संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १० सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १० Translation - भाषांतर ॥ श्रीसूत उवाच ॥वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ॥ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम् ॥१॥योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ॥स मार्गो ब्रह्मलोकस्य विश्वकर्त्रा विनिर्मितः ॥२॥लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥समुद्राश्च महापुण्या वनान्यप्याश्रमाणि च ॥३॥पुण्यानि क्षेत्रजातानि वेदारण्या दिकानि च ॥मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः ॥४॥लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥सावित्र्या च सरस्वत्या सहैव चतुराननः ॥५॥हेरंबः षण्मुखश्चैव देवाश्चेंद्रपुरोगमाः ॥आदित्यादिग्रहाश्चैव तथाष्टौ वसवो द्विजाः ॥६॥पितरो लोकपालाश्च तथान्ये देवता गणाः ॥महापातकसंघानां नाशने लोकपावने ॥७॥दिवानिशं वसंत्यत्र पर्वते गंधमादने ॥अत्र गौरी सदा तुष्टा हरेण सह वर्तते ॥अत्र किन्नरकांतानां क्रीडा जागर्ति नित्यशः ॥तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥९॥तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ॥पूजयंति सदा कालं शंकरं गिरिजापतिम् ॥१०॥कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥अंगलग्नैर्विनश्यंति गन्धमादनमारुतैः ॥११॥असावुल्लोलकल्लोले तिष्ठन्मध्ये महांबुधौ ॥आसीन्मुनिगणैः सेव्यः पुरा वै गन्धमादनः ॥१२॥ततो नलेन सेतौ तु बद्धे तन्मध्यगोचरः ॥रामाज्ञयाखिलैः सेव्यो बभूव मनुजैरपि ॥१३॥सेतुरूपं गिरिं तं तु प्रार्थयेद्गंधमादनम् ॥क्षमाधर महापुण्य सर्वदेवनमस्कृत ॥१४॥विष्ण्वा दयोऽपि ये देवास्सेवंते श्रद्धया सह ॥तं भवंतमहं पद्भ्यामाक्रमामि नगोत्तम ॥१५॥क्षमस्व पादघातं मे दयया पापचेतसः ॥त्वन्मूर्द्धनि कृतावासं शंकरं दर्शयस्व मे ॥१६॥प्रार्थयित्वा नरस्त्वेवं सेतुरूपं नगोत्तमम् ॥ततो मृदुपदं गच्छेत्पावनं गन्धमादनम् ॥१७॥अब्धौ तत्र नरः स्नात्वा पर्वते गन्धमादने ॥पिंडदानं ततः कुर्यादपि सर्षपमात्रकम् ॥१८॥तृप्तिं प्रयांति पितरस्तस्य यावद्युगक्षयः ॥शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति ॥१९॥स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः ॥ततस्तस्योपरि महातीर्थं लोकेषु विश्रुतम् ॥२॥सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥अस्ति पुण्यतमं विप्राः पवित्रे गन्धमादने ॥२१॥यस्य संस्मरणादेव गर्भवासो न विद्यते ॥तत्प्राप्य तु नरः स्नायात्स्वदे हमलनाशनम् ॥तत्र स्नानान्नरो याति वैकुण्ठं नात्र संशयः ॥२२॥॥ ऋषय ऊचुः ॥सूत पापविनाशाख्य तीर्थस्य ब्रूहि वैभवम् ॥व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने॥२३॥॥श्रीसूत उवाच॥ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे॥वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्॥२४॥अस्याश्रमपदं पुण्यं ब्रह्माश्रमपदे शुभे ॥नानावृक्षगणाकीर्णं पार्श्वे हिमवतः शुभे ॥२५॥वहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ॥२६॥वृतिभिर्बहुभिः कीर्णं तापसैरुशोभितम् ॥ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः ॥२७॥नियमव्रतसं पन्नैः समाकीर्णं तपस्विभिः ॥दीक्षितैर्यागहेतोश्च यताहारैः कृतात्मभिः ॥२८॥वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ॥वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥२९॥स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥वालखिल्यैश्च मुनिभिः संप्राप्तैश्च मरीचिभिः ॥३०॥तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ॥३१॥आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै ॥३२॥तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥कुर्वतो विविधान्यज्ञान्संप्रहृष्य स शूद्रकः ॥३३॥अथास्य बुद्धिरभवत्तपःकर्तुमनुत्तमम् ॥ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ॥३४॥॥ दृढमतिरुवाच ॥तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ॥३५॥तस्मादभिगतं मां त्वं यागे दीक्षय सुव्रत ॥ब्रह्मन्नवरवर्णोऽहं शूद्रो जात्यास्मि सत्तम ॥३६॥शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥एवमुक्ते तु शूद्रेण तमाह ब्राह्मणस्तदा ॥३७॥॥ कुलपतिरुवाच ॥यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥श्रूयतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥३८॥उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥उपदेशे महान्दोष उपाध्यायस्य विद्यते ॥३९॥नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥काव्यं वा नाटकं वापि तथालंकारमेव च ॥पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ॥४१॥यदि चोपदिशेद्विप्रः शूद्रं चैतानि कर्हिचित् ॥त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसंकुलात् ॥४२॥शूद्राय चोपदेष्टारं द्विजं चंडालवत्त्यजेत् ॥शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥अतः शुश्रूष भद्रं ते ब्राह्मणाञ्छ्रद्धया सह॥शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता॥४४॥नहि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥एवमुक्तस्तु मुनिना स शूद्रोऽचिंतयत्तदा ॥४५॥किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे पुरा ॥यथा स्यान्मम विज्ञानं यतिष्येऽहं तथाद्य वै ॥४६॥इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥गत्वाश्रमपदाद्दूरं कृतवानुटजं शुभम् ॥४७॥तत्र वै देवतागारं पुण्यान्यायतनानिच ॥पुष्पारामादिकं चापि तटाकखननादिकम् ॥४८॥श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ॥अभिषेकांश्च नियमानुपवासादिकानपि ॥४९॥बलिं च कृत्वा हुत्वा च दैवतान्यभ्यपूजयत् ॥संकल्पनियमोपेतः फलाहारो जितेंद्रियः ॥५०॥नित्यं कंदैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥अतिथीन्पूजयामास यथावत्समुपागतान् ॥५१॥एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥५२॥द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः ॥स्वागतेन मुनिं पूज्य तोषयित्वा फलादिकैः ॥५३॥कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥इत्थं सप्रणिपाताद्यैरुपचारैस्तु पूजितः ॥५४॥आशीर्भिरभिनंद्यैनं प्रतिगृह्य च सत्क्रियाम् ॥तमापृछ्य प्रहृष्टाप्मा स्वाश्रमं पुनराययौ ॥५५॥एवं दिनेदिने विप्रः शूद्रेस्मिन्पक्षपातवान् ॥आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥५६॥बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना॥स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥पितृकार्यविधानार्थं देवकार्यार्थमेव च ॥मंत्रानुपदिश त्वं मे महालयविधिं तथा ॥५९॥अष्टकाश्राद्धकृत्यं च वैदिकं यच्च किंचन ॥सर्वमेतद्रहस्यं मे ब्रूहि त्वं वै गुरुर्मतः ॥६०॥एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ॥अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥६२॥त्यक्तो विप्रगणैः सोऽयं पंचत्वमगमद्द्विजःवैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६३॥कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥भुक्त्वा क्रमेण नरकांस्तदंते स्था वरोऽभवत् ॥६४॥गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥अथ चंडालतां प्राप शूद्रयोनिमगात्ततः ॥गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनंतरम् ॥६६॥प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ॥उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥६८॥रुदन्भ्रमन्स्खल न्मूढः प्रहसन्विलपन्नसौ ॥शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥६९॥दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥सुतमादाय च स्नेहा दगस्त्यं शरणं ययौ ॥७०॥भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥७१॥अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम्॥एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ॥७२॥सुखं न भजते ब्रह्मन्रक्ष तं करुणादृशा ॥नास्ति मे तनयोऽ प्यन्यः पितॄणामृणमुक्तये ॥७३॥अस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥७४॥अग्रणीः शिवभक्तानामुक्तस्त्वं हि महर्षिभिः ॥त्वां विनास्य परित्राणं न मेपुत्रस्य विद्यते ॥७५॥पित्रे कृपां कुरुष्व त्वं दयाशीला हि साधवः ॥॥ श्रीसूत उवाच ॥एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥७६॥ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥॥ अगस्त्य उवाच ॥पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥७७॥सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥कर्माणि वैदिकान्येष सर्वाण्युपदि देश वै ॥७८॥अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥जातो भुवि तदंतेषु स्थावरादिषु योनिषु ॥७९॥इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥८०॥क्रूरेण पातकेनाद्धा पूवजन्मकृतेन वै ॥उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥८१॥शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥दक्षिणांभोनिधौ विप्र सेतुरूपो महागिरिः ॥८२॥वर्तते दैवतैः सेव्यः पावनो गन्धमादनः ॥तस्योपरि महातीर्थं नाम्ना पापविनाशनम् ॥८३॥अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥भूतप्रेतपिशाचानां वेतालब्रह्म रक्षसाम्॥ ८४॥महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥सुतमादाय गच्छ त्वं तत्तीर्थं सेतुमध्यगम् ॥८५॥प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति ॥८६॥नैवोपायांतरं तस्य विनाशे विद्यते भुवि ॥तस्माच्छीघ्रं प्रयाहि त्वं रामसेतुं विमुक्तिदम् ॥८७॥तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥मा विलंबं कुरुष्वात्र त्वरया याहि वै द्विज ॥८८॥इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत्॥अनुज्ञातश्च तेनासौ प्रययौ गंधमादनम् ॥८९॥सुतेन साकं विप्रेंद्रो गत्वा पापविनाशनम् ॥संकल्पपूर्वं संस्नाप्य दिनत्रयमसौसुतम्॥९॥सस्नौ स्वयं च विप्रेंद्राः पिता पापविनाशने ॥अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥९१॥समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥९२॥देहांते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥पितापि तत्र स्नानेन देहांते मुक्तिमाप्तवान्॥ ९३॥तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान्क्रमात् ॥अनेकासु जनित्वा च कुत्सितास्वपियोनिषु ॥९४॥गृध्रजन्मा भवत्पश्चाद्गंधमादनपर्वते ॥स कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥९५॥समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ॥९६॥दिव्यमाल्यांबरधरो रक्तचंदनरूषितः ॥दिव्यं विमानमारुह्य शोभितश्छत्रचामरैः ॥९७॥उत्तमस्त्रीपरिवृतः प्रययावमरालयम् ॥९८॥श्रीसूत उवाच ॥एवं प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥स्वर्गदं मोक्षदं पुण्यं प्रायश्चित्तकरं तथा ॥ब्रह्मविष्णुमहे शानैः सेवितं सुरसेवितम् ॥९९॥पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥श्रेयोर्थी पुरुषस्तस्मात्स्नायात्पापविनाशने ॥१॥॥इत्थं रहस्यं कथितं मुनींद्रास्तद्वैभवं पापविनाशनस्य ॥यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिंद्यकृत्यौ ॥१०१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये गंधमादनप्रशंसायां पापविनाशप्रभावकथनंनाम दशमोऽध्यायः ॥१०॥ N/A References : N/A Last Updated : November 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP