संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय ५१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ सूत उवाच ॥
अथातः संप्रवक्ष्यामि सेतुयात्राक्रमं द्विजाः ॥
यं श्रुत्वा सर्वपापेभ्यो मुच्यते मानवः क्षणात् ॥१॥
स्नात्वाचम्य विशुद्धात्मा कृतनित्यविधिः सुधीः ॥
रामनाथस्य तुष्ट्यर्थं प्रीत्यर्थं राघवस्य च ॥२॥
भोजयित्वा यथाशक्ति ब्राह्मणान्वेदपारगान् ॥
भस्मोद्धूलितसर्वांगस्त्रिपुंड्रांकितमस्तकः ॥३॥
गोपीचन्दनलिप्तो वा स्वभालेऽप्यूर्ध्वपुंड्रकः ॥
रुद्राक्ष मालाभरणः सपवित्रकरः शुचिः ॥४॥
सेतुयात्रां करिष्येऽहमिति संकल्प्य भक्तितः ॥
स्वगृहात्प्रव्रजेन्मौनी जपन्नष्टाक्षरं मनुम् ॥५॥
पंचाक्षरं नाममंत्रं जपेन्नियतमानसः ॥
एकवारं हविष्याशी जितक्रोधो जितेंद्रियः ॥६॥
पादुकाछत्ररहितस्तांबूलपरिवर्जितः ॥
तैलाभ्यंगविहीनश्च स्त्रीसंगादिविवर्जितः ॥७॥
शौचाद्याचारसंयुक्तः सन्ध्योपास्तिपरायणः ॥
गायत्र्युपास्ति कुर्वाणस्त्रिसंध्यं रामचिंतकः ॥८॥
मध्येमार्गं पठन्नित्यं सेतुमाहात्म्यमादरात् ॥
पठन्रामायणं वापि पुराणांतरमेव वा ॥९॥
व्यर्थवाक्यानि संत्यज्य सेतुं गच्छेद्विशुद्धये ॥
प्रतिग्रहं न गृह्णीयान्नाचारांश्च परित्यजेत् ॥१०॥
कुर्यान्मार्गे यथाशक्ति शिवविष्ण्वादिपूजनम् ॥
वैश्वदेवादिकर्माणि यथाशक्ति समाचरेत् ॥११॥
ब्रह्मयज्ञमुखान्धर्मा न्प्रकुर्याच्चाग्निपूजनम् ॥
अतिथिभ्योऽन्नपानादि संप्रदद्याद्यथाबलम् ॥१२॥
दद्याद्भिक्षां यतिभ्योऽपि वित्तशाठ्यं परित्यजन् ॥
शिवविष्ण्वादि नामानि स्तोत्राणि च पठेत्पथि ॥१३॥
धर्ममेव सदा कुर्यान्निषिद्धानि परित्यजेत् ॥
इत्यादिनियमोपेतः सेतुमूलं ततो व्रजेत् ॥१४॥
पाषाणं प्रथमं दद्यात्तत्र गत्वा समाहितः ॥
तत्रावाह्य समुद्रं च प्रणमेत्तदनंतरम् ॥१५॥
अर्घ्यं दद्यात्समुद्राय प्रार्थयेत्तदनंतरम्॥
अनुज्ञां च ततः कुर्यात्ततः स्नायान्महोदधौ ॥१६॥
मुनीनामथ देवानां कपीनां पितृणां तथा ॥
प्रकुर्यात्तर्पणं विप्रा मनसा संस्मरन्हरिम् ॥१७॥
॥ पाषाणसंख्या ॥
पाषाणसप्तकं दद्यादेकं वा विप्रपुंगवाः ॥
पाषाणदानात्सफलं स्नानं भवति नान्यथा ॥१८॥
॥ पाषाणदानमंत्रः ॥
पिप्पलादसमुत्पन्ने कृत्ये लोकभयंकरे ॥
पाषाणं ते मया दत्तमाहारार्थं प्रकल्प्यताम् ॥१९॥
॥ सान्निध्यप्रार्थनामन्त्रः ॥
विश्वार्चि त्वं घृताचि त्वं विश्वयाने विशांपते ॥
सान्निध्यं कुरु मे देव सागरे लवणांभसि ॥२०॥
॥ नमस्कारमन्त्रः ॥
नमस्ते विश्वगुप्ताय नमो विष्णो ह्यपांपते ॥
नमो हिरण्यशृंगाय नदीनां पतये नमः ॥
समुद्राय वयूनाय प्रोच्चार्य प्रणमेत्तथा ॥२१॥
॥ अर्घ्यमन्त्रः ॥
सर्वरत्नमय श्रीमन्सर्वरत्नाकराकर ॥
सर्वरत्नप्रधानस्त्वं गृहाणार्घ्यं महोदधे ॥२२॥
॥ अनुज्ञापनमंत्रः ॥
अशेषजगदाधार शंखचक्रगदा धर ॥
देहि देव ममानुज्ञां युष्मत्तीर्थनिषेवणे ॥२३॥
॥ प्रार्थनामंत्रः ॥
प्राच्यां दिशि च सुग्रीवं दक्षिणस्यां नलं स्मरेत् ॥२४॥
प्रतीच्यां मैंदनामानमुदीच्यां द्विविदं तथा ॥
रामं च लक्ष्मणं चैव सीतामपि यशस्विनीम् ॥२५॥
अंगदं वायुतनयं स्मरेन्मध्ये विभीषणम् ॥
पृथिव्यां यानि तीर्थानि प्राविशंस्त्वा महोदधे ॥२६॥
स्नानस्य मे फलं देहि सर्वस्मात्त्राहि मांहसः ॥
हिरण्यशृंगमित्याभ्यां नाभ्यां नारायणं स्मरेत् ॥२७॥
ध्यायन्नारायणं देवं स्नानादिषु च कर्मसु ॥
ब्रह्मलोकमवाप्नोति जायते नेह वै पुनः ॥२८॥
सर्वेषामपि पापानां प्रायश्चित्तं भवेत्ततः ॥
प्रह्लादं नारदं व्यासमंबरीषं शुकं तथा ॥
अन्यांश्च भगवद्भक्तांश्चिंतयेदेकमानसः ॥२९॥
॥ स्नानमन्त्रः ॥
वेदादिर्यो वेदवसिष्ठयोनिः सरित्पतिः सागररत्नयोनिः ॥
अग्निश्च तेजश्च इलां च तेजो रेतोधा विष्णुरमृतस्य नाभिः ॥३०॥
इदं ते अन्याभिरसमानमद्भिर्याः काश्च सिंधुं प्रविशंत्यापः ॥
सर्पो जीर्णामिव त्वचं जहामि पापं शरीरात्सशिरस्कोऽभ्युपेत्य ॥३१॥
समुद्राय वयूनाय नमस्कुर्यात्पुनर्द्विजाः ॥
सर्वतीर्थमयं शुद्धं नदीनां पतिमंबुधिम् ॥३२॥
द्वौ समुद्राविति पुनः प्रोच्चार्य स्नानमाचरेत् ॥
ब्रह्मांडोदरतीर्थानि करस्पृष्टानि ते रवे ॥३३॥
तेन सत्येन मे सेतौ तीर्थं देहि दिवाकर ॥
प्राच्यां दिशि च सुग्रीवमित्यादिक्रमयोगतः ॥३४॥
स्मृत्वा भूयो द्विजाः सेतौ तृतीयं स्नानमाचरेत् ॥
 देवीपत्तनमारभ्य प्रव्रजेद्यदि मानवः ॥३५॥
तदा तु नवपाषाणमध्ये सेतौ विमुक्तिदे ॥
स्नानमंबुनिधौ कुर्यात्स्वपापौघापनुत्तये ॥३६॥
दर्भशय्यापदव्या चेद्गच्छे त्सेतुं विमुक्तिदम् ॥
तदा तत्रोदधावेव स्नानं कुर्याद्विमुक्तये ॥३७॥
॥ तर्पणविधिः ॥
पिप्पलादं कविं कण्वं कृतांतं जीवितेश्वरम् ॥
मन्युं च कालरात्रिं च विद्यां चाहर्गणेश्वरम् ॥३८॥
वसिष्ठं वामदेवं च पराशरमुमापतिम् ॥
वाल्मिकिं नारदं चैव वालखिल्यान्मुनींस्तथा ॥३९॥
नलं नीलं गवाक्षं च गवयं गन्धमादनम् ॥
मैंदं च द्विविदं चैव शरभं चर्षभं तथा ॥४०॥
सुग्रीवं च हनूमंतं वेगदर्शनमेव च ॥
रामं च लक्ष्मणं सीतां महाभागां यशस्विनीम् ॥४१॥
त्रिः कृत्वा तर्पयेदेतान्मंत्रानुक्त्वा यथाक्रमम् ॥
विभोश्च तत्तन्नामानि चतुर्थ्यंतानि वै द्विजाः ॥४२॥
देवा नृषीन्पितॄंश्चैव विधिवच्च तिलोदकैः॥
द्वितीयांतानि नामानि चोक्त्वा तर्पयेद्द्विजाः ॥४३॥
तर्पयेत्सपवित्रस्तु जले स्थित्वा प्रसन्नधीः ॥
तर्पणात्सर्वतीर्थेषु स्नानस्य फलमाप्नुयात् ॥४४॥
एवमेतांस्तर्पयित्वा नमस्कृत्योत्तरेज्जलात् ॥
आर्द्रवस्त्रं परित्यज्य शुष्कवासःसमावृतः ॥४५॥
आचम्य सपवित्रश्च विधिवच्छ्राद्धमाचरेत् ॥
पिंडान्पितृभ्यो दद्याच्च तिलतण्डुलकैस्तथा ॥४६॥
एतच्छ्राद्धमशक्तस्य मया प्रोक्तं द्विजोत्तमाः ॥
धनाढ्योऽन्नेन वै श्राद्धं षड्रसेन समाचरेत् ॥४७॥
गोभूतिलहिरण्यादिदानं कुर्यात्समृद्धिमान् ॥
रामचन्द्रधनुष्कोटावेवमेव समाचरेत् ॥४८॥
पाषाणदानपूर्वाणि तर्पणांतानि वै द्विजाः ॥
सेतुमूले यथैतानि विधिवद्व्यतनोद्द्विजाः ॥४९॥
चक्रतीर्थं ततो गत्वा तत्रापि स्नानमाचरेत् ॥
पश्येच्च सेत्वधिपतिं देवं नारायणं हरिम् ॥५०॥
गच्छन्पश्चिममार्गेण तत्रत्ये चक्रतीर्थके ॥
स्नात्वा दर्भशयं देवं प्रपश्येद्भक्तिपूर्वकम् ॥५१॥
कपितीर्थं ततः प्राप्य तत्रापि स्नानमाचरेत् ॥
सीताकुंडं ततः प्राप्य तत्रापि स्नानमाचरेत् ॥५२॥
ऋणमोचनतीर्थं तु ततः प्राप्य महाफलम् ॥
स्नात्वा प्रणम्य रामं च जानकीरमणं प्रभुम् ॥५३॥
गच्छेल्लक्ष्मणतीर्थं तु कण्ठादुपरि वापनम् ॥
कृत्वा स्नायाच्च तत्रापि दुष्कृतान्यपि चिन्तयन् ॥५४॥
ततः स्नात्वा रामतीर्थे ततो देवालयं व्रजेत् ॥
स्नात्वा पापविनाशने च गंगायमुनयोस्तथा ॥५५॥
सावित्र्यां च सरस्वत्यां गायत्र्यां च द्विजोत्तमाः ॥
स्नात्वा च हनुमत्कुण्डे ततः स्नायान्महाफले ॥
ब्रह्मकुण्डं ततः प्राप्य स्नायाद्विधिपुरःसरम् ॥५६॥
नागकुण्डं ततः प्राप्य सर्वपापविनाशनम् ॥
स्नानं कुर्यान्नरो विप्रा नरकक्लेशनाशनम् ॥
गंगाद्याः सरितः सर्वास्तीर्थानि सकलान्यपि ॥५७॥
सर्वदा नागकुंडे तु वसंति स्वाघशांतये ॥
अनंतादिमहानागैरष्टाभिरिदमुत्तमम् ॥५८॥
कल्पितं मुक्तिदं तीर्थं रामसेतौ शिवंकरम् ॥
अगस्त्यकुण्डं संप्राप्य ततः स्नायादनुत्तमम् ॥५९॥
अथाग्नितीर्थमासाद्य सर्वदुष्कर्मनाशनम् ॥
स्नात्वा संतर्प्य विधिवच्छ्राद्धं कुर्यात्पितॄन्स्मरन् ॥६०॥
गोभूहिरण्य धान्यादि ब्राह्मणेभ्यः स्वशक्तितः ॥
दत्त्वाग्नितीर्थतीरे तु सर्वपापैः प्रमुच्यते ॥६१॥
अथवा यानि तीर्थानि चक्रतीर्थमुखानि वै ॥
अनुक्रांतानि विप्रेंद्राः सर्वपापहराणि तु ॥६२॥
स्नायात्तदनुपूर्वेण स्नायाद्वापि यथारुचि ॥
स्नात्वैवं सर्वतीर्थेषु श्राद्धादीनि समाचरेत् ॥६३॥
पश्चाद्रामेश्वरं प्राप्य निषेव्य परमेश्वरम् ॥
सेतुमाधवमागत्य तथा रामं च लक्ष्मणम् ॥६४॥
सीतां प्रभंजनसुतं तथान्यान्कपिसत्तमान् ॥
तत्रत्य सर्वतीर्थेषु स्नात्वा नियमपूर्वकम् ॥६५॥
प्रणम्य रामनाथं च रामचंद्रं तथापरान् ॥
नमस्कृत्य धनुष्कोटिं ततः स्नातुं व्रजेन्नरः ॥६६॥
तत्र पाषाण दानादिपूर्वोक्तनियमं चरेत् ॥
धनुष्कोटौ च दानानि दद्याद्वित्तानुसारतः ॥६७॥
क्षत्रं गाश्च तथान्यानि वस्त्राण्यन्यानि चादरात् ॥
ब्राह्मणेभ्यो वेदविद्भ्यो दद्याद्वित्तानुसारतः ॥६८॥
कोटितीर्थं ततः प्राप्य स्नायान्नियमपूर्वकम् ॥
ततो रामेश्वरं देवं प्रणमेद्वृषभध्वजम् ॥६९॥
विभवे सति विप्रेभ्यो दद्यात्सौवर्णदक्षिणाम्॥
तिलान्धान्यं च गां क्षेत्रं वस्त्राण्यन्यानि तंडुलान् ॥७०॥
दद्याद्वित्तानुसारेण वित्तलोभविवर्जितः ॥
धूपं दीपं च नैवेद्यं पूजोपकरणानिच ॥७१॥
रामेश्वराय देवाय दद्याद्वित्तानुसारतः ॥
स्तुत्वा रामेश्वरं देवं प्रणम्य च सभक्तिकम् ॥७२॥
अनुज्ञाप्य ततो गच्छत्सेतुमाधवसंनिधिम् ॥
तस्मै दत्त्वा च धूपादीननुज्ञाप्य च माधवम् ॥७३॥
पूर्वोक्तनियमोपेतः पुनरायात्स्वकं गृहम् ॥
ब्राह्मणान्भोजयेदन्नैः षड्रसैः परिपूरितैः ॥७४॥
तेनैव रामनाथोऽस्मै प्रीतोऽभीष्टं प्रयच्छति ॥
नारकं चास्य नास्त्येव दारिद्र्यं च विनश्यति ॥७५॥
संततिर्वर्धते तस्य पुरुषस्य द्विजोत्तमाः ॥
संसारमवधूयाशु सायुज्यमपि यास्यति ॥७६॥
अत्रागन्तुमशक्तश्चेच्छ्रुतिस्मृत्यागमेषु यत् ॥
ग्रंथजातं महापुण्यं सेतुमाहात्म्यसूचकम् ॥७७॥
तं ग्रंथं पाठयेद्विप्रा महापातकनाशनम् ॥
इदं वा सेतुमाहात्म्यं पठेद्भक्तिपुरःसरम् ॥७८॥
सेतुस्नानफलं पुण्यं तेनाप्नोति न संशयः ॥
अंधपंग्वादिविषयमेतत्प्रोक्तं मनीषिभिः ॥७९॥
॥ श्रीसूत उवाच ॥
एवं वः कथितो विप्राः सेतुयात्राक्रमो द्विजाः ॥
एतत्पठन्वा शृण्वन्वा सर्वदुःखाद्विमुच्यते ॥८०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये यात्राक्रमवर्णनंनामैकपंचाशत्तमोऽध्यायः ॥५१॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP