संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ४ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४ Translation - भाषांतर ॥ ऋषय ऊचुः ॥भगवन्राक्षसः कोऽसौ सूत पौराणिकोत्तम॥विष्णुभक्तं महात्मानं यो गालवमबाधत ॥१॥श्रीसूत उवाच॥वक्ष्यामि राक्षसं क्रूरं तं विप्राः शृणुतादरात् ॥यथा स राक्षसो जातो मुनीनां शापवैभवात् ॥२॥पुरा कैलासशिखरे हालास्ये शिवमंदिरे ॥चतुर्विशतिसाहस्रा मुनयो ब्रह्मवादिनः ॥३॥वसिष्ठात्रिमुखाः सर्वे शिवभक्ता महौजसः ॥भस्मोद्धूलितसर्वांगास्त्रिपुंड्रांकितमस्तकाः ॥४॥रुद्राक्ष मालाभरणाः पंचाक्षरजपे रताः ॥हालास्यनाथं भूतेशं चंद्रचूडमुमापतिम् ॥५॥उपासांचक्रिरे मुक्त्यै मधुरापुरवासिनः ॥कदाचित्तत्र गंधर्वो विश्वावसुसुतो बली ॥६॥दुर्द्दमोनाम विप्रेंद्रा विटगोष्ठीपरायणः ॥ललनाशतसंयुक्तो विवस्त्रः सलिलाशये ॥७॥चिक्रीड स विवस्त्राभिः साकं युवतिभिर्मुदा ॥हालास्यनाथतीर्थं तद्वसिष्ठो मुनिभिः सह ॥८॥माध्यंदिनं कर्तुमना ययौ शंकरमंदिरात् ॥तानृषीनवलोक्याथ रामास्ता भयकातराः ॥९॥वासांस्याच्छादयामासुर्दुर्द्दमो न तु साहसी ॥ततो वसिष्ठः कुपितः शशापैनं गत त्रपम् ॥१०॥॥ वसिष्ठ उवाच ॥यस्माद्दुर्दम गंधर्व दृष्ट्वास्माँल्लज्जया त्वया ॥वासो नाच्छादितं शीघ्रं याहि राक्षसतां ततः ॥११॥इत्युक्त्वा ता स्त्रियः प्राह वसिष्ठो मुनिपुंगवः ॥यस्मादाच्छादितं वस्त्रं दृष्ट्वास्माँल्ललनोत्तमाः ॥१२॥ततो न युष्माञ्छपिष्यामि गन्छध्वं त्रिदिवं ततः ॥एवमुक्ता वसिष्ठेन रामाः प्रांजलयस्तदा ॥१३॥प्रणिपत्य वसिष्ठं तं भक्तिनम्रेण चेतसा ॥मुनिमंडलमध्ये तं वसिष्ठमिदमब्रुवन् ॥१४॥॥ रामा ऊचुः ॥भगवन्सर्वधर्मज्ञ चतुरानननंदन ॥दयासिंधोऽवलोक्यास्मान्न कोपं कर्तुमर्हसि ॥१५॥पतिरेवहि नारीणां भूषणं परमुच्यते ॥पतिहीना तु या नारी शतपुत्रापि सा मुने ॥१६॥विधवेत्युच्यते लोके तत्स्त्रीणां मरणं स्मृतम् ॥तत्प्रसादं कुरु मुने पत्यावस्माक मादरात् ॥१७॥एकोऽपराधः क्षंतव्यो मुनिभिस्तत्त्वदर्शिभिः ॥क्षमां कुरु दयासिंधो युष्मच्छिष्येऽत्र दुर्दमे ॥१९॥वसिष्ठः प्रार्थितस्त्वैवं दुर्दम स्यांगनाजनैः ॥प्रोवाच वचनं भूयः प्रसन्नः स द्विजोत्तमाः ॥१९॥न मे स्याद्वचनं मिथ्या कदाचिदपि सुभ्रुवः ॥उपायं वः प्रवक्ष्यामि शृणुध्वं श्रद्धया सह ॥२०॥षोडशाब्दावधिः शापो भर्तुर्वो भविता ध्रुवम् ॥षोडशाब्दावधौ चैष दुर्दमो राक्षसाकृतिः ॥२१॥यदृच्छयाचक्र तीर्थं गमिष्यति सुरांगनाः ॥आस्ते तत्र महायोगी गालवो विष्णुतत्परः ॥२२॥भक्ष्यार्थं तं मुनिं सोऽयं राक्षसोभिगमिष्यति ॥ततो गालवरक्षार्थं प्रेरितं चक्रमुत्तमम्॥२३॥विष्णुनास्य शिरो रामा हरिष्यति न संशयः॥ततः स्वरूपमासाद्य शापान्मुक्तः सुदुर्दमः ॥२४॥पतिर्वस्त्रिदिवं भूयो गंतास्त्यत्र न संशयः ॥ततस्त्रिदिवमासाद्य दुर्द्दमोऽयं पतिर्हि वः ॥२५॥रमयिष्यति सुन्दर्यो युष्मान्सुन्दरवेषभृत् ॥॥ श्रीसूत उवाच ॥इत्युक्त्वा तु वसिष्ठस्ता दुर्दमस्य वरांगनाः ॥२६॥स्वाश्रमं प्रययौ तूर्णं हालास्येश्वरभक्तिमान् ॥अथ रामास्तमालिंग्य दुर्द्दमं पतिमातुराः ॥२७॥रुरुदुः शोकसंविग्ना दुःखसागरमध्यगाः ॥प्रपश्यंतीषु तास्वेव दुर्दमो राक्षसोऽभवत् ॥२८॥महादंष्ट्रो महाकायो रक्तश्मश्रुशिरोरुहः ॥तं दृष्ट्वा भयसंविग्ना जग्मू रामास्त्रिविष्टपम् ॥२९॥ततो राक्षसवेषोऽयं दुर्दमो भैरवाकृतिः ॥भक्षयन्प्राणिनः सर्वान्देशाद्देशं वनाद्वनम्॥३०॥भ्रमन्न निलवेगोऽसौ धर्मतीर्थं ततो ययौ ॥एवं षोडशवर्षाणि भ्रमतोऽस्य ययुस्तदा ॥३१॥ततस्तु षोडशाब्दांते राक्षसोयं मुनीश्वराः ॥भक्षितुं गालवमुनिं धर्मतीर्थनिवासिनम् ॥३२॥उपाद्रवद्वायुवेगः सचास्तौषीज्जनार्दनम् ॥गालवेन स्तुतो विष्णुस्तदा चक्रमचोदयत् ॥३३॥रक्षितुं गाल वमुनिं राक्षसेन प्रपीडितम् ॥अथागत्य हरेश्चक्रं राक्षसस्य शिरोऽहरत् ॥३४॥ततोऽयं राक्षसं देहं त्यक्त्वा दिव्यकलेवरः ॥विमानवरमारुह्य दुर्दमः पुष्पवर्षितः ॥३५॥प्रांजलिः प्रणतो भूत्वा ववन्दे तं सुदर्शनम् ॥तुष्टाव श्रुतिरम्याभिर्वाग्भिरग्र्याभिरादरात् ॥३६॥॥ दुर्दम उवाच ॥सुदर्शन नमस्तेऽस्तु विष्णुहस्तैकभूषण ॥नमस्तेऽसुरसंहर्त्रे सहस्रादित्यतेजसे ॥३७॥कृपालेशेन भवतस्त्यक्त्वाहं राक्षसीं तनुम् ॥स्वरूपमभजं विष्णोश्चक्रायुध नमोऽस्तु ते ॥३८॥अनुजानीहि मां गन्तुं त्रिदिवं विष्णुवल्लभ ॥भार्या मे परिशोचंति विरहातुरचेतसः ॥३९॥ त्वन्मनस्को भविष्यामि यावज्जीवं यथाह्यहम् ॥तथा कृपां कुरुष्व त्वं मयि चक्र नमोऽस्तु ते ॥४०॥एवं स्तुतं विष्णुचक्रं दुर्दमेन सभक्तिकम् ॥अनुजग्राह सहसा तथास्त्विति मुनीश्वराः ॥४१॥चक्रायुधाभ्यनुज्ञातो दुर्दमो गालवं मुनिम् ॥प्रणम्य तेनानुज्ञातो गन्धर्वस्त्रिदिवं ययौ ॥४२॥दुर्दमे तु गते स्वर्गं गालवो मुनिपुंगवः ॥स चक्रं प्रार्थयामास विष्ण्वायुधमनुत्तमम् ॥४३॥चक्रायुध नमामि त्वां महासुरविमर्द्दन ॥देवीपट्टण पर्यंते धर्मतीर्थे ह्यनुत्तमे ॥४४॥सन्निधानं कुरुष्व त्वं सर्वपापविनाशनम् ॥त्वत्सन्निधानात्सर्वेषां स्नातानां पापिनामिह ॥४५॥पापनाशं कुरुष्व त्वं मोक्षं च कुरु शाश्वतम् ॥चक्रतीर्थमिति ख्यातिं लोकस्य परिकल्पय ॥४६॥त्वत्सन्निधानादत्रत्यमुनीनां भयनाशनम् ॥इतः परं भवत्वार्य चक्रायुध नमोऽस्तु ते ॥४७॥भूतप्रेतपिशाचेभ्यो भयं मा भवतु प्रभो ॥इति संप्रार्थितं चक्रं गालवेन मुनीश्वराः ॥४८॥तथैवा स्त्विति सम्भाष्य तस्मिंस्तीर्थे तिरोहितम् ॥॥ श्रीसूत उवाच ॥एवं वः कथितो विप्रा राक्षसस्स भवो मया ॥४९॥माहात्म्यं चक्र तीर्थस्य कथितं च मलापहम्॥यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते मानवो भुवि ॥५०॥॥ ऋषय ऊचुः ॥व्यासशिष्य महाप्राज्ञ सूत पौराणिकोत्तम ॥आरभ्य दर्भशयनमादेवीपत्तनावधि ॥५१॥बहुव्यायामसंयुक्तं चक्रतीर्थमनुत्तमम् ॥ययौ विच्छिन्नतां मध्ये कथं कथय सांप्रतम् ॥५२॥एनं मनसि तिष्ठन्तं संशयं छेत्तुमर्हसि ॥॥ श्रीसूत उवाच ॥पुरा हि पर्वताः सर्वे जातपक्षा मनोजवाः ॥५३॥पर्यंतपर्वतै सार्द्धं चेरुराकाशमार्गगाः ॥नगरेषु च राष्ट्रेषु ग्रामेषु च वनेषु च ॥५४॥आप्लुत्याप्लुत्य तिष्ठंति पर्वताः सर्वतो भुवि ॥आक्रम्याक्रम्य तिष्ठंति यत्रयत्र महीधराः ॥५५॥तत्रतत्र नरा गावस्तथान्ये प्राणिसंचयाः ॥मरणं सहसा प्रापुः पीड्यमाना महीधरैः ॥५६॥ब्राह्मणादिषु वर्णेषु नष्टेषु समनन्तरम् ॥यज्ञाद्यभावात्सहसा देवता व्यसनं ययुः ॥५७॥तत इन्द्रो महाक्रुद्धो वज्रमादाय वेगवान् ॥चिच्छेद सहसा पक्षान्पर्वतानां तरस्विनाम् ॥५८॥छिद्यमानच्छदाः सर्वे वासवेन महीधराः ॥अनन्यशरणा भूत्वा समुद्रं प्राविशन्भयात् ॥५९॥अचलेषु च सर्वेषु पतत्सु लवणार्णवे ॥निपेतुरर्णवभ्रांत्या चक्रतीर्थेपि केचन ॥६०॥पतितैः पर्वतैस्तैस्तु मध्यतः पूरितोदरम् ॥चक्रतीर्थं महापुण्यं मध्ये विच्छेदमाययौ ॥६१॥यदृच्छया महाशैलाः पार्श्वयोस्तत्र नापतन् ॥अतो वै दर्भशयने तथा देवीपुरेऽपि च ॥६२॥विच्छिन्नमध्यं तद्द्वेधा विभक्तमिव दृश्यते ॥मध्यतः पतितैः शैलैश्चक्रतीर्थं स्थलीकृतम् ॥६३॥॥ श्रीसूत उवाच ॥युष्माकमेवं कथितं मुनीन्द्रा यन्मध्यतस्तीर्थमिदं स्थली कृतम् ॥यथा महीध्राः सहसा बिडौजसा विच्छिन्नपक्षा इह पेतुरुन्नताः ॥६४॥इति श्रीस्कांदेमहापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये दुर्दमगंधर्वशापमोचनंनाम चतुर्थोऽध्यायः ॥४॥ N/A References : N/A Last Updated : November 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP