संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय २

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
कथं सूत महाभाग रामेणाक्लिष्टकर्मणा ॥
सेतुर्बद्धो नदीनाथे ह्यगाधे वरुणालये ॥१॥
सेतौ च कति तीर्थानि गंधमादनपर्वते ॥
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥२॥
॥ श्रीसूत उवाच ॥
रामेण हि यथासेतुर्निबद्धो वरुणालये ॥
तदहं संप्रवक्ष्यामि युष्माकं मुनिपुंगवाः ॥३॥
आज्ञया हि पितू रामो न्यवसद्दंडकानने॥
सीतालक्ष्मणसंयुक्तः पंचवट्यां समाहितः ॥४॥
तस्मिन्निव सतस्तस्य राघवस्य महात्मनः ॥
रावणेन हृता भार्या मारीचच्छद्मना द्विजाः ॥५॥
मार्गमाणो वने भार्यां रामो दशरथात्मजः॥
पंपातीरे जगा मासौ शोकमोहसमन्वितः ॥६॥
दृष्टवान्वानरं तत्र कंचिद्दशरथात्मजः ॥
वानरेणाथ पृष्टोऽयं को भवानिति राघवः ॥७॥
आदितः स्वस्य वृत्तांत्तं तस्मै प्रोवाच तत्त्वतः ॥
अथ राघवसंपृष्टो वानरः को भवानिति ॥८॥
सोपि विज्ञापयामास राघवाय महात्मने ॥
अहं सुग्रीवसचिवो हनूमा न्नाम वानरः ॥९॥
तेन च प्रेरितोऽभ्यागां युवाभ्यां सख्यमिच्छता ॥
आगच्छतं तद्भद्रं वां सुग्रीवांतिकमाशु वै ॥१०॥
तथास्त्विति स रामो पि तेन साकं मुनीश्वराः ॥
सुग्रीवांतिकमागप्य सख्यं चक्रेऽग्निसाक्षिकम् ॥११॥
प्रतिजज्ञेऽथ रामोऽपि तस्मै वालिवधं प्रति ॥
सुग्रीवश्चापि वै देह्याः पुनरानयनं द्विजाः ॥१२॥
इत्येवं समयं कृत्वा विश्वास्य च परस्परम् ॥
मुदा परमया युक्तौ नरेश्वरकपीश्वरौ ॥१३॥
आसाते ब्राह्मणश्रेष्ठा ऋष्यमूकगिरौ तथा ॥
सुग्रीवप्रत्ययार्थं च दुंदुभेः कायमाशु वै॥ १४॥
पादांगुष्ठेन चिक्षेप राघवो बहुयोजनम् ॥
सप्तताला विनिर्भिन्ना राघवेण महात्मना ॥१५॥
ततः प्रीतमना वीरः सुग्रीवो राममब्रवीत् ॥
इंद्रादिदेवताभ्योऽपि नास्ति राघव मे भयम्॥ १६॥
भवान्मित्रं मया लब्धो यस्मादति पराक्रमः ॥
अहं लंकेश्वरं हत्वा भार्यामानयितास्मि ते ॥१७॥
ततः सुग्रीवसहितो रामचंद्रो महाबलः ॥
सलक्ष्मणो ययौ तूर्णं किष्किंधां वालिपालिताम् ॥१८॥
ततो जगर्ज सुग्रीवो वाल्यागमनकांक्षया ॥
अमृष्यमाणो वाली च गर्जितं स्वानुजस्य वै॥ १९॥
अंतःपुराद्विनिष्क्रम्य युयुधेऽवरजेन सः ॥
वालिमुष्टिप्रहारेण ताडितो भृशविह्वलः ॥२०॥
सुग्रीवो निर्गतस्तूर्णं यत्र रामो महाबलः ॥
ततो रामो महाबाहुस्सुग्रीवस्य शिरोधरे ॥२१॥
लतामाबध्य चिह्नं तु युद्धायाचोदयत्तदा ॥
गर्जितेन समाहूय सुग्रीवो वालिनं पुनः ॥२२॥
रामप्रेरणया तेन बाहुयुद्धमथाकरोत् ॥
ततो वालिनमाजघ्ने शरेणैकेन राघवः ॥२३॥
हते वालिनि सुग्रीवः किष्किंधां प्रत्यपद्यत ॥
ततो वर्षास्वतीतासु सुग्रीवो वानराधिपः ॥२४॥
सीतामानयितुं तूर्णं वानराणां महाचमूम् ॥
समादाय समागच्छदंतिकं नृपपुत्रयोः ॥२५॥
प्रस्थापयामास कपीन्सीतान्वेषणकांक्षया ॥
विदितायां तु वैदेह्या लंकायां वायुसूनुना ॥२६॥
दत्ते चूडामणौ चापि राघवो हर्षशोकवान्॥
सुग्रीवेणानुजेनापि वायुपुत्रेण धीमता ॥२७॥
तथान्यैः कपिभिश्चैव जांबवन्नलमुख्यकैः ॥
अन्वीयमानो रामोऽसौ मुहूर्तेऽभिजिति द्विजाः ॥२८॥
विलंघ्य विविधा न्देशान्महेंद्रं पर्वतं ययौ ॥
चक्रतीर्थं ततो गत्वा निवासमकरोत्तदा ॥२९॥
तत्रैव तु स धर्मात्मा समागच्छद्विभीषणः ॥
भ्राता वै राक्षसेंद्रस्य चतुर्भिः सचिवैः सह ॥३०॥
प्रतिजग्राह रामस्तं स्वागतेन महात्मना ॥
सुग्रीवस्य तु शंकाऽभूत्प्रणिधिः स्यादयं त्विति ॥३१॥
राघवस्तस्य चेष्टाभिः सम्यक्स्वचरितैर्हितैः ॥
अदुष्टमेनं दृष्ट्वैव तत एनमपूजयत् ॥३२॥
सर्वराक्षसराज्ये तमभ्यषिंचद्विभीषणम् ॥
चक्रे च मंत्रिप्रवरं सदृशं रविसूनुना ॥३३॥
चक्रतीर्थं समासाद्य निवसद्रघुनंदनः ॥
चिंतयन्राघवः श्रीमान्सुग्रीवादीनभाषत ॥३४॥
मध्ये वानरमु ख्यानां प्राप्तकालमिदं वचः ॥
उपायः को नु भवतामेतत्सागरलंघने ॥३५॥
इयं च महती सेना सागरश्चापि दुस्तरः ॥
अंभोराशिरयं नीलश्चंचलोर्म्मिसमाकुलः ॥३६॥
उद्यन्मत्स्यो महानक्रशंखशुक्तिसमाकुलः ॥
क्वचिदौर्वानलाक्रांतः फेनवानतिभीषणः ॥३७॥
प्रकृष्टपवनाकृष्टनीलमेघसमन्वितः ॥
प्रलयांभोधरारावः सारवाननिलोद्धतः ॥३८॥
कथं सागरमक्षोभ्यं तरामो वरुणा लयम् ॥
सैन्यैः परिवृताः सर्वे वानराणां महौजसाम् ॥३९॥
उपायैरधिगच्छामो यथा नदनदीपतिम् ॥
कथं तरामः सहसा ससैन्या वरुणालयम् ॥४०॥
शतयोजनमायातं मनसापि दुरासदम् ॥
अतो नु विघ्ना बहवः कथं प्राप्या च मैथिली ॥४१॥
कष्टात्कष्टतरं प्राप्ता वयमद्य निराश्रयाः ॥
महाजले महावाते समुद्रे हि निराश्रये ॥४२॥
उपायं कं विधास्यामस्तरणार्थं वनौकसाम् ॥
राज्याद्भ्रष्टो वनं प्राप्तो हृता सीता मृतः पिता ॥४३॥
इतोऽपि दुःसहं दुःखं यत्सागरविलंघनम् ॥
धिग्धिग्गर्जितमंभोधे धिगेतां वारिराशिताम् ॥४४॥
कथं तद्वचनं मिथ्या महर्षेः कुम्भजन्मनः ॥
हत्वा त्वं रावणं पापं पवित्रे गंधमादने ॥
पापोपशमनायाशु गच्छस्वेति यदीरितम् ॥४५॥
॥ श्रीसूत उवाच ॥
इति रामवचः श्रुत्वा सुग्रीवप्रमुखास्तदा ॥४६॥
ऊचुः प्रांजलयः संर्मे राघवं तं महाबलम् ॥
नौभिरेनं तरिष्यामः प्लवैश्च विविधैरिति ॥४७॥
मध्ये वानरकोटीनां तदोवाच विभीषणः ॥
समुद्रं राघवो राजा शरणं गन्तुमर्हति ॥४८॥
खनितः सागरैरेष समुद्रो वरुणालयः ॥
कर्तुमर्हति रामस्य तज्ज्ञातेः कार्यमंबुधिः ॥४९॥
विभीषणेनैवमुक्तो राक्षसेन विपश्चिता ॥
सांत्वयन्राघवः सर्वान्वानरानिदमब्रवीत् ॥५०॥
शतयोजन विस्तारमशक्ताः सर्ववानराः ॥
तर्तुं प्लवोडुपैरेनं समुद्रमतिभीषणम् ॥५१॥
नावो न संति सेनाया बह्व्या वानरपुंगवाः ॥
वणिजामुपघातं च कथमस्मद्विधश्चरेत् ॥५२॥
विस्तीर्णं चैव नः सैन्यं हन्याच्छिद्रेषु वा परः ॥
प्लवोडुपप्रतारोऽतो नैवात्र मम रोचते ॥५३॥
विभीषेणोक्तमे वेदं मोदते मम वानराः ॥
अहं त्विमं जलनिधिमुपास्ये मार्गसिद्धये ॥५४॥
नो चेद्दर्शयिता मार्गं धक्ष्याम्येनमहं तदा ॥
महास्त्रैरप्रतिहतैरत्यग्निपवनोज्ज्वलैः ॥५५॥
इत्युक्त्वा सहसौमित्रिरुपस्पृश्याथ राघवः ॥
प्रतिशिश्ये जलनिधिं विधिवत्कुशसंस्तरे ॥५६॥
तदा रामः कुशा स्तीर्णे तीरे नदनदीपतेः ॥
संविवेश महाबाहुर्वेद्यामिव हुताशनः ॥५७॥
शेषभोगनिभं बाहुमुपधाय रघूद्वहः ॥
दक्षिणो दक्षिणं बाहुमुपास्ते मकरालयम् ॥५८॥
तस्य रामस्य सुप्तस्य कुशास्तीर्णे महीतले ॥
नियमादप्रमत्तस्य निशास्तिस्रोऽतिचक्रमुः ॥५९॥
स त्रिरात्रोषितस्तत्र नयज्ञो धर्मतत्परः ॥
उपास्तेस्म तदा रामः सागरं मार्गसिद्धये ॥६०॥
न च दर्शयते मन्दस्तदा रामस्य सागरः ॥
प्रयतेनापि रामेण यथार्हमपि पूजितः ॥६१॥
तथापि सागरो रामं न दर्शयति चात्मनः ॥
समुद्राय ततः क्रुद्धो रामो रक्तांतलोचनः ॥६२॥
समीपवर्तिनं चेदं लक्ष्मणं प्रत्यभाषत ॥
अद्य मद्बाणनिर्भिन्नैर्मकरैर्वरुणालयम् ॥६३॥
निरुद्धतोयं सौमित्रे करिष्यामि क्षणादहम् ॥
सशंखशुक्ताजालं हि समीनमकरं शनैः ॥६४॥
अद्य बाणैरमोघास्त्रैर्वारिधिं परिशोषये ॥
क्षमया हि समायुक्तं मामयं मकरालयः ॥६९॥
असमर्थं विजानाति धिक्क्षमामीदृशे जने ॥
न दर्शयति साम्ना मे सागरो रूपमात्मनः ॥६६॥
चापमानय सौमित्रे शरांश्चाशीविषोपमान्॥
सागरं शोषयिष्यामि पद्भ्यां यांतु प्लवंगमाः ॥६७॥
एनं लंघितमर्यादं सहस्रोर्मिसमाकुलम् ॥
निर्मर्यादं करिष्यामि सायकैर्वरुणालयम् ॥६८॥
महार्णवं शोषयिष्ये महादानवसंकुलम् ॥
महामकरनक्राढ्यं महावीचिसमाकुलम् ॥६९॥
एवमुक्त्वा धनुष्पाणिः क्रोधपर्याकुलेक्षणः ॥
रामो बभूव दुर्धर्षस्त्रिपुरघ्नो यथा शिवः ॥७०॥
आकृष्य चापं कोपेन कम्पयित्वा शरैर्जगत् ॥
मुमोच विशिखानुग्रांस्त्रिपुरेषु यथा भवः ॥७१॥
दीप्ता बाणाश्च ये घोरा भासयन्तो दिशो दश ॥
प्राविशन्वारिधेस्तोयं दृप्तदानवसंकुलम् ॥७२॥
समुद्रस्तु ततो भीतो वेपमानः कृतांजलिः ॥
अनन्यशरणो विप्राः पाता लात्स्वयमुत्थितः ॥७३॥
शरणं राघवं भेजे कैवल्यपदकारणम् ॥
तुष्टाव राघवं विप्रा भूत्वा शब्दैर्मनोरमैः ॥७४॥
॥ समुद्र उवाच॥
नमामि ते राघव पादपंकजं सीतापते सौख्यद पादसेवनात् ॥
नमामि ते गौतमदारमोक्षजं श्रीपादरेणुं सुरवृन्दसेव्यम् ॥७६॥
सुन्दप्रियादेहविदारिणे नमो नमोस्तु ते कौशिकयागरक्षिणे ॥
नमो महादेवशरासभेदिने नमो नमो राक्षससंघनाशिने ॥७६॥
रामराम नमस्यामि भक्तानामिष्टदायिनम् ॥
अवतीर्णो रघुकुले देवकार्यचिकीर्षया ॥७७॥
नारायणमनाद्यंतं मोक्षदं शिवमच्युतम् ॥
रामराम महाबाहो रक्ष मां शरणागतम् ॥७८॥
कोपं संहर राजेंद्र क्षमस्व करुणालय ॥
भूमिर्वातो वियच्चापो ज्योतींषि च रघूद्वह ॥७९॥
यत्स्वभावानि सृष्टानि ब्रह्मणा परमेष्ठिना ॥
वर्तंते तत्स्वभा वानि स्वभावो मे ह्यगाधता ॥८०॥
विकारस्तु भवेद्गाध एतत्सत्यं वदाम्यहम् ॥
लोभात्कामाद्भयाद्वापि रागाद्वापि रघूद्वह ॥८१॥
न वंशजं गुणं हातुमुत्सहेयं कथंचन ॥
तत्करिष्ये च साहाय्यं सेनायास्तरणे तव ॥८२॥
इत्युक्तवन्तं जलधिं रामोऽवादीन्नदीपतिम् ॥
ससैन्योऽहं गमि ष्यामि लंकां रावणपालिताम् ॥८३॥
तच्छोषमुपयाहि त्वं तरणार्थं ममाधुना ॥
इत्युक्तस्तं पुनः प्राह राघवं वरुणालयः ॥८४॥
शृणुष्वाव हितो राम श्रुत्वा कर्तव्यमाचर ॥
यद्याज्ञया ते शुष्यामि ससैन्यस्य यियासतः ॥८५॥
अन्येऽप्याज्ञापयिष्यंति मामेवं धनुषो बलात् ॥
उपायमन्यं वक्ष्यामि तरणार्थं बलस्य ते ॥८१६॥
अस्ति ह्यत्र नलोनाम वानरः शिल्पिसंमतः ॥
त्वष्टुः काकुत्स्थ तनयो बलवान्विश्वकर्मणः ॥८७॥
स यत्काष्ठं तृणं वापि शिलां वा क्षेप्स्यते मयि ॥
सर्वं तद्धारयिष्यामि स ते सेतुर्भविष्यति ॥८८॥
सेतुना तेन गच्छ त्वं लंकां रावणपालि ताम् ॥
उक्त्वेत्यंतर्हिते तस्मिन्रामो नलमुवाच ह ॥८९॥
कुरु सेतुं समुद्रे त्वं शक्तो ह्यसि महामते ॥
तदाऽब्रवीन्नलो वाक्यं रामं धर्मभृतां वरम् ॥९०॥
अहं सेतुं विधास्यामि ह्यगाधे वरुणालये ॥
पित्रा दत्तवरश्चाहं सामर्थ्ये चापि तत्समः ॥९१॥
मातुर्मम वरो दत्तो मन्दरे विश्वक र्मणा ॥
शिल्पकर्मणि मत्तुल्यो भविता ते सुतस्त्विति ॥९२॥
पुत्रोऽहमौरसस्तस्य तुल्यो वै विश्वकर्मणा ॥
अद्यैव कामं बध्नंतु सेतुं वानरपुं गवाः ॥९३॥
ततो रामनिसृष्टास्ते वानरा बलवत्तराः ॥
पर्वतान्गिरिशृंगाणि लतातृणमहीरुहान् ॥९४॥
समाजह्रुर्महाकाया गरुडानिलरंहसः ॥
नलश्चक्रे महासेर्तुमध्ये नदनदीपतेः ॥९५॥
दशयोजनविस्तीर्णं शतयोजनमायतम् ॥
जानकीरमणो रामः सेतुमेवमकारयत् ॥९६॥
नलेन वानरेन्द्रेण विश्वकर्मसुतेन वै ॥
तमेवं सेतुमासाद्य रामचन्द्रेण कारितम् ॥९७॥
सर्वे पातकिनो मर्त्या मुच्यन्ते सर्वपातकैः ॥
व्रतदान तपोहोमैर्न तथा तुष्यते शिवः ॥९८॥
सेतुमज्जनमात्रेण यथा तुष्यति शंकरः ॥
न तुल्यं विद्यते तेजोयथा सौरेण तेजसा ॥९९॥
सेतुस्नानेन च तथा न तुल्यं विद्यते क्वचित् ॥
तत्सेतुमूलं लंकायां यत्ररामो यियासया ॥१००॥
वानरैः सेतुमारेभे पुण्यं पाप प्रणाशनम् ॥
तद्दर्भशयनं नाम्ना पश्चाल्लोकेषु विश्रुतम् ॥१०१॥
एवमुक्तं मया विप्राः समुद्रे सेतुबंधनम् ॥
अत्र तीर्थान्यनेकानि संति पुण्यान्यनेकशः ॥१०२॥
न संख्यां नामधेयं वा शेषो गणयितुं क्षमः ॥
किं त्वहं प्रब्रवीम्यद्य तत्र तीर्थानि कानिचित् ॥१०३॥
चतुर्विंशति तीर्थानि संति सेतौ प्रधानतः॥
प्रथमं चकतीर्थं स्याद्वेतालवरदं ततः ॥१०४॥
ततः पापविनाशार्थं तीर्थं लोकेषु विश्रुतम् ॥
ततः सीतासरः पुण्यं ततो मंगलतीर्थकम्॥ १०५॥
ततः सकलपापघ्नी नाम्ना चामृतवापिका ॥
ब्रह्मकुण्डं ततस्तीर्थं ततः कुंडं हनूमतः ॥१०६॥
आगस्त्यं हि ततस्तीर्थं रामतीर्थ मतः परम् ॥
ततो लक्ष्मणतीर्थं स्याज्जटातीर्थमतः परम् ॥१०७॥
ततो लक्ष्म्याः परं तीर्थमग्नितीर्थमतः परम् ॥
चक्रतीर्थं ततः पुण्यं शिवतीर्थमतः परम् ॥१०८॥
ततः शंखाभिधं तीर्थं ततो यामुनतीर्थकम् ॥
गंगातीर्थं ततः पश्चाद्गयातीर्थमनन्तरम् ॥१०९॥
ततः स्यात्कोटितीर्थाख्यं साध्यानाममृतं ततः ॥
मानसाख्यं ततस्तीर्थं धनुष्कोटिस्ततः परम् ॥११०॥
प्रधानतीर्थान्येतानि महापापहराणि च ॥
कथितानि द्विजश्रेष्ठास्सेतुमध्यगतानि वै ॥१११॥
यथा सेतुश्च बद्धोऽभूद्रामेण जलधौ महान् ॥
कथितं तच्च विप्रेन्द्राः पुण्यं पापहारं तथा ॥११२॥
यच्छ्रुत्वा च पठित्वा च मुच्यते मानवो भुवि ॥११३॥
अध्यायमेनं पठते मनुष्यः शृणोति वा भक्तियुतो द्विजेंद्राः ॥
सो नंतमाप्नोति जयं परत्र पुनर्भवक्लेशमसौ न गच्छेत् ॥११४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुनिर्माणादिवर्णनंनाम द्वितीयोऽध्यायः ॥२॥

N/A

References : N/A
Last Updated : November 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP