संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३१ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३१ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३१ Translation - भाषांतर ॥ ऋषय ऊचुः ॥अश्वत्थामा कथं सूत सुप्तमारणमाचरत्॥कथं च मुक्तस्तत्पापाद्धनुष्कोटौ निमज्जनात् ॥१॥एतन्नः श्रद्दधानानां ब्रूहि पौराणिकोत्तम ॥तृप्तिर्न जायतेऽ स्माकं त्वद्वचोमृतपायिनाम् ॥२॥इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥वक्तुं प्रचक्रमे तत्र व्यासं नत्वा गुरुं मुदा ॥॥ श्रीसूत उवाच ॥राज्यार्थं कलहे जाते पांडवानां पुरा द्विजाः ॥धार्तराष्ट्रैर्महायुद्धे महदक्षौहिणीयुते ॥४॥युद्धं दशदिनं कृत्वा भीष्मे शांतनवे हते ॥द्रोणे पंचदिनं कृत्वा कर्णे च द्विदिनं तथा ॥५॥तथैवैकदिनं युद्ध्वा शल्ये च निधनं गते ॥अष्टादशदिने तत्र रणे दुर्योधने द्विजाः ॥६॥भग्नोरौ भीमगदया पतिते राजसत्तमे ॥सर्वे नृपतयो विप्रा निवेशाय कृतत्वराः ॥७॥ये जीवितास्तु राजानस्ते ययुर्हृष्टमानसाः ॥धृष्टद्युम्नशिखंडयाद्याः सृञ्जयाः सर्व एव हि ॥८॥अन्ये चापि महीपाला जग्मुः स्वशिबिराण्यथ ॥अथ पार्था महावीरा कृष्णसात्यकिसंयुताः ॥९॥दुर्योधनस्य शिबिरं प्राविशन्निर्जनं द्विजाः ॥वृद्धैरमात्यैस्तत्रस्थैः षंढैः स्त्रीरक्षकैस्तथा ॥१०॥कृतांजलिपुटैः प्रह्वैः काषायमलिनांबरैः ॥प्रणम्यमानास्ते पार्थाः कुरुराजस्य वेश्मनि ॥११॥तत्रत्यद्रव्यजातानि समादाय महा बलाः ॥सुयोधनस्य शिबिरे न्यवसंत सुखेन ते ॥१२॥अथ तानब्रवीत्पार्थाञ्छ्रीकृष्णः प्रीणयन्निव ॥मंगलार्थाय चास्माभिर्वस्तव्यं शिबिराद्बहिः ॥१३॥इत्युक्ता वासुदेवेन तथेत्युक्त्वाथ पांडवाः ॥कृष्णसात्यकिसंयुक्ताः प्रययुः शिबिराद्बहिः ॥१४॥वासुदेवेन सहिता मंगलार्थं हि पांडवाः ॥ओघवत्याः समासाद्य तीरं नद्या नरोत्तमाः ॥१५॥ऊषुस्तां रजनीं तत्र हतशत्रुगणाः सुखम् ॥कृतवर्मा कृपो द्रौणिस्तथा दुर्योधनांतिकम्॥ १६॥आदित्यास्तमयात्पूर्वमपराह्णे समाययुः ॥सुयोधनं तदा दृष्ट्वा रणपांसुषु रूषितम् ॥१७॥भग्नोरुदण्डं गदया भीमसेन स्य भीमया ॥रुधिरासिक्तसर्वांगं चेष्टमानं महीतले ॥१८॥अशोचंत तदा तत्र द्रोणपुत्रादयस्त्रयः ॥शुशोच सोऽपि तान्दृष्ट्वा रणे दुर्योधनो नृपः ॥१९॥दृष्ट्वा तथा तु राजानं बाष्पव्याकुललोचनम् ॥अश्वत्थामा तदा कोपाज्ज्वलन्निव महानलः ॥२०॥पाणौ पाणिं विनिष्पिष्य क्रोध विस्फारितेक्षणः ॥अश्रुविक्लवया वाचा दुर्योधनमभाषत ॥२१॥पिता मे पातितः क्षुद्रैश्छलेनैव रणाजिरे ॥न तथा तेन शोचामि यथा निष्पातिते त्वयि ॥२२॥शृणु वाक्यं ममाद्य त्वं यथार्थं वदतो नृप ॥सुकृतेन शपे चाहं सुयोधन महामते ॥२३॥अद्य रात्रौ हनिष्यामि पांडवा न्सह सृंजयैः ॥पश्यतो वासुदेवस्य त्वमनुज्ञां प्रयच्छ मे ॥२४॥तस्य तद्वचनं श्रुत्वा द्रौणिं राजा तदाऽब्रवीत् ॥तथास्त्विति पुनः प्राह कृपं राजा द्विजोत्तमाः ॥२५॥आचार्यैनं द्रोणपुत्रं कलशोत्थेन वारिणा ॥सैनापत्येऽभिषिंचस्वेत्यथ सोपि तथाऽकरोत् ॥२६॥सोभिषिक्तस्तदा द्रौणिः परिष्वज्य नृपोत्तमम् ॥कृतवर्मकृपाभ्यां च सहितस्त्वरितं ययौ ॥२७॥ततस्ते तु त्रयो वीराः प्रयाता दक्षिणोन्मुखाः ॥आदित्यास्तमयात्पूर्वं शिबिरांतिकमासत ॥२८॥पार्थानां भीषणं शब्दं श्रुत्वा तत्र जयैषिणः ॥पांडवानुद्रुता भीतास्तदा द्रौण्यादयस्त्रयः ॥२९॥प्राङ्मुखा दुद्रुवुर्भीत्या कियद्दूरं श्रमातुराः ॥मुहुर्तं ते ततो गत्वा क्रोधामर्षवशानुगाः ॥३०॥दुर्योधनवधार्तास्ते क्षणं तत्रावतस्थिरे ॥ततोऽपश्यन्नरण्यं वै नानातरुलतावृतम् ॥३१॥अनेकमृगसंबाधं क्रूरपक्षिगणाकुलम् ॥समृद्धजलसंपूर्णतटाकपरिशोभितम् ॥३२॥पद्मेंदीवरकह्लारसरसी शतसंकुलम् ॥तत्र पीत्वा जलं ते तु पाययित्वा हयांस्तथा ॥३३॥अनेकशाखासंबाधन्यग्रोधं ददृशुस्ततः ॥संप्राप्य तु महावृक्षं न्यग्रोधं ते त्रयस्तदा ॥३४॥अवतीर्य रथेभ्यश्च मोचयित्वा तुरंगमान् ॥उपस्पृश्य जलं तत्र सायंसंध्यामुपासत ॥३५॥अथ चास्तगिरिं भानुः प्रपेदे च गतप्रभः ॥ततश्च रजनी घोरा समभूत्तिमिराकुला ॥३६॥रात्रिचराणि सत्त्वानि संचरंति ततस्ततः ॥दिवाचराणि सत्त्वानि निद्रावशमुपा ययुः ॥३७॥कृतवर्मा कृपो द्रौणिः प्रदोषसमये हि ते ॥न्यग्रोधस्योपविविशुरंतिके शोककर्शिताः ॥३८॥कृपभोजौ तदा निद्रां भेजातेऽतिप याक्रमौ ॥सुखोचितास्त्वदुःखार्हा निषेदुर्धरणीतले ॥३९॥द्रोणपुत्रस्तु कोपेन कलुषीकृतमानसः ॥ययौ न निद्रां विप्रेंद्रा निश्वसन्नुरगो यथा ॥४०॥ततोऽवलोकयांचक्रे तदरण्यं भयानकम् ॥न्यग्रोधं च ततोऽपश्यद्बहुवायससंकुलम् ॥४१॥तत्र वायसवृन्दानि निशायां वासमाय युः ॥सुखं भिन्नासु शाखासु सुषुपुस्ते पृथक्पृथक् ॥४२॥काकेषु तेषु सुप्तेषु विश्वस्तेषु समंततः ॥ततोऽपश्यत्समायांतं भासं द्रौणिर्भयंकरम् ॥४३॥कूरशब्दं क्रूरकायं बभ्रुपिंगकलेवरम् ॥स भासोऽथ भृशं शब्दं कृत्वालीयत शाखिनि ॥४४॥उत्प्लुत्य तस्य शाखायां न्यग्रोधस्य विहंगमः ॥सुप्तान्काकान्निजघ्नेऽसावनेकान्वायसांतकः ॥४५॥काकानामभिनत्पक्षान्स केषांचिद्विहंगमः ॥इतरेषां च चरणाञ्छिरांसि चरणा युधः ॥४६॥विचकर्त क्षणेनासावुलूको वलवान्द्विजाः ॥स भिन्नदेहावयवैः काकानां बहुभिस्तदा ॥४७॥समंतादावृतं सर्वं न्यग्रोधपरि मण्डलम् ॥वायसांस्तान्निहत्यासावुलूको मुमुदे तदा ॥४८॥द्रौणिर्दृष्ट्वा तु तत्कर्म भासेनैवं कृतं निशि ॥करिष्याम्यहमप्येवं शत्रूणां निधनं निशि ॥४९॥इत्यचिंतयदेकः सन्नुपदेशमिमं स्मरन् ॥जेतुं न शक्याः पार्था हि ऋजुमार्गेण युद्ध्यता ॥५०॥मया तच्छद्मना तेऽथ हंतव्या जितकाशिनः ॥सुयोधनसकाशे च प्रतिज्ञातो मया वधः ॥५१॥ऋजुमार्गेण युद्धे मे प्राणनाशो भविष्यति ॥छलेन युध्यमानस्य जयश्चास्य रिपुक्षयः ॥५२॥यच्च निंद्यं भवेत्कार्यं लोके सर्वजनैरपि ॥कार्यमेव हि तत्कर्म क्षत्रधर्मानुवर्तिना ॥५३॥पार्थैरपि छलेनैव कृतं कर्म सुयोधने ॥अस्मिन्नर्थे पुराविद्भिः प्रोक्ताः श्लोका भवंति हि ॥५४॥परिश्रांते विदीर्णे च भुंजाने च रिपोर्बले ॥प्रस्थाने च प्रवेशे च प्रहर्तव्यं न संशयः ॥५५॥निद्रार्तमर्धरात्रे च तथा त्यक्तायुधं रणे ॥भिन्नयोधं बलं सर्वं प्रहर्तव्यमरातिभिः ॥५६॥एवं स नियमं कृत्वा सुप्तमारणकर्मणि ॥प्राबोधयद्भोजकृपौ सुप्तौ रात्रौ स साहसी ॥द्रौणिर्ध्यात्वा मुहूर्तं तु तावुभावभ्यभाषत ॥५७॥॥ अश्वत्थामोवाच ॥मृतः सुयोधनो राजा महाबलपराक्रमः ॥५८॥शुद्धकर्मा हतः पार्थैर्बहुभिः क्षुद्रकर्मभिः ॥भीमेनातिनृशंसेन शिरो राज्ञः पदा हतम् ॥५९॥ततोऽद्य रात्रौ पार्थानां समेत्य पटमण्डपम् ॥सुखसुप्तान्हनिष्यामः शस्त्रैर्नानाविधैर्वयम् ॥कृपः प्रोवाच तत्रैन मिति श्रुत्वा द्विजोत्तमाः ॥६०॥॥ कृप उवाच ॥सुप्तानां मारणं लोके न धर्मो न च पूज्यते ॥६१॥तथैव त्यक्तशस्त्राणां संत्यक्तरथवाजि नाम् ॥शृणु मे वचनं वत्स मुच्यतां साहसं त्वया ॥६२॥वयं तु धृतराष्टं च गांधारीं च पतिव्रताम् ॥पृच्छामो विदुरं चापि तदुक्तं करवा महे ॥इत्युक्तः स तदा द्रौणिः कृपं प्रोवाच वै पुनः ॥६३॥॥अश्वत्थामोवाच ॥पांडवैश्च पुरा यन्मे छलाद्युद्धे पिता हतः ॥६४॥तन्मे सर्वाणि मर्माणि निकृन्तति हि मातुल ॥द्रोणहंताहमित्येतद्धृष्टद्युमस्य यद्वचः ॥६५॥कथं जनसमक्षे तद्वचनं संशृणोम्यहम् ॥तैरेव पांडवैः पूर्वं धर्मसेतुर्निराकृतः ॥६६॥समक्षमेव युष्माकं सर्वेषामेव भूभृताम् ॥त्यक्तायुधो मम पिता धृष्टद्युम्नेन पातितः ॥६७॥तथा शांतनवो भीष्मस्त्यक्तचापो निरायुधः ॥शिखंडिनं पुरोधाय निहतः सव्यसाचिना ॥६८॥एवमन्येऽपि भूपालाश्छलेनैव हतास्तु तैः ॥तथैवाहं करिष्यामि सुप्तानां मारणं निशि ॥६९॥एवमुक्त्वा तदा द्रौणिः संयुक्ततुरगं रथम्॥प्रायादभिमुखः शत्रून्समारुह्य क्रुधा ज्वलन् ॥७०॥तं यांतम न्वगातां तौ कृतवर्मकृपावुभौ ॥ययुश्च शिबिरे तेषां संप्रसुप्तजनं तदा ॥७१॥शिबिरद्वारमासाद्य द्रोणपुत्रो व्यतिष्ठत ॥रात्रौ तत्र समाराध्य महादेवं घृणानिधिम् ॥७२॥अवाप विमलं खङ्गं महादेवाद्वरप्रदात् ॥ततो द्रौणिरवस्थाप्य कृतवर्मकृपावुभौ ॥७३॥द्वारदेशे महावीरः शिबि रांतः प्रविष्टवान् ॥प्रविष्टे शिबिरे द्रौणौ कृतवर्मकृपावुभौ॥ ७४॥द्वारदेशे व्यतिष्ठेतां यत्तौ परमधन्विनौ ॥अथ द्रौणिः सुसंक्रुद्धस्तेजसा प्रज्वलन्निव ॥७५॥खङ्गं विमलमादाय व्यचरच्छिबिरे निशि ॥ततस्तु धृष्टद्युम्नस्य शिबिरं मंदमाययौ ॥७६॥धृष्टद्युम्नादयस्तत्र महायुद्धेन कर्शिताः ॥सुषुपुर्निशि विश्वस्ताः स्वस्वसैन्यसमावृताः ॥७७॥धृष्टद्युम्नस्य शिबिरं प्रविश्य द्रौणिरस्त्रवित् ॥तं सुप्तं शयने शुभ्रे ददर्शारान्महाबलम् ॥७८॥पादेनाघातयद्रोषात्स्वपंतं द्रोणनंदनः ॥स बुद्धश्चरणाघातादुत्थाय शयनादथ ॥७९॥व्यलोकयत्तदा वीरो द्रोणपुत्रं पुरः स्थितम् ॥तमुत्पतंतं शयनाद्द्रोणाचार्यसुतो बली ॥८०॥केशेष्वाकृष्य बाहुभ्यां निष्पिपेष धरातले ॥धृष्टद्युम्नस्तदा तेन निष्पिष्टः स भया तुरः ॥८१॥निद्रांधः पादघातातो न शशाक विचेष्टितुम् ॥द्रौणिस्त्वाक्रम्य तस्योरः कण्ठं बद्ध्वा धनुर्गुणैः ॥८२॥नदंतं विस्फुरंतं तं पशुमारममारयत् ॥तस्य सैन्यानि सर्वाणि न्यवधीच्च तथैव सः ॥८३॥युधामन्युं महावीर्यममुत्तमौजसमेव च ॥तथैव द्रौपदीपुत्रानवशिष्टांश्च सोमकान् ॥८४॥शिखंडिप्रमुखानन्यान्खङ्गेनामारयद्बहून् ॥तद्भयाद्द्वारनिर्यातान्सर्वानेव च सैनिकान् ॥८५॥प्रापयामासतुर्मृत्युं कृतवर्मकृपा वुभौ ॥एवं निहतसैन्यं तच्छिबिरं तैर्महाबलैः ॥८६॥तत्क्षणे शून्यमभवत्त्रिजगत्प्रलये यथा ॥एवं हत्वा ततः सर्वान्द्रोणपुत्रादयस्त्रयः ॥८७॥निरगुः शिबिरात्तस्मात्पार्थभीता भयातुराः ॥सर्वे पृथक्पृथग्देशान्दुद्रुवुः शीघ्रगामिनः ॥८८॥अथ द्रौणिर्ययौ विप्रा रेवातीरं मनोरमम् ॥तत्र ह्यनेकसाहस्रा ऋषयो वेदवादिनः ॥८९॥कथयंतः कथाः पुण्यास्तपश्चक्रुरनुत्तमम् ॥तत्रायं प्रययौ द्रौणिर्ऋषीणामाश्रमेष्वथ ॥९०॥प्रविष्टमात्रे तस्मिंस्तु मुनयो ब्रह्मवादिनः ॥द्रौणेर्दुश्चरितं ज्ञात्वा प्राहुर्योगबलेन तम् ॥९१॥सुप्तमा रणकृत्पापी द्रौणे त्वं ब्राह्मणाधमः ॥त्वद्दर्शनेन ह्यस्माकं पातित्यं भवति ध्रुवम् ॥९२॥त्वत्संभाषणमात्रेण ब्रह्महत्यायुतं भ वेत् ॥अतोऽस्मदाश्रमेभ्यस्त्वं निर्गच्छ पुरुषाधम ॥९३॥इत्यब्रुवंस्तदा द्रौणिं तत्रत्या मुनयो द्विजाः ॥इतीरितस्ततो द्रौणिर्मुनिभिर्ब्रह्म वादिभिः ॥९४॥लज्जितो निलात्तस्मादाश्रमान्मुनिसेवितात् ॥एवं काश्यादितीर्थेषु पुण्येषु प्रययौ च सः ॥९५॥तत्रतत्र द्विजैः सर्वै र्निंदितोऽसौ महात्मभिः ॥व्यासं शरणमापेदे प्रायश्चित्तचिकीर्षया ॥९६॥ततो बदरिकारण्ये समासीनं महामुनिम् ॥द्वैपायनं समागम्य प्रणनाम सभक्तिकम् ॥९७॥ततो व्यासोऽब्रवीदेनं द्रोणाचार्यसुतं मुनिः ॥त्वमस्मदाश्रमादद्रौणे निर्याहि त्वरया त्विति ॥९८॥सुप्तमारण दोषेण महापातकवान्भवान् ॥अतो मे भवतालापान्महत्पापं भविष्यति ॥इत्युक्तः स तदा द्रौणिः प्रोवाचेदं वचो मुनिः ॥९९॥॥ अश्वत्थामोवाच ॥भगवन्निंदितः सर्वैस्त्वामस्मि शरणं गतः ॥१००॥ब्रवीषि चेत्त्वमप्येवं कोऽन्यो मे शरणं भवेत् ॥कृपां कुरु मयि ब्रह्मन्साधवो दीनवत्सलाः ॥१॥सुप्तमारणदोषस्य शांत्यर्थं भगवन्मम ॥प्रायश्चित्तं विधेहि त्वं सर्वज्ञोऽसि भवान्यतः ॥इत्युक्तो द्रौणिना व्यासश्चिरं ध्यात्वा तमब्रवीत् ॥२॥॥ व्यास उवाच ॥एतत्पापस्य शांत्यर्थं प्रायश्चित्तं स्मृतौ न हि ॥३॥तथाप्युपायं वक्ष्यामि तवैतद्दोष शांतये ॥दक्षिणांबुनिधौ पुण्ये रामसेतौ विमुक्तिदे ॥४॥धनुष्कोटिरितिख्यातं तीर्थमस्ति महत्तरम् ॥अस्ति पुण्यतमं द्रौणे महापात कनाशनम् ॥५॥स्वर्गमोक्षप्रदं पुंसां ब्रह्महत्यादिशोधकम् ॥सर्वमंगलमांगल्यं सर्वाभीष्टप्रदायकम् ॥६॥पवित्राणां पवित्रं च तीर्थानां च तथोत्तमम् ॥दुःस्वप्ननाशनं पुण्यं नरकक्लेशनाशनम् ॥७॥अकालमृत्युशमनं पुंसां विजयवर्द्धनम् ॥दारिद्र्यनाशनं पुंसामायुर्वर्धनकार णम् ॥८॥चित्तशुद्धिप्रदं नृणां शांतिदांत्यादिकारणम् ॥तत्र गत्वा धनुष्कोटौ रामसेतौ विमुक्तिदे ॥९॥स्नानं कुरुष्व द्रौणे त्वं मासमात्रं निरं तरम् ॥सुप्तमारणदोषात्त्वं सद्यः पूतो भविष्यसि ॥११०॥कुरुष्व वचनं शीघ्रं मम त्वं द्रोणनंदन ॥एवमुक्तस्तदा द्रौणिर्व्यासेन परमर्षिणा ॥११॥रामसेतुं समासाद्य धनुष्कोटिं पवित्रदाम् ॥सस्नौ संकल्पपूर्वं तु मासमेकं निरन्तरम् ॥१२॥त्रिसंध्यं रामनाथं च सिषेवे स दिने दिने ॥ततस्त्रिंशद्दिने तोयस्नानाद्द्रोणात्मजस्तदा ॥१३॥जजाप च धनुष्कोट्यां मंत्रं पंचाक्षरं तदा ॥अकार्षीदुपवासं च द्रोणपुत्रस्तु तद्दिने ॥१४॥अकरोज्जागरं रात्रौ रामनाथस्य सन्निधौ ॥अपरेद्युर्धनुष्कोटौ स्नात्वा संकल्पपूर्वकम् ॥१५॥सिषेवे रामनाथं च स्तुत्वा भक्तिपुरःसरम् ॥ननर्त पुरतः शंभोरानंदाश्रुपरिप्लुतः ॥१६॥ततः प्रसन्नो भगवान्प्रादुरासीत्तदग्रतः ॥दृष्ट्वा तत्र महादेवं तुष्टाव परमेश्वरम् ॥१७॥॥ द्रौणिरुवाच ॥नमस्ते देवदेवेश करुणाकर शंकर ॥आपदंबुधिमग्नानां पोतायितपदांबुज ॥१८॥महादेव कृपामूर्ते धूर्जटे नीललोहित ॥उमाकांत विरूपाक्ष चंद्रशेखर ते नमः ॥१९॥मृत्युंजय त्रिनेत्र त्वं पाहि मां कृपया दृशा ॥पार्वतीपतये तुभ्यं त्रिपुरघ्नाय शंभवे ॥१२॥पिनाकपाणये तुभ्यं त्र्यंबकाय नमोनमः ॥अनंतादिमहानागहारभूषणभूषित ॥२१॥शूलपाणे नमस्तुभ्यं गंगाधर मृडाव्यय ॥रक्ष मां कृपया देव पापसंघातपंजरात् ॥इति स्तुतो महादेवो द्रौणिं प्रोवाच हर्षितः ॥२२॥॥ महादेव उवाच ॥सुप्तमारणदोषस्ते धनुष्कोटौ निमज्जनात् ॥२३॥अश्वत्थामन्विनष्टोऽभूद्वरं वरय सुव्रत ॥मयि प्रसन्ने लोकेषु किमलभ्यं भवेन्नृणाम् ॥२४॥अतोऽभीष्टं वृणीष्व त्वं मत्तो द्रोणात्मजाधुना ॥इत्युक्तः शंभुना द्रौणिः प्राह तं परमेश्वरम् ॥२५॥तवाद्य दर्शनेनाहं कृतार्थोस्मि महेश्वरम् ॥त्वद्दर्शनमपुण्यानामलभ्यं जन्मकोटिभिः ॥२६॥अतो युष्मत्पदांभोजे निश्चला भक्तिरस्तु मे ॥इममेव वरं देहि मह्यं शंभो नमोऽस्तु ते ॥२७॥उक्त्वा तथास्त्विति द्रौणिं देवदेवो महेश्वरः ॥पश्यतो द्रोणपुत्रस्य तत्रैवांतरधीयत ॥२८॥अश्वत्थामापि विप्रेंद्रा धूतपापो विनिर्मलः ॥रामचंद्रधनुष्कोटौ स्नानमात्रेण तत्क्षणे ॥२९॥धूतपापमिमं द्रौणिं सर्वे चापि महर्षयः ॥शुद्धं प्रत्यग्रहीषुस्ते तदाप्रभृति निर्मलम् ॥१३॥एवं वः कथितं विप्रा द्रौणिपापविमोक्षणम् ॥रामचंद्रधनुष्कोटिस्नानवैभवमात्रतः ॥३१॥यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥स विधूयेह पापानि शिवलोके महीयते ॥१३२॥इति श्रीस्कांदे महापुराण एकाशीतिसाहरूयां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायामश्वत्थामसुप्तमारणदो षशांतिवर्णनंनामैकत्रिंशोऽध्यायः ॥३१॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP