सेतुखण्डः - अध्याय २९
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
स्नात्वा साध्यामृते तीर्थे नृपशापविमोक्षणे ॥
सर्वतीर्थं ततो गच्छेन्मनुजो नियमान्वितः ॥१॥
सर्वतीर्थं महापुण्यं महापातकनाशनम् ॥
महापातकयुक्तो वा युक्तो वा सर्वपातकैः ॥२॥
शुद्ध्येत तत्क्षणादेव सवर्तीर्थनिमज्जनात् ॥
तावत्सर्वाणि पापानि देहे तिष्ठंति सुव्रताः ॥३॥
न यावत्सर्वतीर्थेस्मिन्निमज्जेत्पापपूरुषः ।१
स्नानार्थं सर्वतीर्थेऽस्मिन्दृष्ट्वा यांतं द्विजा नरम् ॥४॥
वेपंते सर्वपापानि नाशोऽस्माकं भवेदिति ॥
गर्भवासादिदुःखानि तावद्याति नरो भुवि ॥५॥
न स्नायात्सर्वतीर्थेऽस्मिन्यावद्ब्राह्मणपुंगवाः॥
अनुष्ठितैर्महायागैस्तथा तीर्थनिषेवणैः ॥६॥
गायत्र्यादिमहामंत्रजपैर्नियमपूर्वकम् ॥
चतुर्णामपि वेदानामावृत्त्या शतसंख्यया ॥७॥
शिवविष्ण्वादिदेवानां पूजया भक्ति पूर्वकम् ॥
एकादश्यादितिथिषु तथैवानशनेन च॥
यत्फलं लभते मर्त्यस्तल्लभेदत्र मज्जनात् ॥८॥
॥ ऋषय ऊचुः ॥
सर्वतीर्थमिति ख्यातिः सूतास्य कथमागता ॥
ब्रूह्यस्माकमिदं पुण्यं विस्तराच्छृण्वतां मुने ॥९॥
॥ श्रीसूत उवाच ॥
पुरा सुचरितोनाम मुनिर्नियमसंयुतः ॥१०॥
भृगुवंशसमुद्भूतो जात्यंधो जरयातुरः ॥
अशक्तस्तीर्थयात्रायां नेत्राभावेन स द्विजाः ॥११॥
सर्वेषामेव तीर्थानां स्नातुकामो महामु निः ॥
दक्षिणांबुनिधौ पुण्यं गंधमादनपर्वतम् ॥१२॥
गत्वा शंकरमुद्दिश्य तपस्तेपे सुदुष्करम् ॥
त्रिकालमर्चयञ्छंभुमुपवासी जितेंद्रियः ॥१३॥
तथा त्रिषवणस्नानात्तथैवातिथिपूजकः ॥
शिशिरे जलमध्यस्थो ग्रीष्मे पंचाग्निमध्यगः ॥१४॥
वर्षास्वासारसहन अब्भक्षो वायुभोजनः ॥
उद्धूलनं त्रिपुंड्रं च भस्मना धारयन्सदा ॥१५॥
जाबालोपनिषद्रीत्या तथा रुद्राक्षधारकः ॥
एवमुग्रं तपश्चक्रे दशसंवत्सरं द्विजः ॥१६॥
तपसा तस्य संतुष्टः शंकरश्चंद्रशेखरः ॥
प्रादुरासीन्मुनेस्तस्य द्विजाः सुचरितस्य वै ॥१७॥
समारुह्य महोक्षाणं भूतवृंदनिषेवितः ॥
गिरिजार्ध वपुः शूली सूर्यकोटिसमप्रभः ॥१८॥
स्वभासा भासयन्सर्वा दिशो वितिमिरास्तदा ॥
भस्मपांडुरसर्वांगो जटामंडलमंडितः ॥१९॥
अनंता दिमहानागविभूषणविभूषितः ॥
प्रादुर्भूतस्ततः शंभुः प्रादात्तस्य विलोचने ॥२०॥
आत्मावलोकनार्थाय शंकरो गिरिजापतिः ॥
ततः सुचरितो विप्राः शंभुना दत्तदृग्द्वयः ॥
आलोक्य परमेशानं प्रतुष्टाव प्रसन्नधीः ॥२१॥
॥ सुचरित उवाच ॥
जय देव महेशान जय शंकर धूर्जटे ॥२२॥
जय ब्रह्मादिपूज्य त्वं त्रिपुरघ्न यमांतक ॥
जयोमेश महादेव कामांतक जयामल ॥२३॥
जय संसारवैद्य त्वं भूतपाल शिवाव्य य ॥
त्रियंबक नमस्तुभ्यं भक्तरक्षणदीक्षित ॥२४॥
व्योमकेश नमस्तुभ्यं जय कारुण्यविग्रह ॥
नीलकण्ठ नमस्तुभ्यं जय संसारमोचक॥२५॥
महेश्वर नमस्तुभ्यं परमानंदविग्रह ॥
गंगाधर नमस्तुभ्यं विश्वेश्वर मृडाव्यय ॥२६॥
नमस्तुभ्यं भगवते वासुदेवाय शंभवे ॥
शर्वायोग्राय गर्भाय कैलासपतये नमः ॥२७॥
रक्ष मां करुणासिंधो कृपादष्ट्यवलोकनात् ॥
मम वृत्तमनालोच्य त्राहि मां कृपया हर॥२८॥
श्रीसूत उवाच॥
इति स्तुतो महादेवस्तमेनमिदमभ्यधात् ॥
मुनिं सुचरितं विप्रा दयोदन्वानुमापतिः ॥२९॥
॥ महादेव उवाच ॥
मुने सुचरिताद्य त्वं वरं वरय कांक्षितम् ॥
वरं दातुं तवायातः पुण्येस्मिन्नाश्रमे शुभे ॥
इतीरितो मुनिः प्राह महादेवं दयानिधिम् ॥३०॥
॥ सुचरित उवाच ॥
भगवंस्त्वं प्रसन्नो मे यदि स्याश्चंद्रशेखर ॥३१॥
तर्हि त्वां प्रवृणोम्यद्धा वरं मदभिकांक्षितम् ॥
जरापलितदेहोहं कुत्रचिद्गंतुमक्षमः ॥३२॥
सर्वतीर्थेषु च स्नातुमाकांक्षा मम विद्यते ॥
तस्मात्सर्वेषु तीर्थेषु स्नानेन मनुजो हि यत् ॥
फलं प्राप्नोति मे ब्रूहि तत्फला वाप्तिसाधनम् ॥३३॥
॥ महादेव उवाच ॥
अहमावाहयिष्यामि तीर्थान्यत्रैव कृत्स्नशः ॥३४॥
रामस्य सेतुना पूते नगेऽस्मिन्गंधमादने ॥
इत्युक्त्वा स महादेवः पर्वते गन्धमादने ॥३५॥
तीर्थान्यावाहयामास मुनिप्रीत्यर्थमुत्तमः ॥
ततस्सुचरितं प्राह शंकरः करुणानिधिः ॥३६॥
मुने सुचरितेदं तु महापातकनाशनम् ॥
सांनिध्यात्सर्वतीर्थानां सर्वतीर्थाभिधं स्मृतम् ॥३७॥
मयात्र सर्वतीर्थानां मनसाकर्षणादिदम् ॥
मानसं तीर्थमित्याख्यां लप्स्यते भुक्तिमुक्तिदम् ॥३८॥
अतः सुचरितात्र त्वं स्नाहि सद्यो विमुक्तये ॥
महापातकसंघानां दावानलसमद्युतौ ॥३९॥
काममोहभयक्रोधलोभरोगादिनाशने ॥
विना वेदांतविज्ञानं सद्योनिर्वाणकारणे ॥४०॥
जन्ममृत्य्वादिनक्रौघसंसारार्णवतारणे ॥
कुम्भीपाकादिसकलनरकाग्निविनाशने ॥४१॥
इतीरितः सुचरितः शम्भुना मदनारिणा ॥
सस्नौ विप्राः सर्वतीर्थे महादेवस्य संनिधौ ॥४२॥
स्नात्वोत्थितः सुचरितो ददृशेऽखिलमानवैः ॥
जरापलितनिर्मुक्तस्तरुणोऽतीव सुन्दरः ॥४३॥
दृष्ट्वा स्वदेहसौंदर्यं ततः सुचरितो मुनिः ॥
श्लाघयामास तत्तीर्थं बहुधाऽन्ये च तापसाः ॥४४॥
महादेवः सुचरितं बभाषे तदनंतरम् ॥
अस्य तीर्थस्य तीरे त्वं वसन्सुचरित द्विज ॥४५॥
स्नानं कुरुष्व सततं स्मरन्मां मुक्तिदायकम् ॥
देशांतरीयतीर्थेषु मा व्रज ब्राह्मणोत्तम ॥४६॥
अस्य तीर्थस्य माहात्म्यान्मामंते प्राप्स्यसि ध्रुवम्॥
अन्येऽपि येऽत्र स्नास्यंति तेऽपि मां प्राप्नुयुर्द्विज ॥४७॥
इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥
तस्मिन्नंतर्हिते रुद्रे ततः सुचरितो मुनिः ॥४८॥
अनेककालं निवसन्सर्वतीर्थस्य तीरतः ॥
स्नानं समाचरंस्तीर्थे मानसे नियमान्वितः ॥४९॥
देहांते शंकरं प्राप सर्वबन्धविमोचितः ॥
सायुज्यं चापि संप्राप सर्वतीर्थस्य वैभवात् ॥५०॥
एवं वः कथितं विप्राः सर्वतीर्थस्य वैभवम् ॥
एतत्पठन्वा शृण्वन्वा मुच्यते सर्व पातकैः ॥५१॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सर्वतीर्थप्रशंसायां सर्वतीर्थस्वरूप कथनंनामैकोनत्रिंशोऽध्यायः ॥२९॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP