सेतुखण्डः - अध्याय २३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
अग्नितीर्थाभिधे तीर्थे सर्वपातकनाशने ॥
स्नानं कृत्वा विशुद्धात्मा चक्रतीर्थं ततो व्रजेत् ॥१॥
यंयं कामं समुद्दिश्य चक्रतीर्थे द्विजोत्तमाः ॥
स्नानं समाचरेन्मर्त्यस्तंतं कामं समश्नुते ॥२॥
पुराहिर्बुध्न्यनामा तु महर्षिः संशित व्रतः ॥
सुदर्शनमुपास्तास्मिंस्तपस्वी गंधमादने ॥३॥
तपस्यंतं मुनिं तत्र राक्षसा घोररूपिणः ॥
अबाधंत सदा विप्रास्तपोविघ्नैकतत्पराः ॥४॥
सुदर्शनं तदागत्य भक्तरक्षणवांछया ॥
यातुधानान्बाधमानान्न्यवधीर्लीलया पुरा ॥५॥
तदाप्रभृति तच्चक्रं भक्तप्रार्थनया द्विजाः ॥
अहिर्बुध्न्यकृते तीर्थे सन्निधानं सदाऽकरोत् ॥६॥
तदाप्रभृति तत्तीर्थं चक्रतीर्थमितीर्यते ॥
सुदर्शनप्रसादेन तत्र तीर्थे निमज्जनात् ॥७॥
रक्षःपिशाचा दिकृता पीडा नास्त्येव कर्हिचित् ॥
स्नात्वास्मिन्पावने तीर्थे छिन्नपाणिः पुरा रविः ॥
स हिरण्यमयौ पाणी लब्धवांस्तीर्थवैभवात् ॥८॥
॥ ऋषय ऊचुः ॥
छिन्नपाणिः कथमभूदादित्यः सूतनंदन ॥
यथा च लब्धवान्पाणी सौवर्णौ तद्वदस्व नः ॥९॥
॥ श्रीसूत उवाच ॥
इंद्रादयः सुराः पूर्वं संततं दैत्यपीडिताः ॥१०॥
किं कुर्म इति संचित्य संभूय सममंत्रयन् ॥
बृहस्पतिं पुरस्कृत्य मंत्रयित्वा चिरं सुराः ॥११॥
तुरासाहं पुरोधाय धाम स्वायंभुवं ययुः ॥
ते ब्रह्माणं समासाद्य दृष्ट्वा स्तुत्वा च भक्तितः ॥१२॥
ततो व्यजिज्ञपस्तस्मै स्वेषामागमकारणम् ॥
॥ सुरा ऊचुः ॥
भगवन्भारतीनाथ दैत्या ह्यस्मान्बलोत्कटाः ॥१३॥
बाधंते सततं देव तत्र ब्रूहि प्रतिक्रियाम् ॥
इत्युक्तः स सुरैर्ब्रह्मा तानाह कृपया वचः ॥१४॥
॥ ब्रह्मोवाच ॥
मा भैष्ट यूयं विबुधास्तत्रोपायं ब्रवीम्यहम् ॥
माहेश्वरं महायज्ञमसुराणां विनाशनम् ॥१५॥
प्रारभध्वं सुरा यूयं मुनिभिस्तत्त्वदर्शिभिः ॥
अयं च दैवतैः सर्वैर्विधिलोभं विना कृतः ॥१६॥
माहेश्वरो महायज्ञः क्रियतां गंधमादने ॥
यदि ह्यन्यत्र तं यज्ञं कुर्युस्तद्विबुधर्षभाः ॥१७॥
यज्ञविघ्नं तदा कुर्युर्दुरात्मानः सुरद्विषः ॥
क्रियते यद्ययं यज्ञो गंधमादनपर्वते ॥१८॥
सुदर्शनप्रसादेन नैव विघ्नो भवेत्तदा ॥
अहिर्बुध्न्याभिधानस्य महर्षेर्गंधमादने ॥१९॥
अनुग्रहाय तत्तीर्थे सन्निधत्ते सुदर्शनम् ॥
अतः कुरुध्वं भो यूयं तं यज्ञं गंधमादने ॥२०॥
नातिदूरे चक्रतीर्थादसुराणां विनाशकम् ॥
ततस्ते ब्रह्मवचसा सहसा गंधमादनम्॥ २१॥
बृहस्पतिं पुरस्कृत्य जग्मुर्यज्ञचिकीर्षया॥
ते प्रणम्य महात्मानमहिर्बुध्न्यं मुनीश्वरम् ॥२२॥
अकल्पयन्यज्ञवाटन्नातिदूरे तदाश्रमात् ॥
यज्ञकर्मसु निष्णातैः सहितास्ते तपोधनैः ॥२३॥
इष्टिमारेभिरे देवा असुराणां विनाशिनीम् ॥
तस्मिन्कर्मणि होतासीत्स्वयमेव बृहस्पतिः ॥२४॥
बभूव मैत्रावरुणो जयंतः पाकशासनिः ॥
अच्छावाको बभूवात्र वसूनामष्टमो वसुः ॥२५॥
ग्रावस्तुदभवत्तत्र शक्तिपुत्रः पराशरः ॥
अष्टावक्रो महातेजा अध्वर्युधुरमूढवान्॥ २६॥
तत्र प्रतिप्रस्थाताभूद्विश्वामित्रो महामुनिः ॥
नेष्टा बभूव वरुण उन्नेता च धनेश्वरः ॥२७॥
ब्रह्मा बभूव सविता यज्ञस्यार्धधुरं वहन् ॥
बभूव ब्राह्मणाच्छंसी वसिष्ठो ब्रह्मणोत्तमः ॥२८॥
आग्नीध्रोऽभूच्छुनःशेपः पोता जातश्च पावकः ॥
उद्गाता वायुरभवत्प्रस्तोता च परेतराट् ॥२९॥
प्रतिहर्ता तु तत्रासीदगस्त्यः कुंभसंभवः ॥
सुब्रह्मण्यो मधुच्छंदा विश्वामित्रात्मजो महान्॥३०॥
यजमानः स्वयमभूद्देवराजः पुरंदरः॥
उपद्रष्टा बभूवात्र व्यासपुत्रः शुको मुनिः ॥३१॥
ततस्ते ऋत्विजः सर्वे देवराजं पुरंदरम् ॥
विधिवद्दीक्षयांचक्रुस्तत्र माहेश्वरे क्रतौ ॥३२॥
प्रावर्तत महायज्ञ एवं वै गंधमादने ॥
सुदर्शनप्रभावेन दुःसहेनातिपीडिताः ॥३३॥
नाविंदन्नसुरास्तत्र रंध्रं यज्ञे प्रवर्तिते ॥
एवन्निरंतरायोऽसौ प्रावर्तत महा क्रतुः ॥३४॥
भक्षयंश्च हरिस्तत्र जज्वाल हुतवाहनः ॥
विधिवत्कर्मजालानि कृत्वाध्वर्युरसंभ्रमात् ॥३५॥
मंत्रपूतं पुरोडाशं जुहवामास पावके ॥
हुतशेषं पुरोडाशं विभज्याध्वर्युरादरात् ॥३६॥
ऋत्विग्भ्यो होतृमुख्येभ्यः प्रददौ पापनाशनम् ॥
सवित्रे ब्रह्मणे चैकमत्युग्रतरतेजसम् ॥३७॥
ददौ तत्र पुरोडाशभागं प्राशित्रनामकम् ॥
प्रतिजग्राह पाणिभ्यां प्राशित्रं सविता तदा ॥३८॥
सवित्रा स्पृष्टमात्रं सत्तत्प्राशित्रं दुरासदम् ॥
तस्य पाणी प्रचिच्छेद पश्यतां सर्वऋत्विजाम् ॥३९॥
ततः संछिन्नपाणिः स प्राशित्रेणोग्रतेजसा ॥
किमेतदिति संत्रस्तो विषण्णवदनोऽभवत् ॥४०॥
सविता ऋत्विजः सर्वान्समाहूयेदमब्रवीत् ॥
सवितोवाच ॥
पुरोडाशस्य भागोऽयं मम प्राशित्रनामकः ॥४१॥
दत्तश्चिच्छेद मत्पाणी मिषत्स्वेव भवत्स्वपि ॥
अतो भवंतः संभूय सर्व एव हि ऋत्विजः ॥४२॥
कल्पयंतामिमौ पाणी नोचेद्यज्ञं निहन्म्यमुम् ॥
सवितुर्वाक्यमाकर्ण्य ते सर्वे समचिंतयन् ॥४३॥
तत्र मध्ये मुनींद्राणां देवानां चैव सर्वशः ॥
अष्टावक्रो महातेजा ऋत्विजस्तानभाषत ॥४४॥
॥ अष्टावक्र उवाच ॥
शृणुध्वमृत्विजः सर्वे मम वाक्यं समाहिताः ॥
मयि जीवति विप्रेंद्रा विरिंचानां शतं गतम् ॥४५॥
जायंते च म्रियंते च चतुराननकोटयः ॥
पश्यन्नेव च तान्सर्वानहं प्राणानधारयम् ॥४६॥
तत्र लोकेश्वराभिख्ये वर्तमाने प्रजापतौ ॥
विप्रो हरिहरोनाम निवसञ्छयामलापुरे ॥४७॥
व्याधेनारण्यवासेन केल्यर्थं लक्ष्यवेधिना ॥
छिन्नपादोऽभवद्बाणैर्लक्ष्य मध्यं समागतः ॥४८॥
स गंधमादनं प्राप्य मुनिभिः प्रेरितस्तदा ॥
स्नात्वा च मुनितीर्थेऽस्मिन्प्राप्तवांश्चरणौ पुरा ॥४९॥
तदा पुण्यमिदं तीर्थं मुनितीर्थमितीरितम् ॥
इदानीं चक्रतीर्थाख्यं चक्रनाम त्वविंदत ॥५०॥
तदत्र क्रियतां स्नानं प्राशित्रच्छिन्नपाणिना ॥
मुनितीर्थे सवित्रापि युष्माकं यदि रोचते ॥५१॥
ऋत्विजः कथितास्त्वेवमष्टावक्रमहर्षिणा ॥
सवितारमभाषंत सर्व एव प्रहर्षिताः ॥५२॥
सवितः स्नाहि तीर्थेऽ स्मिंस्तव पाणी भविष्यतः ॥
अष्टावक्रो यथा प्राह तथा कुरु समाहितः ॥५३॥
ततः स सविता गत्वा चक्रतीर्थं महत्तरम् ॥
सस्नौ पाण्योरवाप्त्यर्थमिष्टदायिनि तत्र सः ॥५४॥
उत्तिष्ठन्नेव स तदा तत्र स्नात्वा सभक्तिकम् ॥
युक्तो हिरण्मयाभ्यां तु पाणिभ्यां समदृश्यत ॥५५॥
हिरण्यपाणिं तं दृष्ट्वा जहृषुः सर्वऋत्विजः ॥
ततः समाप्य तं यज्ञं दैत्यसंघान्विजित्य च ॥५६॥
इंद्रादयः सुराः सर्वे सुखिताः स्वर्गमाययुः ॥
तस्मादेतत्समागत्य तीर्थं सर्वैश्च मानवैः ॥५७॥
सेवनीयं प्रयत्नेन स्वस्वाभीष्टस्य सिद्धये ॥
अंधैश्च कुणिभिर्मूकैर्बधिरैः कुब्जकैरपि ॥५८॥
खंजैः पंगुभिरप्येतदंगहीनैस्तथापरैः ॥
संछिन्नपाणिचरणैः संछिन्नान्यांगसंचयैः ॥५९॥
मनुष्यैश्च तथान्यैश्च विकलांगस्य पूर्तये ॥
सेवनीयमिदं तीर्थं सर्वाभीष्टप्रदायकम् ॥६०॥
एवं वः कथितं विप्राश्चक्रतीर्थस्य वैभवम् ॥
यत्र स्नात्वा पुरा छिन्नौ पाणी प्राप प्रभाकरः ॥६१॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
अंगानि विकलान्यस्य पूर्णानि स्युर्न संशयः ॥६२॥
मोक्षकामस्य मर्त्यस्य मुक्तिः स्यान्नात्र संशयः ॥६३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये चक्रतीर्थप्रशंसायामादित्यहिरण्मयपाण्यवाप्तिवर्णनंनाम त्रयोविंशोऽध्यायः ॥२३॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP