सेतुखण्डः - अध्याय ४१
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
अथातः संप्रवक्ष्यामि गायत्रीं च सरस्वतीम् ॥
लक्ष्यीकृत्य कथामेकां पवित्रां द्विजसत्तमाः ॥१॥
कश्यपाख्यो द्विजः पूर्वमस्मिंस्तीर्थद्वये शुभे ॥
स्नात्वातिमहतः पापाद्विमुक्तो नरकप्रदात् ॥२॥
॥ ऋषय ऊचुः ॥
मुने कश्यपनामासावकरोत्किं हि पातकम् ॥
स्नात्वा तीर्थद्वयेप्यत्र यस्मान्मुक्तोऽभवत्क्षणात् ॥३॥
एतन्नः श्रद्दधानानां ब्रूहि सूत कृपाबलात् ॥
त्वद्वचोऽमृततृप्तानां न पिपासापि विद्यते ॥४॥
॥ श्रीसूत उवाच ॥
गायत्र्याश्च सरस्वत्या माहात्म्यप्रतिपादकम् ॥
इतिहासं प्रवक्ष्यामि शृण्वतां पापनाशनम् ॥५॥
अभिमन्युसुतो राजा परीक्षिन्नाम नामतः ॥
अध्यास्ते हास्तिनपुरं पालयन्धर्मतो महीम् ॥६॥
स राजा जातु विपिने चचार मृगया रतः ॥
षष्टिवर्षवया भूपः क्षुत्तृष्णापरिपीडितः ॥७॥
नष्टमेकं स विपिने मार्गयन्मृगमादरात् ॥
ध्यानारूढं मुनिं दृष्ट्वा प्राह तं चीरवाससम् ॥८॥
मया बाणेन विपिने मृगो विद्धोऽधुना मुने ॥
दृष्टः स किं त्वया विद्वन्विद्रुतो भयकातरः ॥९॥
समाधिनिष्ठो मौनित्वान्न किं चिदपि सोऽब्रवीत् ॥
ततो धनुरटन्याऽसौ स्कंधे तस्य महामुनेः।१०॥
निधाय मृतसर्पं तु कुपितः स्वपुरं ययौ॥
मुनेस्तस्य सुतः कश्चिच्छृंगीनाम बभूव वै ॥११॥
सखा तस्य कृशाख्योऽभूच्छृंगिणो द्विजसत्तमाः ॥
सखायं शृङ्गिणं प्राह कृशाख्यः स सखा ततः ॥१२॥
पिता तव मृतं सर्पं स्कंधेन वहतेऽधुना ॥
मा भूद्दर्पस्तव सखे मा कृथास्त्वं मदं वृथा ॥१३॥
सोऽवदत्कुपितः शृंगी दित्सुश्शापं नृपाय वै ॥
मत्ताते शवसर्पं यो न्यस्तवान्मूढचेतनः ॥१४॥
स सप्तरात्रान्म्रियतां संदष्टस्तक्षकाहिना ॥
शशापैवं मुनिसुतः सौभद्रेयं परीक्षितम् ॥१५॥
शमीकाख्यः पिता तस्य श्रुत्वा शप्तं सुतेन तम् ॥
नृपं प्रोवाच तनयं शृंगिणं मुनिपुंगवः ॥१६॥
रक्षकं सर्वलोकानां नृपं किं शप्तवानसि ॥
अराजके वयं लोके स्थास्यामः कथमंजसा ॥१७॥
क्रोधेन पातकमभून्न त्वया प्राप्यते सुखम् ॥
यः समुत्पादितं कोपं क्षमयैव निरस्यति ॥१८॥
इह लोके परत्रासावत्यंतं सुखमेधते ॥
क्षमायुक्ता हि पुरुषा लभंते श्रेय उत्तमम् ॥१९॥
ततः शमीकः स्वं शिष्यं प्राह गौरमुखाभिधम् ॥
भो गौ मुख गत्वा त्वं वद भूपं परीक्षितम् ॥२०॥
इमं शापं मत्सुतोक्तं तक्षकाहिविदंशनम् ॥
पुनरायाहि शीघ्रं त्वं मत्समीपे महामते ॥२१॥
एवमुक्तः शमीकेन ययौ गौरमुखो नृपम् ॥
समेत्य चाब्रवीद्भूपं सौभद्रेयं परीक्षितम् ॥२२॥
दृष्ट्वा सर्पं पितुः स्कन्धे त्वया विनिहितं मृतम् ॥
शमीकस्य सुतः शृंगी शशाप त्वां रुषान्वितः ॥२३॥
एतद्दिनात्सप्तमेऽह्नि तक्षकेण महाहिना ॥
दष्टो विषाग्निना दग्धो भूयादाश्वभिमन्युजः ॥२४॥
एवं शशाप त्वां राजञ्छृंगी तस्य मुनेः सुतः ॥
एतद्वक्तुं पिता तस्य प्राहिणोन्मां त्वदंतिकम् ॥२५॥
इतीरयित्वा तं भूपमाशु गौरमुखो ययौ ॥
गते गौरमुखे पश्चाद्राजा शोकपरायणः ॥२६॥
अभ्रंलिहमथोत्तुंगमेकस्तंभं सुविस्तृतम् ॥
मध्येगंगं व्यतनुत मंडपं नृपपुंगवः ॥२७॥
महागारुडमंत्रज्ञैरौषधज्ञैश्चिकित्सकैः ॥
तक्षकस्य विषं हंतुं यत्नं कुर्वन्समाहितः ॥२८॥
अनेकदेवब्रह्मर्षिराजर्षिप्रवरान्वितः ॥
आस्ते तस्मिन्नृपस्तुंगे मंडपे विष्णुभक्तिमान् ॥२९॥
तस्मिन्नवसरे विप्रः काश्यपो मांत्रिकोत्तमः ॥
राजानं रक्षितुं प्रायात्तक्षकस्य महाविषात् ॥३०॥
सप्तमेऽहनि विप्रेंद्रो दरिद्रो धनकामुकः ॥
अत्रांतरे तक्षकोऽपि विप्ररूपी समाययौ ॥३१॥
मध्येमार्गं विलोक्याथ कश्यपं प्रत्यभाषत ॥
ब्राह्मण त्वं कुत्र यासि वद मेऽद्य महामुने ॥३२॥
इति पृष्टस्तदावादीत्काश्यपस्तक्षकं द्विजाः ॥
परीक्षितं महाराजं तक्षकोऽद्य विषाग्निना ॥३३॥
दक्ष्यते तं शमयितुं तत्समीपमुपैम्यहम् ॥
इत्युक्तवंतं तं विप्रं तक्षकः पुनरब्रवीत् ॥३४॥
तक्षकोहं द्विजश्रेष्ठ मया दष्टश्चिकित्सितुम् ॥
न शक्यो ऽब्दशतेनापि महामंत्रायुतैरपि ॥३५॥
चिकित्सितुं चेन्मद्दष्टं शक्तिरस्ति तवाधुना ॥
अनेकयोजनोच्छ्रायमिमं वटतरुं त्वहम् ॥३६॥
दशाम्युज्जीवयैनं त्वं समर्थोऽस्ति ततो भवान् ॥
इतीरयित्वा तं वृक्षमदशत्तक्षकस्तदा ॥३७॥
अभवद्भस्मसात्सोऽपि वृक्षोऽत्यंतं समूर्च्छितः ॥
पूर्वमेव नरः कश्चित्तं वृक्षमधिरूढवान् ॥३८॥
तक्षकस्य विषोल्काभिः सोऽपि दग्धोऽभवत्तदा ॥
तं नरं न विजिज्ञाते तौ च काश्यपतक्षकौ ॥३९॥
काश्यपः प्रतिजज्ञेऽथ तक्षकस्यापि शृण्वतः ॥
तन्मंत्रशक्तिं पश्यंतु सर्वे विप्रा हि नोऽधुना ॥४०॥
इतीरयित्वा तं वृक्षं भस्मीभूतं विषाग्निना ॥
अजीवयन्मन्त्रशक्त्या काश्यपो मांत्रिकोत्तमः ॥४१॥
नरोऽपि तेन वृक्षेण साकमुज्जीवितोऽभवत् ॥
अथाब्रवीत्तक्षकस्तं काश्यपं मंत्रकोविदम् ॥४२॥
यथा न मुनिवाङ्मिथ्या भवेदेवं कुरु द्विज ॥
यत्ते राजा धनं दद्यात्ततोपि द्विगुणं धनम् ॥४३॥
ददाम्यहं निवर्तस्व शीघ्रमेव द्विजोत्तम ॥
इत्युक्त्वानर्घ्यरत्नानि तस्मै दत्त्वा स तक्षकः ॥४४॥
न्यवर्तयत्काश्यपं तं ब्राह्मणं मंत्रको विदम् ॥
अल्पायुषं नृपं मत्वा ज्ञानदृष्ट्या स काश्यपः ॥४५॥
स्वाश्रमं प्रययौ तूष्णीं लब्धरत्नश्च तक्षकात् ॥
सोऽब्रवीत्तक्षकः सर्वान्सर्पानाहूय तत्क्षणे ॥४६॥
यूयं तं नृपतिं प्राप्य मुनीनां वेषधारिणः ॥
उपहारफलान्याशु प्रयच्छत परीक्षिते ॥४७॥
तथेत्युक्त्वा सर्वसर्पा ददू राज्ञे फलान्यमी ॥
तक्षकोपि तदा तत्र कस्मिंश्चिद्बदरीफले ॥४८॥
कृमिवेषधरो भूत्वा व्यतिष्ठद्दंशितुं नृपम् ॥
अथ राजा प्रदत्तानि सर्पैर्ब्राह्मणरूपकैः ॥४९॥
परीक्षिन्मंत्रवृद्धेभ्यो दत्त्वा सर्वफलान्यपि ॥
कौतूहलेन जग्राह स्थूलमेकं फलं करे ॥५०॥
अस्मिन्नवसरे सूर्योऽप्यस्ताचलमगाहत ॥
मिथ्या ऋषिवचो मा भूदिति तत्रत्यमानवाः ॥५१॥
अन्योयमवदन्त्सर्वे ब्राह्मणाश्च नृपास्तथा ॥
एवं वदत्सु सर्वेषु फले तस्मिन्नदृश्यत ॥५२॥
फले रक्तकृमिः सर्वे राज्ञा चापि परीक्षिता ॥
अयं किं मां दशेदद्य कृमिरित्युक्तवा न्नृपः ॥५३॥
निदधे तत्फलं कर्णे सकृमि द्विजसत्तमाः ॥
तक्षकोऽस्मिन्स्थितः पूर्वं कृमिरूपी फले तदा ॥५४॥
निर्गत्य तत्फलादाशु नृपदे हमवेष्टयत् ॥
तक्षकावेष्टिते भूपे पार्श्वस्था दुद्रुवुर्भयात् ॥५५॥
अनंतरं नृपो विप्रास्तक्षकस्य विषाग्निना ॥
दग्धोऽभूद्भस्मसादाशु सप्रासादो बलीयसा ॥५६॥
कृत्वोर्ध्वदैहिकं तस्य नृपस्य सपुरोहिताः ॥
मंत्रिणस्तत्सुतं राज्ये जनमेजयनामकम् ॥५७॥
राजानमभ्यषिंचन्वै गजद्रक्ष णवांछया ॥
तक्षकाद्रक्षितुं भूपमायातः काश्यपाभिधः ॥५८॥
यो ब्राह्मणो मुनिश्रेष्ठाः स सर्वैर्निंदितो जनैः ॥
बभ्राम सकलान्देशाञ्छिष्टैः सर्वैश्च दूषितः ॥५९॥
अवस्थानं न लेभेऽसौ ग्रामे वाप्याश्रमेऽपि वा ॥
यान्यान्देशानसौ यातस्तत्रतत्रमहाजनैः ॥६०॥
तत्तद्देशान्निरस्तः स शाकल्यं शरणं ययौ ॥
प्रणम्य शाकल्यमुनिं काश्यपो निन्दितो जनैः ॥
इदं विज्ञापयामास शाकल्याय महात्मने ॥६१॥
॥ काश्यप उवाच ॥
भगवन्सर्वधर्मज्ञ शाकल्य हरिवल्लभ ॥६२॥
मुनयो ब्राह्मणाश्चान्ये मां निंदंति सुहृज्जनाः ॥
नास्याहं कारणं जाने किं मां निंदंति मानवाः ॥६३॥
ब्रह्महत्या सुरापानं गुरुस्त्रीगमनं तथा ॥
स्तेयं संसर्गदोषो वा मया नाचरितः क्वचित् ॥६४॥
अन्यान्यपि हि पापानि न कृतानि मया मुने ॥
तथापि निंदंति जना वृथा मां बांधवादयः ॥६५॥
जानासि चेत्त्वं शाकल्य मया दोषं कृतं वद ॥
उक्तोऽथ काश्यपेनैवं शाकल्याख्यो महामुनिः ॥
क्षणं ध्यात्वा बभाषे तं काश्यपं द्विजसत्तमाः ॥६६॥
॥ शाकल्य उवाच ॥
परीक्षितं महाराजं तक्षकाद्रक्षितुं भवान् ॥६७॥
अयासीदर्धमार्गे तु तक्षकेण निवारितः ॥
चिकित्सितुं समर्थोऽपि विषरोगादिपीडितम् ॥६८॥
यो न रक्षति लोभेन तमाहुर्ब्रह्मघातकम् ॥
क्रोधात्कामाद्भयाल्लोभान्मात्सर्यान्मोहतोऽपि वा ॥६९॥
यो न रक्षति विप्रेंद्र विषरोगातुरं नरम् ॥
ब्रह्महा स सुरापी च स्तेयी च गुरुतल्पगः ॥७०॥
संसर्गदोषदुष्टश्च नापि तस्य हि निष्कृतिः ॥
कन्याविक्रयिणश्चापि हयविक्रयिणस्तथा ॥७१॥
कृतघ्न स्यापि शास्त्रेषु प्रायश्चित्तं हि विद्यते ॥
विषरोगातुरं यस्तु समर्थोपि न रक्षति ॥७२॥
न तस्य निष्कृतिः प्रोक्ता प्रायश्चित्तायुतैरपि ॥
न तेन सह पंक्तौ च भुंजीत सुकृती जनः ॥७३॥
न तेन सह भाषेत न पश्येत्तं नरं क्वचित् ॥
तत्संभाषणमात्रेण महापातकभाग्भवेत् ॥७४॥
परीक्षित्स महाराजः पुण्यश्लोकश्च धार्मिकः ॥
विष्णुभक्तो महायोगी चातुर्वर्ण्यस्य रक्षिता ॥७५॥
व्यासपुत्राद्धरिकथां श्रुतवान्भक्तिपूर्वकम् ॥
अरक्षित्वा नृपं तं त्वं वचसा तक्षकस्य यत् ॥७६॥
निवृत्तस्तेन विप्रेंद्रैर्बांधवैरपि दूष्यसे ॥
स परीक्षिन्महाराजो यद्यपि क्ष णजीवितः ॥७७॥
तथापि यावन्मरणं बुधैः कार्यं चिकित्सनम् ॥
यावत्कण्ठगताः प्राणा मुमूर्षोर्मानवस्य हि ॥७८॥
तावच्चिकित्सा कर्तव्या कालस्य कुटिला गतिः ॥
इति प्राहुः पुरा श्लोकं भिषग्वैद्याब्धिपारगाः ॥७९॥
अतश्चिकित्साशक्तोऽपि यस्मादकृतभेषजः ॥
अर्धमार्गे निवृत्तस्त्वं तेन तं हतवानसि ॥
शाकल्येनैवमुदितः काश्यपः प्रत्यभाषत ॥८०॥
॥ काश्यप उवाच ॥
ममैतद्दोषशांत्यर्थमुपायं वद सुव्रत ॥८१॥
येन मां प्रतिगृह्णीयुर्बांधवाः ससुहृज्जनाः ॥८२॥
कृपां मयि कुरुष्व त्वं शाकल्य हरिवल्लभ ॥
काश्यपेनैवमुक्तस्तु शाकल्योपि मुनीश्वरः ॥
क्षणं ध्यात्वा जगादैवं काश्यपं कृपया तदा ॥८३॥
॥ शाकल्य उवाच ॥
अस्य पापस्य शात्यर्थमुपायं प्रवदामि ते ॥८४॥
तत्कर्त्तव्यं त्वया शीघ्रं विलंबं मा कृथा द्विज ॥
दक्षिणांबुनिधौ सेतौ गंधमादनपर्वते ॥८५॥
अस्ति तीर्थद्वयं विप्रा गायत्री च सरस्वती ॥
तत्र त्वं स्नानमात्रेण शुद्धो भूयाश्च तत्क्षणे ॥८६॥
गायत्र्या च सरस्वत्या जलवात स्पृशो नरः ॥
विधूय सर्वपापानि स्वर्गं यास्यंति निर्मलाः ॥८७॥
तद्याहि शीघ्र विप्र त्वं गायत्रीं च सरस्वतीम् ॥
इत्युक्तः काश्यपस्तेन शाकल्येन द्विजोत्तमाः ॥८८॥
नत्वा मुनिं च शाकल्यं तमापृच्छ्य मुनीश्वरम् ॥
तेन चैवाभ्यनुज्ञातः प्रययौ गन्धमादनम् ॥८९॥
तत्र गत्वा च गायत्रीसरस्वत्यौ च काश्यपः ॥
नत्वा तीर्थद्वयं भक्त्या दण्डपाणिं च भैरवम् ॥९०॥
संकल्पपूर्वं तत्तीर्थे सस्नौ नियमसंयुतः ॥
तीर्थद्वये स्नानमात्रान्मुक्तपापोऽथ काश्यपः ॥९१॥
तीर्थद्वयस्य तीरेऽसौ किंचित्कालं तु तस्थिवान् ॥
तस्मिन्काले च गायत्रीसरस्वत्यौ मुनीश्वराः ॥९२॥
प्रादुर्बभूवतुर्मूर्ते सर्वाभरणभूषिते ॥
देव्यौ ते स नमस्कृत्य काश्यपो भक्तिपूर्वकम् ॥९३॥
के युवां रूपसंपन्ने सर्वालंकारसंयुते ॥
इति पप्रच्छ दृष्ट्वा ते काश्यपो हृष्टमानसः ॥
तेन पृष्टे च गायत्रीसरस्वत्यौ तमूचतुः ॥९४॥
॥ गायत्रीसरस्वत्यावूचतुः ॥
काश्यपावां हि गायत्रीसरस्वत्यौ विधिप्रिये ॥९५॥
एतत्तीर्थस्वरूपेण नित्यं वर्तावहे त्वतः ॥
अत्र तीर्थद्वये स्नानादावां तुष्टे तवाधुना ॥९६॥
वरं मत्तो वृणीष्व त्वं यदिष्टं काश्यप द्विज ॥
स्नांति तीर्थद्वये येऽत्र दास्यावस्तदभीप्सितम् ॥९७॥
श्रुत्वा वचस्तद्गायत्रीसरस्वत्योः स काश्यपः ॥
तुष्टाव वाग्भिरग्र्याभिस्ते देव्यौ वेधसः प्रिये ॥९८॥
॥ काश्यप उवाच ॥
चतुराननगेहिन्यौ जगद्धात्र्यौ नमाम्यहम् ॥
विद्यास्वरूपे गायत्री सरस्वत्यौ शुभे उभे ॥९९॥
सृष्टिस्थित्यंतकारिण्यौ जगतो वेदमातरौ ॥
हव्यकव्यस्वरूपे च चंद्रादित्यविलोचने ॥१००॥
सर्वदेवाधिपे वाणी गायत्र्यौ सततं भजे ॥
गिरिजा कमला चापि युवामेव जगद्धिते ॥१॥
युष्मद्दर्शनमात्रेण जगत्सृष्ट्यादिकल्पनम् ॥
युष्मन्निमेषात्सततं जगतां प्रलयो भवेत् ॥२॥
उन्मेषात्सृष्टिरभवद्भोगायत्रि सरस्वति ॥
युवयोर्दर्शनादद्य कृतार्थोऽभवमाशु वै ॥३॥
मामद्य पातकान्मुक्तं स्नानात्तीर्थ द्वयेऽत्र तु ॥
स्वीकुर्वंतु मुनिश्रेष्ठा ब्राह्मणा बांधवास्तथा ॥४॥
इतः परं पापकृत्ये मा मे बुद्धिः प्रवर्तताम् ॥
धर्मे प्रवर्ततां नित्यमयमेव वरो मम ॥५॥
दीयतां भो महादेव्यौ नान्यमिच्छाम्यहं वरम् ॥
इति ते प्रार्थिते तेन काश्यपेन द्विजोत्तमाः ॥६॥
सरस्वती च गायत्री द्वे देव्यौ ब्रह्मणः प्रिये ॥
काश्यपं प्रोचतुः प्रीते जनन्यौ जगतां सदा ॥७॥
काश्यपैतद्वरं सर्वं प्रार्थितं यत्त्वयाऽधुना ॥
अनुग्रहादावयोस्तदचिरेण तवास्तु हि ॥८॥
इत्युक्त्वा तं तु गायत्रीसरस्वत्यौ क्षणेन वै ॥
तिरोधानं गते विप्रास्तस्मिंस्तीर्थद्वये तदा ॥९॥
काश्यपोऽपि कृतार्थः सन्स्व देशं प्रति निर्ययौ ॥
बांधवा ब्राह्मणाः सर्वे काश्यपं गतकिल्बिषम् ॥११०॥
प्रत्यगृह्णंश्च गायत्रीसरस्वत्योर्निमज्जनात् ॥
एवं वः कथितं विप्रा काश्यपस्य विमोक्षणम्॥ ११॥
पातकेभ्यो हि गायत्रीसरस्त्योर्निमजनात् ॥
पठते त्विममध्यायं शृणुते वा समाहितः ॥१२॥
यो गायत्र्यां सरस्वत्यां स स्नातफलमश्नुते ॥११३॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां काश्यपपापशांतिवर्णनंनामैकचत्वारिंशोऽध्यायः ॥४१॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP