संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय २८ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय २८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २८ Translation - भाषांतर ॥ श्रीसूत उवाच ॥कोटितीर्थं महापुण्यं सेवित्वा केवलं नरः ॥स्नातुं जितेंद्रियस्तीर्थं ततः साध्यामृतं व्रजेत् ॥१॥साध्यामृतं महातीर्थ महापुण्यफलप्रदम् ॥महादुःखप्रशमनं गन्धमादनपर्वते ॥२॥अस्ति पापहरं पुंसां सर्वाभीष्टप्रदायकम् ॥यत्र स्नात्वा नरो भक्त्या सर्वान्कामानवाप्नुयात् ॥३॥तपसा ब्रह्मचर्येण यज्ञैर्दानेन वा पुनः ॥गतिं तां न लभेन्मर्त्यो यां साध्यामृतमज्जनात् ॥४॥स्पृष्टानि येषामंगानि साध्यामृतजलैः शुभैः ॥तेषां देहगतं पापं तत्क्षणादेव नश्यति ॥५॥साध्यामृतजले यस्तु साघमर्षणकृन्नरः ॥स विधूयेह पापानि विष्णुलोके महीयते ॥६॥पूर्वे वयसि पापानि कृत्वा कर्माणि यो नरः ॥पश्चात्साध्यामृतं सेवेत्पश्चात्तापसमन्वितः ॥७॥अन्ते वयसि मुक्तः स्यात्स नरो नात्र संशयः ॥साध्यामृते नरः स्नात्वा देहबंधाद्विमुच्यते ॥८॥साध्यामृतजले स्नाता मनुष्याः पापक र्मिणः ॥अनेकक्लेशघोराणि नरकाणि न यांति हि ॥९॥साध्यामृतजले स्नानात्पुंसां या स्याद्गतिर्द्विजाः ॥न सा गतिर्भवेद्यज्ञैर्न वेदैः पुण्यकर्मभिः ॥१०॥यावदस्थि मनुष्याणां साध्यामृतजले स्थितम् ॥तावद्वर्षाणि तिष्ठंति शिवलोके सुपूजिताः ॥११॥अपहत्य तमस्तीव्रं यथा भात्युदये रविः ॥तथा साध्यामृतस्नायी भित्त्वा पापानि राजते ॥१२॥वांछिताँल्लभते कामानत्र स्नातो नरः सदा ॥यत्र स्नात्वा महापुण्ये पुरा राजा पुरूरवाः ॥विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम् ॥१३॥॥ ऋषय ऊचुः ॥कथं सूत महाभाग सहोर्वश्यामरस्त्रिया ॥१४॥प्रथमं लब्धवान्योगं मर्त्यो राजा पुरूरवाः ॥विप्रयोगं सहोर्वश्या जहौ तुंबुरुशापजम् ॥१५॥हेतुना केन राजानं शशाप तुंबुरुर्मुनिः ॥एतत्सर्वं समाचक्ष्व विस्तरान्मुनिपुंगव ॥१६॥॥ सूत उवाच ॥आसीत्पुरूरवानाम शक्रतुल्यपराक्रमः ॥राजराजसमो राजा पुरा ह्यमरपूजितः ॥१७॥धर्मतः पालयामास मेदिनीं स नृपोत्तमः ॥ईजे च बहुभिर्यज्ञैर्ददौ दानानि सर्वदा ॥१८॥प्रशासति महीं सर्वां राज्ञि तस्मिन्महामतौ ॥मित्रावरुणशापेन भुवं प्रापोर्वशी द्विजाः ॥१९॥सा चचारोर्वशी तत्र राज्ञस्तस्य पुरांतिके ॥कोकिलालापमधुरवीणयोपवने जगौ ॥२०॥स राजोपवने रंतुं कदाचिद्धृतकौतुकः ॥आरूढतुरगः प्रायाल्ललनाशतसंवृतः ॥२१॥तादृशीमुर्वशीं तत्र करसम्मितमध्यमाम् ॥उवाच चैनां राजासौ भार्या मम भवेति वै ॥२२॥सापि कामातुरा तत्र राजानं प्रत्यभाषत ॥भवत्वेवं नरश्रेष्ठ समयं यदि मे भवान् ॥२३॥करिष्यति तवाभ्याशे वत्स्यामि धृतकौतुका ॥करिष्ये समयं सुभ्रु तवाहमिति सोऽब्रवीत् ॥२४॥अथोर्वशी बभाषे तं पुरूरवसमुत्सुका ॥पुत्रभूतं मम यदि रक्षस्युरणकद्वयम् ॥२५॥न नग्नो दृश्यसे राजन्कदापि यदि वै तथा ॥नोच्छिष्टं मम दद्याश्चेत्तदा वत्स्ये तवांतिके ॥२६॥घृतमात्राशना चाहं भविष्यामि नृपोत्तम ॥एवमस्त्विति राजोक्तां तां निनाय निजं गृहम् ॥२७॥अलकायां स भूपालस्तथा चैत्ररथे वने ॥रेमे सरस्वतीतीरे पद्मखण्डमनोरमे ॥२८॥एकषष्टिं स वर्षाणि रममाणस्तयानयत् ॥तेनोर्वशी प्रतिदिनं वर्धमानानुरागिणी ॥२९॥स्पृहां न देवलोकेऽपि चकार तनुमध्यमा ॥नाभवद्रमणीयोऽसौ देवलोकस्तया विना ॥३०॥अतस्तामानयिष्यामि देवलोकमिति द्विजाः ॥विश्वावसुर्विचार्यैवं भूर्लोकमगमत्क्षणात् ॥३१॥उर्वश्याः समयं राज्ञा विश्वावसुरयं सह ॥विदित्वा सह गन्धर्वैः समवेतो निशांतरे ॥३२॥उर्वश्याः शयनाभ्याशाज्जग्राहोरणकं जवात् ॥आकाशे नीयमानस्य तस्य श्रुत्वोर्वशी पतिम् ॥३३॥अब्रवीन्मत्सुतः केन गृह्यते त्यज्यतामयम् ॥अनाथा शरणं यामि कं नरं गतचेतना॥३४॥पुरूरवाः समाकर्ण्य वाक्यं तस्या निशांतरे ॥मां न नग्नं निरीक्षेत देवीति न ययौ तदा ॥३५॥अथान्यमप्युरणकं गन्धर्वाः प्रतिगृह्य ते ॥ययुस्तस्योरणस्यापि शब्दं शुश्राव चोर्वशी ॥३६॥अनाथाया मम सुतो गृह्यते तस्करैरिति ॥चुक्रोश देवी परुषं कं यामि शरणं नरम् ॥३७॥अमर्षवशमापन्नः श्रुत्वा तद्वचनं नृपः ॥तिमिरेणावृतं सर्वमिति मत्त्वा स खङ्गधृक् ॥३८॥दुष्टदुष्ट कुतो यासीत्यभ्यधावद्वचो वदन् ॥तावत्सौदामिनी दीप्ता गन्ध र्वैर्जनिता भृशम् ॥३९॥तत्प्रभामंडलैर्देवी राजानं विगतांबरम् ॥दृष्ट्वा निवृत्तसमया तत्क्षणादेव निर्ययौ ॥४०॥त्यक्त्वा ह्युरणकौ तत्र गंधर्वा अपि निर्ययुः ॥राजा मेषौ समादाय हृष्टः स्वशयनांतिकम् ॥४१॥आगतो नोर्वशीं तत्र ददर्शायतलोचनाम् ॥तां चापश्यन्विवस्त्रश्च बभ्रामोन्मत्तवद्भुवि ॥४२॥कुरुक्षेत्रं गतो राजा तटाके पद्मसंकुले ॥चतुर्भिरप्सरस्त्रीभिः क्रीडमाना ददर्श ताम् ॥४३॥हे जाये तिष्ठ मनसा घोरेति व्याहरन्मुहुः ॥एवं बहुप्रकारं वै स सूक्तं प्रालपन्नृपः ॥४४॥अब्रवीदुर्वशी तं च क्रीडती साप्सरोगणैः ॥महाराजालमेतेन चेष्टितेन तवानघ ॥४५॥त्वत्तो गर्भिण्यहं पूर्वमब्दांते भवतात्र वै ॥आगंतव्यं कुमारस्ते भविष्यत्यतिधार्मिकः ॥४६॥एकां विभावरीं राजंस्त्वया वत्स्यामि वै तदा ॥इत्युक्तो नृपतिर्हृष्टः स्वपुरीं प्राविशद्द्विजाः ॥४७॥तासामप्सरसां सा तु कथयामास तं नृपम् ॥अयं स पुरुषश्रेष्ठो येनाहं कामरूपिणा ॥४८॥एतावंतं महाकालमनुरागवशातुरा ॥उषितास्मि सहानेन सख्यो नृपतिना चिरम् ॥४९॥एवमुक्तास्ततः सख्यस्तामूचुः साधुसाध्विति ॥अनेन साकमास्यामः सर्वकालं वयं सखि ॥५०॥इत्यूचुरुर्वशीं तत्र सखीमप्सरसस्तदा ॥अब्देऽथ पूर्णे राजापि तटाकांति कमाययौ ॥५१॥आगतं नृपतिं दृष्ट्वा पुरूरवसमुर्वशी ॥कुमारमायुषं तस्मै ददौ संप्रीतमानसा ॥५२॥तेन साकं निशामेकामुषिता सानु रागिणी ॥पंचपुत्रप्रदं गर्भं तस्मादापाशु सोर्वशी ॥५३॥उवाच चैनं राजानमुर्वशी परमांगना ॥वरं दास्यंति गन्धर्वा मत्प्रीत्या तव भूपते ॥५४॥भवतां प्रार्थ्यतां तेभ्यो वरो राजर्षिसत्तम ॥इत्युक्तः स तया राजा प्राह गन्धर्वसत्तमान् ॥५५॥अहं संपूर्णकोशश्च विजिताराति मंडलः ॥सलोकतां विनोर्वश्याः प्राप्तव्यं नान्यदस्ति मे ॥५६॥अतस्तया सहोर्वश्या कालं नेतुमहं वृणे ॥एवमुक्ते नृपेणाथ गन्धर्वास्तुष्ट मानसाः ॥अग्निस्थालीं प्रदायास्मै प्रोचुश्चैनं नृपं तदा ॥५७॥॥ गन्धर्वा ऊचुः ॥अग्निं वेदानुसारी त्वं त्रिधा कृत्वा नृपोत्तम ॥५८॥इष्ट्वा यज्ञेन चोर्वश्याः सालोक्यं याहि भूपते ॥इतीरितस्तैरादाय स्थालीमग्नेर्ययौ नृपः ॥५९॥अहो बतातिमूढोहमिति मध्ये वनं नृपः ॥उर्वशी न मया लब्धा वह्निस्थाल्या तु किं फलम् ॥६०॥निधायैव वने स्थालीं स्वपुरं प्रययौ नृपः ॥अर्धरात्रे व्यतीतेऽसौ विनिद्रोऽचिंतयत्स्वयम् ॥६१॥उर्वशीलोकसिद्ध्यर्थं मम गन्धर्वपुंगवैः ॥अग्निस्थाली संप्रदत्ता सा च त्यक्ता मया वने ॥६२॥आहरिष्ये पुनः स्थालीमित्युत्थाय ययौ वनम् ॥नाग्निस्थालीं ददर्शासौ वने तत्र पुरूरवाः ॥६३॥अरणिमन्थनम्शमीगर्भमथाश्वत्थमग्निस्थाने विलोक्य सः ॥व्यचिंतयन्मया स्थाली निक्षिप्तात्र वने पुरा ॥६४॥सा चाश्वत्थः शमीगर्भः समभूदधुना त्विह ॥तस्मादेनं समादाय वह्निरूपमहं पुरम् ॥६५॥गत्वा कृत्वारणीं सम्यक्तदुत्पन्नाग्निमादरात् ॥उपास्यामीति निश्चित्य स्वपुरं गतवान्नृपः ॥६६॥रमणीयारणीं चक्रे स्वांगुलैः प्रमिता मसौ ॥निर्माणसमये राजा गायत्रीमजपद्द्विजाः ॥६७॥गायत्र्याः पठ्यमानाया यानि संत्यक्षराणि हि ॥तावदंगुलिमर्यादामकरोदरणीं नृपः ॥६८॥तत्र निर्मथनादग्नित्रयमुत्पाद्य भूपतिः ॥उर्वशीलोकसंप्राप्तिफलमुद्दिश्य कांक्षितम् ॥६९॥वेदानुसारी नृपतिर्जुहावाग्नित्रयं मुदा ॥तेनैव चाग्निविधिना बहून्यज्ञानथातनोत् ॥७०॥तेन गन्धर्वलोकांश्च संप्राप्य जगतीपतिः॥सहोर्वश्या चिरं रेमे देवलोके द्विजोत्तमाः ॥७१॥अथ सर्वामरोपेतः कदाचिद्बलवृत्रहा॥नृत्यं सुरांगनानां वै व्यलोकयत संसदि ॥७२॥पुरूरवा नृपोप्यायात्तदा देवेंद्रसंसदम् ॥द्रष्टुं सुरांगनानृत्यं मनोहारि दिवौकसाम् ॥७३॥एकैकशस्ताः शक्रस्य ननृतुः पुरतोंऽगनाः ॥अथोर्वशी समागत्य ननर्त पुरतो हरेः ॥७४॥नृत्ताभिनयसामर्थ्यगर्वयुक्ता तदोर्वशी ॥तं पुरूरवसं दृष्ट्वा जहासातिमनोहरा ॥७५॥जहास तत्र राजापि तां विलोक्य तदोर्वशीम् ॥हाससंकुपितस्तत्र नाट्याचार्योऽथ तुंबुरुः ॥शशाप तावुभौ कोपादुर्वशीं च नृपोत्तमम् ॥७६॥॥ तुंबुरुरुवाच ॥अनेकदेवसंपूर्णसभायामत्र यत्कृतम् ॥७७॥युवाभ्यां हसितं नृत्तमध्ये निष्कारणं वृथा ॥तस्माज्झटिति राजेंद्र वियोगो युवयोः क्षणात् ॥७८॥भूयादिति शशापैनं सर्वदैवतसंनिधौ ॥अथ शप्तो नृपस्तत्र नाट्याचार्येण दुःखितः ॥७९॥जगाम शरणं तत्र पाहिपाहीति वज्रिणम् ॥उवाच दीनया वाचा पुरुहूतं पुरूरवाः ॥८०॥उर्वश्या सह सालोक्यसिद्ध्यर्थमहमिष्टवान् ॥अतस्तस्मा वियोगो मेऽसह्यः स्यात्पाकशासन ॥८१॥इत्युक्तवंतं तं प्राह सहस्राक्षः शचीपतिः ॥शापमोक्षं प्रवक्ष्यामि मा भैषीस्त्वं नृपोत्तम ॥८२॥दक्षिणांभोनिधौ पुण्ये गंधमादनपर्वते ॥साध्यामृतमिति ख्यातं तीर्थमस्ति महत्तरम् ॥८३॥सेवितं सर्वदेवैश्च सिद्धचारणकिन्नरैः ॥सनकादि महायोगिमुनिवृंदनिषेवितम् ॥८४॥भुक्तिमुक्तिप्रदं पुंसां सर्वशापविमोक्षदम् ॥अस्ति तीर्थं भवांस्तत्र गच्छस्व त्वरया नृप ॥८५॥सर्वेषाममृतं स्नानादत्र साध्यं यतस्ततः ॥साध्यामृतमिति ख्यातं सर्वलोकेषु विश्रुतम् ॥८६॥तत्र स्नानात्तवोर्वश्याः पुनर्योगो भविष्यति ॥मम लोके निवासश्च भविष्यति न संशयः ॥८७॥इति प्रतिसमादिष्टो नृपः संप्रीतमानसः ॥साध्यामृतं महातीर्थं समुद्दिश्य ययौ क्षणात् ॥८८॥सस्नौ साध्यामृते तत्र महापातकनाशने ॥तत्र स्नानान्नृपो विप्राः सद्यः शापेन मोचितः ॥८९॥स्नानानंतरमेवासावुर्वश्या सह संगतः ॥तया सह विमानस्थः प्रययावमरावतीम् ॥९०॥रेमे पुनस्तया सार्धं देववद्देवमंदिरे ॥एवंप्रभावं तत्तीर्थं साध्यामृतमनुत्तमम् ॥९१॥पुरूरवा सहोर्वश्या यत्र स्नानेन संगतः ॥अतोऽत्र तीर्थे यः स्नायान्महापातकनाशने ॥९२॥वांछिताँल्लभते कामान्यास्यति स्वर्गमुत्तमम् ॥निष्कामः स्नाति चेद्वि प्रा मोक्षमाप्नोति मानवः ॥९३॥इमं पवित्रं पापघ्नमध्यायं पठते तु यः॥शृणुयाद्वा मनुष्योऽसौ वैकुंठे लभते स्थितिम् ॥९४॥एवं वः कथितं विप्रा वैभवं पापनाशनम् ॥साध्यामृतस्य तीर्थस्य विस्तराच्छ्रद्धया मया ॥९५॥यत्पुरा सनकादिभ्यः प्रोक्तवांश्चतुराननः ॥९६॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये साध्यामृततीर्थप्रशंसायां पुरूरवःशापविमोक्षणवर्णनंनामाष्टाविंशो अध्यायः ॥२८॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP