संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय २१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
जटा तीर्थाभिधे तीर्थे सर्वपातकनाशने ॥
स्नानं कृत्वा विशुद्धात्मा लक्ष्मीतीर्थं ततो व्रजेत् ॥१॥
यंयं कामं समुद्दिश्य लक्ष्मीतीर्थे द्विजोत्तमाः ॥
स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ॥२॥
महादारिद्र्यशमनं महाधान्यसमृद्धिदम् ॥
महादुःखप्रशमनं महासंपद्विवर्धनम् ॥३॥
अत्र स्नात्वा धर्मपुत्रो महदैश्वर्यमाप्तवान् ॥
इन्द्रप्रस्थे वसन्पूर्वं श्रीकृष्णेन प्रचोदितः ॥४॥
॥ ऋषय ऊचुः ॥
यथैश्वर्यं धर्मपुत्रो लक्ष्मीतीर्थे निमज्जनात् ॥
आप्तवान्कृष्णवचनात्तन्नो ब्रूहि महामुने ॥५॥
॥ श्रीसूत उवाच ॥
इन्द्रप्रस्थे पुरा विप्रा धृतराष्ट्रेण चोदिताः ॥
न्यवसन्पांडवाः पंच महाबलपराक्रमाः ॥६॥
इन्द्रप्रस्थं ययौ कृष्णः कदाचित्तान्निरीक्षितुम् ॥
तमागतमेभिप्रेक्ष्य पांडवास्ते समुत्सुकाः ॥७॥
स्वगृहं प्रापयामासुर्मुदा परमया युताः ॥
कञ्चित्कालमसौ कृष्णस्तत्रावात्सीत्पुरोत्तमे ॥८॥
कदाचित्कृष्णमाहूय पूजयित्वा युधिष्ठिरः ॥
पप्रच्छ पुंडरीकाक्षं वासुदेवं जगत्पतिम् ॥९॥
॥ युधिष्ठिर उवाच ॥
कृष्णकृष्ण महाप्राज्ञ येन धर्मेण मानवाः ॥
लभंते महदैश्वर्यं तन्नो ब्रूहि महामते ॥
इत्युक्तो धर्मपुत्रेण कृष्णः प्राह युधिष्ठिरम् ॥१०॥
॥ श्रीकृष्ण उवाच ॥
धर्मपुत्र महाभाग गन्धमादनपर्वते ॥११॥
लक्ष्मी तीर्थमिति ख्यातमस्त्यैश्वर्यैककारणम् ॥
तत्र स्नानं कुरुष्व त्वमैश्वर्यं ते भविष्यति ॥१२॥
तत्र स्नानेन वर्धंते धनधान्यसमृद्धयः ॥
सर्वे सपत्ना नश्यंति क्षात्रमेषां विवर्द्धते ॥१३॥
तीर्थे सस्नुः पुरा देवा लक्ष्मीनामनि पुण्यदे ॥
अलभन्त्सर्वमैश्वर्यं तेन पुण्येन धर्मज ॥१४॥
असुरांश्च महावीर्यान्समरे जघ्नुरंजसा ॥
मही लक्ष्मीश्च धर्मश्च तत्तीर्थस्नायिनां नृणाम् ॥१५॥
भविष्यत्यचिरादेव संशयं मा कृथा इह ॥
तपोभिः क्रतुभिर्दानैराशीर्वादैश्च पांडव ॥१६॥
ऐश्वर्यं प्राप्यते यद्वल्लक्ष्मीतीर्थनिमज्जनात् ॥
सर्वपापानि नश्यंति विप्रा यांति लयं सदा ॥१७॥
व्याधयश्च विनश्यंति लक्ष्मीतीर्थनिषेवणात् ॥
श्रेयः सुविपुलं लोके लभ्यते नात्र संशयः ॥१८॥
स्नानमात्रेण वै लक्ष्म्यास्तीर्थेऽस्मि न्धर्मनंदन ॥
रंभामप्सरसां श्रेष्ठां लब्धवानवधो नृपः ॥१९॥
स्नात्वात्र तीर्थे पुण्ये तु कुबेरो नरवाहनः ॥
स महापद्ममुख्यानां निधीनां नायकोऽ भवत् ॥२॥
तस्मात्त्वमपि राजेंद्र लक्ष्मीतीर्थे शुभप्रदे ॥
स्नात्वा वृकोदरमुखैरनुजैरपि संवृतः ॥२१॥
लप्स्यसे महतीं लक्ष्मीं जेष्यसे च रिपूनपि॥
संदेहो नात्र कर्तव्यः पैतृष्वसेय धर्मज ॥२२॥
इत्युक्तो धर्मपुत्रोऽयं कृष्णेनाद्भुतदर्शनः ॥
सानुजः प्रययौ शीघ्रं गन्धमादनपर्वतम् ॥२३॥
लक्ष्मी तीर्थं ततो गत्वा महदैश्वर्यकारणम् ॥
सस्नौ युधिष्ठिरस्तत्र सानुजो नियमान्वितः॥२४॥
लक्ष्मतीर्थस्य तोये स सर्वपातकनाशने ॥
सानुजो मासमेकं तु सस्नौ नियमपूर्वकम् ॥२५॥
गोभूतिलहिरण्यादीन्ब्राह्मणेभ्यो ददौ बहून् ॥
सानुजो धर्मपुत्रोऽसाविंद्रप्रस्थं ययौ ततः ॥२६॥
राजसूयक्रतुं कर्तुं तत एच्छद्युधिष्ठिरः ॥
कृष्णं समाह्वयामास यियक्षुर्धर्मनंदनं ॥२७॥
कृष्णो धर्मजदूतेन समाहूतः ससंभ्रमः ॥
चतुर्भिरश्वैः संयुक्तं रथमा रुह्य वेगिनम् ॥२८॥
सत्यभामासहचर इंद्रप्रस्थं समाययौ ॥
तमागतं समालोक्य प्रमोदाद्धर्मनंदनः ॥२९॥
न्यवेदयत्स कृष्णाय राजसूयोद्यमं तदा ॥
अन्वमन्यत कृष्णोपि तथैव क्रियतामिति ॥३०॥
वाक्यं च युक्तिसंयुक्तं धर्मपुत्रमभाषत ॥
पैतृष्वस्रेय धर्मात्मञ्च्छृणु पथ्यं वचो मम ॥३१॥
दुष्करो राजसूयोऽयं सर्वैरपि महीश्वरैः ॥
अनेकशतपादातरथकुंजरवाजिमान् ॥३२॥
महीपतिरिमं यज्ञं कर्तुमर्हति नेतरः ॥
दिशो दश विजेतव्या प्रथमं वलिना त्वया ॥३३॥
पराजितेभ्यः शत्रुभ्यो गृहीत्वा करमुत्तमम् ॥
तेन कांचनजातेन कर्तव्योऽयं क्रतूत्तमः ॥३४॥
रोचये युक्तिविदहं न हि त्वां भीषयामि भोः ॥
अतः क्रतुसमारंभात्पूर्वं दिग्विजयं कुरु ॥३५॥
ततो धर्मात्मजः श्रुत्वा कृष्णस्य वचनं हितम् ॥
प्रशंसन्देवकीपुत्रमाजुहाव निजानुजान् ॥३६॥
आहूय चतुरो भ्रातॄन्धर्मजः प्राह हर्षयन् ॥
अयि भीम महाबाहो बहुवीर्य धनंजय ॥३७॥
यमौ च सुकुमागंगौ शत्रुसंहारदीक्षितौ ॥
चिकीर्षामि महायज्ञं राजसूयमनुत्तमम् ॥३८॥
स च सर्वान्रणे जित्वा कर्तव्यः पृथिवीपतीन् ॥
अतो विजेतुं भूपालांश्चत्वरोऽपि ससैनिकाः ॥३९॥
दिशश्चतस्रो गच्छंतु भवंतो वीर्यवत्तराः ॥
युष्माभिराहतैर्द्रव्यैः करिष्यामि महाक्रतुम् ॥४०॥
इत्युक्ताः सादरं सर्वे वृकोदरमुखास्तदा ॥
प्रसन्नवदना भूत्वा धर्मपुत्रानुजाः पुरात् ॥४१॥
राज्ञां जयाय सर्वासु निर्ययुर्दिक्षु पांडवाः ॥
ते सर्वे नृपतीञ्जित्वा चतुर्दिक्षु स्थितान्बहून् ॥४२॥
स्ववशे स्थापयित्वा तान्नृपतीन्पांडुनंदनाः ॥
तैर्दत्तं बहुधा द्रव्यमसंख्यातमनुत्तमम् ॥४३॥
आदाय स्वपुरं तूर्णमाययुः कृष्णसंश्रयाः ॥
भीमः समाययौ तत्र महाबलपराक्रमः ॥४४॥
शतभारसुवर्णानि समादाय पुरोत्तमम् ॥
सहस्रं भारमादाय सुवर्णानां ततोऽर्जुनः ॥४५॥
शक्रप्रस्थं समायातो महाबलपराक्रमः ॥
शतभारं सुवर्णानां प्रगृह्य नकुलस्तथा ॥४६॥
समागतो महातेजाः शक्रप्रस्थं पुरोत्तमम् ॥
दत्तान्विभीषणेनाथ स्वर्णतालांश्चतुर्दश ॥४७॥
दाक्षिणात्यमहीपानां गृहीत्वा धनसंचयम् ॥
सहदेवोपि सहसा समा यातो निजां पुरीम् ॥४८॥
लक्षकोटिसहस्राणि लक्षकोटिशतान्यपि ॥
सुवर्णानि ददौ कृष्णो धर्मपुत्राय यादवः ॥४९॥
स्वानुजैराहृतैरेवमसं ख्यातैर्महाधनैः ॥
कृष्णदत्तैरसंख्यातैर्धनैरपि युधिष्ठिरः ॥५०॥
कृष्णाश्रयोऽयजद्विप्रा राजसूयेन पांडवः ॥
तस्मिन्यागे ददौ द्रव्यं ब्राह्मणेभ्यो यथेष्टतः ॥५१॥
अन्नानि प्रददौ तत्र ब्राह्मणेभ्यो युधिष्ठिरः ॥
वस्त्राणि गाश्च भूमिं च भूषणानि ददौ तथा ॥५२॥
अर्थिनः परितुष्यंति यावता कांचनादिना ॥
ततोपि द्विगुणं तेभ्यो दापयामास धर्मजः ॥५३॥
इयंति दत्तान्यर्थिभ्यो धनानि विविधान्यपि ॥
इतीयत्तां परिच्छेत्तुं न शक्ता ब्रह्मकोटयः ॥५४॥
अर्थिभिर्दीयमानानि दृष्ट्वा तत्र धनानि वै ॥
सर्वस्वमप्यहो राज्ञा दत्तमित्यब्रवीज्जनः ॥५५॥
दृष्ट्वा कोशास्तथा नंताननंतमणिकांचनान् ॥५॥
स्वल्पं हि दत्तमर्थिभ्य इत्यवोचञ्जनास्तदा ॥
इष्ट्वैवं राजसूयेन धर्मपुत्रः सहानुजः ॥५७॥
बहुवित्तसमृद्धः सन्रेमे तत्र पुरोत्तमे ॥
लक्ष्मीतीर्थस्य माहात्म्याद्धर्मपुत्रो युधिष्ठिरः ॥५८॥
लेभे सर्वमिदं विप्रा अहो तीर्थस्य वैभवम् ॥
इदं तीर्थं महापुण्यं महा दारिद्यनाशनम् ॥५९॥
धनधान्यप्रदं पुंसां महापातकनाशनम् ॥
महानरकसंहर्तृ महादुःखनिवर्तकम् ॥६०॥
मोक्षदं स्वर्गदं नित्यं महाऋण विमोचनम् ॥
सुकलत्रप्रदं पुंसां सुपुत्रप्रदमेव च ॥६१॥
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥
एतद्वः कथितं विप्रा लक्ष्मीतीर्थस्य वैभवम् ॥६२॥
दुःस्वप्ननाशनं पुण्यं सर्वाभीष्टप्रसाधकम् ॥
यः पठेदिममध्यायं शृणुते वा सभक्तिकम् ॥६३॥
धनधान्यसमृद्धः स्यात्स नरो नास्ति संशयः ॥
भुक्त्वेह सकलान्भोगान्देहांते मुक्तिमाप्नुयात् ॥६४॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्या संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मीतीर्थप्रशंसायां धर्मपुत्रनिरतिशयसंपदवाप्तिवर्णनंनामैकविंशोऽध्यायः ॥२१॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP