सेतुखण्डः - अध्याय १०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
वेतालवरदे तीर्थे नरः स्नात्वा द्विजोत्तमाः ॥
ततः शनैःशनैर्गच्छेद्गन्धमादनपर्वतम् ॥१॥
योंऽबुधौ सेतुरूपेण वर्तते गन्धमादनः ॥
स मार्गो ब्रह्मलोकस्य विश्वकर्त्रा विनिर्मितः ॥२॥
लक्षकोटिसहस्राणि सरांसि सरितस्तथा ॥
समुद्राश्च महापुण्या वनान्यप्याश्रमाणि च ॥३॥
पुण्यानि क्षेत्रजातानि वेदारण्या दिकानि च ॥
मुनयश्च वसिष्ठाद्या सिद्धचारणकिन्नराः ॥४॥
लक्ष्म्या सह धरण्या च भगवान्मधुसूदनः ॥
सावित्र्या च सरस्वत्या सहैव चतुराननः ॥५॥
हेरंबः षण्मुखश्चैव देवाश्चेंद्रपुरोगमाः ॥
आदित्यादिग्रहाश्चैव तथाष्टौ वसवो द्विजाः ॥६॥
पितरो लोकपालाश्च तथान्ये देवता गणाः ॥
महापातकसंघानां नाशने लोकपावने ॥७॥
दिवानिशं वसंत्यत्र पर्वते गंधमादने ॥
अत्र गौरी सदा तुष्टा हरेण सह वर्तते ॥
अत्र किन्नरकांतानां क्रीडा जागर्ति नित्यशः ॥
तस्य दर्शनमात्रेण बुद्धिसौख्यं नृणां भवेत् ॥९॥
तन्मूर्धनि कृतावासाः सिद्धचारणयोषितः ॥
पूजयंति सदा कालं शंकरं गिरिजापतिम् ॥१०॥
कोटयो ब्रह्महत्यानामगम्यागमकोटयः ॥
अंगलग्नैर्विनश्यंति गन्धमादनमारुतैः ॥११॥
असावुल्लोलकल्लोले तिष्ठन्मध्ये महांबुधौ ॥
आसीन्मुनिगणैः सेव्यः पुरा वै गन्धमादनः ॥१२॥
ततो नलेन सेतौ तु बद्धे तन्मध्यगोचरः ॥
रामाज्ञयाखिलैः सेव्यो बभूव मनुजैरपि ॥१३॥
सेतुरूपं गिरिं तं तु प्रार्थयेद्गंधमादनम् ॥
क्षमाधर महापुण्य सर्वदेवनमस्कृत ॥१४॥
विष्ण्वा दयोऽपि ये देवास्सेवंते श्रद्धया सह ॥
तं भवंतमहं पद्भ्यामाक्रमामि नगोत्तम ॥१५॥
क्षमस्व पादघातं मे दयया पापचेतसः ॥
त्वन्मूर्द्धनि कृतावासं शंकरं दर्शयस्व मे ॥१६॥
प्रार्थयित्वा नरस्त्वेवं सेतुरूपं नगोत्तमम् ॥
ततो मृदुपदं गच्छेत्पावनं गन्धमादनम् ॥१७॥
अब्धौ तत्र नरः स्नात्वा पर्वते गन्धमादने ॥
पिंडदानं ततः कुर्यादपि सर्षपमात्रकम् ॥१८॥
तृप्तिं प्रयांति पितरस्तस्य यावद्युगक्षयः ॥
शमीदलसमानान्वा दद्यात्पिंडान्पितॄन्प्रति ॥१९॥
स्वर्गस्था मोक्षमायांति स्वर्गं नरकवासिनः ॥
ततस्तस्योपरि महातीर्थं लोकेषु विश्रुतम् ॥२॥
सर्वतीर्थोत्तमं पुण्यं नाम्ना पापविनाशनम् ॥
अस्ति पुण्यतमं विप्राः पवित्रे गन्धमादने ॥२१॥
यस्य संस्मरणादेव गर्भवासो न विद्यते ॥
तत्प्राप्य तु नरः स्नायात्स्वदे हमलनाशनम् ॥
तत्र स्नानान्नरो याति वैकुण्ठं नात्र संशयः ॥२२॥
॥ ऋषय ऊचुः ॥
सूत पापविनाशाख्य तीर्थस्य ब्रूहि वैभवम् ॥
व्यासेन बोधितस्त्वं हि वेत्सि सर्वं महामुने॥२३॥
॥श्रीसूत उवाच॥
ब्रह्माश्रमपदे वृत्तां पार्श्वे हिमवतः शुभे॥
वक्ष्यामि ब्राह्मणश्रेष्ठा युष्माकं तु कथां शुभाम्॥२४॥
अस्याश्रमपदं पुण्यं ब्रह्माश्रमपदे शुभे ॥
नानावृक्षगणाकीर्णं पार्श्वे हिमवतः शुभे ॥२५॥
वहुगुल्मलताकीर्णं मृगद्विपनिषेवितम् ॥
सिद्धचारणसंघुष्टं रम्यं पुष्पितकाननम् ॥२६॥
वृतिभिर्बहुभिः कीर्णं तापसैरुशोभितम् ॥
ब्राह्मणैश्च महाभागैः सूर्यज्वलनसंनिभैः ॥२७॥
नियमव्रतसं पन्नैः समाकीर्णं तपस्विभिः ॥
दीक्षितैर्यागहेतोश्च यताहारैः कृतात्मभिः ॥२८॥
वेदाध्ययनसंपन्नैर्वैदिकैः परिवेष्टितम् ॥
वर्णिभिश्च गृहस्थैश्च वानप्रस्थैश्च भिक्षुभिः ॥२९॥
स्वाश्रमाचारनिरतैः स्ववर्णोक्तविधायिभिः ॥
वालखिल्यैश्च मुनिभिः संप्राप्तैश्च मरीचिभिः ॥३०॥
तत्राश्रमे पुरा कश्चिच्छूद्रो दृढमतिर्द्विजाः ॥
साहसी ब्राह्मणाभ्याशमाजगाम मुदान्वितः ॥३१॥
आगतो ह्याश्रमपदं पूजितश्च तपस्विभिः ॥
नाम्ना दृढमतिः शूद्रः साष्टांगं प्रणनाम वै ॥३२॥
तान्स दृष्ट्वा मुनिगणान्देवकल्पान्महौजसः ॥
कुर्वतो विविधान्यज्ञान्संप्रहृष्य स शूद्रकः ॥३३॥
अथास्य बुद्धिरभवत्तपःकर्तुमनुत्तमम् ॥
ततोऽब्रवीत्कुलपतिं मुनिमागत्य तापसम् ॥३४॥
॥ दृढमतिरुवाच ॥
तपोधन नमस्तेऽस्तु रक्ष मां करुणानिधे ॥
तव प्रसादादिच्छामि धर्मं चर्तुं द्विजर्षभ ॥३५॥
तस्मादभिगतं मां त्वं यागे दीक्षय सुव्रत ॥
ब्रह्मन्नवरवर्णोऽहं शूद्रो जात्यास्मि सत्तम ॥३६॥
शुश्रूषां कर्तुमिच्छामि प्रपन्नाय प्रसीद मे ॥
एवमुक्ते तु शूद्रेण तमाह ब्राह्मणस्तदा ॥३७॥
॥ कुलपतिरुवाच ॥
यागे दीक्षयितुं शक्यो न शूद्रो हीनजन्मभाक् ॥
श्रूयतां यदि ते बुद्धिः शुश्रूषानिरतो भव ॥३८॥
उपदेशो न कर्तव्यो जातिहीनस्य कर्हिचित् ॥
उपदेशे महान्दोष उपाध्यायस्य विद्यते ॥३९॥
नाध्यापयेद्बुधः शूद्रं तथा नैव च याजयेत् ॥
न पाठयेत्तथा शूद्रं शास्त्रं व्याकरणादिकम् ॥४०॥
काव्यं वा नाटकं वापि तथालंकारमेव च ॥
पुराणमितिहासं च शूद्रं नैव तु पाठयेत् ॥४१॥
यदि चोपदिशेद्विप्रः शूद्रं चैतानि कर्हिचित् ॥
त्यजेयुर्ब्राह्मणा विप्रं तं ग्रामाद्ब्रह्मसंकुलात् ॥४२॥
शूद्राय चोपदेष्टारं द्विजं चंडालवत्त्यजेत् ॥
शूद्रं चाक्षरसंयुक्तं दूरतः परिवर्जयेत् ॥४३॥
अतः शुश्रूष भद्रं ते ब्राह्मणाञ्छ्रद्धया सह॥
शूद्रस्य द्विजशुश्रूषा मन्वादिभिरुदीरिता॥४४॥
नहि नैसर्गिकं कर्म परित्यक्तुं त्वमर्हसि ॥
एवमुक्तस्तु मुनिना स शूद्रोऽचिंतयत्तदा ॥४५॥
किं कर्तव्यं मया त्वद्य व्रते श्रद्धा हि मे पुरा ॥
यथा स्यान्मम विज्ञानं यतिष्येऽहं तथाद्य वै ॥४६॥
इति निश्चित्य मनसा शूद्रो दृढमतिस्तदा ॥
गत्वाश्रमपदाद्दूरं कृतवानुटजं शुभम् ॥४७॥
तत्र वै देवतागारं पुण्यान्यायतनानिच ॥
पुष्पारामादिकं चापि तटाकखननादिकम् ॥४८॥
श्रद्धया कारयामास तपःसिद्ध्यर्थमात्मनः ॥
अभिषेकांश्च नियमानुपवासादिकानपि ॥४९॥
बलिं च कृत्वा हुत्वा च दैवतान्यभ्यपूजयत् ॥
संकल्पनियमोपेतः फलाहारो जितेंद्रियः ॥५०॥
नित्यं कंदैश्च मूलैश्च पुष्पैरपि तथा फलैः ॥
अतिथीन्पूजयामास यथावत्समुपागतान् ॥५१॥
एवं हि सुमहान्कालो व्यतिचक्राम तस्य वै ॥
अथाश्रममगात्तस्य सुमतिर्नाम नामतः ॥५२॥
द्विजो गर्गकुलोद्भूतः सत्यवादी जितेंद्रियः ॥
स्वागतेन मुनिं पूज्य तोषयित्वा फलादिकैः ॥५३॥
कथयन्वै कथाः पुण्याः कुशलं पर्यपृच्छत ॥
इत्थं सप्रणिपाताद्यैरुपचारैस्तु पूजितः ॥५४॥
आशीर्भिरभिनंद्यैनं प्रतिगृह्य च सत्क्रियाम् ॥
तमापृछ्य प्रहृष्टाप्मा स्वाश्रमं पुनराययौ ॥५५॥
एवं दिनेदिने विप्रः शूद्रेस्मिन्पक्षपातवान् ॥
आगच्छदाश्रमं तस्य द्रष्टुं तं शूद्रयोनिजम् ॥५६॥
बहुकालं द्विजस्याभूत्संसर्गः शूद्रयोनिना॥
स्नेहस्य वशमापन्नः शूद्रोक्तं नातिचक्रमे ॥५७॥
अथागतं द्विजं शूद्रः प्राह स्नेहवशीकृतम् ॥
हव्यकव्यविधानं मे कृत्स्नं ब्रूहि मुनीश्वर ॥५८॥
पितृकार्यविधानार्थं देवकार्यार्थमेव च ॥
मंत्रानुपदिश त्वं मे महालयविधिं तथा ॥५९॥
अष्टकाश्राद्धकृत्यं च वैदिकं यच्च किंचन ॥
सर्वमेतद्रहस्यं मे ब्रूहि त्वं वै गुरुर्मतः ॥६०॥
एवमुक्तः स शूद्रेण सर्वमेतदुपादिशत् ॥
कारयामास तस्यायं पितृकार्यादिकं तथा ॥६१॥
पितृकार्ये कृते तेन विसृष्टः स द्विजो गतः ॥
अथ दीर्घेण कालेन पोषितः शूद्रयोनिना ॥६२॥
त्यक्तो विप्रगणैः सोऽयं पंचत्वमगमद्द्विजः
वैवस्वतभटैर्नीत्वा पातितो नरकेष्वपि ॥६३॥
कल्पकोटिसहस्राणि कल्पकोटिशतानि च ॥
भुक्त्वा क्रमेण नरकांस्तदंते स्था वरोऽभवत् ॥६४॥
गर्दभस्तु ततो जज्ञे विड्वराहस्ततः परम् ॥
जज्ञेऽथ सारमेयोऽसौ पश्चाद्वायसतां गतः ॥६५॥
अथ चंडालतां प्राप शूद्रयोनिमगात्ततः ॥
गतवान्वैश्यतां पश्चात्क्षत्रियस्तदनंतरम् ॥६६॥
प्रबलैर्बाध्यमानोऽसौ ब्राह्मणो वै तदाऽभवत् ॥
उपनीतः स पित्रा तु वर्षे गर्भाष्टमे द्विजः ॥६७॥
वर्तमानः पितुर्गेहे स्वाचाराभ्यासतत्परः ॥
गच्छन्कदाचिद्गहने गृहीतो ब्रह्मरक्षसा ॥६८॥
रुदन्भ्रमन्स्खल न्मूढः प्रहसन्विलपन्नसौ ॥
शश्वद्धाहेति च वदन्वैदिकं कर्म सोऽत्यजत् ॥६९॥
दृष्ट्वा सुतं तथाभूतं पिता दुःखेन पीडितः ॥
सुतमादाय च स्नेहा दगस्त्यं शरणं ययौ ॥७०॥
भक्त्या मुनिं प्रणम्यासौ पिता तस्य सुतस्य वै ॥
तस्मै निवेदयामास स्वपुत्रस्य विचेष्टितम् ॥७१॥
अब्रवीच्च तदा विप्रः कुम्भजं मुनिपुंगवम्॥
एष मे तनयो ब्रह्मन्गृहीतो ब्रह्मरक्षसा ॥७२॥
सुखं न भजते ब्रह्मन्रक्ष तं करुणादृशा ॥
नास्ति मे तनयोऽ प्यन्यः पितॄणामृणमुक्तये ॥७३॥
अस्य पीडाविनाशार्थमुपायं ब्रूहि कुम्भज ॥
त्वत्समस्त्रिषु लोकेषु तपःशीलो न विद्यते ॥७४॥
अग्रणीः शिवभक्तानामुक्तस्त्वं हि महर्षिभिः ॥
त्वां विनास्य परित्राणं न मेपुत्रस्य विद्यते ॥७५॥
पित्रे कृपां कुरुष्व त्वं दयाशीला हि साधवः ॥
॥ श्रीसूत उवाच ॥
एवमुक्तस्तदा तेन कुम्भजो ध्यानमास्थितः ॥७६॥
ध्यात्वा तु सुचिरं कालमब्रवीद्ब्राह्मणं ततः ॥
॥ अगस्त्य उवाच ॥
पूर्वजन्मनि ते पुत्रो ब्राह्मणोऽयं महामते ॥७७॥
सुमतिर्नाम विप्रोऽयं मतिं शूद्राय वै ददौ ॥
कर्माणि वैदिकान्येष सर्वाण्युपदि देश वै ॥७८॥
अतोऽयं नरकान्भुक्त्वा कल्पकोटिसहस्रकम् ॥
जातो भुवि तदंतेषु स्थावरादिषु योनिषु ॥७९॥
इदानीं ब्राह्मणो जातः कर्मशेषेण ते सुतः ॥
यमेन प्रेषितेनात्र गृहीतो ब्रह्मरक्षसा ॥८०॥
क्रूरेण पातकेनाद्धा पूवजन्मकृतेन वै ॥
उपायं ते प्रवक्ष्यामि ब्रह्मरक्षोविनाशने ॥८१॥
शृणुष्व श्रद्धया युक्तः समाधाय च मानसम् ॥
दक्षिणांभोनिधौ विप्र सेतुरूपो महागिरिः ॥८२॥
वर्तते दैवतैः सेव्यः पावनो गन्धमादनः ॥
तस्योपरि महातीर्थं नाम्ना पापविनाशनम् ॥८३॥
अस्ति पुण्यं प्रसिद्धं च महापातकनाशनम् ॥
भूतप्रेतपिशाचानां वेतालब्रह्म रक्षसाम्॥ ८४॥
महतां चैव रोगाणां तीर्थं तन्नाशकं स्मृतम् ॥
सुतमादाय गच्छ त्वं तत्तीर्थं सेतुमध्यगम् ॥८५॥
प्रयतः स्नापय सुतं तीर्थे पापविनाशने ॥
स्नानेन त्रिदिनं तत्र ब्रह्मरक्षो विनश्यति ॥८६॥
नैवोपायांतरं तस्य विनाशे विद्यते भुवि ॥
तस्माच्छीघ्रं प्रयाहि त्वं रामसेतुं विमुक्तिदम् ॥८७॥
तत्र पापविनाशाख्यतीर्थे स्नापय ते सुतम् ॥
मा विलंबं कुरुष्वात्र त्वरया याहि वै द्विज ॥८८॥
इत्युक्तः स द्विजोऽगस्त्यं प्रणम्य भुवि दण्डवत्॥
अनुज्ञातश्च तेनासौ प्रययौ गंधमादनम् ॥८९॥
सुतेन साकं विप्रेंद्रो गत्वा पापविनाशनम् ॥
संकल्पपूर्वं संस्नाप्य दिनत्रयमसौसुतम्॥९॥
सस्नौ स्वयं च विप्रेंद्राः पिता पापविनाशने ॥
अथ तस्य सुतस्तत्र विमुक्तो ब्रह्मरक्षसा ॥९१॥
समजायत नीरोगः स्वस्थः सुन्दररूपधृक् ॥
सर्वसंपत्समृद्धोऽसौ भुक्त्वा भोगाननेकशः ॥९२॥
देहांते प्रययौ मुक्तिं स्नानात्पापविनाशने ॥
पितापि तत्र स्नानेन देहांते मुक्तिमाप्तवान्॥ ९३॥
तेनोपदिष्टो यः शूद्रः स भुक्त्वा नरकान्क्रमात् ॥
अनेकासु जनित्वा च कुत्सितास्वपियोनिषु ॥९४॥
गृध्रजन्मा भवत्पश्चाद्गंधमादनपर्वते ॥
स कदाचिज्जलं पातुं तीर्थे पापविनाशने ॥९५॥
समागतः पपौ तोयं सिषिचे चात्मनस्तनुम् ॥
तदैव दिव्यदेहः सन्सर्वाभरणभूषितः ॥९६॥
दिव्यमाल्यांबरधरो रक्तचंदनरूषितः ॥
दिव्यं विमानमारुह्य शोभितश्छत्रचामरैः ॥९७॥
उत्तमस्त्रीपरिवृतः प्रययावमरालयम् ॥९८॥
श्रीसूत उवाच ॥
एवं प्रभावमेतद्वै तीर्थं पापविनाशनम् ॥
स्वर्गदं मोक्षदं पुण्यं प्रायश्चित्तकरं तथा ॥
ब्रह्मविष्णुमहे शानैः सेवितं सुरसेवितम् ॥९९॥
पापानां नाशनाद्विप्राः पापनाशाभिधं हि तत् ॥
श्रेयोर्थी पुरुषस्तस्मात्स्नायात्पापविनाशने ॥१॥॥
इत्थं रहस्यं कथितं मुनींद्रास्तद्वैभवं पापविनाशनस्य ॥
यत्राभिषेकात्सहसा विमुक्तौ द्विजश्च शूद्रश्च विनिंद्यकृत्यौ ॥१०१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये गंधमादनप्रशंसायां पापविनाशप्रभावकथनंनाम दशमोऽध्यायः ॥१०॥
N/A
References : N/A
Last Updated : November 13, 2024
TOP