संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३८ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३८ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३८ Translation - भाषांतर ॥ ऋषय ऊचुः ॥सूत कद्रुः कथं मुक्ता क्षीरकुंडनिमज्जनात् ॥छलं कथं कृतवती सपत्न्यां पापनिश्चया ॥१॥कस्य पुत्री च सा कद्रूः सपत्नीसा च कस्य वै ॥किमर्थमजयत्कद्रूः स्वसपत्नीं छलेन तु ॥एतन्नः श्रद्दधानानां ब्रूहि सूत कृपानिधे ॥२॥॥ श्रीसूत उवाच ॥शृणुध्वं मुनयः सर्वे इतिहासं महाफलम् ॥पुरा कृतयुगे विप्राः प्रजापतिसुते उभे ॥३॥कद्रूश्च विनता चेति भगिन्यौ संबभूवतुः ॥भार्ये ते कश्यपस्यास्तां कद्रूश्च विनता तथा ॥४॥विनता सुषुवे पुत्रावरुणं गरुडं तथा ॥भर्त्तुः सकाशात्कद्रूश्च लेभे सर्पान्बहून्सुतान् ॥५॥अनंतवासुकिमुखान्विषदर्पसमन्वितान् ॥एकदा तु भगिन्यौ ते कद्रूश्च विनता तथा ॥६॥अपश्यतां समायांतमुच्चैःश्रवसमं तिकात् ॥विलोक्य कद्रूस्तुरगं विनतामिदमब्रवीत् ॥७॥श्वेतोऽश्ववालो नीलो वा विनते ब्रूहि तत्त्वतः॥इत्युक्त्वा विनता विप्राः कद्रूं तामिदमब्र वीत् ॥तुरंगः श्वेतवालो मे प्रतिभाति सुमध्यमे ॥किं वा त्वं मन्यसे कद्रूरिति तां विनताऽब्रवीत् ॥९॥पृष्ट्वैवं विनतां कद्रूर्बभाषे स्वमतं च सा ॥कृष्णवालमहं मन्ये हयमेनमनिंदिते ॥१०॥ततः पराजये कृत्वा दासीभावं पणं मिथः ॥व्यतिष्ठेतां महाभागे सपत्न्यौ ते द्विजोत्तमाः ॥११॥ततः कद्रूर्निजसुतान्वासुकिप्रमुखानहीन् ॥तस्या नाहं यथा दासी तथा कुरुत पुत्रकाः ॥१२॥तस्याभीप्सितसिद्ध्यर्थमित्यवोचद्भृशा तुरा ॥युष्माभिरुच्चैःश्रवसो बालः प्रच्छाद्यतामिति ॥१३॥नांगीचक्रुर्मतं तस्या नागाः कद्रू रुषा तदा॥अशपत्कुपिता पुत्राञ्ज्वलंती रोषमूर्च्छिता ॥१४॥पारीक्षितस्य सर्वेऽद्धा यूयं सत्रे मरिष्यथ ॥इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा ॥१५॥प्रणम्य पादयोः कद्रूं दीनो वचनमब्रवीत् ॥अहमुच्चैःश्रवोवालं विधास्याम्यंजनप्रभम् ॥१६॥मा भीरंब त्वया कार्येत्यवादीच्छापविक्लवः ॥श्वेतमुच्चैःश्रवोवालं ततः कर्कोटकोरगः ॥१७॥छादयित्वा स्वभोगेन व्यतनोदंजनद्युतिम् ॥अथ ते विनताकद्र्वौ दास्ये कृतपणे उभे ॥१८॥देवराजहयं द्रष्टुं संरंभादभ्यगच्छ ताम् ॥शशांकशंखमाणिक्यमुक्तैरावतकारणम् ॥१९॥युगांतकालशयनं योगनिद्राकृतो हरेः ॥अतीत्य कद्रूविनते समुद्रं सरितां पतिम् ॥२०॥ददृशतुर्हयं गत्वा देवराजस्य वाहनम् ॥कृष्णवालं हयं दृष्ट्वा विनता दुःखिताऽभवत् ॥२१॥दुःखितां विनतां कद्रूर्दासीकृत्ये न्ययुंक्त सा ॥एतस्मिन्नंतरे तार्क्ष्योऽप्यंडमुद्भिद्य वह्निवत् ॥२२॥प्रादुर्बभूव विप्रेंद्रा गिरिमात्रशरीरवान् ॥दृष्ट्वा तद्देहमाहात्म्यमभूत्त्रस्तं जगत्त्रयम् ॥२३॥ततस्तं तुष्टुवुर्देवा गरुडं पक्षिणां वरम् ॥दृष्ट्वा तद्देहमाहात्म्यं त्रस्तं स्याद्भुवनत्रयम् ॥२४॥इत्यालोच्योपसंहृत्य देहमत्यंतभीषणम् ॥अरुणं पृष्ठमारोप्य मातुरंतिकमभ्यगात् ॥२५॥अथाह विनतां कद्रूः प्रणतामतिविह्वलाम् ॥चेटि नागालयं गंतुमुद्योगो मम वर्तते ॥२६॥त्वत्पुत्रो गरुडोतो मां मत्पुत्रांश्च वहत्विति ॥ततश्च विनता पुत्रं गरुडं प्रत्यभाषत ॥२७॥अहं कद्रूमिमां वक्ष्ये त्वं सर्पान्वह तत्सुतान् ॥तथेति गरुडो मातुः प्रत्यगृह्णद्वचो द्विजाः ॥२८॥अवहद्विनता कद्रूं सर्वांस्तान्गरुडोऽवहत् ॥रविसामीप्यगाः सर्पास्तत्करैराहतास्तदा ॥२९॥अस्तौषीद्वज्रिणं कद्रूः सुतानां तापशांतये ॥सर्वतापं जलासारैर्देवराजोऽप्यशामयत ॥३०॥नीयमानास्तदा सर्पा गरुडेन बलीयसा ॥गत्वा तं देशमचिरादवदन्विनतासुतम् ॥३१॥वयं द्वीपांतरं गंतुं सर्वे द्रष्टुं कृतत्वराः ॥वह त्वमस्मान्गरुड चेटीसुत ततः क्षणात् ॥३२॥ततो मातर मप्राक्षीद्विनतां गरुडो द्विजाः ॥अहं कस्माद्वहामीमांस्त्वं चेमां वहसे सदा ॥३३॥चेटीपुत्रेति मामेते कि भणंति सरीसृपाः ॥सर्वमेतद्वद त्वं मे मातस्तत्त्वेन पृच्छतः ॥३४॥पृष्टैवं जननी तेन गरुडं प्राब्रवीत्सुतम् ॥भगिन्या क्रूरया पुत्र च्छलेनाहं पराजिता ॥३५॥तस्या दासी भवाम्यद्य चेटीपुत्रस्ततो भवान् ॥अतस्त्वं वहसे सर्पान्वहाम्येनामहं सदा ॥३६॥इत्यादि सर्ववृत्तांतमादितोऽस्मै न्यवेदयत् ॥अथ तां गरुडोऽवा दीन्मातरं विनतासुतः ॥३७॥अस्माद्दास्याद्विमोक्षार्थं किं कार्यं ते मयाधुना ॥इति पृष्टा सुतेनाथ विनता तमभाषत ॥३८॥सर्पान्पृच्छस्व गरुड मम मातृविमोक्षणे ॥युष्माकं मातुः किं कार्यं मयेति वदताधुना ॥३९॥इति मात्रा समुदितो गरुडः पन्नगान्प्रति ॥गत्वाऽपृच्छद्विज श्रेष्ठास्तेऽप्येनमवदंस्तदा ॥४०॥यदा हरिष्यसे शीघ्रं सुधां त्वममरालयात् ॥दास्यान्मुक्ता भवेन्माता वैनतेय तवाद्य हि ॥४१॥ततो मातरमागम्य गरुडः प्रणतोऽब्रवीत् ॥सुधामंब ममानेतुं गच्छतो भक्ष्यमर्पय ॥४२॥इतीरिता सुतं प्राह माता तं विनता सुतम् ॥समुद्रमध्ये वर्तंते शबराः कतिचित्सुत ॥४३॥तान्भक्षयित्वा शबरानमृतं त्वमिहानय ॥तत्र कश्चिद्द्विजः कामी शवरीसंगकौतुकी ॥४४॥त्यज तं ब्राह्मणं कंठं दहंतं ब्रह्मतेजसा ॥पक्षादीनि तवांगानि पांतु देवा मरुन्मुखाः ॥४५॥इति स्वमातुराशीर्भिर्गरुडो वर्धितो ययौ ॥शबरालयमभ्येत्य तस्य भक्षय तो मुखम् ॥४६॥आवृतं प्राविशन्व्याधा वयांसीव दरीं गिरेः ॥अथ स ब्राह्मणोऽप्यागात्तत्कंठं मुनिपुंगवाः ॥४७॥कण्ठं दहन्तं विप्रं तमुवाच विनतासुतः ॥विप्र पापोऽप्यवध्यो हि निर्याहि त्वमतो बहिः ॥४८॥एवमुक्तस्तदा विप्रो गरुडं प्रत्यभाषत ॥किराती मम भार्यापि निर्गंतव्या मया सह ॥४९॥एवमस्त्विति तं विप्रमुवाच पतगेश्वरः ॥ततः स गरुडो विप्रमुज्जगार सभार्यकम् ॥५०॥विप्रोऽप्यभीप्सितान्देशान्निषाद्या सह निर्ययौ ॥शबरान्भक्षयित्वाऽथ गरुडः पक्षिणां वरः ॥५१॥आत्मनः पितरं वेगात्कश्यपं समुपेयिवान् ॥कुत्र यासीति तत्पृष्टो गरुडस्तम भाषत ॥५२॥मातुर्दास्यविमोक्षाय सुधामाहर्तुमागमम् ॥बहून्किराताञ्जग्ध्वापि तृप्तिर्मम न जायते ॥५३॥अपर्यंतक्षुधा ब्रह्मन्बाधते मामह र्निशम् ॥तन्निवृत्तिप्रदं भक्ष्यं ममार्पय तपोधन ॥५४॥येनाहं शक्नुयां तात सुधामाहर्तुमोजसा ॥इतीरितः सुतं प्राह कश्यपो विनतोद्भवम् ॥५५॥॥कश्यप उवाच ॥मुनिर्विभावसुर्नाम्ना पुरासीत्तस्य सानुजः ॥सुप्रतीक इति भ्राता तावुभौ वंशवैरिणौ ॥५६॥अन्योन्यं शेपतुर्विप्रा महाक्रोधसमाकुलौ ॥गजोऽभवत्सुप्रतीकः कूर्मोऽभूच्च विभावसुः ॥५७॥एवं वित्तविवादात्तौ शेपतुर्भ्रातरौ मिथः ॥गजः षड्यो जनोच्छ्रायो द्विगुणायामसंयुतः ॥५८॥कूर्मस्त्रियोजनोच्छ्रयो दशयोजनविस्तृतः ॥बद्धवैरावुभावेतौ सरस्यस्मिन्विहंगम ॥५९॥पूर्ववैरमनुस्मृत्य युध्येते जेतुमिच्छया ॥उभौ तौ भक्षयित्वा त्वं सुधामाहर तृप्तिमान् ॥६०॥एवं पित्रेरितः पक्षी गत्वा तद्गजकच्छपौ ॥समुद्धत्य महाकायौ महाबलपराक्रमौ ॥६१॥वहन्नखाभ्यां संतीर्थं विळंबाभिधमभ्यगात् ॥तत्रागतं समालोक्य पक्षिराजं द्विजोसमाः ॥६२॥तत्तीरजो महावृक्षो रोहिणाख्यो महोच्छ्रयः ॥वैनतेयमिदं प्राह महाबलपराक्रमम् ॥६३॥एनामारुह मच्छाखां शतयोजनमायताम् ॥स्थित्वात्र गजकूर्मौ त्वं भक्षयस्व खगोत्तम ॥६४॥इत्युक्तस्तरुणा पक्षी स तत्रास्ते मनोजवः ॥तद्भारात्सा तरोः शाखा भग्नाऽभूद्द्विजसत्तमाः ॥६५॥वालखिल्यमुनींस्तस्मिल्लँबमानानधोमुखान् ॥दृष्ट्वा तत्पातशंकावाँस्तां शाखां गरुडोऽग्रहीत् ॥६६॥गजकूर्मो च तां शाखां गृहीत्वा यांतमं बरे ॥पिता तस्याब्रवीत्तत्र गरुडं विनतासुतम् ॥६७॥त्यजेमां निर्जने शैले शाखां तं विनतोद्भव ॥इत्युक्तः स तथा गत्वा शाखां निष्पुरुषे नगे ॥६८॥विन्यस्याभक्षयत्पक्षी तौ तदा गजकच्छपौ ॥अथोत्पातः समभवत्तस्मिन्नवसरे दिवि ॥६९॥दृष्ट्वोत्पातं बलारातिः पप्रच्छ स्वपुरोहितम् ॥उत्पातकारणं जीव किमत्रेति पुनःपुनः ॥बृहस्पतिस्तदा शक्रं प्रोवाच द्विजसत्तमाः ॥७०॥॥ बृहस्पतिरुवाच ॥काश्यपो हि मुनिः पूर्वमयजत्क्रतुना हरे ॥७१॥सर्वान्नृषीन्सुरान्सिद्धान्यक्षान्गंधर्वकिन्नरान् ॥यज्ञसंभारसिद्ध्यर्थं प्रेषयामास स द्विजाः॥ ७२॥वालखिल्यान्ससंभारान्ह्रस्वानंगुष्ठमात्रकान् ॥मज्जतो गोष्पदजले दृष्ट्वा हसितवान्भवान् ॥७३॥भवतावमताः क्रुद्धा वालखिल्यास्तदा हरे ॥जुहुवुर्यज्ञवह्नौ ते क्रोधेन ज्वलिताननाः ॥७४॥देवेंद्रभयदः शत्रुः कश्यपस्य सुतोऽस्त्विति ॥तस्य पुत्रोऽद्य गरुडः सुधाहरणकौतुकी ॥७५॥समागच्छति तद्धेतुरयमुत्पात आगतः ॥इत्युक्तः सोऽब्रवीदिंद्रो देवानग्निपुरोगमान् ॥७६॥सुधामाहर्तुमायाति पक्षी सा रक्ष्यतामिति ॥इतींद्रप्रेरिता देवा ररक्षुः सायुधाः सुधाम् ॥७७॥पक्षिराजस्तदाभ्यागाद्देवानायुधधारिणः ॥महाबलं ते गरुडं दृष्ट्वाऽकम्पंत वै सुराः ॥७८॥गरुडस्य सुराणां च ततो युद्धमभून्महत् ॥अखंडि पक्षितुण्डेन भौवनोऽमृतपालकः ॥७९॥तदा निजघ्नुगर्रुडं देवाः शस्त्रैरनेकशः ॥अतीव गरुडो देवैर्बाधितः शस्त्रपाणिभिः ॥८०॥पक्षाभ्यामाक्षिपद्दूरे देवानग्निपुरोगमान् ॥तत्पक्षविक्षिता देवास्तदा परमकोपनाः ॥८१॥नाराचान्भिंदि पालांश्च नानाशस्त्राणि चाक्षिपन् ॥ततस्तु गरुडो वेगाद्देवदृष्टिविलोपिनीम् ॥८२॥धूलिमुत्थापयामास पक्षाभ्यां विनतासुतः ॥वायुनाशमयामासुस्तान्पांसूंस्त्रिदशोत्तमाः ॥८३॥रुद्रान्वसूंस्तथादित्यान्मरुतोऽन्यान्सुरांस्तथा ॥गरुडः पक्षतुंडाभ्यां व्यथितानकरोद्द्विजाः ॥८४॥पलायितेषु देवेषु सोऽद्राक्षीज्ज्वलनं पुरः ॥ज्वलंतं परितस्त्वग्निं शमापयितुमुद्ययौ॥ ८५॥स सहस्रमुखो भूत्वा तैः पिबञ्छतशो नदीः ॥तमग्निं नाशयामास तैः पयोभिस्त्वरान्वितः ॥८६॥सितधारं भ्रमच्चक्रं सुधारक्षकमंतिके ॥दृष्ट्वा तदरिरंध्रेण संक्षिप्तांगोतराविशत् ॥८७॥ततो ददर्श द्वौ सर्पो व्यक्तास्यौ भीषणाकृती.॥याभ्यां दृष्टोपि भस्म स्यात्तौ सर्पौ गरुडस्तदा ॥८८॥आच्छिद्य पक्षतुंडाभ्यां गृहीत्वाऽमृतमुद्ययौ ॥यंत्रमुत्पाट्य चोद्यंतं गरुडं प्राह माधवः ॥८९॥तव तुष्टोऽस्मि पक्षीश वरं वरय सुव्रत ॥अथ पक्षी तमाह स्म कमलानायकं हरिम् ॥९०॥तवोपरि स्थितिर्मे स्यान्मा भूतां च जरामृती ॥तथास्त्विति हरिः प्राह वरं मद्व्रियतामिति ॥९१॥इत्युक्तस्तं हरिः प्राह मम त्वं वाहनं भव ॥स्यंदनोपरि केतुश्च मम त्वं विनतासुत ॥९२॥तथास्त्विति खगोप्याह कमलापतिमच्युतम् ॥हृतामृतं खगं श्रुत्वा तत आखंडलो जवात् ॥९३॥अभिद्रुत्याशु कुलिशं पक्षे चिक्षेप पक्षिणः ॥ततो विहस्य गरुडः पाकशासनमब्रवीत् ॥९४॥कुलिशस्य निपातान्मे न हरे कापि वेदना ॥सफलो वज्रपातस्ते भूयाच्च सुरनायक ॥९५॥इतीरयन्पत्रमेकं व्यसृजत्पक्षतस्तदा ॥शोभनं पर्णमस्येति सुपर्ण इति सोभ वत् ॥९६॥तस्मिन्सुपर्णे हेमाभे सर्वे विस्मयमाययुः ॥ततस्तु गरुडः शक्रमब्रवीद्द्विजपुंगवाः ॥९७॥भवता साकमखिलं जगदेतच्चराचरम् ॥देवेंद्र सततं वोढुममोघा शक्तिरस्ति मे ॥९८॥नाखण्डलसहस्रं मे रणे लभ्यं हरे भवेत् ॥इति ब्रुवाणं गरुडमब्रवीत्पाकशासनः ॥९९॥किं तेऽमृतेन कार्यं स्याद्दीयताममृतं मम ॥इमां सुधां भवान्दद्याद्येभ्यो हि विनतोद्भव ॥१००॥तेऽधुनाऽमृतपानेन जरामरणवर्जिताः ॥अस्मद्भ्योऽधिकवीर्याः स्युर्बाधेरंस्त्रिदशांस्तथा ॥१॥इति ब्रुवंतं देवेन्द्रं गरुडोऽप्यब्रवीद्द्विजाः ॥यत्रैतत्स्थापयिष्यामि तत्रागत्य भवानिदम् ॥२॥गृह्णातु झटितीत्युक्तो गरुडं प्राह वृत्रहा ॥प्रीतोऽहं तव दास्यामि वरं वृणु महामते ॥३॥इत्युक्तवन्तं गरुडः पाकशासनमब्रवीत् ॥दास्ये छलप्रयोक्तारो मम मातुः सरीसृपाः ॥४॥भक्ष्या भवंतु नित्यं मे पाकशासन वृत्रहन् ॥इति तेनेरितः शकस्तथास्त्वित्यवदच्च तम् ॥५॥अथायं गरुडो विप्रा धारयन्नमृतं ययौ ॥यांतं तमनुयाति स्म गरुडं पाकशासनः ॥६॥वेगेन स द्विजश्रेष्ठाः सुधाहरणकौतुकी ॥मातुरभ्याशमागत्य सर्पान्प्राह स पक्षिराट् ॥७॥कुशेषु न्यस्यते सर्पास्सुधैवमधुना मया ॥स्नात्वा तद्भुङ्ध्वममृतं शुचयः सुसमाहिताः ॥८॥मोक्षोऽपि मम मातुः स्याद्दासीभावाद्धि पन्नगाः ॥तथास्त्वित्यवदन्सर्पा गरुडं विनतासुतम् ॥९॥मुक्ता तदैव विनता दासीभावाद्द्विजोत्तमाः ॥सर्पास्तेऽमृतभक्षार्थं स्नातुं सर्वे ययुस्तदा ॥११०॥तस्मिन्नवसरे शक्रस्तामादाय सुधां ययौ ॥स्नात्वागत्य भुजंगास्ते तत्रादृष्ट्वा तदा सुधाम् ॥११॥जिह्वाभिर्लिलिहुर्द र्भानेषु न्यस्ता सुधेति हि ॥तदाप्रभृति सर्पाणां जिह्वा दर्भाग्रपाटिताः ॥१२॥द्विधाभवन्मुनिश्रेष्ठा द्विजिह्वास्तेन ते स्मृताः॥सुधासंयोगतो दर्भाः प्रय युश्च पवित्रताम् ॥१३॥मोचयित्वा च गरुडो दासीभावात्स्वमातरम् ॥शशापकुपितः कद्रूं छद्मना जितमातरम् ॥१४॥कद्रूस्त्वं जननीं यन्मे छलेन जितवत्यसि ॥भर्तुस्त्वं परिचर्यायामतो नार्हा भविष्यसि ॥१५॥शप्त्वैवं गरुडः कद्रूं प्रययौ स यथेच्छया ॥कद्रूश्च विनता चोभे ययतुर्भर्तुरंतिकम् ॥१६॥कश्यपो विमुखस्तत्र कद्रूं कोपादथाब्रवीत् ॥यस्माच्छलेन विनतां कद्रूर्निर्जितवत्यसि ॥१७॥अतो मत्परिचर्यायां न योग्यासि दुरात्मिके ॥स्त्रियं वा पुरुषं वापि नारी वा पुरुषोऽपि वा ॥१८॥छलाद्विजयते योऽसौ स महापातकी भवेत् ॥छलाद्विजयिना सार्धं संभाष्य ब्रह्महा भवेत् ॥१९॥स्तेयी सुरापी विज्ञेयो गुरुदाररतश्च सः ॥संसर्गदोषदुष्टश्च मुनिभिः परिकीर्त्यते ॥१२०॥त्वया संभाषणाद्दोषो मम स्यान्नरकप्रदः ॥तस्मात्प्रयाहि कद्रूस्त्वं मत्समीपाद्धि दारुणे ॥२१॥छलजेत्रा सपंक्तौ यो भुंजीत मनुजो भुवि ॥तेन संभाषणात्सद्यः पतेद्धि नरकार्णवे ॥२२॥विलोक्य च्छलजेतारं तस्य पापस्य शांतये ॥आदित्यं वा जलं वापि पावकं वा विलोकयेत् ॥२३॥छलजेता यत्र तिष्ठेदाश्रमेऽपि गृहेऽपिवा ॥वस्तव्यं न हि तत्रान्यैर्वसन्नरकमश्नुते ॥२४॥अतो निर्याहि निर्याहि मम त्वं दृष्टिमार्गतः ॥स्वाश्रमात्सरलामेनां विनतां जितवत्यसि ॥२५॥इति धिक्कृत्य सहसा कद्रूं तां कश्यपस्तदा ॥विनतां स्वच्छशीलां तां स्वीचकार महामतिः ॥२६॥कद्रूरित्थं सपरुषं कथिता कश्यपेन सा ॥रुदंती भृशदुःखार्ता पादयोस्तस्य चापतत् ॥२७॥पतितां पादयोर्दृष्ट्वा कश्यपो मुनिपुंगवः ॥न जग्राहैव कद्रूं तां स्मरन्पापं तया कृतम् ॥२८॥ततः प्रणम्य विनता कश्यपं वाक्यमब्रवीत् ॥भगवन्भगिनीमेनां स्वीकुरुष्व कृपानिधे ॥२९॥अज्ञानान्मुग्धया पापं कद्र्वा यदधुना कृतम्॥क्षंतुमर्हसि तत्सर्वं दयाशीला हि साधवः ॥१३०॥जनन्या गरुडस्यैव कथितः कश्यपो मुनिः ॥उवाच विनते नैनां विना पापस्य निष्कृतिम् ॥३१॥ग्रहीष्यामि दुराचारां त्रिस्त्वां शपथयाम्यहम् ॥कश्यपस्य वचः श्रुत्वा विनता पुनरब्रवीत् ॥३२॥भगिन्या मम पापस्य ब्रह्मंस्त्वं ब्रूहि निष्कृतिम् ॥येनेयं परिचर्यायां तव योग्या भविष्यति ॥३३॥तयैवमुदितो विप्रा मारीचः कश्यपस्तदा ॥ध्यात्वा मुहूर्तं मनसा पश्चादिदमभाषत ॥३४॥दक्षिणांबुनिधेस्तीरे फुल्लग्रामे विमुक्तिदे ॥अस्ति क्षीरसरोनाम तीर्थं पापविनाशनम् ॥६५॥तत्तीर्थस्नानमात्रेण दोषश्चास्या विनश्यति ॥प्रायश्चित्तायुतेनापि तत्तीर्थे मज्जनं विना ॥३६॥न नश्यत्येष दोषो ऽस्यास्तदेषा यातु तत्सरः ॥भर्त्रैवमुदिते कद्रूस्तं प्रणम्य द्विजोत्तमम् ॥३७॥तत्क्षणात्प्रययौ क्षीरं सरः पुत्रसहायिनी ॥सा कद्रूः पुत्र सहिता गत्वा कतिपयैर्दिनैः ॥३८॥प्राप्य क्षीरसरः पुण्यं प्रयता विजितेंद्रिया ॥सस्नौ नियमपूर्वं च संकल्प्य क्षीरकुंडके ॥३९॥उपोष्य त्रिदिनं सस्नौ तस्मिन्क्षीरसरोजले ॥चतुर्थे दिवसे तस्यां कुर्वत्यां स्नानमादरात् ॥अदेहा व्योमगावाणी समुत्तस्थौ द्विजोत्तमाः ॥१४०॥अशरीरिण्युवाच ॥कद्रूस्त्वं मज्जनादत्र च्छलजेतृत्वदोषतः ॥४१॥विमुक्ता भर्तृशुश्रूषायोग्या चासि न संशयः ॥शापोपि गरुडोक्तस्ते लयं यातोऽत्र मज्जनात् ॥४२॥गच्छ भर्तृसकाशं त्वं सोऽपि त्वां स्वीकरिष्यति ॥इत्युक्त्वा विररामाथ व्योमवागशरीरिणी ॥४३॥तस्यै वाचे नमस्कृत्य कद्रूः सा प्रीतमानसा ॥तीर्थं प्रदक्षिणीकृत्य नत्वा पुत्रसमन्विता ॥४४॥प्रययौ भर्तुरभ्याशं तच्छुश्रूषणकौतुकात् ॥आगतातां समालोक्य स्नातां क्षीरसरोजले ॥४५॥ज्ञात्वा विधूतपापां च कश्यपः स समाधिना ॥अंगीचकार पत्नीं तामात्मशुश्रूषणोचि ताम् ॥४६॥एवं वः कथितं विप्राः कद्रूपापविमोक्षणम् ॥मज्जनान्मुक्तिदं पुंसां पुण्ये क्षीरसरोजले ॥४७॥यः शृणोतीममध्यायं पठते वापि मानवः ॥स क्षीरकुंडस्नानस्य लभते फलमुत्तमम् ॥४८॥अश्वमेधादियज्ञानां समग्रं फलमश्नुते ॥गंगादिसर्वतीर्थेषु स स्नातो भवति ध्रुवम् ॥४९॥यः पठेदिममध्यायं क्षीरकुंडप्रशंसनम् ॥गोसहस्रप्रदातॄणां प्राप्नोत्यविकलं फलम् ॥१५०॥ इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशसायां कद्रूकृतच्छलदोषशांतिकथावर्णनं-नामाष्टत्रिंशोऽध्यायः ॥३८॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP