संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३ Translation - भाषांतर ॥ ऋषय ऊचुः ॥चतुर्विंशतितीर्थानि यान्युक्तानि त्वया मुने ॥तेषां प्रधानतीर्थानां सेतौ पापविनाशने ॥१॥आदिमस्य तु तीर्थस्य चक्रतीर्थमिति प्रथा ॥कथं समागता सूत वदास्माकं हि पृच्छताम् ॥२॥॥ श्रीसूत उवाच ॥चतुर्विंशतितीर्थानां प्रधानानां द्विजोत्तमाः ॥यदुक्तमादिमं तीर्थं सर्वलोकेषु विश्रुतम् ॥३॥स्मरणात्तस्य तीर्थस्य गर्भवासो न विद्यते ॥विलयं यांति पापानि लक्षजन्मकृतान्यपि ॥४॥तस्मिंस्तीर्थे सकृत्स्नाना त्स्मरणात्कीर्तनादपि ॥लोके ततोधिकं तीर्थं तत्तुल्यं वा द्विजोत्तमाः ॥५॥न विद्यते मुनिश्रेष्ठाः सत्यमुक्तमिदं मया ॥गंगा सरस्वती रेवा पंपा गोदावरी नदी ॥६॥कालिंदी चैव कावेरी नर्मदा मणिकर्णिका ॥अन्यानि यानि तीर्थानि नद्यः पुण्या महीतले ॥७॥अस्य तीर्थस्य विप्रेंद्राः कोट्यंशेनापि नो समाः ॥धर्मतीर्थमिति प्राहुस्तत्तीर्थं हि पुराविदः ॥८॥यथा समागता तस्य चक्रतीर्थमिति प्रथा ॥तदिदानीं प्रवक्ष्यामि शृणुध्वं मुनिपुंगवाः ॥९॥सेतुमूलं हि तत्प्रोक्तं तद्दर्भशयनं मतम् ॥तत्रैव चक्रतीर्थं तु महापातकमर्द्दनम् ॥१०॥पुरा हि गालवोनाम मुनिर्विष्णुपरायणः ॥दक्षिणांभोनिधेस्तीरे हालास्यादविदूरतः ॥११॥फुल्लग्रामसमीपे च तथा क्षीरसरोंतिके ॥धर्म पुष्करिणीतीरे सोऽतप्यत महत्तपः ॥१२॥युगानामयुतं ब्रह्म गृणन्विप्राः सनातनम्॥दयायुक्तो निराहारः सत्यवान्विजितेंद्रियः ॥१३॥आत्मवत्सर्वभूतानि पश्यन्विषयनिःस्पृहः ॥सर्वभूतहितो दांतः सर्वद्वंद्वविवर्जितः ॥१४॥वर्षाणि कतिचित्सोऽयं जीर्णपर्णाशनोऽभवत ॥किंचित्कालं जलाहारो वायुभक्षः कियत्समाः ॥१५॥एवं पंचसहस्राणि वर्षाणि स महामुनिः ॥अतप्यत तपो घोरं देवैरपि सुदुष्करम् ॥१६॥ततः पंचसहस्राणि वर्षाणि मुनिपुंगवः ॥निराहारो निरालोको निरुच्छ्वासो निरास्पदः ॥१७॥वर्षास्वासारसहनं हेमंतेषु जलेशयः॥ग्रीष्मे पंचाग्निमध्यस्थो विष्णुध्यानपरायणः॥ १८॥जपन्नष्टाक्षरं मंत्रं ध्यायन्हृदि जनार्दनम्॥तताप सुमहातेजा गालवो मुनिपुंगवः ॥१९॥एवं त्वयुतव वर्षाणि स समतीतानि वै मुनेः॥अथ तत्तपसा तुष्टो भगवान्कमलापतिः॥२०॥प्रत्यक्षतामगात्तस्य शंखचक्रगदाधरः॥विकचांबुजपत्राक्षः सूर्यकोटिसमप्रभः॥२१॥विनतानंदनारूढश्छत्रचामरशोभितः॥हारकेयूरमुकुटकटकादिविभूषितः॥२२॥विष्वक्सेनसुनंदादिकिंकरैः परिवारितः ॥वीणावेणुमृदंगादिवादकैर्नारदादिभिः ॥२३॥उपगीयमानविजयः पीतांबरविराजितः ॥लक्ष्मीविराजितोरस्को नीलमेघसमच्छविः॥ २४॥धुनानः पद्ममेकेन पाणिना मधुसूदनः ॥सनकादिमहायोगिसेवितः पार्श्वयोर्द्वयोः ॥२५॥मंदस्मितेन सकलं मोहयन्भुवनत्रयम् ॥स्वभासा भासयन्सर्वान्दिशो दश च भूसुराः ॥२६॥कंठलग्रेन मणिना कौस्तुभेन च शोभितः ॥सुवर्णवेत्रहस्तैश्च सौविदल्लैरनेकशः ॥२७॥अनन्यदुर्लभाचिंत्यगीयमाननिजाद्भुतः ॥सुभक्तसुलभो देवो लक्ष्मीकांतो हरिः स्वयम् ॥२८॥सन्न्यधत्त पुरस्तस्य गालवस्य महामुनेः ॥आविर्भूतं तदा दृष्ट्वा श्रीवत्सांकितवक्षसम् ॥२९॥पीतांबरधरं देवं तुष्टिं प्राप महामुनिः ॥भक्त्या परमया युक्तस्तुष्टाव जगदीश्वरम्॥३०।॥ गालव उवाच ॥नमो देवादिदेवाय शंखचक्रगदाभृते ॥नमो नित्याय शुद्धाय सच्चिदानंदरूपिणे ॥३१॥नमो भक्तार्ति हंत्रे ते हव्यकव्यस्वरूपिणे॥नमस्त्रिमूर्तये तुभ्यं सृष्टिस्थित्यंतकारिणे॥३२॥नमः परेशाय नमो विभूम्ने नमोस्तु लक्ष्मीपतये विधात्रे॥नमोस्तु सूर्येंदुविलोचनाय नमो विरिंच्याद्यभिवंदिताय ॥३३॥यो नामजात्यादिविकल्पहीनः समस्तदोषैरपि वर्जितो यः ॥स्रमस्तसंसारभयापहारिणे तस्मै नमो दैत्यविनाशनाय ॥३४॥वेदांतवेद्याय रमेश्वराय वैकुण्ठवासाय विधातृपित्रे ॥नमोनमः सत्यजनार्तिहारिणे नारायणायामितविक्रमाय ॥३५॥ नमस्तुभ्यं भग वते वासुदेवाय शार्ङ्गिणे ॥भूयोभूयो नमस्तुभ्यं शेषपर्यंकशायिने ॥३६॥इति स्तुत्वा हरिं विप्रास्तूष्णीमास्ते स गालवः ॥श्रुत्वा स्तुतिं श्रुति सुखां हरिस्तस्यमहात्मनः ॥३७॥अवाप परमं तोषं शंखचक्रगदाधरः ॥अथालिंग्य मुनिं शौरिश्चतुर्भिर्बाहुभिस्तदा ॥३८॥बभाषे प्रीतिसं युक्तो वरो वै व्रियतामिति ॥तुष्टोऽस्मि तपसा तेऽद्य स्तोत्रेणापि च गालव ॥३९॥नमस्कारेण च प्रीतो वरदोऽहं तवागतः ॥॥ गालव उवाच ॥नारायण रमानाथ पीतांबर जगन्मय ॥४०॥जनार्दन जगद्धामन्गोविंद नरकांतक ॥त्वद्दर्शनात्कृतार्थोऽस्मि सर्वस्मादधिकस्तथा ॥४१॥त्वां न पश्यंत्यधर्मिष्ठा यतस्त्वं धर्मपालकः ॥यन्न वेत्ति भवो ब्रह्मा यन्न वेत्ति त्रयी तथा ॥४२॥तं वेद्मि परमात्मानं किमस्मा दधिकं वरम्॥योगिनो यं न पश्यन्ति यं न पश्यंति कर्मठाः ॥४३॥तं पश्यामि परात्मानं किमस्मादधिकं वरम् ॥एतेन च कृतार्थोऽस्मि जनार्दन जगत्पते ॥४४॥यन्नामस्मृतिमात्रेण महापातकिनोऽपिच॥मुक्तिं प्रयांति मुनयस्तं पश्यामि जनार्दनम् ॥४५॥त्वत्पादपद्मयुगले निश्चला भक्तिरस्तुमे ॥॥ हरिरुवाच ॥मयि भक्तिर्दृढा तेऽस्तु निष्कामा गालवाधुना ॥४६॥शृणु चाप्यपरं वाक्यमुच्यमानं मया मुने ॥मदर्थं कर्म कुर्वाणो मद्ध्यानो मत्परायणः ॥४७॥एतत्प्रारब्धदेहांते मत्स्वरूपमवाप्स्यसि ॥अस्मिन्नेवाश्रमे वासं कुरुष्व मुनिपुंगव ॥४८॥धर्मपुष्करिणी चेयं पुण्या पापविनाशिनी ॥अस्यास्तीरे तपः कुर्वंस्तपःसिद्धिमवाप्नुयात् ॥४९॥धर्मः पुरा समागत्य दक्षिणस्योदधेस्तटे ॥तपस्तेपे महादेवं चिंतयन्मनसा तदा ॥५०॥स्नानार्थमेकं तीर्थं च चक्रे धर्मो महामुने ॥धर्मपुष्करिणी तेन प्रसिद्धा तत्कृता यतः ॥५१॥त्वया यथा तपस्तप्तमिदानीं मुनिसत्तम ॥तथा तप्तं तपस्तेन धर्मेण हरसेविना ॥५२॥तपसा तस्य तुष्टः सञ्छूलपाणिर्महेश्वरः ॥प्रादुरासीस्त्वया दीप्त्या दिशोदशविभासयन् ॥५३॥अथाश्रममनुप्राप्तं महादेवं कृपानिधिम् ॥धर्मः परमसन्तुष्टस्तुष्टाव परमेश्वरम्॥ ५४॥॥ धर्म उवाच ॥प्रणमामि जगन्नाथमीशानं प्रणवात्मकम् ॥समस्तदेवतारूपमादिमध्यांतवर्जितम् ॥५५॥ऊर्ध्वरेतं विरूपाक्षं विश्वरूपं नमाम्य हम् ॥समस्तजगदाधारमनन्तमजमव्ययम् ॥५६॥यमामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ॥नमो लोकाधिनाथाय वंचते परिवंचते ॥५७॥नमोऽस्तु नीलकण्ठाय पशूनां पतये नमः ॥नमः कल्मषनाशाय नमो मीढुष्टमाय च ॥५८॥नमो रुद्राय देवाय कद्रुद्राय प्रचेतसे ॥नमः पिनाकहस्ताय शूलहस्ताय ते नमः ॥५९॥नमश्चैतन्यरूपाय पुष्टीनां पतये नमः ॥नमः पंचास्यदेवाय क्षेत्राणां पतये नमः ॥६०॥इति स्तुतो महादेवः शंकरोलोकशंकरः ॥धर्मस्य परमां तुष्टिमापन्नस्तमुवाच वै ॥६१॥॥ महेश्वर उवाच ॥प्रीतोस्म्यनेन स्तोत्रेण तव धर्म महामते ॥वरं मत्तो वृणीष्व त्वं मा विलंबं कुरुष्व वै ॥६२॥ईश्वरेणैवमुक्तस्तु धर्मो देवमथाब्रवीत् ॥वाहनं ते भविष्यामि सदाहं पार्वतीपते ॥ ॥६३॥अयमेव वरो मह्यं दातव्यस्त्रिपुरांतक ॥तवोद्वहनमात्रेण कृतार्थोऽहं भवामि भोः ॥६४॥इत्थं धर्मेण कथितो देवो धर्ममथाब्रवीत् ॥॥ ईश्वर उवाच ॥वाहनं भव मे धर्म सर्वदा लोकपूजितः ॥६५॥मम चोद्वहने शक्तिरमोघा ते भविष्यति ॥त्वत्सेविनां सदा भक्तिर्मयि स्यान्नात्र संशयः ॥६६॥इत्युक्ते शंकरेणाथ धर्मोपि वृषरूपधृक् ॥उवाह परमेशानं तदाप्रभृति गालव ॥६७॥महादेवस्तमारुह्य धर्मं वै वृषरूपिणम् ॥शोभमानो भृशं धर्ममुवाच परमामृतम् ॥६८॥॥ ईश्वर उवाच ॥त्वया कृतं हि यत्तीर्थं दक्षिणस्योदधेस्तटे ॥धर्मपुष्करिणीत्येषा लोके ख्याता भविष्यति ॥६९॥अस्यास्तीरे जपोहोमो दानं स्वाध्याय एव च ॥अन्ये च धर्मनिवहाः क्रियमाणा नरैर्मुदा ॥७॥अनंतफलदा ज्ञेया नात्र कार्या विचारणा ॥इति दत्त्वा वरं तस्मै धर्मतीर्थाय शंकरः ॥७१॥आरुह्य वृषभं धर्मं कैलासं पर्वतं ययौ ॥धर्मपुष्करिणीतीरे गालव त्वमतोधुना ॥७२॥शरीरपातपर्यंतं तपः कुर्वन्समाहितः ॥वस त्वं मुनि शार्दूल पश्चान्मामाप्स्यसे ध्रुवम् ॥७३॥यदा ते जायते भीतिस्तदा तां नाशयाम्यहम् ॥ममायुधेन चक्रेण प्रेरितेन मया क्षणात् ॥७४॥इत्युक्त्वा भगवान्विष्णुस्तत्रैवांतरधीयत ॥॥ श्रीसूत उवाच ॥तस्मिन्नंतर्हिते विष्णौ गालवो मुनिपुंगवः ॥७५॥धर्मपुष्करिणीतीरे विष्णुध्यानपरायणः ॥त्रिकालमर्चयन्विष्णुं शालग्रामे विमुक्तिदे ॥७६॥उवास मतिमान्धीरो विरक्तो विजितेंद्रियः ॥कदाचिन्माघमासे तु शुक्लपक्षे हरेर्दिने ॥७७॥उपोष्य जागरं कृत्वा रात्रौ विष्णुमपूजयत् ॥स्नात्वा परेद्युर्द्वादश्यां धर्मपुष्करिणीजले ॥७८॥संध्यावन्दनपूर्वाणि नित्यकर्माणि चाकरोत् ॥ततः पूजां विधातुं स हरेः समुपचक्रमे ॥७९॥तुलस्यादीनि पुष्पाणि समाहृत्य च गालवः ॥विधाय पूजां कृष्णस्य स्तोत्रमेतदुदैरयत् ॥८०॥॥ गालव उवाच ॥सहस्रशिरसं विष्णुं मत्स्यरूपधरं हरिम् ॥नमस्यामि हृषीकेशं कूर्मवाराहरूपिणम् ॥८१॥नारसिंहं वामनाख्यं जाम दग्न्यं च राघवम् ॥बलभद्रं च कृष्णं च कल्किं विष्णुं नमाम्यहम् ॥८२॥वासुदेवमनाधारं प्रणतार्तिविनाशनम् ॥आधारं सर्वभूतानां प्रणमामि जनार्दनम् ॥८३॥सर्वज्ञं सर्वकर्तारं सच्चिदानंदविग्रहम् ॥अप्रतर्क्यमनिर्देश्यं प्रणतोऽस्मि जनार्दनम् ॥८४॥एवं स्तुवन्महा योगी गालवो मुनिपुंगवः ॥धर्मपुष्करिणीतीरे तस्थौ ध्यानपरायणः ॥८५॥एतस्मिन्नंतरे कश्चिद्राक्षसो गालवं मुनिम् ॥आययौ भक्षितुं घोरः क्षुधया पीडितो भृशम् ॥८६॥गालवं तरसा सोऽयं राक्षसो जगृहे तदा ॥गृहीतस्तरसा तेन गालवो नैऋतेन सः ॥८७॥प्रचुक्रोश दयां भोधिमापन्नानां परायणम् ॥नारायणं चक्रपाणिं रक्षरक्षेति वै मुहुः ॥८८॥परेश परमानंद शरणागतपालक ॥त्राहि मां करुणासिंधो रक्षोवशे मुपागतम् ॥८९॥लक्ष्मीकांत हरे विष्णो वैकुंठ गरुडध्वज ॥मां रक्ष रक्षसाक्रांतं ग्राहाक्रांतं गजं यथा ॥९०॥दामोदर जगन्नाथ हिरण्यासुर मर्द्दन ॥प्रह्रादमिव मां रक्ष राक्षसेनातिपीडितम् ॥९१॥इत्येवं स्तुवतस्तस्य गालवस्य द्विजोत्तमाः ॥स्वभक्तस्य भयं ज्ञात्वा चक्रपाणिवृषा कपिः ॥९२॥स्वचक्रं प्रेषयामास भक्तरक्षणकारणात् ॥प्रेरितं विष्णुचक्रं तद्विष्णुना प्रभविष्णुना ॥९३॥आजगामाथ वेगेन धर्मपुष्करिणी तटम् ॥अनंतादित्यसंकाशमनंताग्निसमप्रभम् ॥९४॥महाज्वालं महानादं महासुरविमर्दनम् ॥दृष्ट्वा सुदर्शनं विष्णो राक्षसोऽथ प्रदुद्रुवे ॥९५॥द्रवमाणस्य तस्याशु राक्षसस्य सुदर्शनम्॥शिरश्चकर्त सहसा ज्वालामालादुरासदम् ॥९६॥ततस्तु गालवो दृष्ट्वा राक्षसं पतितं भुवि ॥मुदा परमया युक्तस्तुष्टाव च सुदर्शनम् ॥९७॥॥ गालव उवाच ॥विष्णुचक्रं नमस्तेस्तु विश्वरक्षणदीक्षित ॥नारायणकरांभोजभूषणाय नमोऽस्तु ते ॥९८॥युद्धेष्वसुरसंहारकुशलाय महारव ॥सुदर्शन नमस्तुभ्यं भक्तानामार्तिनाशिने ॥९९॥रक्ष मां भयसंविग्नं सर्वस्मादपि कल्मषात् ॥स्वामिन्सुदर्शन विभो धर्मर्तीर्थे सदा भवान् ॥१००॥संनिधेहि हिताय त्वं जगतो मुक्तिकांक्षिणः ॥गालवेनैवमुक्तं तद्विष्णुचक्रं मुनीश्वराः ॥तं प्राह गालवमुनिं प्रीणयन्निव सौहृदात् ॥१०१॥॥ सुदर्शन उवाच ॥गालवैतन्महापुण्यं धर्मतोर्थमनुत्तमम् ॥१०२॥अस्मिन्वसामि सततं लोकानां हितकाम्यया॥त्वत्पीडां परिचिंत्याह राक्षसेन दुरात्मना ॥१०३॥प्रेरितो विष्णुना विप्र त्वरया समुपागतः॥त्वत्पीडकोथ निहतो मयायं राक्षसाधमः ॥१०४॥मोचितस्त्वं भयादस्मात्त्वं हि भक्तो हरेः सदा ॥पुष्करिण्यामहं त्वस्यां धर्मस्य मुनिपुंगव ॥१०५॥सततं लोकरक्षार्थं संनिधानं करोमि वै ॥अस्यां मत्संनिधानात्ते तथान्येषामपि द्विज ॥१०६॥इतः परं न पीडा स्याद्भूतराक्षससंभवा ॥धर्मपुष्करिणी ह्येषा सर्वपापविनाशिनी ॥१०७॥देवीपट्टणपर्यंता कृता धर्मेण वै पुरा ॥अत्र सर्वत्र वत्स्यामि सर्वदा मुनिपुंगव ॥१०८॥अस्या मत्संनिधा नात्स्याच्चक्रतीर्थमिति प्रथा॥स्नानं येऽत्र प्रकुर्वंति चक्रतीर्थे विमुक्तिदे ॥१०९. ॥तेषां पुत्राश्च पौत्राश्च वंशजाः सर्व एव हि ॥विधूतपापा यास्यंति तद्विष्णोः परमं पदम् ॥११०॥पितॄनुद्दिश्य पिंडानां दातारो येऽत्र गालव ॥स्वर्गं प्रयांति ते सर्वे पितरश्चापि तर्प्पिताः ॥१११॥इत्युक्त्वा विष्णुचक्रं तद्गालवस्यापि पश्यतः॥अन्येषामपि विप्राणां पश्यतां सहसा द्विजाः ॥११२॥धर्मापुष्कारिणीं तां तु प्राविशत्पापनाशिनीम् ॥श्रीसूत उवाच॥धर्मतीर्थस्य विप्रंद्राश्चक्रतीर्थमिति प्रथा ॥११३॥प्राप्ता यथा तत्कथितं युष्माकं हि मया मुदा॥चक्रतीर्थसमं तीर्थं न भूतं न भविष्यति ॥११४॥अत्र स्नाता नरा विप्रा मोक्षभाजो न संशयः॥कीर्तयेदिममध्यायं शृणुयाद्वा समाहितः॥चक्र तीर्थाभिषेकस्य प्राप्नोति फलमुत्तमम् ॥इह लोके सुखं प्राप्य परत्रापिसुखं लभेत् ॥११६॥यो धर्मतीर्थं च तथैव गालवं कुर्वाणगत्युग्रसमाधियो गम् ॥सुदर्शनं राक्षसनाशनं च स्मरेत्सकृद्वा न स पापभाग्जनः ॥११७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे. सेतुमाहात्म्ये गालवाख्याने धर्मतीर्थस्य चक्रतीर्थप्रथावर्णनंनाम तृतीयो ऽध्यायः ॥३॥ N/A References : N/A Last Updated : November 13, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP