संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३२ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३२ Translation - भाषांतर ॥ श्रीसूत उवाच ॥भूयोऽपिसंप्रवक्ष्यामि धनुष्कोटेस्तु वैभवम् ॥युष्माकमादरेणाहं नैमिषारण्यवा सिनः ॥१॥नंदोनाम महाराजः सोमवंशसमुद्भवः ॥धर्मेण पालयामास सागरांतां धरामिमाम् ॥२॥तस्य पुत्रः समभवद्धर्मगुप्त इति श्रुतः ॥राज्य रक्षाधुरं नंदो निजपुत्रे निधाय सः ॥३॥जितेंद्रियो जिताहारः प्रविवेश तपोवनम् ॥ताते तपोवनं याते धर्मगुप्ताभिधो नृपः ॥४॥मेदिनीं पालया मास धर्मज्ञो नीतितत्परः ॥ईजे बहुविधैर्यज्ञैर्देवानिंद्रपुरोगमान् ॥५॥ब्राह्मणेभ्यो ददौ वित्तं क्षेत्राणि च बहूनि सः ॥सर्वे स्वधर्मनिरतास्तस्मिन्राजनि शासति ॥६॥बभूवुर्नाभवन्पीडास्तस्मिंश्चोरादिसंभवाः ॥कदाचिद्धर्मगुप्तोऽयमारूढस्तुरगोत्तमम् ॥७॥वनं विवेश विप्रेंद्रा मृगयारसकौ तुकी ॥तमालतालहिंतालकुरवाकुलदिङ्मुखे ॥८॥विचचार वने तस्मिन्सिंहव्याघ्रभयानके ॥मत्तालिकुलसंनादसंमूर्छितदिगंतरे ॥९॥पद्म कल्हारकुमुदनीलोत्पलवनाकुलैः ॥तटाकैरपि संपूर्णे तपस्विजनमंडिते ॥१०॥तस्मिन्वने संचरतो धर्मगुप्तस्य भूपतेः ॥अभूद्विभावरी विप्रास्त मसावृतदिङ्मुखा ॥११॥राजापि पश्चिमां संध्यामुपास्य नियमान्वितः ॥जजाप तत्र च वने गायत्रीं वेदमातरम् ॥१२॥सिंहव्याघ्रादिभीत्या स्मिन्वृक्षमेकं समास्थिते ॥राजपुत्रे तदाभ्यागादृक्षः सिंहभयार्दितः ॥१३॥अन्वधावतं तं ऋक्षमैकः सिंहो वनेचरः ॥अनुद्रुतः स सिंहेन ऋक्षो वृक्षमुपारुहत् ॥१४॥आरुह्य ऋक्षो वृक्षं तं ददर्श जगतीपतिम् ॥वृक्षस्थितं महात्मानं महाबलपराक्रमम् ॥१५॥उवाच भूपतिं दृष्ट्वा ऋक्षोयं वनगोचरः ॥मा भीतिं कुरु राजेंद्र वत्स्यावो रजनीमिह ॥१६॥महासत्त्वो महाकायो महादंष्ट्रासमाकुलः ॥वृक्षमूलं समायातः सिंहो यमतिभीषणः ॥१७॥रात्र्यर्धं भज निद्रा त्वं रक्ष्यमाणो मयादितः ॥ततः प्रसुप्तं मां रक्ष शर्वर्यर्धं महामते ॥१८॥इति तद्वाक्यमादाय सुप्ते नंदसुते हरिः ॥प्रोवाच ऋक्षं सुप्तोऽयं नृपश्च त्यज्यतामिति ॥१९॥तं सिंहमब्रवीदृक्षो धर्मज्ञो द्विजसत्तमाः॥भवान्धर्मं न जानीषे मृगराज वनेचर ॥२०॥विश्वासघातिनां लोके महाकष्टा भवंति हि ॥न हि मित्रद्रुहां पापं नश्येयज्ञायुतैरपि ॥२१॥ब्रह्महत्यादिपापानां कथंचिन्निष्कृतिर्भवेत् ॥विश्वस्तघातिनां पापं न नश्येज्जन्मकोटिभिः ॥२२॥नाहं मेरुं महाभारं मन्ये पंचास्य भूतले ॥महाभारमिमं मन्ये लोके विश्वासघातकम् ॥२३॥एवमुक्तेऽथ ऋक्षेण सिंहस्तूष्णीमभूत्तदा ॥धर्मगुप्ते प्रबुद्धे तु ऋक्षः सुष्वाप भूरुहे ॥२४॥ततः सिंहोऽब्रवीद्भूपमेनमृक्षं त्यजस्व मे ॥एवमुक्तेऽथ सिंहेन राजा सुप्तमशंकितः ॥२५॥स्वांकन्यस्तशिरस्कं तमृक्षं तत्याज भूतले ॥पात्यमानस्ततो राज्ञा नखालंबितपादपः ॥२६॥ऋक्षः पुण्यवशाद्वृक्षान्न पपात महीतले ॥स ऋक्षो नृपमभ्येत्य कोपाद्वाक्यमभाषत॥२७॥कामरूपधरो राजन्नहं भृगुकुलोद्भवः ॥ध्यानकाष्ठाभिधो नाम्ना ऋक्षरूपमधारयम् ॥२८॥यस्मादनागसं सुप्तमत्याक्षीन्मां भवान्नृप ॥मच्छापात्त्वमतः शीघ्रमुन्मत्तश्चर भूपते ॥२९॥इति शप्त्वा मुनिर्भूपं ततः सिंहमभाषत ॥नृसिंहस्त्वं महायक्षः कुबेरसचिवः पुरा ॥३॥हिमवद्गिरिमासाद्य कदाचित्त्वं वधूसखः ॥अज्ञानाद्गौतमाभ्याशे विहारमतनोर्मुदा ॥३१॥गौतमोप्युटजाद्दैवात्समिदाहरणाय वै ॥निर्गतस्त्वां विवसनं दृष्ट्वा शापमुदाहरत् ॥३२॥यस्मान्ममाश्रमेऽद्य त्वं विवस्त्रः स्थितवानसि ॥अतः सिंहत्वमद्यैव भविता ते न संशयः ॥३३॥इति गौतमशापेन सिंहत्वमगमत्पुरा ॥कुबेरसचिवो यक्षो भद्रनामा भवान्पुरा ॥३४॥कुबेरो धर्मशीलो हि तद्भृत्याश्च तथैव हि ॥अतः किमर्थं त्वं हंसि मामृषिं वनगोचरम् ॥३५॥एतत्सर्वमहं ध्याना ज्जानामीह मृगाधिप ॥इत्युक्ते ध्यानकाष्ठेन त्यक्त्वा सिंहत्वमाशु सः ॥३६॥यक्षरूपं गतो दिव्यं कुबेरसचिवात्मकम् ॥ध्यानकाष्ठमसावाह प्रांजलिः प्रणतो मुनिम् ॥३७॥अद्य ज्ञातं मया सर्वं पूर्ववृत्तं महामुने ॥गौतमः शापकाले मे शापांतमपि चोक्तवान् ॥३८॥ध्यानकाष्ठे न संवाद ऋक्षरूपेण ते यदा ॥तदा निर्धूय सिंहत्वं यक्षरूपमवाप्स्यसि ॥३९॥इति मामब्रवीद्ब्रह्मन्गौतमो मुनिपुंगवः ॥अद्य सिंहत्वनाशान्मे जानामि त्वां महामुने ॥४०॥ध्यानकाष्ठाभिधं शुद्धं कामरूपधरं सदा ॥इत्युक्त्वा तं प्रणम्याथ ध्यानकाष्ठं स यक्षराट् ॥४१॥विमानवरमा रुह्य प्रययावलकापुरीम् ॥तस्मिन्गते तु यक्षेशे ध्यानकाष्ठो महामुनिः ॥४२॥अव्याहतेष्टगमनो यथेष्ठः प्रययौ महीम् ॥ध्यानकाष्ठे गते तस्मि न्कामरूपधरे मुनौ ॥४३॥धर्मगुप्तौ मुनेः शापादुन्मत्तः प्रययौ पुरीम् ॥उन्मत्तरूपं तं दृष्ट्वा मंत्रिणस्तु नृपोत्तमम् ॥४४॥पितुः सकाशमा निन्यू रेवातीरे मनोरमे ॥तस्मै निवेदयामासुर्मतिभ्रंशं सुतस्य ते ॥४५॥ज्ञात्वा तु पुत्रवृत्तांतं नन्दस्तस्य पिता तदा ॥पुत्रमादाय तरसा जैमिनेरन्तिकं ययौ ॥तस्मै निवेदयामास पुत्रवृत्तान्तमादितः ॥४६॥भगवञ्जैमिने पुत्रो ममाद्योन्मत्ततां गतः ॥४७॥अस्योन्मादविनाशाय ब्रूह्युपायं महामुने ॥इति पृष्टश्चिरं दध्यौ जैमिनिर्मुनिपुंगवः ॥४८॥ध्यात्वा तु सुचिरं कालं नृपं नंदमथाब्रवीत् ॥ध्यानकाष्ठस्य शापेन ह्युन्म त्तस्ते सुतोऽभवत् ॥४९॥तस्य शापस्य मोक्षार्थमुपायं प्रब्रवीमि ते ॥दक्षिणांबुनिधौ सेतौ पुण्ये पापविनाशने ॥५०॥धनुष्कोटिरिति ख्यातं तीर्थमस्ति महत्तरम् ॥पवित्राणां पवित्रं च मंगलानां च मंगलम् ॥५१॥श्रुतिसिद्धं महापुण्यं ब्रह्महत्यादिशोधकम् ॥नीत्वा तत्र सुतं तेऽद्य स्नापयस्व महीपते ॥५२॥उन्मादस्तत्क्षणादेव तस्य नश्येन्न संशयः ॥इत्युक्तस्तं प्रणम्यासौ जैमिनिं मुनिपुंगवम् ॥५३॥नंदः पुत्रं समादाय धनुष्कोटिं ययौ तदा ॥तत्र च स्नापयामास पुत्रं नियमपूर्वकम् ॥५४॥स्नानमात्रात्ततः सद्यो नष्टोन्मादोऽभवत्सुतः ॥स्वयं सस्नौ स नन्दोपि धनुष्कोटौ सभक्तिकम् ॥५५॥ उषित्वा दिनमेकं तु सपुत्रस्तु पिता तदा ॥सेवित्वा रामनाथं च सांबमूर्तिं घृणानिधिम् ॥५६॥पुत्रमापृच्छय नंदस्तं प्रययौ तपसे वनम् ॥गते पितरि पुत्रोऽपि धर्मगुप्तो नृपो द्विजाः ॥५७॥प्रददौ रामनाथाय बहुवित्तानि भक्तितः ॥ब्राह्मणेभ्यो धनं धान्यं क्षेत्राणि च ददौ तदा ॥५८॥प्रययौ मंत्रिभिः सार्धं स्वां पुरीं तदनंतरम् ॥धर्मेण पालयामास राज्यं निहतकण्टकम् ॥५९॥पितृपैतामहं विप्रा धर्मगुप्तोऽतिधार्मिकः ॥उन्मादैरप्यपस्मारैर्ग्रहैर्दुष्टैश्च ये नराः ॥६०॥ग्रस्ता भवंति विप्रेंद्रास्तेऽपि चात्र निमज्जनात् ॥धनुष्कोटौ विमुक्ताः स्युः सत्यं सत्यं वदाम्यहम् ॥६१॥परित्यज्य धनुष्कोटिं तीर्थमन्यद्व्रजेत्तु यः ॥सिद्धं स गोपयस्त्यक्त्वा स्नुहीक्षीरं प्रयाचते ॥६२॥धनुष्कोटिर्धनुष्कोटिर्धनुष्कोटिरिति द्विजाः ॥त्रिः पठन्तो नरा ये तु यत्र क्वापि जलाशये ॥६३॥स्नांति सर्वे नरास्ते वै यास्यंति ब्रह्मणः पदम् ॥एवं वः कथिता विप्रा धर्मगुप्तकथा शुभा ॥६४॥यस्याः श्रवणमात्रेण ब्रह्महत्या विनश्यति ॥स्वर्णस्तेयादयश्चान्ये नश्येयुः पापसंचयाः ॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये धनुष्कोटिप्रशंसायां धर्मगुप्तोन्मा दविमोक्षणवर्णनंनाम द्वात्रिंशोऽध्यायः ॥३२॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP