संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३३ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३३ Translation - भाषांतर ॥ श्रीसूत उवाच ॥भूयोऽप्यहं प्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ॥अत्यद्भुततरं गुह्यं सर्वलोकैकपावनम् ॥१॥पुरा परावसुर्नाम ब्राह्मणो वेदवित्तमः ॥अज्ञानात्पितरं हत्वा ब्रह्महत्यामवाप्तवान् ॥सोऽपि स्नात्वा धनुष्कोटौ तद्दोषा न्मुमुचे क्षणात् ॥२॥॥ ऋषय ऊचुः ॥पितरं हतवान्पूर्वं कथं सूत परावसुः ॥३॥कथं वा धनुषः कोटौ मुक्तिस्तस्याप्यभून्मुने ॥एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ॥४॥॥ श्रीसूत उवाच ॥आसीद्राजा बृहद्द्युम्नश्चक्रवर्ती महाबलः ॥धर्मेण पालयामास सागरांतां वसुन्धराम् ॥५॥अयजत्सत्रयागेन देवानिंद्रपुरोगमान् ॥याजकस्तस्य रैभ्योऽभूद्विद्वान्परमधार्मिकः ॥६॥आस्तां पुत्रावुभौ तस्याप्यर्वावसु परावसू ॥षडंगवेदविदुषौ श्रौतस्मार्तेषु कोविदौ ॥७॥काणादे जैमिनीये च सांख्ये वैयासिके तथा ॥गौतमे योगशास्त्रे च पाणिनीये च कोवि दौ ॥८॥मन्वादिस्मृतिनिष्णातौ सर्वशास्त्रविशारदौ ॥सत्रयागे सहायार्थं बृहद्द्युम्नेन याचितौ ॥९॥भ्रातरौ समनुज्ञातौ पित्रा रैभ्येण जग्मतुः ॥बृहद्द्युम्नस्य सत्रं तावश्विनाविव रूपिणौ ॥१०॥अतिष्ठदाश्रमे रैभ्यः स्नुषया ज्येष्ठया सह ॥तौ गत्वा भ्रातरौ तत्र राज्ञः सत्रमनुत्तमम् ॥११॥याज यामासतुः सत्रे बृहद्द्युम्नं महीपतिम् ॥नाभवत्स्खलनं भ्रात्रोः सत्रे सांगेषु कर्मसु ॥१२॥सत्रे संतन्यमानेऽस्मिन्बृहद्द्युम्नस्य भूपतेः ॥मुनयो भ्यागमन्सर्वे राज्ञाहूता निरीक्षितुम् ॥१३॥वसिष्ठो गौतमश्चात्रिर्जाबालिरथ कश्यपः ॥क्रतुर्दक्षः पुलस्त्यश्च पुलहो नारदो मुनिः ॥१४॥मार्कंडेयः शतानंदो विश्वामित्रः पराशरः ॥भृगुः कुत्सोऽथ वाल्मीकिर्व्यासधौम्यादयोऽपरे ॥१५॥शिष्यैः प्रशिष्यैर्बहुभिरसंख्यातैः समावृताः ॥तानागतान्समालोक्य बृहद्द्युम्नो महीपतिः ॥१६॥अर्घ्यादिना मुनीन्सर्वान्पूजयामास सादरम् ॥नाना दिग्भ्यः समायाताश्चतुरंगबलैर्युताः ॥१७॥उपदासहिता भूपास्सत्रं वीक्षितुमादरात् ॥वैश्याः शूद्रास्तथा वर्णाश्चत्वरोऽपि समागताः ॥१८॥वर्णिनोऽथ गृहस्थाश्च वानप्रस्थाश्च भिक्षवः ॥सत्रं निरीक्षितुं तस्य बृहद्द्युम्नस्य चाययुः ॥१९॥तान्सर्वान्पूजयामास यथार्हं राजसत्तमः ॥ददौ चान्नानि सर्वेभ्यो घृतसूपादिकांस्तथा ॥२०॥वस्त्राणि च सुवर्णानि हाररत्नान्यनेकशः ॥एवं सत्कारयामास राजा सत्रे समागतान् ॥२१॥रैभ्यपुत्रो तदा विप्रा अर्वावसुपरावसू ॥अध्वरादीनि कर्माणि चक्रतुः स्खलितं विना ॥२२॥तद्दृष्ट्वा मुनयस्सर्वे कौशलं रैभ्यपुत्रयौः ॥श्लाघंते सशिरःकम्पं वसिष्ठप्रमुखास्तदा ॥२३॥कर्माणि कानि चित्तत्र कारयित्वा परावसुः ॥तृतीयसवनस्यांते गृहकृत्यं निरीक्षितुम् ॥२४॥प्रययौ स्वाश्रमं सायं विनैवार्वावसुं द्विजाः ॥तस्मिन्नवसरे रैभ्यं कृष्णाजिनसमावृतम् ॥२५॥वने चरंतं पितरं दृष्ट्वा स मृगशंकया ॥निद्राकलुषितो रात्रावंधे तमसि संकुले ॥२६॥आत्मानं हंतुमायाति मृगोऽयमिति चिंतयन् ॥जघान पितरं सोऽयं महारण्ये परावसुः ॥२७॥रिरक्षुणा शरीरं स्वं तेनाकामनया पिता ॥रजन्यां हिंसितो विप्रा महापातककारिणा ॥२८॥अंतिकं स समागत्य व्यलोकयत तं हतम् ॥ज्ञात्वा स्वपितरं रात्रौ शुशोच व्यथितेंद्रियः ॥२९॥प्रेतकार्यं ततः कृत्वा पितुः सर्वं परावसुः ॥भूयोपि नृपतेः सत्रं परावसुरुपाययौ ॥३०॥स्वचेष्टितं तु तत्सर्वमनुजाय ततोऽब्रवीत् ॥मृतं स्वपितरं श्रुत्वा सोऽपि शोकाकुलोऽभवत् ॥३१॥ज्येष्ठोऽनुजं ततः प्राह वचनं द्विजसत्तमाः ॥महत्सत्रं समारब्धं बृहद्द्युम्नस्य भूपतेः ॥३२॥वोढुत्वशक्तिर्नास्त्यस्य कर्मणो बालकस्य ते ॥जनकश्च हतो रात्रौ मयापि मृगशंकया ॥३३॥प्रायश्चित्तं च कर्त्तव्यं ब्रह्महत्या विशुद्धये ॥मदर्थं व्रतचर्यां त्वं चर तात कनिष्ठक ॥३४॥एकाकी धुरमुद्वोढुं शक्तोऽहं सत्रकर्मणः ॥अर्वावसुरिति प्रोक्तो ज्येष्ठेन स तमभ्य धात् ॥३५॥तथा भवत्वहं ज्येष्ठ चरिष्ये व्रतमुत्तमम् ॥ब्रह्महत्याविशुद्ध्यर्थं त्वं सत्रधुरमावह ॥३६॥इत्युक्त्वा सोनुऽजो ज्येष्ठं तस्मात्सत्राद्वि निर्ययौ ॥कारयामास कर्माणि ज्येष्ठस्तस्मिन्गते कतौ ॥३७॥द्वादशाब्दं कनिष्ठोपि ब्रह्महत्याव्रतं द्विजाः ॥चरित्वा सत्रयागेऽस्मिन्नाजगाम पुनर्मुदा ॥३८॥तं दृष्ट्वा भ्रातरं ज्येष्ठो बृहद्द्युम्नमुवाच ह ॥अयं ते ब्रह्महा सत्रमर्वावसुरुपागतः ॥३९॥एनमुत्सारयाशु त्वमस्मात्सत्रान्नृपो त्तम ॥अन्यथा सत्रयागस्य फलहानिर्भविष्यति ॥४०॥इतीरितः स स्वप्रेष्यैर्यागात्तमुदवासयत् ॥उद्वास्यमानो राजानमर्वावसुरथाब्रवीत् ॥४१॥न मया ब्रह्महत्येयं बृहद्द्युम्न कृतानघ ॥किन्तु ज्येष्ठेन मे सा हि ब्रह्महत्या कृता विभो ॥४२॥ब्रह्महत्याव्रतं चीर्णं तदर्थं च मया धुना ॥एवमुक्तोपि राजासौ वचसा स परावसोः ॥४३॥अर्वावसुं निजात्सत्रादुदवासयदाशु वै ॥धिक्कृतो ब्राह्मणैश्चायं ययौ तूष्णीं वनं तदा ॥४४॥मुनिवृन्दसमाकीर्णं तपोवनमुपेत्य सः ॥अर्वावसुस्तपश्चक्रे देवैरपि सुदुष्करम् ॥४५॥तपः कुर्वंस्तथादित्यमुपतस्थे समा हितः ॥मूर्तिमांस्तपसा तस्य महताऽदुष्टधीः स्वयम् ॥४६॥आविरासीत्स्वया दीप्त्या भासयञ्जगतीतलम् ॥कर्मसाक्षी जगच्चक्षुर्भास्करो देवताग्रणीः ॥४७॥आविर्बभूवुर्देवाश्च पुरस्कृत्य शचीपतिम् ॥इन्द्रादयस्ततो देवाः प्रोचुरर्वावसुं द्विजाः ॥४८॥अर्वावसो त्वं प्रवरस्तपसा ब्रह्म चर्यतः ॥आचारेण श्रुतेनापि वेदशास्त्रादिशिक्षया ॥४९॥निराकृतोवमानेन त्वं परावसुना बहु ॥तथापि क्षमया युक्तो न कुप्यति भवान्यतः ॥५०॥यस्माज्ज्येष्ठोऽवधीत्तातं न हिंसीस्त्वं महामते ॥ब्रह्महत्याव्रतं यस्मात्तदर्थं चरितं त्वया ॥५१॥अतः स्वीकुर्म हे त्वां तु पराकुर्मः परावसुम् ॥उक्त्वैवं बलभिन्मुख्याः सर्वे च त्रिदिवालयाः ॥५२॥तं ते प्रवरयामासुर्निरासुश्च परावसुम् ॥पुनरिंद्रादयो देवाः पुरोधाय दिवाकरम् ॥५३॥अर्वावसुं प्रोचुरिदं वरं त्वं वरयेति वै ॥स चापि प्रार्थयामास जनकस्योत्थितिं पुन. ॥५४॥वधे चास्मरणं देवानात्मनो जनकस्य वै ॥तथास्त्विति सुराः प्रोचुः पुनरूचुरिदं वचः ॥५५॥वरं चान्यं प्रदास्यामो वरय त्वं महामते ॥एवमुक्तः सुरैः सोयमर्वावसुरभाषत ॥५६॥मम भ्रातुरदुष्टत्वं भवतु त्रिदशालयाः ॥अर्वावसोर्वचः श्रुत्वा त्रिदशाः पुनरब्रुवन् ॥५७॥ब्राह्मणस्य पितुर्घातान्महान्दोषः परावसोः ॥न ह्यन्यकृतपापस्य परेणानुष्ठितेन वै ॥५८॥प्रायश्चित्तेन शांतिः स्यान्महापातकपंचके ॥पितुर्ब्राह्मणहंतुस्तु सुतरां नास्ति निष्कृतिः ॥५९॥आत्मनानुष्ठितेनापि व्रतेन न हि दुष्कृतिः॥परावसोस्तव भ्रातुरतो नैवास्ति निष्कृतिः ॥६०॥अतोऽस्माभिरदुष्टत्वमस्मै दातुं न शक्यते ॥अर्वावसुः पुनःप्राह देवानिंद्रपुरोगमान् ॥६१॥तथापि युष्मन्माहात्म्यात्प्रसादाद्भवतां तथा॥पितुर्ब्राह्मणहंतुर्मे भ्रातुस्त्रिदशसत्तमाः ॥६२॥यथा स्यान्निष्कृतिर्ब्रूत तथैव कृपया युताः ॥एवमर्वावसोः श्रुत्वा वचस्ते त्रिदशालयाः ॥६३॥ध्यात्वा तु सुचिरं कालं विनिश्चित्येदमबुवन् ॥उपायं ते प्रवक्ष्यामस्तत्पातकनिवारणम् ॥६४॥दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ॥धनुष्कोटिरिति ख्यातं तीर्थमस्ति विमुक्तिदम् ॥६५॥ब्रह्महत्यासुरापानस्वर्णस्तेयविनाशनम्॥गुरुतल्पगसंसर्गदोषाणामपि नाशनम् ॥६६॥अकामेनापि यः स्नायादपवर्गफलप्रदम् ॥दुःस्वप्ननाशनं धन्यं नरकक्लेशनाशनम् ॥६७॥कैलासादिपदप्राप्तिकारणं परमार्थदम् ॥सर्वकाममिदं पुंसामृणदारिद्र्यनाशनम् ॥६८॥धनुष्कोटिर्धनु ष्कोटिर्धनुष्कोटिरितीरणात् ॥स्वर्गापवर्गदं पुंसां महापुण्यफलप्रदम् ॥६९॥तत्र गत्वा तव भ्राता स्नायाद्यदि परावसुः ॥तत्क्षणादेव ते ज्येष्ठो मुच्यते ब्रह्महत्यया ॥७०॥इदं रहस्यं सुमहत्प्रायश्चित्तमुदीरितम् ॥उक्त्वेत्यर्वावसुं देवाः प्रययुः स्वपुरीं प्रति ॥७१॥तत अर्वावसुर्ज्येष्ठं समादाय परावसुम् ॥रामचन्द्रधनुष्कोटिं प्रययौ मुक्तिदायिनीम् ॥७२॥सेतौ संकल्पमुक्त्वा तु नियमेन परावसुः ॥सह भ्रात्रा धनुष्कोटौ सस्नौ पातकशुद्धये ॥७३॥स्नात्वोत्थितं धनुष्कोटौ तं प्रोवाचाशरीरिणी ॥परावसो विनष्टा ते पितुर्ब्राह्मणघातजा ॥७४॥ब्रह्महत्या महा घोरा नरकक्लेशकारिणी ॥इत्युक्त्वा विररामाथ सापि वागशरीरिणी ॥७५॥परावसुस्तदा विप्राः कनिष्ठेन समन्वितः ॥रामचन्द्रधनुष्कोटिं प्रणम्य च सभक्तिकम् ॥७६॥रामनाथं महादेवं नत्वा भक्तिपुरःसरम् ॥विमुक्तपातको विप्राः प्रययौ पितुराश्रमम् ॥७७॥मृत्वोत्थितस्तदा रैभ्यो दृष्ट्वा पुत्रौ समागतौ ॥संतुष्टहृदयो ह्यास्ते पुत्राभ्यां स्वाश्रमे तदा ॥७८॥रामचन्द्रधनुष्कोटौ स्नानेन हतपातकम् ॥एनं परावसुं सर्वे स्वीचक्रुर्मुनयस्तदा ॥७९॥एवं परावसोरुक्तं ब्रह्महत्याविमोक्षणम् ॥स्नानमात्राद्धनुष्कोटौ युष्माकं मुनिपुंगवाः ॥८०॥सुरा पानादयो विप्रा नश्यंत्येवात्र मज्जनात् ॥सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥९१॥महापातकसंघाश्च नश्येयुर्मज्जनादिह ॥य इमं पठतेऽध्यायं ब्रह्महत्याविमोक्षणम् ॥८२॥ब्रह्महत्या विनश्येत तत्क्षणान्नास्ति संशयः ॥सुरापानादयोऽप्यस्य शांतिं गच्छेयुरंजसा ॥८३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां परावसोर्ब्रह्महत्याविमो क्षणंनाम त्रयस्त्रिंशोऽध्यायः ॥३३॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP