संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय ३९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
अथातः संप्रवक्ष्यामि कपितीर्थस्य वैभवम् ॥
तत्तीर्थं सकलैः पूर्वं गंधमादनपर्वते ॥१॥
सर्वेषामुपकाराय कपिभिर्निर्मितं द्विजाः ॥
रावणादिषु रक्षःसु हतेषु तदनंतरम् ॥२॥
तीर्थं निर्माय तत्रैव सस्नुस्ते कपयो मुदा ॥
तीर्थाय च वरं प्रादुः कपयः कामरूपिणः ॥३॥
अस्मिंस्तीर्थे निमग्ना ये भक्तिप्रवणचेतसः ॥
ते सर्वे मुक्तिभाजः स्युर्महापातकमोचिताः ॥४॥
अत्र तीर्थे निमग्नानां न स्यान्नरकजं भयम् ॥
अत्र स्नाता नराः सर्वे दारिद्रयं नाप्नुवंति हि ॥५॥
अत्र तीर्थे निमग्नानां यमपीडापि नो भवेत् ॥
कपितीर्थं प्रयास्येऽहमिति यः सततं ब्रुवन् ॥६॥
व्रजेच्छतपदं विप्राः स यायात्परमं पदम् ॥
एतत्तीर्थसमं तीर्थं न भूतं न भविष्यति ॥७॥
एवं वरं तु ते दत्त्वा तीर्थायास्मै कपीश्वराः ॥
रामं दाशरथिं सर्वे प्रणम्याथ ययाचिरे ॥८॥
स्वामिंस्त्वयास्मै तीर्थाय दीयतां वरमद्भुतम्॥
कपिभिः प्रार्थितो विप्रा रामचंद्रोऽतिहर्षितः ॥९॥
तत्तीर्थाय वरं प्रादात्कपीनां प्रीतिकारणात् ॥
अत्र तीर्थे निमग्नानां गंगास्नानफलं लभेत् ॥१०॥
प्रयागस्नानजं पुण्यं सर्वतीर्थफलं तथा ॥
अग्निष्टोमादियागानां फलं भूयादनुत्तमम् ॥११॥
गायत्र्यादिमहामंत्रजपपुण्यं तथा भवेत् ॥
गोसहस्रप्रदनृणां प्राप्नोत्यविकलं फलम् ॥१२॥
चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
ब्रह्मविष्णुमहेशादिदेवपूजाफलं लभेत् ॥१३॥
कपितीर्थाय रामोयं प्रादादेवं वरं द्विजाः ॥
एवं रामेण दत्ते तु वरे तत्र कुतूहलात् ॥१४॥
षडर्धनयनो ब्रह्मा सहस्राक्षो यमस्तथा ॥
वरुणोग्निस्तथा वायुः कुबेरश्चंद्रमा अपि ॥१५॥
आदित्यो निर्ऋतिश्चैव साध्याश्च वसवस्तथा ॥
अन्येऽपि त्रिदशाः सर्वे विश्वेदेवादयस्तथा ॥१६॥
अत्रिर्भृगुस्तथा कुत्सो गौतमश्च पराशरः ॥
कण्वोऽगस्त्यः सुतीक्ष्णश्च विश्वामित्रादयोऽपरे ॥१७॥
योगिनः सनकाद्याश्च नारदाद्याः सुरर्षयः ॥
रामदत्तवरं तीर्थं श्लाघंते बहुधा तदा ॥१८॥
सस्नुश्च तत्र तीर्थे ते सर्वाभीष्टप्रदायिनि ॥
कपिभिर्निर्मितं यस्मादेतत्तीर्थमनुत्तमम् ॥१९॥
कपितीर्थमिति ख्यातिमतो लोके प्रयास्यति॥
इत्यप्यवोचंस्ते सर्वे देवाश्च मुनयस्तथा ॥२०॥
तस्मादवश्यं गंतव्यं कपितीर्थं मुमुक्षुभिः ॥
रंभा कौशिकशापेन शिलाभूता पुरा द्विजाः ॥२१॥
तत्र स्नात्वा निजं रूपं प्रपेदे च दिवं ययौ ॥
अस्य तीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥२२॥
॥ मुनय ऊचुः ॥
रंभां किमर्थमशपत्कौशिकः सूतनंदन ॥
कथं गता शिलाभूता कपितीर्थं सुरांगना ॥
एतन्नः सर्वमाचक्ष्व विस्तरान्मुनिसत्तम ॥२३॥
॥ श्रीसूत उवाच ॥
विश्वामित्राभिधो राजा प्रागभूत्कुशिकान्वये ॥२४॥
स कदाचिन्महाराजः सेनापरिवृतो बली ॥
मेदिनीं परिचक्राम राज्यवीक्षणकौतुकी ॥२५॥
अटित्वा स बहून्देशान्वसिष्ठस्याश्रमं ययौ ॥
आतिथ्याय वृतः सोऽयं वसिष्ठेन महात्मना ॥२६॥
तथास्त्वित्यब्रवीत्सोयं दंडवत्प्रणतो नृपः ॥
कामधेनुप्रभावेन विश्वामित्राय भूभुजे ॥२७॥
आतिथ्यमकरोद्विप्रा वसिष्ठो ब्रह्मनंदनः ॥
कामधेनुप्रभावं वै ज्ञात्वा कुशिकनंदनः ॥२८॥
वसिष्ठं प्रार्थयामास कामधेनुमभीष्टदाम् ॥
प्रत्याख्यातो वसिष्ठेन प्रचकर्ष च तां बलात् ॥२९॥
कामधेनुविसृष्टैस्तु म्लेच्छाद्यैः स पराजितः ॥
महादेवं समाराध्य तस्मादस्त्राण्यवाप्य च ॥३०॥
वसिष्ठस्याश्रमं गत्वा व्यसृजच्छरसंचयान् ॥
सर्वाण्यस्त्राणि मुमुचे ब्रह्मास्त्रं च नृपोत्तमः ॥३१॥
तानि सर्वाणि चास्त्राणि वसिष्ठो ब्रह्मनंदनः ॥
एकेन ब्रह्मदंडेन निजघ्न स्वतपोबलात् ॥३२॥
ततः पराजितो विप्रा विश्वामित्रोऽतिलज्जितः ॥
ब्राह्मण्यावाप्तये स्वस्य तपः कर्तुं वनं ययौ ॥३३॥
पूर्वासु पश्चिमांतासु त्रिषु दिक्षु तपोऽचरत् ॥
प्रादुर्भूतमहा विघ्नस्तत्तद्दिक्षु स कौशिकः ॥३४॥
उत्तरां दिशमासाद्य हिमवत्पर्वतेऽमले
कौशिक्यास्सरितस्तीरे पुण्ये पापविनाशिनि ॥३५॥
दिव्यं वर्षसहस्रं तु निराहारो जितेंद्रियः ॥
निरालोको जितश्वासो जितक्रोधः सुनिश्चलः ॥३६॥
ग्रीष्मे पंचाग्निमध्यस्थः शिशिरे वारिषु स्थितः ॥
वर्षास्वाकाशगो नित्यमूर्ध्वबाहुर्निराश्रयः ॥३७॥
ब्राह्मण्यसिद्धयेऽत्युग्रं चचार सुमहत्तपः ॥
उद्विग्नमनसस्तस्य त्रिदशास्त्रिदिवालयाः ॥
जंभारिणा च सहिता रंभां प्रोचुरिदं वचः ॥३९॥
॥ देवा ऊचुः ॥
रंभे त्वं हिमवच्छैले कौशिकीतीरगं मुनिम् ॥३९॥
विश्वामित्रं तपस्यंतं विलोभय विचेष्टितैः ॥
यथा तत्तपसो विघ्नो भविष्यति तथा कुरु ॥४०॥
एवमुक्ता तदा रंभा देवैरिंद्रपुरोगमैः ॥
प्रत्युवाच सुरान्सर्वान्प्रांजलिः प्रणता तदा ॥४१॥
॥ रंभोवाच ॥
अतिक्रूरो महाक्रोधो विश्वामित्रो महामुनिः ॥
स शप्स्यते मां क्रोधेन बिभेम्यस्मादहं सुराः ॥४२॥
त्रायध्वं कृपया यूयं मां युष्मत्परिचारिकाम् ॥
इत्युक्तो रंभया तत्र जंभारिस्ताम भाषत ॥४३॥
॥ इन्द्र उवाच ॥
रंभे त्वया न भीः कार्या विश्वामित्रात्तपोधनात् ॥
अहमप्यागमिष्यामि त्वत्सहायः समन्मथः ॥४४॥
कोकिलालापमधुरो वसन्तोऽप्यागमिष्यति ॥
अतिसुंदररूपा त्वं प्रलोभय महामुनिम् ॥४५॥
इतींद्रकथिता रंभा विश्वामित्राश्रमं ययौ ॥
तद्दृष्टिगोचरा स्थित्वा ललितं रूपमास्थिता ॥४६॥
सा मुनिं लोभयामास मनोहरविचेष्टितः ॥
पिकोपि तस्मिन्समये चुकूजानंदयन्मनः ॥४७॥
श्रुत्वा पिकस्वरं रंभां दृष्ट्वा च मुनिपुंगवः ॥
संशयाविष्टहृदयो विदित्वा शक्रकर्म तत् ॥
शशाप रंभां क्रोधेन विश्वामित्रस्तपोधनः ॥४८॥
॥ विश्वामित्र उवाच ॥
यस्मात्कोपयसे रंभे मां त्वं कोपजयैषिणम् ॥४९॥
शिला भवात्र तस्मात्त्वं रंभे वर्षशतायुतम् ॥
तदंतरे ब्राह्मणेन रक्षिता मोक्षमाप्स्यसि ॥५०॥
विश्वामित्रस्य शापेन तदंते सा शिलाऽभवत् ॥
बहुकालं शिलाभूता तस्थौ तस्याश्रमे द्विजाः ॥५१॥
विश्वामित्रोपि धर्मात्मा पुनस्तप्त्वा महत्तपः ॥
लेभे वसिष्ठवाक्येन ब्राह्मण्यं दुर्लभं नृपैः ॥५२॥
बहुकालं शिलाभूता रंभाप्यासीत्तदाश्रमे ॥
तस्मिन्नेवाश्रमे पुण्ये शिष्योऽगस्त्यस्य संमतः ॥५३॥
श्वेतोनाम मुनिश्चक्रे मुमुक्षुः परमं तपः ॥
चिरकालं तपस्तस्मिन्प्रकुर्वति महामुनौ ॥५४॥
अंगारकेति विख्याता राक्षसी काचिदागता ॥
तस्याश्रममतिक्रूरा मेघस्वनमहास्वना ॥५५॥
मूत्ररक्तपुरीषाद्यैर्दूषयामास भीषणा ॥
उपद्रवैस्तथा चान्यैर्बाधयामास तं मुनिम् ॥५६॥
अथ क्रुद्धो मुनिः श्वेतो वायव्यास्त्रेण योजयन् ॥
शप्तां कुशिकपुत्रेण राक्षस्यै प्राक्षिपच्छिलाम् ॥५७॥
राक्षसी सा प्रदुद्राव वायव्यास्त्रेण योजिता ॥
वायव्यास्त्रप्रयुक्तेन दृषदानुद्रुता च सा ॥५८॥
दक्षिणांबुनिधेस्तीरं धावति स्म भयार्दिता ॥
धावन्तीमनुधावन्ती सा शिलास्त्रप्रयोजिता ॥५९॥
पपातोपरि राक्षस्या मज्जंत्याः कपितीर्थके ॥
मृता सा राक्षसी तत्र शिलापातात्स्वमूर्द्धनि ॥६०॥
विश्वामित्रेण शप्ता सा कपितीर्थे निमज्जनात् ॥
शिलारूपं परित्यज्य रंभारूपमुपेयुषी ॥६१॥
देवैः कुसुमधाराभिरभिवृष्टा मनोरमा ॥
दिव्यं विमानमारूढा दिव्यांबरविराजिता ॥६२॥
हारकेयूरकटकनासाभरणभूषिता ॥
उर्वश्याद्यप्सरोभिश्च सखिभिः परिवारिता ॥६३॥
कपितीर्थस्य माहात्म्यं प्रशंसन्ती पुनःपुनः ॥
निषेव्य रामनाथं च शंकरं शशिभूषणम् ॥६४॥
आखण्डलपुरीं रम्यां प्रययावमरावतीम् ॥
राक्षसी सापि शापेन कुम्भजस्य महौजसः ॥६५॥
घृताची देववेश्या हि राक्षसीरूपमागता ॥
साप्यत्र कपितीर्थाप्सु स्नानात्स्वं रूपमाययौ ॥६६॥
एवं रंभाघृताच्यौ ते कपितीर्थे निमज्जनात् ॥
अगस्त्यशिष्यश्वेतस्य प्रसादाद्द्विजसत्तमाः ॥६७॥
राक्षसीत्वं शिलात्वं च हित्वा स्वं रूपमागते ॥
तस्मात्सर्वप्रयत्नेन स्नातव्यं कपितीर्थके ॥६८॥
यः शृणोतीममध्यायं पठते वापि मानवः ॥
प्राप्नोति कपितीर्थस्य स्नानजं फलमुत्तमम् ॥६९॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कपितीर्थप्रशंसायां रंभाघृताचीशापविमोक्षणवर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥३९॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP