संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय ३१

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ ऋषय ऊचुः ॥
अश्वत्थामा कथं सूत सुप्तमारणमाचरत्॥
कथं च मुक्तस्तत्पापाद्धनुष्कोटौ निमज्जनात् ॥१॥
एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥
तृप्तिर्न जायतेऽ स्माकं त्वद्वचोमृतपायिनाम् ॥२॥
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥
वक्तुं प्रचक्रमे तत्र व्यासं नत्वा गुरुं मुदा ॥
॥ श्रीसूत उवाच ॥
राज्यार्थं कलहे जाते पांडवानां पुरा द्विजाः ॥
धार्तराष्ट्रैर्महायुद्धे महदक्षौहिणीयुते ॥४॥
युद्धं दशदिनं कृत्वा भीष्मे शांतनवे हते ॥
द्रोणे पंचदिनं कृत्वा कर्णे च द्विदिनं तथा ॥५॥
तथैवैकदिनं युद्ध्वा शल्ये च निधनं गते ॥
अष्टादशदिने तत्र रणे दुर्योधने द्विजाः ॥६॥
भग्नोरौ भीमगदया पतिते राजसत्तमे ॥
सर्वे नृपतयो विप्रा निवेशाय कृतत्वराः ॥७॥
ये जीवितास्तु राजानस्ते ययुर्हृष्टमानसाः ॥
धृष्टद्युम्नशिखंडयाद्याः सृञ्जयाः सर्व एव हि ॥८॥
अन्ये चापि महीपाला जग्मुः स्वशिबिराण्यथ ॥
अथ पार्था महावीरा कृष्णसात्यकिसंयुताः ॥९॥
दुर्योधनस्य शिबिरं प्राविशन्निर्जनं द्विजाः ॥
वृद्धैरमात्यैस्तत्रस्थैः षंढैः स्त्रीरक्षकैस्तथा ॥१०॥
कृतांजलिपुटैः प्रह्वैः काषायमलिनांबरैः ॥
प्रणम्यमानास्ते पार्थाः कुरुराजस्य वेश्मनि ॥११॥
तत्रत्यद्रव्यजातानि समादाय महा बलाः ॥
सुयोधनस्य शिबिरे न्यवसंत सुखेन ते ॥१२॥
अथ तानब्रवीत्पार्थाञ्छ्रीकृष्णः प्रीणयन्निव ॥
मंगलार्थाय चास्माभिर्वस्तव्यं शिबिराद्बहिः ॥१३॥
इत्युक्ता वासुदेवेन तथेत्युक्त्वाथ पांडवाः ॥
कृष्णसात्यकिसंयुक्ताः प्रययुः शिबिराद्बहिः ॥१४॥
वासुदेवेन सहिता मंगलार्थं हि पांडवाः ॥
ओघवत्याः समासाद्य तीरं नद्या नरोत्तमाः ॥१५॥
ऊषुस्तां रजनीं तत्र हतशत्रुगणाः सुखम् ॥
कृतवर्मा कृपो द्रौणिस्तथा दुर्योधनांतिकम्॥ १६॥
आदित्यास्तमयात्पूर्वमपराह्णे समाययुः ॥
सुयोधनं तदा दृष्ट्वा रणपांसुषु रूषितम् ॥१७॥
भग्नोरुदण्डं गदया भीमसेन स्य भीमया ॥
रुधिरासिक्तसर्वांगं चेष्टमानं महीतले ॥१८॥
अशोचंत तदा तत्र द्रोणपुत्रादयस्त्रयः ॥
शुशोच सोऽपि तान्दृष्ट्वा रणे दुर्योधनो नृपः ॥१९॥
दृष्ट्वा तथा तु राजानं बाष्पव्याकुललोचनम् ॥
अश्वत्थामा तदा कोपाज्ज्वलन्निव महानलः ॥२०॥
पाणौ पाणिं विनिष्पिष्य क्रोध विस्फारितेक्षणः ॥
अश्रुविक्लवया वाचा दुर्योधनमभाषत ॥२१॥
पिता मे पातितः क्षुद्रैश्छलेनैव रणाजिरे ॥
न तथा तेन शोचामि यथा निष्पातिते त्वयि ॥२२॥
शृणु वाक्यं ममाद्य त्वं यथार्थं वदतो नृप ॥
सुकृतेन शपे चाहं सुयोधन महामते ॥२३॥
अद्य रात्रौ हनिष्यामि पांडवा न्सह सृंजयैः ॥
पश्यतो वासुदेवस्य त्वमनुज्ञां प्रयच्छ मे ॥२४॥
तस्य तद्वचनं श्रुत्वा द्रौणिं राजा तदाऽब्रवीत् ॥
तथास्त्विति पुनः प्राह कृपं राजा द्विजोत्तमाः ॥२५॥
आचार्यैनं द्रोणपुत्रं कलशोत्थेन वारिणा ॥
सैनापत्येऽभिषिंचस्वेत्यथ सोपि तथाऽकरोत् ॥२६॥
सोभिषिक्तस्तदा द्रौणिः परिष्वज्य नृपोत्तमम् ॥
कृतवर्मकृपाभ्यां च सहितस्त्वरितं ययौ ॥२७॥
ततस्ते तु त्रयो वीराः प्रयाता दक्षिणोन्मुखाः ॥
आदित्यास्तमयात्पूर्वं शिबिरांतिकमासत ॥२८॥
पार्थानां भीषणं शब्दं श्रुत्वा तत्र जयैषिणः ॥
पांडवानुद्रुता भीतास्तदा द्रौण्यादयस्त्रयः ॥२९॥
प्राङ्मुखा दुद्रुवुर्भीत्या कियद्दूरं श्रमातुराः ॥
मुहुर्तं ते ततो गत्वा क्रोधामर्षवशानुगाः ॥३०॥
दुर्योधनवधार्तास्ते क्षणं तत्रावतस्थिरे ॥
ततोऽपश्यन्नरण्यं वै नानातरुलतावृतम् ॥३१॥
अनेकमृगसंबाधं क्रूरपक्षिगणाकुलम् ॥
समृद्धजलसंपूर्णतटाकपरिशोभितम् ॥३२॥
पद्मेंदीवरकह्लारसरसी शतसंकुलम् ॥
तत्र पीत्वा जलं ते तु पाययित्वा हयांस्तथा ॥३३॥
अनेकशाखासंबाधन्यग्रोधं ददृशुस्ततः ॥
संप्राप्य तु महावृक्षं न्यग्रोधं ते त्रयस्तदा ॥३४॥
अवतीर्य रथेभ्यश्च मोचयित्वा तुरंगमान् ॥
उपस्पृश्य जलं तत्र सायंसंध्यामुपासत ॥३५॥
अथ चास्तगिरिं भानुः प्रपेदे च गतप्रभः ॥
ततश्च रजनी घोरा समभूत्तिमिराकुला ॥३६॥
रात्रिचराणि सत्त्वानि संचरंति ततस्ततः ॥
दिवाचराणि सत्त्वानि निद्रावशमुपा ययुः ॥३७॥
कृतवर्मा कृपो द्रौणिः प्रदोषसमये हि ते ॥
न्यग्रोधस्योपविविशुरंतिके शोककर्शिताः ॥३८॥
कृपभोजौ तदा निद्रां भेजातेऽतिप याक्रमौ ॥
सुखोचितास्त्वदुःखार्हा निषेदुर्धरणीतले ॥३९॥
द्रोणपुत्रस्तु कोपेन कलुषीकृतमानसः ॥
ययौ न निद्रां विप्रेंद्रा निश्वसन्नुरगो यथा ॥४०॥
ततोऽवलोकयांचक्रे तदरण्यं भयानकम् ॥
न्यग्रोधं च ततोऽपश्यद्बहुवायससंकुलम् ॥४१॥
तत्र वायसवृन्दानि निशायां वासमाय युः ॥
सुखं भिन्नासु शाखासु सुषुपुस्ते पृथक्पृथक् ॥४२॥
काकेषु तेषु सुप्तेषु विश्वस्तेषु समंततः ॥
ततोऽपश्यत्समायांतं भासं द्रौणिर्भयंकरम् ॥४३॥
कूरशब्दं क्रूरकायं बभ्रुपिंगकलेवरम् ॥
स भासोऽथ भृशं शब्दं कृत्वालीयत शाखिनि ॥४४॥
उत्प्लुत्य तस्य शाखायां न्यग्रोधस्य विहंगमः ॥
सुप्तान्काकान्निजघ्नेऽसावनेकान्वायसांतकः ॥४५॥
काकानामभिनत्पक्षान्स केषांचिद्विहंगमः ॥
इतरेषां च चरणाञ्छिरांसि चरणा युधः ॥४६॥
विचकर्त क्षणेनासावुलूको वलवान्द्विजाः ॥
स भिन्नदेहावयवैः काकानां बहुभिस्तदा ॥४७॥
समंतादावृतं सर्वं न्यग्रोधपरि मण्डलम् ॥
वायसांस्तान्निहत्यासावुलूको मुमुदे तदा ॥४८॥
द्रौणिर्दृष्ट्वा तु तत्कर्म भासेनैवं कृतं निशि ॥
करिष्याम्यहमप्येवं शत्रूणां निधनं निशि ॥४९॥
इत्यचिंतयदेकः सन्नुपदेशमिमं स्मरन् ॥
जेतुं न शक्याः पार्था हि ऋजुमार्गेण युद्ध्यता ॥५०॥
मया तच्छद्मना तेऽथ हंतव्या जितकाशिनः ॥
सुयोधनसकाशे च प्रतिज्ञातो मया वधः ॥५१॥
ऋजुमार्गेण युद्धे मे प्राणनाशो भविष्यति ॥
छलेन युध्यमानस्य जयश्चास्य रिपुक्षयः ॥५२॥
यच्च निंद्यं भवेत्कार्यं लोके सर्वजनैरपि ॥
कार्यमेव हि तत्कर्म क्षत्रधर्मानुवर्तिना ॥५३॥
पार्थैरपि छलेनैव कृतं कर्म सुयोधने ॥
अस्मिन्नर्थे पुराविद्भिः प्रोक्ताः श्लोका भवंति हि ॥५४॥
परिश्रांते विदीर्णे च भुंजाने च रिपोर्बले ॥
प्रस्थाने च प्रवेशे च प्रहर्तव्यं न संशयः ॥५५॥
निद्रार्तमर्धरात्रे च तथा त्यक्तायुधं रणे ॥
भिन्नयोधं बलं सर्वं प्रहर्तव्यमरातिभिः ॥५६॥
एवं स नियमं कृत्वा सुप्तमारणकर्मणि ॥
प्राबोधयद्भोजकृपौ सुप्तौ रात्रौ स साहसी ॥
द्रौणिर्ध्यात्वा मुहूर्तं तु तावुभावभ्यभाषत ॥५७॥
॥ अश्वत्थामोवाच ॥
मृतः सुयोधनो राजा महाबलपराक्रमः ॥५८॥
शुद्धकर्मा हतः पार्थैर्बहुभिः क्षुद्रकर्मभिः ॥
भीमेनातिनृशंसेन शिरो राज्ञः पदा हतम् ॥५९॥
ततोऽद्य रात्रौ पार्थानां समेत्य पटमण्डपम् ॥
सुखसुप्तान्हनिष्यामः शस्त्रैर्नानाविधैर्वयम् ॥
कृपः प्रोवाच तत्रैन मिति श्रुत्वा द्विजोत्तमाः ॥६०॥
॥ कृप उवाच ॥
सुप्तानां मारणं लोके न धर्मो न च पूज्यते ॥६१॥
तथैव त्यक्तशस्त्राणां संत्यक्तरथवाजि नाम् ॥
शृणु मे वचनं वत्स मुच्यतां साहसं त्वया ॥६२॥
वयं तु धृतराष्टं च गांधारीं च पतिव्रताम् ॥
पृच्छामो विदुरं चापि तदुक्तं करवा महे ॥
इत्युक्तः स तदा द्रौणिः कृपं प्रोवाच वै पुनः ॥६३॥
॥अश्वत्थामोवाच ॥
पांडवैश्च पुरा यन्मे छलाद्युद्धे पिता हतः ॥६४॥
तन्मे सर्वाणि मर्माणि निकृन्तति हि मातुल ॥
द्रोणहंताहमित्येतद्धृष्टद्युमस्य यद्वचः ॥६५॥
कथं जनसमक्षे तद्वचनं संशृणोम्यहम् ॥
तैरेव पांडवैः पूर्वं धर्मसेतुर्निराकृतः ॥६६॥
समक्षमेव युष्माकं सर्वेषामेव भूभृताम् ॥
त्यक्तायुधो मम पिता धृष्टद्युम्नेन पातितः ॥६७॥
तथा शांतनवो भीष्मस्त्यक्तचापो निरायुधः ॥
शिखंडिनं पुरोधाय निहतः सव्यसाचिना ॥६८॥
एवमन्येऽपि भूपालाश्छलेनैव हतास्तु तैः ॥
तथैवाहं करिष्यामि सुप्तानां मारणं निशि ॥६९॥
एवमुक्त्वा तदा द्रौणिः संयुक्ततुरगं रथम्॥
प्रायादभिमुखः शत्रून्समारुह्य क्रुधा ज्वलन् ॥७०॥
तं यांतम न्वगातां तौ कृतवर्मकृपावुभौ ॥
ययुश्च शिबिरे तेषां संप्रसुप्तजनं तदा ॥७१॥
शिबिरद्वारमासाद्य द्रोणपुत्रो व्यतिष्ठत ॥
रात्रौ तत्र समाराध्य महादेवं घृणानिधिम् ॥७२॥
अवाप विमलं खङ्गं महादेवाद्वरप्रदात् ॥
ततो द्रौणिरवस्थाप्य कृतवर्मकृपावुभौ ॥७३॥
द्वारदेशे महावीरः शिबि रांतः प्रविष्टवान् ॥
प्रविष्टे शिबिरे द्रौणौ कृतवर्मकृपावुभौ॥ ७४॥
द्वारदेशे व्यतिष्ठेतां यत्तौ परमधन्विनौ ॥
अथ द्रौणिः सुसंक्रुद्धस्तेजसा प्रज्वलन्निव ॥७५॥
खङ्गं विमलमादाय व्यचरच्छिबिरे निशि ॥
ततस्तु धृष्टद्युम्नस्य शिबिरं मंदमाययौ ॥७६॥
धृष्टद्युम्नादयस्तत्र महायुद्धेन कर्शिताः ॥
सुषुपुर्निशि विश्वस्ताः स्वस्वसैन्यसमावृताः ॥७७॥
धृष्टद्युम्नस्य शिबिरं प्रविश्य द्रौणिरस्त्रवित् ॥
तं सुप्तं शयने शुभ्रे ददर्शारान्महाबलम् ॥७८॥
पादेनाघातयद्रोषात्स्वपंतं द्रोणनंदनः ॥
स बुद्धश्चरणाघातादुत्थाय शयनादथ ॥७९॥
व्यलोकयत्तदा वीरो द्रोणपुत्रं पुरः स्थितम् ॥
तमुत्पतंतं शयनाद्द्रोणाचार्यसुतो बली ॥८०॥
केशेष्वाकृष्य बाहुभ्यां निष्पिपेष धरातले ॥
धृष्टद्युम्नस्तदा तेन निष्पिष्टः स भया तुरः ॥८१॥
निद्रांधः पादघातातो न शशाक विचेष्टितुम् ॥
द्रौणिस्त्वाक्रम्य तस्योरः कण्ठं बद्ध्वा धनुर्गुणैः ॥८२॥
नदंतं विस्फुरंतं तं पशुमारममारयत् ॥
तस्य सैन्यानि सर्वाणि न्यवधीच्च तथैव सः ॥८३॥
युधामन्युं महावीर्यममुत्तमौजसमेव च ॥
तथैव द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥८४॥
शिखंडिप्रमुखानन्यान्खङ्गेनामारयद्बहून् ॥
तद्भयाद्द्वारनिर्यातान्सर्वानेव च सैनिकान् ॥८५॥
प्रापयामासतुर्मृत्युं कृतवर्मकृपा वुभौ ॥
एवं निहतसैन्यं तच्छिबिरं तैर्महाबलैः ॥८६॥
तत्क्षणे शून्यमभवत्त्रिजगत्प्रलये यथा ॥
एवं हत्वा ततः सर्वान्द्रोणपुत्रादयस्त्रयः ॥८७॥
निरगुः शिबिरात्तस्मात्पार्थभीता भयातुराः ॥
सर्वे पृथक्पृथग्देशान्दुद्रुवुः शीघ्रगामिनः ॥८८॥
अथ द्रौणिर्ययौ विप्रा रेवातीरं मनोरमम् ॥
तत्र ह्यनेकसाहस्रा ऋषयो वेदवादिनः ॥८९॥
कथयंतः कथाः पुण्यास्तपश्चक्रुरनुत्तमम् ॥
तत्रायं प्रययौ द्रौणिर्ऋषीणामाश्रमेष्वथ ॥९०॥
प्रविष्टमात्रे तस्मिंस्तु मुनयो ब्रह्मवादिनः ॥
द्रौणेर्दुश्चरितं ज्ञात्वा प्राहुर्योगबलेन तम् ॥९१॥
सुप्तमा रणकृत्पापी द्रौणे त्वं ब्राह्मणाधमः ॥
त्वद्दर्शनेन ह्यस्माकं पातित्यं भवति ध्रुवम् ॥९२॥
त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भ वेत् ॥
अतोऽस्मदाश्रमेभ्यस्त्वं निर्गच्छ पुरुषाधम ॥९३॥
इत्यब्रुवंस्तदा द्रौणिं तत्रत्या मुनयो द्विजाः ॥
इतीरितस्ततो द्रौणिर्मुनिभिर्ब्रह्म वादिभिः ॥९४॥
लज्जितो निलात्तस्मादाश्रमान्मुनिसेवितात् ॥
एवं काश्यादितीर्थेषु पुण्येषु प्रययौ च सः ॥९५॥
तत्रतत्र द्विजैः सर्वै र्निंदितोऽसौ महात्मभिः ॥
व्यासं शरणमापेदे प्रायश्चित्तचिकीर्षया ॥९६॥
ततो बदरिकारण्ये समासीनं महामुनिम् ॥
द्वैपायनं समागम्य प्रणनाम सभक्तिकम् ॥९७॥
ततो व्यासोऽब्रवीदेनं द्रोणाचार्यसुतं मुनिः ॥
त्वमस्मदाश्रमादद्रौणे निर्याहि त्वरया त्विति ॥९८॥
सुप्तमारण दोषेण महापातकवान्भवान् ॥
अतो मे भवतालापान्महत्पापं भविष्यति ॥
इत्युक्तः स तदा द्रौणिः प्रोवाचेदं वचो मुनिः ॥९९॥
॥ अश्वत्थामोवाच ॥
भगवन्निंदितः सर्वैस्त्वामस्मि शरणं गतः ॥१००॥
ब्रवीषि चेत्त्वमप्येवं कोऽन्यो मे शरणं भवेत् ॥
कृपां कुरु मयि ब्रह्मन्साधवो दीनवत्सलाः ॥१॥
सुप्तमारणदोषस्य शांत्यर्थं भगवन्मम ॥
प्रायश्चित्तं विधेहि त्वं सर्वज्ञोऽसि भवान्यतः ॥
इत्युक्तो द्रौणिना व्यासश्चिरं ध्यात्वा तमब्रवीत् ॥२॥
॥ व्यास उवाच ॥
एतत्पापस्य शांत्यर्थं प्रायश्चित्तं स्मृतौ न हि ॥३॥
तथाप्युपायं वक्ष्यामि तवैतद्दोष शांतये ॥
दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ॥४॥
धनुष्कोटिरितिख्यातं तीर्थमस्ति महत्तरम् ॥
अस्ति पुण्यतमं द्रौणे महापात कनाशनम् ॥५॥
स्वर्गमोक्षप्रदं पुंसां ब्रह्महत्यादिशोधकम् ॥
सर्वमंगलमांगल्यं सर्वाभीष्टप्रदायकम् ॥६॥
पवित्राणां पवित्रं च तीर्थानां च तथोत्तमम् ॥
दुःस्वप्ननाशनं पुण्यं नरकक्लेशनाशनम् ॥७॥
अकालमृत्युशमनं पुंसां विजयवर्द्धनम् ॥
दारिद्र्यनाशनं पुंसामायुर्वर्धनकार णम् ॥८॥
चित्तशुद्धिप्रदं नृणां शांतिदांत्यादिकारणम् ॥
तत्र गत्वा धनुष्कोटौ रामसेतौ विमुक्तिदे ॥९॥
स्नानं कुरुष्व द्रौणे त्वं मासमात्रं निरं तरम् ॥
सुप्तमारणदोषात्त्वं सद्यः पूतो भविष्यसि ॥११०॥
कुरुष्व वचनं शीघ्रं मम त्वं द्रोणनंदन ॥
एवमुक्तस्तदा द्रौणिर्व्यासेन परमर्षिणा ॥११॥
रामसेतुं समासाद्य धनुष्कोटिं पवित्रदाम् ॥
सस्नौ संकल्पपूर्वं तु मासमेकं निरन्तरम् ॥१२॥
त्रिसंध्यं रामनाथं च सिषेवे स दिने दिने ॥
ततस्त्रिंशद्दिने तोयस्नानाद्द्रोणात्मजस्तदा ॥१३॥
जजाप च धनुष्कोट्यां मंत्रं पंचाक्षरं तदा ॥
अकार्षीदुपवासं च द्रोणपुत्रस्तु तद्दिने ॥१४॥
अकरोज्जागरं रात्रौ रामनाथस्य सन्निधौ ॥
अपरेद्युर्धनुष्कोटौ स्नात्वा संकल्पपूर्वकम् ॥१५॥
सिषेवे रामनाथं च स्तुत्वा भक्तिपुरःसरम् ॥
ननर्त पुरतः शंभोरानंदाश्रुपरिप्लुतः ॥१६॥
ततः प्रसन्नो भगवान्प्रादुरासीत्तदग्रतः ॥
दृष्ट्वा तत्र महादेवं तुष्टाव परमेश्वरम् ॥१७॥
॥ द्रौणिरुवाच ॥
नमस्ते देवदेवेश करुणाकर शंकर ॥
आपदंबुधिमग्नानां पोतायितपदांबुज ॥१८॥
महादेव कृपामूर्ते धूर्जटे नीललोहित ॥
उमाकांत विरूपाक्ष चंद्रशेखर ते नमः ॥१९॥
मृत्युंजय त्रिनेत्र त्वं पाहि मां कृपया दृशा ॥
पार्वतीपतये तुभ्यं त्रिपुरघ्नाय शंभवे ॥१२॥
पिनाकपाणये तुभ्यं त्र्यंबकाय नमोनमः ॥
अनंतादिमहानागहारभूषणभूषित ॥२१॥
शूलपाणे नमस्तुभ्यं गंगाधर मृडाव्यय ॥
रक्ष मां कृपया देव पापसंघातपंजरात् ॥
इति स्तुतो महादेवो द्रौणिं प्रोवाच हर्षितः ॥२२॥
॥ महादेव उवाच ॥
सुप्तमारणदोषस्ते धनुष्कोटौ निमज्जनात् ॥२३॥
अश्वत्थामन्विनष्टोऽभूद्वरं वरय सुव्रत ॥
मयि प्रसन्ने लोकेषु किमलभ्यं भवेन्नृणाम् ॥२४॥
अतोऽभीष्टं वृणीष्व त्वं मत्तो द्रोणात्मजाधुना ॥
इत्युक्तः शंभुना द्रौणिः प्राह तं परमेश्वरम् ॥२५॥
तवाद्य दर्शनेनाहं कृतार्थोस्मि महेश्वरम् ॥
त्वद्दर्शनमपुण्यानामलभ्यं जन्मकोटिभिः ॥२६॥
अतो युष्मत्पदांभोजे निश्चला भक्तिरस्तु मे ॥
इममेव वरं देहि मह्यं शंभो नमोऽस्तु ते ॥२७॥
उक्त्वा तथास्त्विति द्रौणिं देवदेवो महेश्वरः ॥
पश्यतो द्रोणपुत्रस्य तत्रैवांतरधीयत ॥२८॥
अश्वत्थामापि विप्रेंद्रा धूतपापो विनिर्मलः ॥
रामचंद्रधनुष्कोटौ स्नानमात्रेण तत्क्षणे ॥२९॥
धूतपापमिमं द्रौणिं सर्वे चापि महर्षयः ॥
शुद्धं प्रत्यग्रहीषुस्ते तदाप्रभृति निर्मलम् ॥१३॥
एवं वः कथितं विप्रा द्रौणिपापविमोक्षणम् ॥
रामचंद्रधनुष्कोटिस्नानवैभवमात्रतः ॥३१॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते ॥१३२॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहरूयां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायामश्वत्थामसुप्तमारणदो षशांतिवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP