सेतुखण्डः - अध्याय ४४
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
सर्ववेदार्थतत्त्वज्ञ पुराणार्णवपारग ॥
व्यासपादांबुजद्वंद्वनमस्कारहृताशुभ ॥१॥
पुराणार्थोपदेशेन सर्वप्राण्युपका रक ॥
त्वया ह्यनुगृहीताः स्म पुराणकथनाद्वयम् ॥२॥
अधुना सेतुमाहात्म्यकथनात्सुतरां मुने ॥
वयं कृतार्थाः संजाता व्यासशिष्य महामते ॥३॥
यथा प्रातिष्ठिपल्लिंगं रामो दशरथात्मजः ॥
तच्छ्रोतुं वयमिच्छामस्त्वमिदानीं वदस्व नः ॥४॥
॥ श्रीसूत उवाच ॥
यदर्थं स्थापितं लिंगं गन्धमादनपर्वते ॥
रामचन्द्रेण विप्रेंद्र तदिदानीं ब्रवीमि वः ॥५॥
हृतभार्यो वनाद्रामो रावणेन बलीयसा ॥
कपिसेनायुतो धीरः ससौमि त्रिर्महाबलः ॥६॥
महेंद्रं गिरिमासाद्य व्यलोकयत वारिधिम् ॥
तस्मिन्नपारे जलधौ कृत्वा सेतुं रघूद्वहः ॥७॥
तेन गत्वा पुरीं लंकां रावणेनाभिरक्षि ताम् ॥
अस्तंगते सहस्रांशौ पौर्णमास्यां निशामुखे॥८॥
रामः ससैनिको विप्राः सुवेलगिरिमारुहत् ॥
ततः सौधस्थितं रात्रौ दृष्ट्वा लंकेश्वरं बली। ॥९॥
सूर्यपुत्रोऽस्य मुकुटं पातयास भूतले ॥
राक्षसो भग्नमुकुटः प्रविवेश गृहोदरम् ॥१०॥
गृहं प्रविष्टे लंकेशे रामः सुग्रीवसंयुतः ॥
सानुजः सेनया सार्द्धमवरुह्य गिरेस्तटात् ॥११॥
सेनां न्यवेशयद्वीरो रामो लंकासमीपतः ॥
ततो निवेशमानांस्तान्वानरान्रावणानुगाः ॥१२॥
अभिजग्मुर्महाकायाः सायुधाः सहसैनिकाः ॥
पर्वणः पूतनो जृंभः खरः क्रोधवशो हरिः ॥१३॥
प्रारुजश्चारुजश्चैव प्रहस्तश्चेतरे तथा ॥
ततोऽभिपततां तेषामदृश्यानां दुरात्मनाम् ॥१४॥
अन्तर्धानवधं तत्र चकार स्म विभीषणः ॥
ते दृश्यमाना बलिभिर्हरिभिर्दूरपातिभिः ॥१५॥
निहताः सर्वतश्चैते न्यपतन्वै गतासवः ॥
अमृष्यमाणः सबलो रावणो निर्ययावथ ॥१६॥
व्यूह्य तान्वानरान्सर्वान्न्यवारयत सायकैः ॥
राघवस्त्वथ निर्याय व्यूढानीको दशाननम् ॥१७॥
प्रत्ययुध्यत वेगेन द्वंद्वयुद्धमभूत्तदा ॥
युयुधे लक्ष्मणेनाथ इंद्रजिद्रावणात्मजः ॥१८॥
विरूपाक्षेण सुग्रीवस्तारेयेणापि खर्वटः ॥
पौंड्रेण च नलस्तत्र पुटेशः पनसेन च ॥१९॥
अन्येपि कपयो वीरा राक्षसैर्द्वंद्वमेत्य तु ॥
चक्रुर्युद्धं सुतुमुलं भीरूणां भयवर्द्धनम् ॥२०॥
अथ रक्षांसि भिन्नानि वानरैर्भीमविक्रमैः ॥
प्रदुद्रुवू रणादाशु लंकां रावणपालिताम् ॥२१॥
भग्नेषु सर्वसैन्येषु रावणप्रेरितेन वै ॥
पुत्रेणेंद्रजिता युद्धे नागास्त्रैरतिदारुणैः ॥२२॥
विद्धौ दाशरथी विप्रा उभौ तौ रामलक्ष्मणौ ॥
मोचितौ वैनतेयेन गरुडेन महात्मना ॥२३॥
तत्र प्रहस्तस्तरसा समभ्येत्य विभीषणम् ॥
गदया ताडयामास विनद्य रणकर्कशः ॥२४॥
स तयाभिहतो धीमान्गदया भामिवेगया ॥
नाकंपत महाबाहुर्हिमवानिव सुस्थितः ॥२५॥
ततः प्रगृह्य विपुलामष्टघंटां विभीषणः ॥
अभिमंत्र्य महाशक्तिं चिक्षे पास्य शिरः प्रति॥२६॥
पतंत्या स तया वेगाद्राक्षसोऽशनिना यथा।
हृतोत्तमांगो ददृशे वातरुग्ण इव द्रुमः॥२७॥
तं दृष्ट्वा निहतं संख्ये प्रहस्तं क्षणदाचरम्॥
अभिदुद्राव धूम्राक्षो वेगेन महता कपीन्॥२८॥
कपिसैन्यं समालोक्य विद्रुतं पवनात्मजः॥
धूम्राक्षमाजघानाशु शरेण रणमूर्धनि॥२९॥
धूम्राक्षं निहतं दृष्ट्वा हतशेषा निशाचराः ॥
सर्वं राज्ञे यथावृत्तं रावणाय न्यवेदयन् ॥३०॥
ततः शयानं लंकेशः कुम्भकर्णमबोधयत् ॥
प्रबुद्धं प्रेषयामास युद्धाय स च रावणः ॥३१॥
आगतं कुम्भकर्णं तं ब्रह्मास्त्रेण तु लक्ष्मणः ॥
जघान समरे क्रुद्धो गतासुर्न्यपतच्च सः ॥३२॥
दूषणस्यानुजौ तत्र वत्रवेगप्रमाथिनौ ॥
हनुमन्नीलनिहतौ रावणप्रतिमौ रणे ॥३३॥
वज्रदंष्ट्रं समवधीद्विश्वकर्मसुतो नलः ॥
अकंपनं च न्यहनत्कुमुदो वानरर्षभः ॥३४॥
षष्ठ्यां पराजितो राजा प्राविशच्च पुरीं ततः ॥
अतिकायो लक्ष्मणेन हतश्च त्रिशिरास्तथा ॥३५॥
सुग्रीवेण हतौ युद्धे देवांत कनरांतकौ ॥
हनूमता हतौ युद्धे कुम्भकर्णसुतावुभौ ॥३६॥
विभीषणेन निहतो मकराक्षः खरात्मजः ॥
तत इन्द्रजितं पुत्रं चोदयामास रावणः॥३७॥
इन्द्रजिन्मोहयित्वा तौ भ्रातरौ रामलक्षमणौ॥
घोरैः शरैरंगदेन हतवाहो दिवि स्थितः॥३८॥
कुमुदांगदसुग्रीवनलजांबवदादिभिः॥
सहिता वानराः सर्वे न्यपतंस्तेन घातिताः॥३९॥
एवं निहत्य समरे ससैन्यौ रामलक्ष्मणौ॥
अंतर्दधे तदा व्योम्नि मेघनादो महाबलः ॥४०॥
ततो विभीषणो राममिक्ष्वाकुकुलभूषणम् ॥
उवाच प्रांजलिर्वाक्यं प्रणम्य च पुनःपुनः ॥४१॥
अयमंभो गृहीत्वा तु राजराजस्य शासनात् ॥
गुह्यकोऽभ्यागतो राम त्वत्सकाशमरिंदम ॥४२॥
इदमंभः कुबेरस्ते महाराज प्रयच्छति ॥
अंतर्हितानां भूतानां दर्शनार्थं परं तप ॥४३॥
अनेन स्पृष्टनयनो भूतान्यंतर्हितान्यपि ॥
भवान्द्रक्ष्यति यस्मै वा भवानेतत्प्रदास्यति ॥४४॥
सोऽपि द्रक्ष्यति भूतानि वियत्त्यंतर्हितानि वै ॥
तथेति रामस्तद्वारि प्रतिगृह्याथ सत्कृतम् ॥४५॥
चकार नेत्रयोः शौचं लक्ष्मणश्च महाबलः ।
सुग्रीवजांबवन्तौ च हनुमानंगदस्तथा ॥४६॥
मैंदद्विविदनीलाश्च ये चान्ये वानरास्तथा ॥
ते सर्वे रामदत्तेन वारिणा शुद्धचक्षुषः ॥४७॥
आकाशेंतर्हितं वीरमपश्यन्रावणा त्मजम् ॥
ततस्तमभिदुद्राव सौमित्रिर्दृष्टिगोचरम् ॥४८॥
ततो जघान संकुद्धो लक्ष्मणः कृतलक्षणः ॥
कुवेरप्रेषितजलैः पवित्रीकृतलोचनः ॥४९॥
ततः समभवद्युद्धं लक्ष्मणेंद्रजितोर्महत् ॥
अतीव चित्रमाश्चर्यं शक्रप्रह्लादयोरिव ॥५०॥
ततस्तृतीयदिवसे यत्नेन महता द्विजाः ॥
इंद्रजिन्निहतो युद्धे लक्ष्मणेन बलीयसा ॥५१॥
ततो मूलबलं सर्वं हतं रामेण धीमता ॥
अथ क्रुद्धो दशग्रीवः प्रियपुत्रे निपातिते ॥५२॥
निर्ययौ रथमास्थाय नगराद्बहुसैनिकः ॥
रावणो जानकीं हन्तुमुद्युक्तो विंध्यवारितः ॥५३॥
ततो हर्यश्वयुक्तेन रथेनादित्यवर्चसा ॥
उपतस्थे रणे रामं मातलिः शक्रसारथिः ॥५४॥
ऐन्द्रं रथं समारुह्य रामो धर्मभृतां वरः ॥
शिरांसि राक्षसेन्द्रस्य ब्रह्मास्त्रेणावधीद्रणे ॥५५॥
ततो हतदशग्रीवं रामं दशरथात्मजम् ॥
आशीर्भिर्जययुक्ताभिर्देवाः सर्षिपुरोगमाः ॥५६॥
तुष्टुवुः परिसंतुष्टाः सिद्धविद्याधरास्तथा ॥
रामं कमलपत्राक्षं पुष्प वर्षेरवाकिरन् ॥५७॥
रामस्तैः सुरसंघातैः सहितः सैनिकैर्वृतः ॥
सीतासौमित्रिसहितः समारुह्य च पुष्पकम् ॥५८॥
तथाभिषिच्य राजानं लंकायां च विभीषणम् ॥
कपिसेनावृतो रामो गन्धमादनमन्वगात् ॥५९॥
परिशोध्य च वैदेहीं गंधमादनपर्वते ॥
रामं कमलपत्राक्षं स्थितवानर संवृतम् ॥६०॥
हतलंकेश्वरं वीरं सानुजं सविभीषणम् ॥
सभार्यं देववृंदैश्च सेवितं मुनिपुंगवैः ॥६१॥
मुनयोऽभ्यागता द्रष्टुं दंडकारण्य वासिनः ॥
अगस्त्यं ते पुरस्कृत्य तुष्टुवुर्मैथिलीपतिम् ॥६२॥
॥ मुनय ऊचुः ॥
नमस्ते रामचंद्राय लोकानुग्रहकारिणे ॥
अरावणं जगत्कर्तुमवतीर्णाय भूतले ॥६३॥
ताटिकादेहसंहर्त्रे गाधिजाध्वररक्षिणे ॥
नमस्ते जितमारीच सुवाहुप्राणहारिणे ॥६४॥
अहल्यामुक्तिसंदायिपादपंकजरेणवे ॥
नमस्ते हरकोदण्डलीलाभञ्जनकारिणे ॥६५॥
नमस्ते मैथिलीपाणिग्रहणोत्सवशालिने ॥
नमस्ते रेणुकापुत्रपराजयविधायिने ॥६६॥
सहलक्ष्मणसीताभ्यां कैकेय्यास्तु वरद्वयात् ॥
सत्यं पितृवचः कर्तुं नमो वनमुपे युषे ॥६७॥
भरतप्रार्थनादत्तपादुकायुगुलाय ते ॥
नमस्ते शरभंगस्य स्वर्गप्राप्त्यैकहेतवे ॥६८॥
नमो विराधसंहर्त्रे गृधराजस खाय ते ॥
मायामृगमहाक्रूरमारीचांगविदारिणे ॥६९॥
सीतापहारिलोकेशयुद्धत्यक्तकलेवरम् ॥
जटायुषं तु संदह्य तत्कैवल्यप्रदायिने ॥७०॥
नमः कबंधसंहर्त्रे शवरीपूजितांघ्रये ॥
प्राप्तसुग्रीवसख्याय कृतवालिवधाय ते ॥७१॥
नमः कृतवते सेतुं समुद्रे वरुणालये ॥
सर्वराक्षससंहर्त्रे रावणप्राणहारिणे ॥७२॥
संसारांबुधिसंतारपोतपादांबुजाय ते ॥
नमो भक्तार्तिसंहर्त्रे सच्चिदानंदरूपिणे ॥७३॥
नमस्ते राम भद्राय जगतामृद्धिहेतवे ॥
रामादिपुण्यनामानि जपतां पापहारिणे ॥७४॥
नमस्ते सर्वलोकानां सृष्टिस्थित्यंतकारिणे ॥
नमस्ते करुणामूर्ते भक्तरक्षणदीक्षित ॥७८५॥
ससीताय नमस्तुभ्यं विभीषणसुखप्रद ॥
लंकेश्वरवधाद्राम पालितं हि जगत्त्वया ॥७६॥
रक्षरक्ष जगन्नाथ पाह्य स्माञ्जानकीपते ॥
स्तुत्वैवं मुनयः सर्वे तूष्णीं तस्थुर्द्विजोत्तमाः ॥७७॥
॥ श्रीसूत उवाच ॥
य इदं रामचन्द्रस्य स्तोत्रं मुनिभिरीरितम् ॥
त्रिसंध्यं पठते भक्त्या भुक्तिं मुक्तिं च विंदति ॥७८॥
प्रयाणकाले पठतो न् भीतिरुपजायते ॥
एतत्स्तोत्रस्य पठनाद्भूतवेतालकादयः ॥७९॥
नश्यंति रोगा नश्यंति नश्यते पापसंचयः ॥
पुत्रकामो लभेत्पुत्रं कन्या विंदति सत्पतिम् ॥८०॥
मोक्षकामो लभेन्मोक्षं धनकामो धनं लभेत्॥
सर्वान्कामानवाप्नोति पठन्भक्त्या त्विमं स्तवम् ॥८१॥
ततो रामो मुनीन्प्राह प्रणम्य च कृतांजलिः ॥
अहं विशुद्धये प्राप्यः सकलैरपि मानवैः ॥८२॥
मद्दृष्टिगोचरो जन्तुर्नित्यमोक्षस्य भाजनम् ॥
तथापि मुनयो नित्यं भक्तियुक्तेन चेतसा ॥८३॥
स्वात्मलाभेन संतुष्टान्साधून्भूतसुहृत्तमान् ॥
निरहंकारिणः शांतान्नमस्याम्यूर्ध्वरेतसः ॥८४॥
यस्माद्ब्रह्मण्यदेवोऽहमतो विप्रान्भजे सदा ॥
युष्मान्पृच्छाम्यहं किंचित्तद्वदध्वं विचार्य तु ॥८५॥
रावणस्य वधाद्विप्रा यत्पापं मम वर्तते ॥
तस्य मे निष्कृतिं ब्रूत पौलस्त्यवधजस्य हि ॥
यत्कृत्वा तेन पापे न मुच्येऽहं मुनिपुंगवाः ॥८६॥
॥ मुनय ऊचुः ॥
सत्यव्रत जगन्नाथ जगद्रक्षाधुरंधर ॥८७॥
सर्वलोकोपकारार्थं कुरु राम शिवार्चनम् ॥
गन्धमादनशृंगेऽस्मिन्महापुण्ये विमुक्तिदे ॥८८॥
शिवलिंगप्रतिष्ठां त्वं लोकसंग्रहकाम्यया ॥
कुरु राम दशग्रीववधदोषापनुत्तये ॥८९॥
लिंगस्थापनजं पुण्यं चतुर्वक्त्रोऽपि भाषितुम्॥
न शक्नोति ततो वक्तुं किं पुनर्मनुजेश्वर॥९॥
यत्त्वया स्थाप्यते लिगं गन्धमादनपर्वते ॥
अस्य संदर्शनं पुंसां काशीलिंगावलोकनात् ॥९१॥
अधिकं कोटिगुणितं फलवत्स्यान्न संशयः ॥
तव नाम्ना त्विदं लिंगं लोके ख्यातिं समश्नुताम् ॥९२॥
नाशकं पुण्यपापाख्यकाष्ठानां दहनोपमम् ॥
इदं रामेश्वरं लिंगं ख्यातं लोके भविष्यति ॥९३॥
मा विलंबं कुरुष्वातो लिंगस्थापनकर्मणि ॥
रामचंद्र महाभाग करुणापूर्णविग्रह ॥९४॥
॥ श्रीसूत उवाच ॥
इति श्रुत्वा वचो रामो मुनीनां तं मुनीश्वराः ॥
पुण्यकालं विचार्याथ द्विमुहूर्तं जगत्पतिः ॥९५॥
कैलासं प्रेषयामास हनुमन्तं शिवालयम् ॥
शिवलिंगं समानेतुं स्थापनार्थं रघूद्वहः ॥९६॥
॥ राम उवाच ॥
हनूमन्नंजनीसूनो वायुपुत्र महाबल ॥
कैलासं त्वरितो गत्वा लिंगमानय मा चिरम् ॥९७॥
इत्याज्ञप्तस्स रामेण भुजावास्फाल्य वीर्यवान् ॥
मुहूर्तद्वितयं ज्ञात्वा पुण्यकालं कपीश्वरः ॥९८॥
पश्यतां सर्वदेवानामृषीणां च महात्मनाम् ॥
उत्पपात महावेगश्चालयन्गंधमादनम् ॥९९॥
लंघयन्स वियन्मार्गं कैलासं पर्वतं ययौ ॥
न ददर्श महादेवं लिंगरूपधरं कपिः ॥१००॥
कैलासे पर्वते तस्मिन्पुण्ये शंकरपालिते ॥
आंजनेयस्तपस्तेपे लिंगप्राप्त्यर्थमादरात् ॥१॥
प्रागग्रेषु समासीनः कुशेषु मुनिपुंगवाः ॥
ऊर्ध्वबाहुर्निरालम्बो निरुच्छ्वासो जितेंद्रियः ॥२॥
प्रसादयन्महादेवं लिंगं लेभे स मारुतिः ॥
एतस्मिन्नंतरे विप्रा मुनिभिस्तत्त्वदर्शिभिः ॥३॥
अनागतं हनूमंतं कालं स्वल्पावशेषितम् ॥
ज्ञात्वा प्रकथितं तत्र रामं प्रति महामतिम् ॥४॥
रामराम महाबाहो कालो ह्यत्येति सांप्रतम् ॥
जानक्या यत्कृतं लिंगं सैकतं लीलया विभो ॥५॥
तल्लिंगं स्थापयस्वाद्य महालिंगमनुत्तमम् ॥
श्रुत्वैतद्वचनं रामो जानक्या सह सत्वरम् ॥६॥
मुनिभिः सहितः प्रीत्या कृतकौतुकमंगलः ॥
ज्येष्ठे मासे सिते पक्षे दशम्यां बुधहस्तयोः ॥७॥
गरानंदे व्यतीपाते कन्या चन्द्रे वृषे रवौ ॥
दशयोगे महापुण्ये गन्धमादनपर्वते ॥८॥
सेतुमध्ये महादेवं लिंगरूपधरं हरम् ॥
ईशानं कृत्तिवसनं गंगाचंद्रकलाधरम् ॥९॥
रामो वै स्थापयामास शिवलिंगमनुत्तमम् ॥
लिंगस्थं पूजयामास राघवः सांबमीश्वरम् ॥११०॥
लिंगस्थः स महादेवः पार्वत्या सह शंकरः ॥
प्रत्यक्षमेव भगवान्दत्तवान्वरमुत्तमम् ॥११॥
सर्वलोकशरण्याय राघवाय महात्मने ॥
त्वयात्र स्थापितं लिंगं ये पश्यंति रघूद्वह ॥१२॥
महापातकयुक्ताश्च तेषां पापं प्रणश्यति ॥
सर्वाण्यपि हि पापानि धनुष्कोटौ निमज्जनात् ॥१३॥
दर्शनाद्रामलिंगस्य पातकानि महांत्यपि ॥
विलयं यांति राजेंद्र रामचन्द्र न संशयः ॥१४॥
प्रादादेवं हि रामाय वरं देवोंऽबिकापतिः ॥
तदग्रे नंदिकेशं च स्थापयामास राघवः ॥१५॥
ईश्वरस्याभिषेकार्थं धनुष्कोट्याथ राघवः ॥
एकं कूपं धरां भित्त्वा जनयामास वै द्विजाः ॥१६॥
तस्माज्जलमुपादाय स्नापयामास शंकरम् ॥
कोटितीर्थमिति प्रोक्तं तत्तीर्थं पुण्यमुत्तमम् ॥१७॥
उक्तं तद्वैभवं पूर्वमस्माभिर्मुनिपुंगवाः ॥
देवाश्च मुनयो नागा गन्धर्वाप्स रसां गणाः ॥
सर्वेपि वानरा लिंगमेकैकं चक्रुरादरात् ॥१८॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्रा यथा रामेण धीमत ॥५९॥॥
स्थापितं शिवलिंगं वै भुक्तिमुक्तिप्रदायकम् ॥
इमां लिंगप्रतिष्ठां यः शृणोति पठतेऽथवा ॥१२०॥
स रामेश्वरलिंगस्य सेवाफलमवाप्नुयात् ॥॥
सायुज्यं च समाप्नोति रामनाथस्य वैभवात् ॥१२१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाविधिवर्णनंनाम चतुश्चत्वारिंशोऽध्यायः ॥४४॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP