संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय २४ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय २४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय २४ Translation - भाषांतर ॥ श्रीसूत उवाच ॥चक्रतीर्थे नरः स्नात्वा शिवतीर्थं ततो व्रजेत् ॥यत्र हि स्नानमात्रेण महापातककोटयः ॥१॥तत्संसर्गाश्च नश्यंति तत्क्षणादेव तापसाः ॥अत्र स्नात्वा ब्रह्महत्यां मुमुचे कालभैरवः ॥२॥॥ ऋषय ऊचुः ॥कालभैरवरुद्रस्य ब्रह्महत्या महामुने ॥किमर्थमभवत्सूत तन्नो वक्तुमिहार्हसि ॥३॥॥ श्रीसूत उवाच ॥वक्ष्यामि मुनयः सर्वे पुरावृत्तं विमुक्तिदम् ॥यस्य श्रवणमात्रेण सर्वपापैः प्रमुच्यते ॥४॥प्रजापतेश्च विष्णोश्च बभूव कलहः पुरा ॥किंचित्कारणमुद्दिश्य समस्तजनसन्निधौ ॥५॥अहमेव जगत्कर्ता नान्यः कर्तास्ति कश्चन ॥अहं सर्वप्रपंचानां निग्रहानुग्रहप्रदः ॥६॥मत्तो नास्त्यधिकः कश्चिन्मत्समो वा सुरेष्वपि ॥एवं स मनुते ब्रह्मा देवानां सन्निधौ पुरा ॥७॥तदा नारायणः प्राह प्रहसन्द्विजपुंगवाः ॥किमर्थमेवं ब्रूषे त्वमहंकारेण सांप्रतम् ॥८॥वाक्यमेवंविधं भूयो वक्तुं नार्हसि वै विधे ॥अहमेव जगत्कर्ता यज्ञो नारायणो विभुः ॥९॥मां विनास्य प्रपञ्चस्य जीवनं दुर्लभं भवेत् ॥मत्प्रसादाज्जगत्सृष्टं त्वया स्थावरजंगमम् ॥१०॥विवादं कुर्वतोरेवं ब्रह्मविष्ण्वोर्जयैषिणोः ॥देवानां पुरतस्तत्र वेदाश्चत्वार आगताः ॥प्रोचुर्वाक्यमिदं तथ्यं परमार्थप्रकाशकम् ॥१ १॥॥ वेदा ऊचुः ॥त्वं विष्णो न जगत्कर्ता न त्वं ब्रह्मन्प्रजापते ॥१२॥किं त्वीश्वरो जगत्कर्ता परात्परतरो विभुः ॥तन्मायाशक्तिसंक्लृप्तमिदं स्थावरजंगमम् ॥१३॥सर्वदेवाभिवंद्यो हि सांबः सत्यादिलक्षणः ॥स्रष्टा च पालको हर्ता स एव जगतां प्रभुः ॥१४॥एवं समीरितं वेदैः श्रुत्वा वाक्यं शुभाक्षरम्॥ब्रह्मा विष्णुस्तदा तत्र प्रोचतुर्द्विजपुंगवाः ॥१५॥॥ब्रह्मविष्णू ऊचतुः॥पार्वत्यालिंगितः शंभुर्मूर्तिमान्प्रमथाधिपः॥कथं भवेत्परं ब्रह्म सर्वसंगविवर्जितम् ॥१६॥ताभ्यामितीरिते तत्र प्रणवः प्राह तौ तदा ॥अरूपो रूपमादाय महता ध्वनिना द्विजाः ॥१७॥॥ प्रणव उवाच ॥असौ शंभुर्महादेवः पार्वत्या स्वातिरिक्तया ॥संक्रीडते कदाचिन्नो किं तु स्वात्मस्वरूपया ॥१८॥असौ शंभुरनीशानः स्वप्रकाशो निरंजनः ॥विश्वाधिको महादेवो विश्वाधिक इति श्रुतः ॥१९॥सर्वात्मा सर्वकर्तासौ स्वतन्त्रः सर्वभावनः ॥ब्रह्मन्नयं सृष्टिकाले त्वां नियुंक्ते रजोगुणैः ॥२०॥सत्त्वेन रक्षणे शंभुस्त्वां प्रेषयति केशव ॥तमसा कालरुद्राख्यं संप्रेरयति संहृतौ ॥२१॥अतः स्वतन्त्रता विष्णो युवयोर्न कदाचन ॥नापि प्रजापतेरस्ति किं तु शंभोः स्वतन्त्रता ॥२२॥ब्रह्मन्विष्णो युवाभ्यां तु किमर्थं न महेश्वरः ॥ज्ञायते सर्वलोकानां कर्ता विश्वाधिकस्तथा ॥२३॥सापि शक्तिरुमा देवी न पृथक्छंकरात्सदा ॥शंभोरानंदभूता सा देवी नागंतुकी स्मृता ॥२४॥अतो विश्वाधिको रुद्रः स्वतंत्रो निर्विकल्पकः ॥सर्वदेवैरयं वन्द्यो युवाभ्यामपि शंकरः ॥२५॥कर्ता नास्यास्ति रुद्रस्य नाधिकोऽस्माच्च विद्यते ॥न तत्समोऽपि लोकेषु विद्यते शतशस्तथा ॥२६॥अतो मोहं न कुरुतं ब्रह्मविष्णो युवां वृथा ॥इत्युक्तं प्रणवेनाथ श्रुत्वा ब्रह्मा च केशवः ॥२७॥मायया मोहितौ शंभोर्नैवाज्ञानममुंचताम् ॥एतस्मिन्नंतरे ब्रह्मा प्रददर्श महाद्भुतम् ॥२८॥व्याप्नुवद्गगनं सर्वमनंतादित्य सन्निभम् ॥तेजोमण्डलमाकाशमध्यगं विश्वतोमुखम् ॥२९॥तन्निरूपयितुं ब्रह्मा ससर्जोर्ध्वगतं मुखम् ॥तपोबलविसृष्टेन पंचमेन मुखेन सः ॥३०॥निरूपयामास विभुस्तत्तेजोमण्डलं मुहुः ॥तत्प्रजज्वाल कोपेन मुखं तेजोविलोकनात्॥३१॥अनंतादित्यसंकाशं ज्वलत्तत्पंचमं शिरः ॥दिधक्षुः प्रलये लोकान्वडवाग्निरिवाबभौ ॥३२॥व्यदृश्यत च तत्तेजः पुरुषो नीललोहितः ॥दृष्ट्वा स्रष्टा तदा ब्रह्मा बभाषे परमेश्वरम् ॥३३॥वेदाहं त्वां महादेव ललाटान्मे पुरा भवान् ॥विनिर्गतोऽसि शंभो त्वं रुद्रनामा ममात्मजः ॥३४॥इति गर्वेण संयुक्तं वचः श्रुत्वा महेश्वरः ॥कालभैरवनामानं पुरुषं प्राहिणोत्तदा ॥३५॥अयुद्ध्यत चिरं कालं ब्रह्मणा कालभैरवः ॥महादेवांशसंभूतः शूलटंकगदाधरः ॥३६॥युद्ध्वा तु सुचिरं कालं ब्रह्मणा कालभैरवः ॥वदनं ब्रह्मणः शुभ्रं व्यलोकयत पंचमम् ॥३७॥विलोक्योर्ध्वगतं वक्त्रं पञ्चमं भारतीपतेः ॥गर्वेण महता युक्तं प्रजज्वालातिकोपितः ॥३८॥ततस्तत्पंचमं वक्त्रं भैरवः प्राच्छिनद्रुषा ॥ततो ममार ब्रह्माऽसौ कालभैरवहिंसितः ॥३९॥ईश्वरस्य प्रसादेन प्रपेदे जीवितं पुनः ॥ततो विलोकयामास शंकरं शशिभूषणम् ॥४०॥वासुक्याद्यष्टभोगींद्रविभूषणविभूषितम् ॥दृष्ट्वा वेधा महादेवं पार्वत्या सह शंकरम् ॥४१॥लेभे माहेश्वरं ज्ञानं महादेवप्रसादतः ॥ततस्तुष्टाव गिरिशं वरेण्यं वरदं शिवम् ॥४२॥॥ ब्रह्मोवाच ॥मह्यं प्रसीद गिरिश शशांककृतशेखर ॥यन्मयापकृतं शंभो तत्क्षमस्व दयानिधे ॥४३॥क्षमस्व मम गर्वं त्वं शंकरेति पुनःपुनः ॥नमश्चकार सोमं तं सोमार्धकृतशेखरम् ॥४४॥अथ देवः प्रसन्नोऽस्मै ब्रह्मणे स्वांशजाय तु ॥मा भैरित्यब्रवीच्छंभुर्भैरवं चाभ्यभाषत ॥४५॥॥ ईश्वर उवाच ॥एष सर्वस्य जगतः पूज्यो ब्रह्मा सनातनः ॥हतस्यास्य विरिंचस्य धारय त्वं शिरोऽधुना ॥४६॥ब्रह्महत्याविशुद्ध्यर्थं लोकसंग्रहकाम्यया ॥भिक्षामट कपालेन भैरव त्वं ममाज्ञया ॥४७॥उक्त्वैवं शंकरो विप्रास्तत्रैवांतरधीयत ॥नीलकण्ठो महादेवो गिरिजार्द्धतनुस्ततः ॥४८॥भैरवं ग्राहयामास वदनं वेधसो द्विजाः ॥चरस्व पापशुद्ध्यर्थं लोकसंग्रहणाय वै ॥४९॥कपालधारी हस्तेन भिक्षां गृह्णातु भैरवः ॥इतीरयित्वा गिरिशः कन्यां कांचिद्भयंकरीम् ॥५०॥ब्रह्महत्याभिधां क्रूरां वडवानलसन्निभाम् ॥तां प्रेरयित्वा गिरिशो भैरवं पुनरब्रवीत् ॥५१॥॥ ईश्वर उवाच ॥भैरवैतद्व्रतं त्वब्दं ब्रह्महत्याविशुद्धये ॥चर त्वं सर्वतीर्थेषु स्नाहि शुद्ध्यर्थमात्मनः ॥५२॥ततो वाराणसीं गच्छ ब्रह्महत्याप्रशांतये ॥वाराणसीप्रवेशेन ब्रह्महत्या तवाधमा ॥५३॥पादशेषा विनष्टा स्याच्चतुर्थांशो न नश्यति ॥तस्य नाशं प्रवक्ष्यामि तव भैरव तच्छुणु ॥५४॥दक्षिणांभोनिधेस्तीरे गन्धमादनपर्वते ॥सर्वप्राण्युपकाराय कृतं तीर्थं मया शुभम् ॥५५॥शिवसंज्ञं महापुण्यं तत्र याहि त्वमादरात्॥तत्प्रवेशनमात्रेण ब्रह्महत्या तवाशुभा ॥५६॥शिवतीर्थस्य माहात्म्यान्निःशेषं नश्यति ध्रुवम् ॥उक्त्वैवं भैरवं रुद्रः कैलासं प्रययौ क्षणात् ॥५७॥ततः कपालपाणिस्तु भैरवः शिवचोदितः ॥देवदानवयक्षादिलोकेषु विचचार सः ॥५८॥तं यांतमनुयाति स्म ब्रह्महत्यातिभीषणा ॥भैरवः सर्वतीर्थानि पुण्यान्यायतनानि च ॥५९॥चरित्वा लीलया देवस्ततो वाराणसीं ययौ ॥वाराणसीं प्रविष्टे तु भैरवे शंकरांशजे ॥६०॥चतुर्थांशं विना नष्टा ब्रह्महत्यातिकुत्सिता ॥चतुर्थांशेन दुद्राव भैरवं शंकरांशजम् ॥६१॥ततः स भैरवो देवः शूलपाणिः कपालधृक् ॥शिवाज्ञया ययौ पश्चाद्गंधमादनपर्वतम् ॥६२॥शिवतीर्थं ततो गत्वा भैरवः स्नातवान्द्विजाः ॥स्नानमात्रेण तत्रास्य शिवतीर्थे महत्तरे ॥६३॥निःशेषं विलयं याता ब्रह्महत्यातिभीषणा ॥अस्मिन्नवसरे शंभुः प्रादुरासीत्तदग्रतः ॥प्रादुर्भूतो महादेवो भैरवं वाक्यमब्रवीत् ॥६४॥॥ ईश्वर उवाच ॥निःशेषं ब्रह्महत्या ते शिवतीर्थे निमज्जनात् ॥६५॥नष्टा भैरव नास्त्यत्र संदेहस्तव सुव्रत ॥इदं कपालं काश्यां त्वं स्थापयस्व क्वचित्स्थले ॥६६॥इत्युक्त्वा भगवाञ्छंभुस्तत्रैवांतरधीयत ॥भैरवोऽपि तदा विप्रा ब्रह्महत्याविमोचितः ॥६७॥शिवतीर्थस्य माहात्म्याद्ययौ वाराणसीं पुरीम् ॥कपालं स्थापयामास प्रदेशे कुत्रचिद्द्विजाः ॥कपालतीर्थमित्याख्यामलभत्तत्स्थलं तदा ॥६८॥॥ श्रीसूत उवाच ॥एवं प्रभावं तत्पुण्यं शिवतीर्थं विमुक्तिदम् ॥६९॥महादुःखप्रशमनं महापातकनाशनम् ॥नरकक्लेशशमनं स्वर्गदं मोक्षदं तथा ॥७०॥शिवतीर्थस्य माहात्म्यं मया प्रोक्तं विमुक्तिदम् ॥इदं पठन्सदा मर्त्यो दुःखग्रामाद्विमुच्यते ॥७१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये शिवतीर्थप्रशंसायां भैरवब्रह्महत्याविमोक्षणवर्णनंनाम चतुर्विंशोऽध्यायः ॥२४॥छ ॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP