संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १४ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १४ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १४ Translation - भाषांतर ॥ श्रीसूत उवाच ॥स्नात्वा त्वमृत वाप्यां वै सेवित्वैकांतराघवम् ॥जितेंद्रियो नरः स्नातुं ब्रह्मकुंडं ततो व्रजेत् ॥१॥सेतुमध्ये महातीर्थं गंधमादनपर्वते ॥ब्रह्मकुंडमिति ख्यातं सर्व दारिद्र्यभेषजम् ॥२॥विद्यते ब्रह्महत्यानामयुतायुतनाशनम् ॥दर्शनं ब्रह्मकुंडस्य सर्वपापौघनाशनम् ॥३॥किं तस्य बहुभिस्तीर्थैः किं तपोभिः किमध्वरैः ॥महादानैश्च किं तस्य ब्रह्मकुंडविलोकिनः ॥४॥ब्रह्मकुंडे सकृत्स्नानं वैकुंठप्राप्तिकारणम् ॥ब्रह्मकुंडसमुद्भूतं भस्म येन धृतं द्विजाः॥ ५॥तस्यानुगास्त्रयो देवा ब्रह्मविष्णुमहेश्वराः ॥ब्रह्मकुंडसमुद्भूतभस्मना यस्त्रिपुंड्रकम् ॥६॥करोति तस्य कैवल्यं करस्थं नात्र संशयः ॥तद्भस्मपरमाणुर्वा यो ललाटे धृतो भवेत् ॥७॥तावदेवास्य मुक्तिः स्यान्नात्र कार्या विचारणा ॥तत्कुंडभस्मना मर्त्यः कुर्यादुद्धूलनं तु यः ॥८॥तस्य पुण्यफलं वक्तुं शंकरो वेत्ति वा न वा ॥ब्रह्मकुंडसमुद्भूतं भस्म यो नैव धारयेत् ॥९॥रौरवे नरके सोऽयं पतेदाचंद्रतारकम् ॥उद्धूलनं त्रिपुंड्रं वा ब्रह्मकुंडस्थभस्मना ॥१०॥नराधमो न कुर्याद्यः सुखं नास्य कदाचन ॥ब्रह्मकुंडसमुद्भूतभस्मनिंदारतस्तु यः ॥११॥उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ॥ब्रह्मकुंडसमुद्भूतं भस्मैतल्लोकपावनम् ॥१२॥अन्यभस्मसमं यस्तु न्यूनं वा वक्ति मानवः ॥उत्पत्तौ तस्य सांकर्य मनुमेयं विपश्चिता ॥१३॥ब्रह्मकुंडसमुद्भूतेऽप्यस्मिन्भस्मनि जाग्रति ॥भस्मांतरेण मनुजो धारयेद्यस्त्रिपुंड्रकम् ॥१४॥उत्पत्तौ तस्य सांक र्यमनुमेयं विपश्चिता ॥कदाचिदपि यो मर्त्यो भस्मैतत्तु न धारयेत् ॥१५॥उत्पत्तौ तस्य सांकर्यमनुमेयं विपश्चिता ॥ब्रह्मकुंडसमुद्भूतं भस्म दद्याद्द्विजाय यः ॥१६॥चतुरर्णवपर्यंता तेन दत्ता वसुन्धरा ॥संदेहो नात्र कर्तव्यस्त्रिर्वा शपथयाम्यहम् ॥१७॥सत्यंसत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते ॥ब्रह्मकुंडोद्भवं भस्म धारयध्वं द्विजोत्तमाः ॥१८॥एतद्धि पावनं भस्म ब्रह्मयज्ञसमुद्भवम् ॥पुरा हि भगवान्ब्रह्मा सर्वलोकपितामहः ॥१९॥सन्निधौ सर्वदेवानां पर्वते गंधमादने ॥ईशशापनिवृत्त्यर्थं क्रतून्सर्वान्समातनोत् ॥२०॥विधाय विधिवत्सर्वानध्वरान्बहुदक्षिणान् ॥मुमुचे सहसा ब्रह्मा शंभुशापाद्द्विजोत्तमाः ॥२१॥तदेतत्तीर्थमासाद्य स्नानं कुर्वंति ये नराः ॥ते महादेवसायुज्यं प्राप्नुवंति न संशयः ॥२२॥॥ ऋषय ऊचुः ॥व्यासशिष्य महाप्राज्ञ पुराणार्थविशारद ॥चतुर्दशानां लोकानां स्रष्टारं चतुराननम् ॥२३॥शंभुः केनापराधेन शप्तवान्भारतीपतिम् ॥शापश्च कीदृशस्तस्य पुरा दत्तो हरेण वै ॥एतत्सर्वं मुने ब्रूहि तत्त्वतोऽस्माकमादरात् ॥२४॥॥ श्रीसूत उवाच ॥पुरा बभूव कलहो ब्रह्मविष्ण्वोः परस्परम्॥ २५॥कंचिद्धेतुं समुद्दिश्य स्पर्धया श्लाघमानयोः ॥अहं कर्त्ता न मत्तोऽन्यः कर्त्तास्ति जगतीतले ॥२६॥एवमाह हरिं ब्रह्मा ब्रह्माणं च हरिस्तथा ॥एवं विवादः सुमहान्प्रावर्त्तत पुरा तयोः ॥२७॥एतस्मिन्नंतरे विप्राः कुर्वतोः कलहं मिथः ॥तयोर्गर्वविनाशाय प्रबोधार्थं च देवयोः ॥२८॥मध्ये प्रादुरभूल्लिंगं स्वयंज्योतिरनामयम् ॥तौ दृष्ट्वा विस्मितौ लिंगं ब्रह्मविष्णु परस्परम् ॥२९॥समयं चक्रतुर्विप्रा देवानां सन्निधौ पुरा ॥अनाद्यंतं महालिंगं यदेतद्दृश्यते पुरः ॥३०॥अनंतादित्यसंका शमनंताग्निसमप्रभम् ॥आवयोरस्य लिंगस्य योंऽतमादिं च द्रक्ष्यति ॥३१॥स भवेदधिको लोके लोककर्ता च स प्रभुः ॥अहमूर्ध्वं गमिष्यामि लिंगस्यातं गवेषयन् ॥३२॥गवेषणाय मूलस्य त्वमधस्ताद्धरे व्रज ॥इति तस्य वचः श्रुत्वा तथे त्याह रमापतिः ॥३३॥एवं तौ समयं कृत्वा मार्गणाय विनिर्गतौ ॥विष्णुर्वराहरूपेण गतोऽधस्ताद्गवेषितुम् ॥३४॥हंसतां भारतीजानिः स्वीकृत्योपरि निर्ययौ ॥अधो लोकान्विचित्याथो विष्णुर्वर्षगणान्बहून् ॥यथास्थानं समागत्य वभाषे देवसन्निधौ ॥३५॥॥ विष्णुरुवाच ॥अहं लिंगस्य नाद्राक्षमादिमस्येति सत्यवाक् ॥३६॥ऊर्ध्वं गवेषयित्वाथ ब्रह्माप्यागच्छदत्र सः ॥आगत्य च वचः प्राह छद्मना चतुराननः ॥३७॥॥ ब्रह्मोवाच ॥अहमद्राक्षमस्यांतं लिंगस्येति मृषा पुनः ॥तयोस्तद्वचनं श्रुत्वा व्रह्मविष्ण्वोर्महेश्वरः ॥मिथ्यावादिनमाहेदं प्रहस्य चतुराननम् ॥३८॥॥ ईश्वर उवाच ॥असत्यं यदवोचस्त्वं चतुरानन मत्पुरः ॥३९॥तस्मात्पूजा न ते भूयाल्लोके सर्वत्र सर्वदा ॥अथ विष्णुं पुनः प्राह भगवान्परमेश्वरः ॥४०॥यस्मात्सत्यमवोचस्त्वं कमलायाः पते हरे ॥तस्मात्ते मत्समा पूजा भविष्यति न संशयः ॥४१॥ततो ब्रह्मा विषण्णः सञ्छंकरं प्रत्यभाषत ॥स्वामिन्ममापराधं त्वं क्षमस्व करुणानिधे ॥४२॥एकोपराधः क्षंतव्यः स्वामि भिर्जगदीश्वरैः ॥ततो महेश्वरोऽवादीद्ब्रह्माणं परिसांत्वयन् ॥४३॥॥ ईश्वर उवाच ॥न मिथ्यावचनं मे स्याद्ब्रह्मन्वक्ष्यामि ते शृणु ॥गच्छ त्वं सहसा वत्स गन्धमादनपर्वतम् ॥४४॥तत्र क्रतून्कुरुष्व त्वं मिथ्यादोषप्रशांतये ॥ततो विधूतपापस्त्वं भविष्यसि न संशयः ॥४५॥तेन श्रौतेषु ते ब्रह्मन्स्मार्तेष्वपि च कर्मसु ॥पूजा भविष्यति सदा न पूजा प्रतिमासु ते॥४६॥इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥ततो ब्रह्मा ययौ विप्रा गंधमादनपर्वतम् ॥४७॥ईजे च क्रतुकर्तारं क्रतुभिः पार्वतीपतिम् ॥अष्टाशीतिसहस्राणि वर्षाणि मुनिपुंगवाः ॥४८॥पौंडरीकादिभिः सर्वैरध्वरैर्भूरिदक्षिणैः ॥इन्द्रादिसर्वदेवानां सन्निधावयजच्छिवम् ॥तेन तुष्टोभवच्छंभुर्वरमस्मै प्रदत्तवान् ॥४९॥॥ ईश्वर उवाच ॥मिथ्योक्तिदोषस्ते नष्टः कृतैरेतैर्मखैरिह ॥५०॥चतुरानन ते पूजा श्रौतस्मार्तेषु कर्मसु ॥भविष्यत्यमला ब्रह्मन्न पूजा प्रतिमासु ते ॥५१॥यागस्थलमिदं तेऽद्य ब्रह्मकुण्डमिति प्रथाम् ॥गमिष्यति त्रिलोकेस्मिन्पुण्यं पापविनाशनम् ॥५२॥ब्रह्मकुण्डाभिधे तीर्थे सकृद्यः स्नानमा चरेत् ॥मुक्तिद्वारार्गलं तस्य भिद्यते तत्क्षणाद्विधे ॥५३॥ब्रह्मकुण्डसमुद्भूतं ललाटे भस्म धारयन् ॥मायाकपाटं निर्भिद्य मुक्तिद्वारं प्रया स्यति ॥५४॥ब्रह्मकुण्डोत्थितं भस्म ललाटे यो न धारयेत् ॥स्वपितुर्बीजसंभूतो न मातरि सुतस्तु सः ॥५५॥ब्रह्मकुण्डसमुद्भूतभस्मधारणतो विधे ॥ब्रह्महत्यायुतं नश्येत्सुरापानायुतं तथा ॥५६॥गुरुतल्पायुतं नश्येत्स्वर्णस्तेयायुतं तथा ॥तत्संसर्गायुतं नश्येत्सत्यमुक्तं मया विधे ॥५७॥ब्रह्मकुण्डसमुद्भूतभस्मधारणवैभवात् ॥भूतप्रेतपिशाचाद्या नश्यंति क्षणमात्रतः ॥५८॥इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥यज्ञेष्वथ समाप्तेषु मुनयश्च जितेंद्रियाः ॥५९॥इन्द्रादिदेवताश्चैव सिद्धचारणकिन्नराः ॥अन्ये च देवनिवहा गंधमादनपर्वते ॥६०॥तां यज्ञभूमिमाश्रित्य स्वयं रुद्रेण सेविताम् ॥निरंतरमवर्तंत विदित्वा तस्य वैभवम् ॥६१॥यथाविधि ततो यज्ञान्समाप्य बहुदक्षिणान् ॥सत्यलोकमगाद्ब्रह्मा शिवाल्लब्धमनोरथः ॥६२॥तदाप्रभृति देवाश्च मुनयश्च द्विजोत्तमाः ॥ब्रह्मकुण्डं समासाद्य चक्रुर्यागान्विधानतः ॥६३॥तस्मादियक्षवो मर्त्याः कुर्युर्यज्ञानिहैव हि ॥६४॥मनुजदेवमुनीश्वरवंदितं सकलसंसृतिनाशकरं द्विजाः ॥जलजसंभवकुण्डमिदं शुभं सकल पापहरं सकलार्थदम् ॥६५॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये ब्रह्मकुण्डप्रशंसायां ब्रह्मशापविमोक्षणवर्णनंनाम चतुर्दशोऽध्यायः ॥१४॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP