस्य वै त्वया ॥
नैवेद्यं विविधं राजन्क्रियतां च दिनेदिने ॥८२॥
चन्दनागरुकर्पूरै रामलिंगं प्रपूजय ॥
भारद्वयेन गव्येन ह्याज्येन त्वभिषेचय ॥८३॥
प्रत्यहं च गवां क्षीरैर्द्विभारपरिसंमितैः ॥
मधुद्रोणेन तल्लिंगं प्रत्यहं स्नापय प्रभोः ॥८४॥
प्रत्यहं पायसान्नेन नैवेद्यं कुरु भूपते ॥
प्रत्यहं तिलतैलेन दीपाराधनमाचर ॥८५॥
एतेन तव राजेंद्र रामनाथस्य शूलिनः ॥
स्त्रीहत्य्रा ब्रह्महत्या च तत्क्षणादेव नश्यतः ॥८६॥
दर्शनाद्रामनाथस्य भ्रूणहत्याशतानि च ॥
अयुतं ब्रह्महत्यानां सुरापानायुतं तथा ॥८७॥
स्वर्णस्तेयायुतं राजन्गुरुस्त्रीगमनायुतम् ॥
एतत्संसर्गदोषाश्च विनश्यंति क्षणाद्विभो॥८८॥
महापातकतुल्यानि यानि पापानि संति वै ॥
तानि सर्वाणि नश्यंति रामनाथस्य सेवया ॥८९॥
महती रामनाथस्य सेवा लभ्येत चेन्नृणाम् ॥
किं गंगया च गयया प्रयागेणाध्वरेण वा ॥९०॥
तद्गच्छ रामसेतुं त्वं रामनाथं भजानिशम् ॥
विलंबं मा कुरु विभो गमने च त्वरां कुरु ॥९१॥
इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥
तच्छ्रुत्वा मुनयः सर्वे त्वरयंति स्म भूपतिम् ॥९२॥
गच्छ शीघं महाराज रामसेतुं विमुक्तिदम् ॥
रामनाथस्य माहात्म्यमज्ञात्वास्माभिरीरितम् ॥९३॥
देहत्यागं कुरुष्वेति वह्नौ प्रज्वलितेऽधुना ॥
अनुज्ञातो मुनिवरैरिति राजा स शंकरः ॥॥ ९४॥
चतुरंगबलं पुर्यां प्रापयित्वा त्वरान्वितः ॥
नमस्कृत्य मुनीन्सर्वान्प्रहृष्टेनांतरात्मना ॥९५॥
वृतः कतिपयैः सैन्यैः समादाय धनं बहु ॥
रामनाथस्य सेवार्थमयासीद्गंधमादनम् ॥९६॥
उवास वर्षमेकं च रामसेतौ विशुद्धिदे ॥
एकभुक्तो जितक्रोधो विजितेंद्रियसंचयः ॥९७॥
त्रिसंध्यं रामनाथं च सेवमानः सभक्तिकम् ॥
प्रददौ रामनाथाय दशभारं धनं मुदा ॥९८॥
प्रत्यहं रामनाथस्य महापूजामकारयत् ॥
अकरोच्च धनुष्कोटौ प्रत्यहं भक्तिपूर्वकम् ॥९९॥
स्नानं प्रतिदिनं चान्नं ब्राह्मणेभ्य ददौ मुदा ॥
अशरीरावचःप्रोक्तमखिलं पूजनं तथा ॥१००॥
एवं कृतवतस्तस्य वर्षमेकं गतं द्विजाः ॥
वर्षांते स शुचिर्भूत्वा शंकरस्तुष्टमानसः ॥
तुष्टाव परमेशानं रामनाथं घृणानिधिम् ॥१॥
॥शंकर उवाच ॥
नमामि रुद्रमीशानं रामनाथमुमापतिम् ॥२॥
पाहि मां कृपया देव ब्रह्महत्यां दहाशु मे ॥
त्रिपुरघ्न महादेव कालकूटविषादन ॥३॥
रक्ष मां त्वं दयासिंधो स्त्रीहत्यां मे विमोचय ॥
गंगाधर विरूपाक्ष रामनाथ त्रिलोचन ॥४॥
मां पालय कृपादृष्ट्या छिन्धि मत्पातकं विभो ॥
कामारे कामसंदायिन्भक्तानां राघवेश्वर ॥॥ ५॥
कटाक्षं पातय मयि शुद्धं मां कुरु धूर्जटे ॥
मार्कंडेयभयत्राण मृत्युंजय शिवाव्यय ॥६॥
नमस्ते गिरिजार्धाय निष्पापं कुरु मां सदा ॥
रुद्राक्षमालाभरण चन्द्रशेखर शंकर ॥७॥
वेदोक्तसम्यगाचारयोग्यं मां कुरु ते नमः ॥
सूर्यदंतभिदे तुभ्यं भारतीनासिकाच्छिदे ॥८॥
रामेश्वराय देवाय नमो मे शुद्धिदो भव ॥
आनंदं सच्चिदानंदं रामनाथं वृषध्वजम् ॥९॥
भूयोभूयो नमस्यामि पातकं मे विनश्यतु ॥
भक्त्यैवं स्तुवतस्तस्य रामनाथं महेश्वरम् ॥११०॥
निर्जगाम मुखाद्राज्ञो ब्रह्महत्यातिभीषणा ॥
नीलवस्त्रधरा क्रूरा महारक्तशिरोरुहा ॥११॥
तां ब्रह्महत्यां बीभत्सां नृपवक्त्राद्विनिर्गताम् ॥
निजघान त्रिशूलेन भैरवो रुद्रशासनात् ॥१२॥
हतायां ब्रह्महत्यायां भैरवेण शिवाज्ञया ॥
रामनाथो नृपं प्राह स्तुत्या तस्य प्रसन्नधीः ॥१३॥
॥ श्रीरामनाथ उवाच ॥
पांड्यभूप महाराज स्तोत्रेणानेन तेऽनघ ॥
प्रसन्नोऽहं वरं दास्ये तुभ्यं वरय चेप्सितम् ॥१४॥
स्त्रीहत्याब्रह्महत्याभ्यां यस्ते दोषः स निर्गतः ॥
शुद्धो विधूतपापोऽसि राज्यं पालय पूर्ववत् ॥१५॥
ये मामत्र निषेवंते भक्तियुक्तेन चेतसा ॥
नाशयामि नृणां तेषां ब्रह्महत्यायुतान्यपि ॥१६॥
सुरापानायुतं भूप गुरुस्त्रीगमनायुतम् ॥
स्वर्णस्तेयायुतमपि तत्संसर्गायुतं तथा ॥१७॥
अन्यान्यपि च पापानि नाशयामि न संशयः ॥
मत्सेविनो नरा राजन्न भूयः संसरंति ते ॥१८॥
किं तु सायुज्यरूपां मे मुक्तिं यास्यन्त्यसंशयम् ॥
स्तुवंत्यनेन स्तोत्रेण ये मां भक्तिपुरःसरम् ॥१९॥
नाशयाम्यहमेतेषां महापातकसंचयम् ॥
प्रीतोऽहं तव भक्त्या च स्तोत्रेण मनुजेश्वर ॥१२०॥
यथेष्टं प्रार्थय वरं मत्तस्त्वं वरदान्नृप ॥
एवमुक्तः शिवेनाथ शंकरो नृपपुंगवः ॥
रामनाथं बभाषे तं शंकरं करुणानिधिम् ॥२१॥
॥ नृप उवाच ॥
तव संदर्शनेनाहं कृतार्थोऽस्मि महेश्वर ॥२२॥
इतः परं प्रार्थनीयं मम नास्त्यधुनाधिकम् ॥
मृकण्डुसुतसंतापहारि पादयुगं तव ॥२३॥
दृष्टं मया महादेव नातः प्रार्थ्यं विभोस्ति वै ॥
त्वत्पादपद्मयुगुले निश्चला भक्तिरस्तु मे ॥२४॥
न पुनर्जन्म मे भूयान्मातॄणामुदरेऽशुचौ ॥
ये मत्कृतमिदं स्तोत्रं कीर्तयंति तव प्रभो ॥
ते नराः पापनिर्मुक्तास्त्वत्सेवाफलमाप्नुयुः ॥२५॥
॥ श्रीसूत उवाच ॥
तथास्त्वित्यनुगृह्यैनं रामनाथो द्विजोत्तमाः ॥२६॥
नीलकण्ठो विरूपाक्षो लिंगरूपे तिरोहितः ॥
राजापि रामनाथेन विहितानुग्रहस्ततः ॥२७॥
रामनाथं नमस्कृत्य कृतार्थेनांतरात्मना ॥
स सेनासंवृतः प्रीतः प्रययावात्मनः पुरीम् ॥२८॥
वृत्तांतमेतमवदन्मुनीनां वनवासिनाम् ॥
तेभ्यषिंचन्नृपं राज्ये मुनयः प्रीतमानसाः ॥२९॥
पुत्रदारयुतो राजा प्राप्य राज्यमकण्टकम् ॥
मंत्रिभिः सहितो विप्रा ररक्ष पृथिवीं चिरम् ॥१३०॥
ततोंतकाले संप्राप्ते ध्यायन्रामेश्वरं शिवम् ॥
देहांते रामनाथस्य सायुज्यं प्रययौ शुभम् ॥३१॥
एवं वः कथितं विप्रा रामनाथस्य वैभवम् ॥
चरितं पुण्यमाख्यानं शंकराख्य नृपस्य च ॥३२॥
शृण्वन्पठन्वा मनुजस्त्विममध्यायमादरात् ॥
सर्वपापविनिर्मुक्तो रामनाथं समश्नुते ॥१३३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथप्रशंसायां शाकल्यदुर्मरणदोषशांतिपूर्वक शंकरस्त्रीहत्याब्रह्महत्यादोषशांतिवर्णनंनामाष्टचत्वारिंशोऽध्यायः ॥४८॥छ ॥॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP