संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ४० सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ४० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ४० Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथातः संप्रवक्ष्यामि मुनयो लोकपावनम् ॥गायत्र्या च सरस्वत्या माहात्म्यं मुक्तिदं नृणाम् ॥१॥शृण्वतां पठतां चैव महापातकनाशनम् ॥महापुण्यप्रदं पुंसा नरकक्लेशनाशनम् ॥२॥गायत्र्यां च सरस्वत्यां ये स्नांति मनुजा मुदा ॥न तेषां गर्भवासः स्यात्किं तु मुक्तिर्भवेद्ध्रुवम् ॥३॥सरस्वत्याश्च गायत्र्या गन्धमादनपर्वते ॥ब्रह्मपत्न्योः सन्निधानात्तन्नाम्ना कथिते इमे ॥४॥॥ ऋषय ऊचुः ॥गायत्र्याश्च सरस्वत्या गन्धमादनपर्वते ॥किमर्थं संनिधानं वै सूताभूत्तद्वदस्व नः ॥५॥॥ सूत उवाच ॥प्रजापतिः पुरा विप्राः स्वां वै दुहितरं मुदा ॥वाङ्नाम्नीं कामुको भूत्वा स्पृहयामास मोहनः ॥६॥अथ प्रजापतेः पुत्री स्वस्मिन्वै तस्य कामिताम्॥विलोक्य लज्जिता भूत्वा रोहिद्रूप दधार सा ॥७॥ब्रह्मापि हरिणो भूत्वा तया रन्तुमनास्तदा ॥गच्छतीमनुयातिस्म हरिणीरूपधारिणीम् ॥८॥तं दृष्ट्वा देवताः सर्वाः पुत्रीगमनसादरम् ॥करोत्यकार्यं ब्रह्मायं पुत्रीगमनलक्षणम् ॥९॥इति निन्दंति तं विप्राः स्रष्टारं जगतां पतिम् ॥निषिद्धकृत्यनिरतं तं दृष्ट्वा परमेष्ठिनम् ॥१०॥हरः पिनाकमादाय व्याधरूपधरः प्रभुः ॥आकर्णपूर्ण कृष्टेन पिनाकधनुषा शरम् ॥११॥संयोज्य वेधसं तेन विव्याध निशितेन सः ॥त्रिपुरांतक बाणेन विद्धोऽसौ न्यपतद्भुवि ॥१२॥तस्य देहादथोत्थाय महज्ज्योतिर्महाप्रभम् ॥आकाशे मृगशीर्षाख्यं नक्षत्रमभवत्तदा ॥१३॥आर्द्रानक्षत्ररूपी सन्हरोऽप्यनुजगाम तम् ॥पीडयन्मृगशीर्षाख्यं नक्षत्रं ब्रह्मरूपिणम् ॥१४॥अधुनापि मृगव्याधरूपेण त्रिपुरांतकः ॥अंबरे दृश्यते स्पष्टं मृगशीर्षांतिके द्विजाः ॥१५॥एवं विनिहते तस्मिञ्च्छंभुना परमेष्ठिनि ॥अनंतरं तु गायत्रीसरस्वत्यौ शुचार्पिते ॥१६॥भर्तृहीने मुनिश्रेष्ठा भर्तृजीवनकांक्षया ॥किं करिष्यावहे ह्यावामित्यन्योयं विचार्य तु ॥१७॥स्वपतिप्राणसिद्ध्यर्थं गायत्री च सरस्वती ॥सर्वोत्कृष्टं शिवस्थानं गन्धमादनपर्वतम् ॥१८॥सर्वाभीष्टप्रदं पुंसां तपः कर्तुं समुद्यते ॥जग्मतुर्नियमोपेतं तपः कर्तुं शिवं प्रति ॥१९॥स्नानार्थमात्मनो विप्रा गायत्री च सरस्वती ॥तीर्थद्वयं स्वनाम्ना वै चक्रतुः पापनाशनम् ॥२०॥तत्र त्रिषवणस्नानं प्रत्यहं चक्रतुर्मुदा ॥बहुकालमनाहारे कामक्रोधादिवर्जिते ॥२१॥अत्युग्रनियमो पेते शिवध्यानपरायणे ॥पंचाक्षरमहामन्त्रजपैकनियते शुभे ॥२२॥स्वपतेर्जीवनार्थं वै गायत्री च सरस्वती ॥महादेवं समुद्दिश्य तप एवं प्रचक्रतुः ॥२३॥तयोरथ तपस्तुष्टो महादेवो महेश्वरः ॥सन्निधत्ते महामूर्तिस्तपसां फलदित्सया ॥२४॥ततः सन्निहितं शंभुं पार्वतीरमणं शिवम् ॥गणेशकार्त्तिकेयाभ्यां पार्श्वयोः परिसेवितम ॥२५॥दृष्ट्वा संतुष्टचित्ते ते गायत्री च सरस्वती ॥स्तोत्रैस्तुष्टुवतुः स्तुत्यं महादेवं घृणा निधिम् ॥२६॥गायत्रीसरस्वत्यावूचतुः ॥नमो दुर्वारसंसारध्वांतध्वंसैकहेतवे ॥ज्वलज्ज्वालावलीभीमकालकूटविषादिने ॥२७॥जगन्मोहन पंचास्त्रदेहनाथैकहेतवे ॥जगदंतकरक्रूर यमांतक नमोऽस्तु ते ॥२८॥गंगातरंगसंपृक्तजटामण्डलधारिणे ॥नमस्तेस्तु विरूपाक्ष बाल शीतांशुधारिणे ॥२९॥पिनाकभीमटंकारत्रासितत्रिपुरौकसे ॥नमस्ते विविधाकारजगत्स्रष्टृशिरश्छिदे ॥३०॥शांतामलकृपादृष्टिसंरक्षितमृ कण्डुज ॥नमस्ते गिरिजानाथ रक्षावां शरणागते ॥३१॥महादेव जगन्नाथ त्रिपुरांतक शंकर ॥वामदेव महादेव रक्षावां शरणागते ॥३२॥इति ताभ्यां स्तुतः शम्भुर्देवदेवो महेश्वरः ॥अब्रवीत्प्रीतिसंयुक्तो गायत्रीं च सरस्वतीम् ॥३३॥॥ महादेव उवाच ॥भोः सरस्वति गायत्रि प्रीतोऽस्मि युवयोरहम् ॥वरं वरयतं मत्तो यद्वा मनसि वर्तते ॥३४॥इत्युक्ते ते तु गायत्रीसरस्वत्यौ हरेण वै ॥अब्रूतां पार्वतीकांतं महादेवं घृणानिधिम् ॥३५॥॥ गायत्रीसरस्वत्यावूचतुः ॥भगन्नावयोर्देव भर्त्तारं चतुराननम् ॥सप्राणं कुरु सर्वेश कृपया करुणाकर ॥३६॥त्वमावयोः पिता देव तवाप्यावां सुते उभे ॥रक्षावां पतिदानेन तस्मात्त्वं त्रिपुरांतक ॥३७॥स एवं प्रार्थितः शम्भुस्ताभ्यां ब्राह्मणपुंगवाः ॥एवमस्त्विति संप्रोच्य गायत्रीं च सरस्वतीम् ॥३८॥तदेव वेधसः कायं शिरसा योक्तुमुत्सुकः ॥तत्रैव वेधसः कायं शिरोभिः सहसुव्रताः ॥३९॥भूतैरानाययामास नंदिभृंगिमुखैस्तदा ॥शिरांसि तान्यनेकानि कायेन सह शंकरः ॥४०॥क्षणात्संधारयामास वाणीगायत्रिसंनिधौ ॥संधितोऽथ हरेणासौ चतुर्वक्त्रो जगत्पतिः ॥४१॥उत्तस्थौ तत्क्षणादेव सुप्तोत्थित इव द्विजाः ॥ततः प्रजापतिर्दृष्ट्वा शंकरं शशिभूषणम् ॥तुष्टाव वाग्भिरग्र्याभिर्भार्याभ्यां च समन्वितः ॥४२॥॥ ब्रह्मोवाच ॥नमस्ते देवदेवेश करुणाकर शंकर ॥४३॥पाहि मां करुणासिंधो निषिद्धाचरणात्प्रभो ॥मम त्वत्कृपया शंभो निषिद्धाचरणे क्वचित् ॥४४॥मा प्रवृत्तिर्भवेद्भूयो रक्ष मां त्वं तथा सदा ॥तथैवास्त्विति संप्राह ब्रह्माणं गिरिजापतिः ॥४५॥इतः परं प्रमादं त्वं मा कुरुष्व विधे पुनः ॥उत्पथं प्रतिपन्नानां पुंसां शास्तास्मि सर्वदा ॥४६॥एवमुक्त्वा चतुर्वक्त्रं महादेवो द्विजोत्तमाः ॥सरस्वतीं च गायत्रीं प्रोवाच प्रीणयन्गिरा ॥४७॥॥ महादेव उवाच ॥युवयोर्मत्प्रसादेन हे गायत्रि सरस्वति ॥अयं भर्ता समायातः सप्राणश्चतुराननः ॥४८॥सहानेन ब्रह्मलोकं यातं मा भूद्विलंबता ॥युवयोः संनिधानेन सदा कुंडद्वयेऽत्र वै ॥४९॥भविष्यति नृणां मुक्तिः स्नानात्सायुज्यरूपिणी ॥युष्मन्नाम्ना च गायत्रीसर स्वत्याविति द्वयम् ॥५०॥इदं तीर्थं सर्वलोके ख्यातिं यास्यति शाश्वतीम् ॥सर्वेषामपि तीर्थानामिदं तीर्थद्वयं सदा ॥५१॥शुद्धिप्रदं तथा भूयान्महापातकनाशनम् ॥महाशांतिकरं पुंसां सर्वाभीष्टप्रदायकम् ॥५२॥मम प्रसादजननं विष्णुप्रीतिकरं तथा ॥एतत्तीर्थद्वयसमं न भूतं न भविष्यति ॥५३॥अत्र स्नानाद्धि सर्वेषां सर्वाभीष्टं भविष्यति ॥इदं कुंडद्वयं लोके भवतीभ्यां कृतं महत् ॥५४॥युष्मन्नाम्ना प्रसिद्धं च भविष्यति विमुक्तिदम् ॥गायत्र्युपास्तिरहिता वेदाभ्यासविवर्जिताः ॥५५॥औपासनविहीनाश्च पंचयज्ञविवर्जिताः ॥युष्मत्कुंडद्वये स्नानात्तत्त त्फलमवाप्नुयुः ॥५६॥अन्ये च ये पातकिनो नित्यानुष्ठानवर्जिताः ॥स्नात्वा कुंडद्वये तत्र शुद्धाः स्युर्द्विजसत्तमाः ॥५७॥सरस्वतीं च गाय त्रीमेवमुक्त्वा महेश्वरः ॥क्षणादंतरधात्तत्र सर्वेषामेव पश्यताम् ॥५८॥पतिं लब्ध्वाऽथ गायत्रीसरस्वत्यौ मुदान्विते ॥तेन साकं ब्रह्मलोकं जग्म तुर्द्विजसत्तमाः ॥५९॥॥ श्रीसूत उवाच ॥एवं वः कथितं विप्रा गंधमादनपर्वते ॥संनिधानं सरस्वत्या गायत्र्याश्च सहेतुकम् ॥६०॥यः शृणोतीममध्यायं पठते वा सभक्तिकम् ॥एतत्तीर्थद्वयस्नानफलमाप्नोत्यसंशयः ॥६१॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहि तायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये गायत्रीसरस्वतीतीर्थप्रशंसायां गंधमादने गायत्रीसरस्वतीसन्निधानकथनं नाम चत्वारिंशोऽध्यायः ॥४०॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP