संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १५ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १५ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १५ Translation - भाषांतर ॥ श्रीसूत उवाच ॥ब्रह्मकुण्डे महापुण्ये स्नानं कृत्वा समाहितः ॥नरो हनूमतः कुण्डमथ गच्छेद्विजोत्तमाः ॥१॥पुरा हतेषु रक्षःसु समाप्ते रणकर्मणि ॥रामादिषु निवृत्तेषु गंधमादनपर्वते ॥२॥सर्व लोकोपकाराय हनूमान्मारुतात्मजः ॥सर्वतीर्थोत्तमं चक्रे स्वनाम्ना तीर्थमुत्तमम् ॥३॥विदित्वा वैभवं यस्य स्वयं रुद्रेण सेव्यते ॥तस्य तीर्थस्य सदृशं न भूतं न भविष्यति ॥४॥यत्र स्नाता नरा यांति शिवलोकं सनातनम् ॥यस्मिंस्तीर्थे महापुण्ये महापातकनाशने ॥५॥सर्वलोकोपकाराय निर्मिते वायुसूनुना ॥सर्वाणि नरकाण्यासञ्च्छून्यान्येव चिराय वै ॥६॥वैभवं तस्य तीर्थस्य शंकरो वेत्ति वा न वा ॥यत्र धर्मसखोनाम राजा केकयवंशजः ॥७॥भक्त्या सह पुरा स्नात्वा शतं पुत्रानवाप्त वान् ॥॥ ऋषय ऊचुः ॥सूत धर्मसखस्याद्य चरितं वक्तुमर्हसि ॥हनूमत्कुण्डतीर्थे यो लेभे स्नात्वा शतं सुतान् ॥८॥॥ श्रीसूत उवाच ॥शृणुध्वमृषयो यूयं चरितं तस्य भूपतेः ॥९॥अद्य धर्मसखस्याहं प्रवक्ष्यामि समासतः ॥राजा धर्मसखोनाम विजितारिः सुधार्मिकः ॥१०॥बभूव नीतिमान्पूर्वं प्रजापालनतत्परः ॥तस्य भार्याशतं विप्रा वभूव पतिदैवतम् ॥११॥स पालयन्महीं राजा सशैलवनकाननाम् ॥तासु भार्यासु तनयं नाविंदद्वंशवर्द्धनम् ॥१२॥पुत्रार्थं स महीपालो बहूयत्नानथाकरोत् ॥५अकरोच्च महादानं पुत्रार्थं स महीपतिः ॥१३॥अश्वमेधादिभिर्यज्ञैरयजच्च सुरान्प्रति ॥तुलापुरुषमुख्यानि ददौ दानानि भूरिशः ॥१४॥आमध्यरात्रमन्नानि सर्वेभ्योऽप्यनिवारितम् ॥प्रायच्छद्बहुसूपानि सस्योपेतानि भूमिपः ॥१५॥पितॄनुद्दिश्य च श्राद्धमकरोद्विधिपूर्वकम् ॥संतानदायिनो मंत्राञ्जजाप नियतेद्रियः ॥१६॥एवमादीन्बहून्धर्मान्पुत्रार्थं कृतवान्नृपः ॥पुत्रमुद्दिश्य सततं कुर्वन्धर्माननुत्तमान् ॥१७॥राजा दीर्घेण कालेन वृद्धतां प्रत्यपद्यत ॥कदाचित्तस्य वृद्धस्य यतमानस्य भूपतेः ॥१८॥पुत्रस्सुचंद्रनामाभूज्ज्येष्ठपत्न्यां मनोरमः ॥जातं पुत्रं जनन्यस्ताः सर्वा वैषम्यवर्जिताः ॥१९॥समं संवर्द्धयामासुः क्षीरादिभिरनुत्तमाः ॥राज्ञश्च सर्वमातॄणां पौराणाम्मंत्रिणां तथा ॥२०॥मनोनयनसंतोषजनकोऽयं सुतोऽभवत् ॥लालयानः सुतं राजा मुदं लेभे परात्पराम्॥२१॥आंदोलिकाशयानस्य सूनोस्तस्य कदाचन ॥वृश्चिकोऽकुट्टयत्पादे पुच्छेनोद्यद्विषाग्निना ॥२२॥कुट्टनाद्वृश्चिकस्यासावरुदत्तनयो भृशम् ॥ततस्तन्मातरः सर्वाः प्रारुदञ्च्छोककातराः ॥२३॥परिवार्यात्मजं विप्राः सध्वनिः संकुलोऽभवत् ॥आर्तध्वनिं स शुश्राव राजा धर्मसखस्तदा ॥२४॥उपविष्टः सभामध्ये सहामात्यपुरोहितः ॥अथ प्रातिष्ठिपद्राजा सौविदल्लं स वेदितुम् ॥२५॥अन्तःपुरबहिर्द्वारं सौविदल्लः समेत्य सः ॥षंढवृद्धान्समाहूय वाक्यमेतदभाषत ॥२६॥षंढाः किमर्थमधुना रुदत्यन्तःपुर स्त्रियः ॥तत्परिज्ञायतां तत्र गत्वा रोदनकारणम् ॥२७॥एतदर्थं हि मां राजा प्रेरयामास संसदि ॥इत्युक्तास्तु परिज्ञाय निदानं रोदनस्य ते ॥२८॥निर्गम्यांतःपुरात्तस्मै यथावृत्तं न्यवेदयत् ॥स षंढकवचः श्रुत्वा सौविदल्लः सभां गतः ॥२९॥राज्ञे निवेदयामास पुत्रं वृश्चिकपीडितम् ॥ततो धर्मसखो राजा श्रुत्वा वृत्तांतमीदृशम् ॥३०॥त्वरमाणः समुत्थाय सामात्यः सपुरोहितः ॥प्रविश्यांतःपुरं सार्द्धं मांत्रिकैर्विषहा रिभिः ॥३१॥चिकित्सयामास सुतमौषधाद्यैरनेकशः ॥जातस्वास्थ्यं ततः पुत्रं लालयित्वा स भूपतिः ॥३२॥मानयित्वा च मंत्रज्ञान्रत्नकां चनमौक्तिकैः ॥निष्क्रम्यांतःपुराद्राजा भृशं चिंतासमाकुलः ॥३३॥ऋत्विक्पुरोहितामात्यैस्तां सभां सनुपाविशत् ॥तत्र धर्मसखो राजा समासीनो वरासने ॥उवाचेदं वचो युक्तमृत्विजः सपुरोहितान् ॥३४॥॥ धर्मसख उवाच ॥दुःखायैवैकपुत्रत्वं भवति ब्राह्मणो त्तमाः ॥३५॥एकपुत्रत्वतो तृणां वरा चैव ह्यपुत्रता ॥नित्यं व्यपाययुक्तत्वाद्वरमेव ह्यपुत्रता ॥अहं भार्याशतं विप्रा उदवोढ विचिंत्य तु ॥३६॥वयश्च समतिक्रांतं सपत्नीकस्य मे द्विजाः ॥प्राणा मम च भार्याणामस्मिन्पुत्रे व्यवस्थिताः ॥३७॥तन्नाशे मम भार्याणां सर्वासां च मृतिर्ध्रुवा ॥ममापि प्राणनाशः स्यादेकपुत्रस्य मारणे ॥३८॥अतो मे बहुपुत्रत्वं केनोपायेन वै भवेत् ॥तमुपायं मम ब्रूत ब्राह्मणा वेदवि त्तमाः ॥३९॥एकैकः शतभार्यासु पुत्रो मे स्याद्यथा गुणी ॥तत्कर्म व्रत यूयं तु शास्त्रमालोक्य धर्मतः ॥४०॥महता लघुना वापि कर्मणा दुष्करेण वा ॥फलं यद्यपि तत्साध्यं करिष्येऽहं न संशयः ॥४१॥युष्माभिरुदितं कर्म करिष्यामि न संशयः ॥कृतमेव हि तद्वित्त शपेऽहं सुकृतैर्मम ॥४२॥अस्ति चेदीदृशं कर्म येन पुत्रशतं भवेत् ॥तत्कर्म कुत्र कर्तव्यं मयेति वदताधुना ॥४३॥इति पृष्टास्तदा राज्ञा ऋत्विजः सपुरोहिताः ॥संभूय सर्वे राजानमिदमूचुः सुनिश्चितम् ॥४४॥॥ ऋत्विज ऊचुः ॥अस्ति राजन्प्रवक्ष्यामो येन पुत्रशतं तव ॥भवेद्धर्मेण महता शतभार्यासु कैकय ॥४५॥अस्ति कश्चिन्महापुण्यो गन्धमादनपर्वतः ॥दक्षिणांबुधिमध्ये यः सेतुरूपेण वर्तते ॥४६॥सिद्धचारणगंधर्वदेवर्षिगणसंकुलः ॥दर्शनात्स्पर्शनान्नृणां महापातकनाशनः ॥४७॥तत्रास्ति हनुमत्कुंडमिति लोकेषु विश्रुतम् ॥महादुःखप्रशमनं स्वर्गमोक्षफलप्रदम् ॥४८॥नरकक्लेशशमनं तथा दारिद्र्यमोचनम् ॥पुत्रप्रदमपुत्राणामस्त्रीणां स्त्रीपदं नृणाम् ॥४९॥तत्र त्वं प्रयतः स्नात्वा सर्वाभीष्टप्रदायिनीम्॥पुत्रीयेष्टिं च तत्तीरे कुरुष्व सुसमाहितः ॥५०॥तेन ते शतभार्यासु प्रत्येकं तनयो नृप ॥एकैकस्तु भवेच्छीघ्रं मा कुरु ष्वात्र संशयम्॥ ५१॥तथोक्तो नृपतिर्विप्रैऋत्विक्भिः सपुरोहितैः ॥तत्क्षणेनैव ऋत्विक्भिर्भार्याभिश्च पुरोधसा ॥५२॥वृतोमात्यैश्च भृत्यैश्च यज्ञसंभारसंयुतः ॥प्रययौ दक्षिणांभोधौ गन्धमादनपर्वतम् ॥५३॥हनुमत्कुंडमासाद्य तत्र सस्नौ ससैनिकः ॥मासमात्रं स तत्तीरे न्यवस त्स्नानमाचरन् ॥५४॥ततो वसंते संप्राप्ते चैत्रमासि नृपोत्तमः ॥इष्टिमारब्धवांस्तत्र पुत्रीयां सपुरोहितः ॥५५॥सम्यक्कर्माणि चक्रुस्ते ऋत्विजः सपुरोधसः ॥सपत्नीकस्य राजर्षेस्तथाधर्मसखस्य तु ॥५६॥इष्टौ तस्य समाप्तायां हनूमत्कुंडतीरतः ॥पुरोहितो हुतोच्छिष्टं प्राश यद्राजयोषितः ॥५७॥ततो धर्मसखो राजा हनूमत्कुंडवारिषु ॥सम्यक्चकारावभृथस्नानं भार्याशतान्वितः ॥५८॥ऋत्विक्भ्यो दक्षिणाः प्रादादसंख्यातास्तु भूरिशः ॥ग्रामांश्च प्रददौ राजा बाह्मणेभ्यो द्विजोत्तमाः ॥५९॥सामात्यः सपरीवारः सपत्नीकः स धार्म्मिकः ॥राजा ततो निववृते पुरीं स्वां प्रति नंदितः ॥६०॥ततः कतिपये काले गते दशममामि वै ॥शतं भार्याः शतं पुत्रान्सुषुवुर्गुणवत्तरान् ॥६१॥अथ प्रीतमना राजा वीरो धर्मसखो महान् ॥स्नातः शुद्धश्च संकल्प्य जातकर्माकरोत्तदा ॥६२॥गोभूतिलहिरण्यादि ब्राह्मणेभ्यो ददौ बहु ॥द्वौ पुत्रौ ज्येष्ठभार्यायाः पूर्वजोऽवरजस्तदा ॥६३॥सर्वे ववृधिरे पुत्रा एकाधिकशतं द्विजाः ॥प्रौढेषु तेषु राजासौ तेभ्यो राज्यं विभज्य तु ॥६४॥दत्त्वा च प्रययौ सेतुं सभार्यो गन्धमादनम्॥हनुमत्कुंडमासाद्य तपोऽतप्यत तत्तटे ॥६५॥महान्कालो व्यतीयाय राज्ञ स्तस्य तपस्यतः ॥राज्ञो धर्मसखस्यास्य ध्यायमानस्य शूलिनम् ॥६६॥ततो बहुतिथे काले गते धर्मसखो नृपः ॥कालधर्मं ययौ तत्र धार्म्मिकश्शांतमानसः ॥६७॥पत्न्योपि तस्य राजर्षेरनुजग्मुः पतिं तदा ॥ज्येष्ठपुत्रः सुचन्द्रोपि संस्कृत्य पितरं ततः ॥६८॥अकरोच्छ्राद्ध पर्यंतं कर्माणि श्रद्धया सह ॥राजा सभार्यो वैकुंठं मरणादत्र जग्मिवान् ॥६९॥सुचन्द्रमुख्यास्ते सर्वे राजपुत्रा महौजसः ॥स्वस्वराज्यं बुभुजिरे भ्रातरस्त्यक्तमत्सराः ॥७०॥एवं वः कथितं विप्रा हनूमत्कुंडवैभवम् ॥राज्ञो धर्मसखस्यापि चरित्रं परमाद्भुतम् ॥७१॥तत्सर्वं कामसि द्ध्यर्थं स्नायात्कुंडे हनृमतः ॥७२॥अध्यायमेनं पठते मनुष्यः शृणोति वा यः सुसमाहितो द्विजाः ॥सोऽनंतमाप्नोति सुखं परत्र क्रीडेत सार्द्धं दिवि देववृन्दैः ॥७३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये हनुमत्कुंडप्रशंसायां धर्मसखशतपुउत्रावाप्तिवर्णनंनाम पञ्चदशोऽध्यायः ॥१५॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP