सेतुखण्डः - अध्याय ३८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
सूत कद्रुः कथं मुक्ता क्षीरकुंडनिमज्जनात् ॥
छलं कथं कृतवती सपत्न्यां पापनिश्चया ॥१॥
कस्य पुत्री च सा कद्रूः सपत्नीसा च कस्य वै ॥
किमर्थमजयत्कद्रूः स्वसपत्नीं छलेन तु ॥
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपानिधे ॥२॥
॥ श्रीसूत उवाच ॥
शृणुध्वं मुनयः सर्वे इतिहासं महाफलम् ॥
पुरा कृतयुगे विप्राः प्रजापतिसुते उभे ॥३॥
कद्रूश्च विनता चेति भगिन्यौ संबभूवतुः ॥
भार्ये ते कश्यपस्यास्तां कद्रूश्च विनता तथा ॥४॥
विनता सुषुवे पुत्रावरुणं गरुडं तथा ॥
भर्त्तुः सकाशात्कद्रूश्च लेभे सर्पान्बहून्सुतान् ॥५॥
अनंतवासुकिमुखान्विषदर्पसमन्वितान् ॥
एकदा तु भगिन्यौ ते कद्रूश्च विनता तथा ॥६॥
अपश्यतां समायांतमुच्चैःश्रवसमं तिकात् ॥
विलोक्य कद्रूस्तुरगं विनतामिदमब्रवीत् ॥७॥
श्वेतोऽश्ववालो नीलो वा विनते ब्रूहि तत्त्वतः॥
इत्युक्त्वा विनता विप्राः कद्रूं तामिदमब्र वीत् ॥
तुरंगः श्वेतवालो मे प्रतिभाति सुमध्यमे ॥
किं वा त्वं मन्यसे कद्रूरिति तां विनताऽब्रवीत् ॥९॥
पृष्ट्वैवं विनतां कद्रूर्बभाषे स्वमतं च सा ॥
कृष्णवालमहं मन्ये हयमेनमनिंदिते ॥१०॥
ततः पराजये कृत्वा दासीभावं पणं मिथः ॥
व्यतिष्ठेतां महाभागे सपत्न्यौ ते द्विजोत्तमाः ॥११॥
ततः कद्रूर्निजसुतान्वासुकिप्रमुखानहीन् ॥
तस्या नाहं यथा दासी तथा कुरुत पुत्रकाः ॥१२॥
तस्याभीप्सितसिद्ध्यर्थमित्यवोचद्भृशा तुरा ॥
युष्माभिरुच्चैःश्रवसो बालः प्रच्छाद्यतामिति ॥१३॥
नांगीचक्रुर्मतं तस्या नागाः कद्रू रुषा तदा॥
अशपत्कुपिता पुत्राञ्ज्वलंती रोषमूर्च्छिता ॥१४॥
पारीक्षितस्य सर्वेऽद्धा यूयं सत्रे मरिष्यथ ॥
इति शापे कृते मात्रा त्रस्तः कर्कोटकस्तदा ॥१५॥
प्रणम्य पादयोः कद्रूं दीनो वचनमब्रवीत् ॥
अहमुच्चैःश्रवोवालं विधास्याम्यंजनप्रभम् ॥१६॥
मा भीरंब त्वया कार्येत्यवादीच्छापविक्लवः ॥
श्वेतमुच्चैःश्रवोवालं ततः कर्कोटकोरगः ॥१७॥
छादयित्वा स्वभोगेन व्यतनोदंजनद्युतिम् ॥
अथ ते विनताकद्र्वौ दास्ये कृतपणे उभे ॥१८॥
देवराजहयं द्रष्टुं संरंभादभ्यगच्छ ताम् ॥
शशांकशंखमाणिक्यमुक्तैरावतकारणम् ॥१९॥
युगांतकालशयनं योगनिद्राकृतो हरेः ॥
अतीत्य कद्रूविनते समुद्रं सरितां पतिम् ॥२०॥
ददृशतुर्हयं गत्वा देवराजस्य वाहनम् ॥
कृष्णवालं हयं दृष्ट्वा विनता दुःखिताऽभवत् ॥२१॥
दुःखितां विनतां कद्रूर्दासीकृत्ये न्ययुंक्त सा ॥
एतस्मिन्नंतरे तार्क्ष्योऽप्यंडमुद्भिद्य वह्निवत् ॥२२॥
प्रादुर्बभूव विप्रेंद्रा गिरिमात्रशरीरवान् ॥
दृष्ट्वा तद्देहमाहात्म्यमभूत्त्रस्तं जगत्त्रयम् ॥२३॥
ततस्तं तुष्टुवुर्देवा गरुडं पक्षिणां वरम् ॥
दृष्ट्वा तद्देहमाहात्म्यं त्रस्तं स्याद्भुवनत्रयम् ॥२४॥
इत्यालोच्योपसंहृत्य देहमत्यंतभीषणम् ॥
अरुणं पृष्ठमारोप्य मातुरंतिकमभ्यगात् ॥२५॥
अथाह विनतां कद्रूः प्रणतामतिविह्वलाम् ॥
चेटि नागालयं गंतुमुद्योगो मम वर्तते ॥२६॥
त्वत्पुत्रो गरुडोतो मां मत्पुत्रांश्च वहत्विति ॥
ततश्च विनता पुत्रं गरुडं प्रत्यभाषत ॥२७॥
अहं कद्रूमिमां वक्ष्ये त्वं सर्पान्वह तत्सुतान् ॥
तथेति गरुडो मातुः प्रत्यगृह्णद्वचो द्विजाः ॥२८॥
अवहद्विनता कद्रूं सर्वांस्तान्गरुडोऽवहत् ॥
रविसामीप्यगाः सर्पास्तत्करैराहतास्तदा ॥२९॥
अस्तौषीद्वज्रिणं कद्रूः सुतानां तापशांतये ॥
सर्वतापं जलासारैर्देवराजोऽप्यशामयत ॥३०॥
नीयमानास्तदा सर्पा गरुडेन बलीयसा ॥
गत्वा तं देशमचिरादवदन्विनतासुतम् ॥३१॥
वयं द्वीपांतरं गंतुं सर्वे द्रष्टुं कृतत्वराः ॥
वह त्वमस्मान्गरुड चेटीसुत ततः क्षणात् ॥३२॥
ततो मातर मप्राक्षीद्विनतां गरुडो द्विजाः ॥
अहं कस्माद्वहामीमांस्त्वं चेमां वहसे सदा ॥३३॥
चेटीपुत्रेति मामेते कि भणंति सरीसृपाः ॥
सर्वमेतद्वद त्वं मे मातस्तत्त्वेन पृच्छतः ॥३४॥
पृष्टैवं जननी तेन गरुडं प्राब्रवीत्सुतम् ॥
भगिन्या क्रूरया पुत्र च्छलेनाहं पराजिता ॥३५॥
तस्या दासी भवाम्यद्य चेटीपुत्रस्ततो भवान् ॥
अतस्त्वं वहसे सर्पान्वहाम्येनामहं सदा ॥३६॥
इत्यादि सर्ववृत्तांतमादितोऽस्मै न्यवेदयत् ॥
अथ तां गरुडोऽवा दीन्मातरं विनतासुतः ॥३७॥
अस्माद्दास्याद्विमोक्षार्थं किं कार्यं ते मयाधुना ॥
इति पृष्टा सुतेनाथ विनता तमभाषत ॥३८॥
सर्पान्पृच्छस्व गरुड मम मातृविमोक्षणे ॥
युष्माकं मातुः किं कार्यं मयेति वदताधुना ॥३९॥
इति मात्रा समुदितो गरुडः पन्नगान्प्रति ॥
गत्वाऽपृच्छद्विज श्रेष्ठास्तेऽप्येनमवदंस्तदा ॥४०॥
यदा हरिष्यसे शीघ्रं सुधां त्वममरालयात् ॥
दास्यान्मुक्ता भवेन्माता वैनतेय तवाद्य हि ॥४१॥
ततो मातरमागम्य गरुडः प्रणतोऽब्रवीत् ॥
सुधामंब ममानेतुं गच्छतो भक्ष्यमर्पय ॥४२॥
इतीरिता सुतं प्राह माता तं विनता सुतम् ॥
समुद्रमध्ये वर्तंते शबराः कतिचित्सुत ॥४३॥
तान्भक्षयित्वा शबरानमृतं त्वमिहानय ॥
तत्र कश्चिद्द्विजः कामी शवरीसंगकौतुकी ॥४४॥
त्यज तं ब्राह्मणं कंठं दहंतं ब्रह्मतेजसा ॥
पक्षादीनि तवांगानि पांतु देवा मरुन्मुखाः ॥४५॥
इति स्वमातुराशीर्भिर्गरुडो वर्धितो ययौ ॥
शबरालयमभ्येत्य तस्य भक्षय तो मुखम् ॥४६॥
आवृतं प्राविशन्व्याधा वयांसीव दरीं गिरेः ॥
अथ स ब्राह्मणोऽप्यागात्तत्कंठं मुनिपुंगवाः ॥४७॥
कण्ठं दहन्तं विप्रं तमुवाच विनतासुतः ॥
विप्र पापोऽप्यवध्यो हि निर्याहि त्वमतो बहिः ॥४८॥
एवमुक्तस्तदा विप्रो गरुडं प्रत्यभाषत ॥
किराती मम भार्यापि निर्गंतव्या मया सह ॥४९॥
एवमस्त्विति तं विप्रमुवाच पतगेश्वरः ॥
ततः स गरुडो विप्रमुज्जगार सभार्यकम् ॥५०॥
विप्रोऽप्यभीप्सितान्देशान्निषाद्या सह निर्ययौ ॥
शबरान्भक्षयित्वाऽथ गरुडः पक्षिणां वरः ॥५१॥
आत्मनः पितरं वेगात्कश्यपं समुपेयिवान् ॥
कुत्र यासीति तत्पृष्टो गरुडस्तम भाषत ॥५२॥
मातुर्दास्यविमोक्षाय सुधामाहर्तुमागमम् ॥
बहून्किराताञ्जग्ध्वापि तृप्तिर्मम न जायते ॥५३॥
अपर्यंतक्षुधा ब्रह्मन्बाधते मामह र्निशम् ॥
तन्निवृत्तिप्रदं भक्ष्यं ममार्पय तपोधन ॥५४॥
येनाहं शक्नुयां तात सुधामाहर्तुमोजसा ॥
इतीरितः सुतं प्राह कश्यपो विनतोद्भवम् ॥५५॥
॥कश्यप उवाच ॥
मुनिर्विभावसुर्नाम्ना पुरासीत्तस्य सानुजः ॥
सुप्रतीक इति भ्राता तावुभौ वंशवैरिणौ ॥५६॥
अन्योन्यं शेपतुर्विप्रा महाक्रोधसमाकुलौ ॥
गजोऽभवत्सुप्रतीकः कूर्मोऽभूच्च विभावसुः ॥५७॥
एवं वित्तविवादात्तौ शेपतुर्भ्रातरौ मिथः ॥
गजः षड्यो जनोच्छ्रायो द्विगुणायामसंयुतः ॥५८॥
कूर्मस्त्रियोजनोच्छ्रयो दशयोजनविस्तृतः ॥
बद्धवैरावुभावेतौ सरस्यस्मिन्विहंगम ॥५९॥
पूर्ववैरमनुस्मृत्य युध्येते जेतुमिच्छया ॥
उभौ तौ भक्षयित्वा त्वं सुधामाहर तृप्तिमान् ॥६०॥
एवं पित्रेरितः पक्षी गत्वा तद्गजकच्छपौ ॥
समुद्धत्य महाकायौ महाबलपराक्रमौ ॥६१॥
वहन्नखाभ्यां संतीर्थं विळंबाभिधमभ्यगात् ॥
तत्रागतं समालोक्य पक्षिराजं द्विजोसमाः ॥६२॥
तत्तीरजो महावृक्षो रोहिणाख्यो महोच्छ्रयः ॥
वैनतेयमिदं प्राह महाबलपराक्रमम् ॥६३॥
एनामारुह मच्छाखां शतयोजनमायताम् ॥
स्थित्वात्र गजकूर्मौ त्वं भक्षयस्व खगोत्तम ॥६४॥
इत्युक्तस्तरुणा पक्षी स तत्रास्ते मनोजवः ॥
तद्भारात्सा तरोः शाखा भग्नाऽभूद्द्विजसत्तमाः ॥६५॥
वालखिल्यमुनींस्तस्मिल्लँबमानानधोमुखान् ॥
दृष्ट्वा तत्पातशंकावाँस्तां शाखां गरुडोऽग्रहीत् ॥६६॥
गजकूर्मो च तां शाखां गृहीत्वा यांतमं बरे ॥
पिता तस्याब्रवीत्तत्र गरुडं विनतासुतम् ॥६७॥
त्यजेमां निर्जने शैले शाखां तं विनतोद्भव ॥
इत्युक्तः स तथा गत्वा शाखां निष्पुरुषे नगे ॥६८॥
विन्यस्याभक्षयत्पक्षी तौ तदा गजकच्छपौ ॥
अथोत्पातः समभवत्तस्मिन्नवसरे दिवि ॥६९॥
दृष्ट्वोत्पातं बलारातिः पप्रच्छ स्वपुरोहितम् ॥
उत्पातकारणं जीव किमत्रेति पुनःपुनः ॥
बृहस्पतिस्तदा शक्रं प्रोवाच द्विजसत्तमाः ॥७०॥
॥ बृहस्पतिरुवाच ॥
काश्यपो हि मुनिः पूर्वमयजत्क्रतुना हरे ॥७१॥
सर्वान्नृषीन्सुरान्सिद्धान्यक्षान्गंधर्वकिन्नरान् ॥
यज्ञसंभारसिद्ध्यर्थं प्रेषयामास स द्विजाः॥ ७२॥
वालखिल्यान्ससंभारान्ह्रस्वानंगुष्ठमात्रकान् ॥
मज्जतो गोष्पदजले दृष्ट्वा हसितवान्भवान् ॥७३॥
भवतावमताः क्रुद्धा वालखिल्यास्तदा हरे ॥
जुहुवुर्यज्ञवह्नौ ते क्रोधेन ज्वलिताननाः ॥७४॥
देवेंद्रभयदः शत्रुः कश्यपस्य सुतोऽस्त्विति ॥
तस्य पुत्रोऽद्य गरुडः सुधाहरणकौतुकी ॥७५॥
समागच्छति तद्धेतुरयमुत्पात आगतः ॥
इत्युक्तः सोऽब्रवीदिंद्रो देवानग्निपुरोगमान् ॥७६॥
सुधामाहर्तुमायाति पक्षी सा रक्ष्यतामिति ॥
इतींद्रप्रेरिता देवा ररक्षुः सायुधाः सुधाम् ॥७७॥
पक्षिराजस्तदाभ्यागाद्देवानायुधधारिणः ॥
महाबलं ते गरुडं दृष्ट्वाऽकम्पंत वै सुराः ॥७८॥
गरुडस्य सुराणां च ततो युद्धमभून्महत् ॥
अखंडि पक्षितुण्डेन भौवनोऽमृतपालकः ॥७९॥
तदा निजघ्नुगर्रुडं देवाः शस्त्रैरनेकशः ॥
अतीव गरुडो देवैर्बाधितः शस्त्रपाणिभिः ॥८०॥
पक्षाभ्यामाक्षिपद्दूरे देवानग्निपुरोगमान् ॥
तत्पक्षविक्षिता देवास्तदा परमकोपनाः ॥८१॥
नाराचान्भिंदि पालांश्च नानाशस्त्राणि चाक्षिपन् ॥
ततस्तु गरुडो वेगाद्देवदृष्टिविलोपिनीम् ॥८२॥
धूलिमुत्थापयामास पक्षाभ्यां विनतासुतः ॥वायुना
शमयामासुस्तान्पांसूंस्त्रिदशोत्तमाः ॥८३॥
रुद्रान्वसूंस्तथादित्यान्मरुतोऽन्यान्सुरांस्तथा ॥
गरुडः पक्षतुंडाभ्यां व्यथितानकरोद्द्विजाः ॥८४॥
पलायितेषु देवेषु सोऽद्राक्षीज्ज्वलनं पुरः ॥
ज्वलंतं परितस्त्वग्निं शमापयितुमुद्ययौ॥ ८५॥
स सहस्रमुखो भूत्वा तैः पिबञ्छतशो नदीः ॥
तमग्निं नाशयामास तैः पयोभिस्त्वरान्वितः ॥८६॥
सितधारं भ्रमच्चक्रं सुधारक्षकमंतिके ॥
दृष्ट्वा तदरिरंध्रेण संक्षिप्तांगोतराविशत् ॥८७॥
ततो ददर्श द्वौ सर्पो व्यक्तास्यौ भीषणाकृती.॥
याभ्यां दृष्टोपि भस्म स्यात्तौ सर्पौ गरुडस्तदा ॥८८॥
आच्छिद्य पक्षतुंडाभ्यां गृहीत्वाऽमृतमुद्ययौ ॥
यंत्रमुत्पाट्य चोद्यंतं गरुडं प्राह माधवः ॥८९॥
तव तुष्टोऽस्मि पक्षीश वरं वरय सुव्रत ॥
अथ पक्षी तमाह स्म कमलानायकं हरिम् ॥९०॥
तवोपरि स्थितिर्मे स्यान्मा भूतां च जरामृती ॥
तथास्त्विति हरिः प्राह वरं मद्व्रियतामिति ॥९१॥
इत्युक्तस्तं हरिः प्राह मम त्वं वाहनं भव ॥
स्यंदनोपरि केतुश्च मम त्वं विनतासुत ॥९२॥
तथास्त्विति खगोप्याह कमलापतिमच्युतम् ॥
हृतामृतं खगं श्रुत्वा तत आखंडलो जवात् ॥९३॥
अभिद्रुत्याशु कुलिशं पक्षे चिक्षेप पक्षिणः ॥
ततो विहस्य गरुडः पाकशासनमब्रवीत् ॥९४॥
कुलिशस्य निपातान्मे न हरे कापि वेदना ॥
सफलो वज्रपातस्ते भूयाच्च सुरनायक ॥९५॥
इतीरयन्पत्रमेकं व्यसृजत्पक्षतस्तदा ॥
शोभनं पर्णमस्येति सुपर्ण इति सोभ वत् ॥९६॥
तस्मिन्सुपर्णे हेमाभे सर्वे विस्मयमाययुः ॥
ततस्तु गरुडः शक्रमब्रवीद्द्विजपुंगवाः ॥९७॥
भवता साकमखिलं जगदेतच्चराचरम् ॥
देवेंद्र सततं वोढुममोघा शक्तिरस्ति मे ॥९८॥
नाखण्डलसहस्रं मे रणे लभ्यं हरे भवेत् ॥
इति ब्रुवाणं गरुडमब्रवीत्पाकशासनः ॥९९॥
किं तेऽमृतेन कार्यं स्याद्दीयताममृतं मम ॥
इमां सुधां भवान्दद्याद्येभ्यो हि विनतोद्भव ॥१००॥
तेऽधुनाऽमृतपानेन जरामरणवर्जिताः ॥
अस्मद्भ्योऽधिकवीर्याः स्युर्बाधेरंस्त्रिदशांस्तथा ॥१॥
इति ब्रुवंतं देवेन्द्रं गरुडोऽप्यब्रवीद्द्विजाः ॥
यत्रैतत्स्थापयिष्यामि तत्रागत्य भवानिदम् ॥२॥
गृह्णातु झटितीत्युक्तो गरुडं प्राह वृत्रहा ॥
प्रीतोऽहं तव दास्यामि वरं वृणु महामते ॥३॥
इत्युक्तवन्तं गरुडः पाकशासनमब्रवीत् ॥
दास्ये छलप्रयोक्तारो मम मातुः सरीसृपाः ॥४॥
भक्ष्या भवंतु नित्यं मे पाकशासन वृत्रहन् ॥
इति तेनेरितः शकस्तथास्त्वित्यवदच्च तम् ॥५॥
अथायं गरुडो विप्रा धारयन्नमृतं ययौ ॥
यांतं तमनुयाति स्म गरुडं पाकशासनः ॥६॥
वेगेन स द्विजश्रेष्ठाः सुधाहरणकौतुकी ॥
मातुरभ्याशमागत्य सर्पान्प्राह स पक्षिराट् ॥७॥
कुशेषु न्यस्यते सर्पास्सुधैवमधुना मया ॥
स्नात्वा तद्भुङ्ध्वममृतं शुचयः सुसमाहिताः ॥८॥
मोक्षोऽपि मम मातुः स्याद्दासीभावाद्धि पन्नगाः ॥
तथास्त्वित्यवदन्सर्पा गरुडं विनतासुतम् ॥९॥
मुक्ता तदैव विनता दासीभावाद्द्विजोत्तमाः ॥
सर्पास्तेऽमृतभक्षार्थं स्नातुं सर्वे ययुस्तदा ॥११०॥
तस्मिन्नवसरे शक्रस्तामादाय सुधां ययौ ॥
स्नात्वागत्य भुजंगास्ते तत्रादृष्ट्वा तदा सुधाम् ॥११॥
जिह्वाभिर्लिलिहुर्द र्भानेषु न्यस्ता सुधेति हि ॥
तदाप्रभृति सर्पाणां जिह्वा दर्भाग्रपाटिताः ॥१२॥
द्विधाभवन्मुनिश्रेष्ठा द्विजिह्वास्तेन ते स्मृताः॥
सुधासंयोगतो दर्भाः प्रय युश्च पवित्रताम् ॥१३॥
मोचयित्वा च गरुडो दासीभावात्स्वमातरम् ॥
शशापकुपितः कद्रूं छद्मना जितमातरम् ॥१४॥
कद्रूस्त्वं जननीं यन्मे छलेन जितवत्यसि ॥
भर्तुस्त्वं परिचर्यायामतो नार्हा भविष्यसि ॥१५॥
शप्त्वैवं गरुडः कद्रूं प्रययौ स यथेच्छया ॥
कद्रूश्च विनता चोभे ययतुर्भर्तुरंतिकम् ॥१६॥
कश्यपो विमुखस्तत्र कद्रूं कोपादथाब्रवीत् ॥
यस्माच्छलेन विनतां कद्रूर्निर्जितवत्यसि ॥१७॥
अतो मत्परिचर्यायां न योग्यासि दुरात्मिके ॥
स्त्रियं वा पुरुषं वापि नारी वा पुरुषोऽपि वा ॥१८॥
छलाद्विजयते योऽसौ स महापातकी भवेत् ॥
छलाद्विजयिना सार्धं संभाष्य ब्रह्महा भवेत् ॥१९॥
स्तेयी सुरापी विज्ञेयो गुरुदाररतश्च सः ॥
संसर्गदोषदुष्टश्च मुनिभिः परिकीर्त्यते ॥१२०॥
त्वया संभाषणाद्दोषो मम स्यान्नरकप्रदः ॥
तस्मात्प्रयाहि कद्रूस्त्वं मत्समीपाद्धि दारुणे ॥२१॥
छलजेत्रा सपंक्तौ यो भुंजीत मनुजो भुवि ॥
तेन संभाषणात्सद्यः पतेद्धि नरकार्णवे ॥२२॥
विलोक्य च्छलजेतारं तस्य पापस्य शांतये ॥
आदित्यं वा जलं वापि पावकं वा विलोकयेत् ॥२३॥
छलजेता यत्र तिष्ठेदाश्रमेऽपि गृहेऽपिवा ॥
वस्तव्यं न हि तत्रान्यैर्वसन्नरकमश्नुते ॥२४॥
अतो निर्याहि निर्याहि मम त्वं दृष्टिमार्गतः ॥
स्वाश्रमात्सरलामेनां विनतां जितवत्यसि ॥२५॥
इति धिक्कृत्य सहसा कद्रूं तां कश्यपस्तदा ॥
विनतां स्वच्छशीलां तां स्वीचकार महामतिः ॥२६॥
कद्रूरित्थं सपरुषं कथिता कश्यपेन सा ॥
रुदंती भृशदुःखार्ता पादयोस्तस्य चापतत् ॥२७॥
पतितां पादयोर्दृष्ट्वा कश्यपो मुनिपुंगवः ॥
न जग्राहैव कद्रूं तां स्मरन्पापं तया कृतम् ॥२८॥
ततः प्रणम्य विनता कश्यपं वाक्यमब्रवीत् ॥
भगवन्भगिनीमेनां स्वीकुरुष्व कृपानिधे ॥२९॥
अज्ञानान्मुग्धया पापं कद्र्वा यदधुना कृतम्॥
क्षंतुमर्हसि तत्सर्वं दयाशीला हि साधवः ॥१३०॥
जनन्या गरुडस्यैव कथितः कश्यपो मुनिः ॥
उवाच विनते नैनां विना पापस्य निष्कृतिम् ॥३१॥
ग्रहीष्यामि दुराचारां त्रिस्त्वां शपथयाम्यहम् ॥
कश्यपस्य वचः श्रुत्वा विनता पुनरब्रवीत् ॥३२॥
भगिन्या मम पापस्य ब्रह्मंस्त्वं ब्रूहि निष्कृतिम् ॥
येनेयं परिचर्यायां तव योग्या भविष्यति ॥३३॥
तयैवमुदितो विप्रा मारीचः कश्यपस्तदा ॥
ध्यात्वा मुहूर्तं मनसा पश्चादिदमभाषत ॥३४॥
दक्षिणांबुनिधेस्तीरे फुल्लग्रामे विमुक्तिदे ॥
अस्ति क्षीरसरोनाम तीर्थं पापविनाशनम् ॥६५॥
तत्तीर्थस्नानमात्रेण दोषश्चास्या विनश्यति ॥
प्रायश्चित्तायुतेनापि तत्तीर्थे मज्जनं विना ॥३६॥
न नश्यत्येष दोषो ऽस्यास्तदेषा यातु तत्सरः ॥
भर्त्रैवमुदिते कद्रूस्तं प्रणम्य द्विजोत्तमम् ॥३७॥
तत्क्षणात्प्रययौ क्षीरं सरः पुत्रसहायिनी ॥
सा कद्रूः पुत्र सहिता गत्वा कतिपयैर्दिनैः ॥३८॥
प्राप्य क्षीरसरः पुण्यं प्रयता विजितेंद्रिया ॥
सस्नौ नियमपूर्वं च संकल्प्य क्षीरकुंडके ॥३९॥
उपोष्य त्रिदिनं सस्नौ तस्मिन्क्षीरसरोजले ॥
चतुर्थे दिवसे तस्यां कुर्वत्यां स्नानमादरात् ॥
अदेहा व्योमगावाणी समुत्तस्थौ द्विजोत्तमाः ॥१४०॥
अशरीरिण्युवाच ॥
कद्रूस्त्वं मज्जनादत्र च्छलजेतृत्वदोषतः ॥४१॥
विमुक्ता भर्तृशुश्रूषायोग्या चासि न संशयः ॥
शापोपि गरुडोक्तस्ते लयं यातोऽत्र मज्जनात् ॥४२॥
गच्छ भर्तृसकाशं त्वं सोऽपि त्वां स्वीकरिष्यति ॥
इत्युक्त्वा विररामाथ व्योमवागशरीरिणी ॥४३॥
तस्यै वाचे नमस्कृत्य कद्रूः सा प्रीतमानसा ॥
तीर्थं प्रदक्षिणीकृत्य नत्वा पुत्रसमन्विता ॥४४॥
प्रययौ भर्तुरभ्याशं तच्छुश्रूषणकौतुकात् ॥
आगतातां समालोक्य स्नातां क्षीरसरोजले ॥४५॥
ज्ञात्वा विधूतपापां च कश्यपः स समाधिना ॥
अंगीचकार पत्नीं तामात्मशुश्रूषणोचि ताम् ॥४६॥
एवं वः कथितं विप्राः कद्रूपापविमोक्षणम् ॥
मज्जनान्मुक्तिदं पुंसां पुण्ये क्षीरसरोजले ॥४७॥
यः शृणोतीममध्यायं पठते वापि मानवः ॥
स क्षीरकुंडस्नानस्य लभते फलमुत्तमम् ॥४८॥
अश्वमेधादियज्ञानां समग्रं फलमश्नुते ॥
गंगादिसर्वतीर्थेषु स स्नातो भवति ध्रुवम् ॥४९॥
यः पठेदिममध्यायं क्षीरकुंडप्रशंसनम् ॥
गोसहस्रप्रदातॄणां प्राप्नोत्यविकलं फलम् ॥१५०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशसायां कद्रूकृतच्छलदोषशांतिकथावर्णनं-नामाष्टत्रिंशोऽध्यायः ॥३८॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP