संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १२ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १२ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १२ Translation - भाषांतर ॥ श्रीसूत उवाच ॥सीताकुण्डे महापुण्ये नरः स्नात्वा द्विजोत्तमाः ॥ततस्तु मंगलं तीर्थमभिगच्छेत्समाहितः ॥१॥सन्निधत्ते सदा यत्र कमला विष्णुवल्लभा ॥अलक्ष्मीपरिहाराय यस्मिन्सरसि वै सुराः ॥२॥शतक्रतुमुखाः सर्वे समागच्छंति नित्यशः ॥तदेतत्तीर्थमुद्दिश्य ऋषयो लोकपावनम् ॥३॥इतिहासं प्रवक्ष्यामि पुण्यं पापविनाशनम् ॥पुरा मनोजवो नाम राजा सोमकुलोद्भवः ॥४॥पालयामास धर्मेण धरां सागरमेखलाम् ॥अयष्ट स सुरान्यज्ञै र्ब्राह्मणानन्नसंचयैः ॥५॥तर्पयामास कव्येन प्रत्यब्दं पितृदेवताः ॥त्रयीमध्यैष्ट सततमपाठीच्छास्त्रमर्थवत् । ६॥व्यजेष्ट शत्रून्वीर्येण प्राणं सीदीशकेशवौ ॥अरंस्त नीतिशास्त्रेषु तथापाठीन्महामनून् ॥७॥एवं स धर्मतो राजा पालयामास मेदिनीम् ॥रक्षतस्तस्य राज्ञोऽभूद्राज्यं निहत कंटकम् ॥८॥अहंकारोऽभवत्तस्य पुत्रसंपद्विनाशनः ॥अहंकारो भवेद्यत्र तत्र लोभो मदस्तथा ॥९॥कामः क्रोधश्च हिंसा च तथाऽसूया विमोहिनी ॥भवंत्येतानि विप्रेंद्राः संपदां नाशहेतवः ॥१०॥एतानि यत्र विद्यंते पुरुषे स विनश्यति ॥क्षणेन पुत्रपौत्रैश्च सार्द्धं चाखिलसंपदा ॥११॥बभूव तस्यासूया च जनविद्वेषिणी सदा ॥असूयाकुलचित्तस्य वृथाहंकारिणस्तथा ॥१२॥लुब्धस्य कामदुष्टस्य मतिरेवं बभूव ह ॥विप्रग्रामे करादानं करिष्यामीति निश्चितः ॥१३॥अकरोच्च तथा राजा निश्चित्य मनसा तदा ॥ धनं धान्यं च विप्राणां जहार किल लोभतः ॥१४॥शिवविष्ण्वादिदेवानां वित्तान्यादत्त रागतः ॥शिवविष्ण्वादिदेवानां विप्राणां च महात्मनाम् ॥१५॥क्षेत्राण्यपजहारायमहंकार विमूढधीः ॥एवमन्याययुक्तस्य देवद्विजविरोधिनः ॥१६॥दुष्कर्मपरिपाकेन क्रूरेण द्विजपुंगवाः ॥पुरं रुरोध बलवान्परदेशाधिपो रिपुः ॥१७॥गोलभोनाम विप्रेंद्राश्चतुरंगबलैर्युतः ॥षण्मासं युद्धमभवद्गोलभेन दुरात्मनः ॥१९॥मनोजवस्य नृपतेरहंकाररतात्मनः ॥ततः स गोलभेनाजौ जितो राज्यात्परिच्युतः ॥१९॥वनं सपुत्रदारः सन्प्रपेदे स मनोजवः ॥गोलभः पालयन्नास्ते मनोजवपुरे चिरम् ॥२०॥चतुरंगबलोपेतस्तमुद्वास्य रणे बली ॥मनोजवोपि विप्रेंद्राः शोचन्स्त्रीपुत्रसंयुतः ॥२१॥क्षुत्क्षामः प्रस्खलञ्छश्वत्प्रविवेश महावनम् ॥झिल्लिकागणसंघुष्टं व्याघ्रश्वापद भीषणम् ॥२२॥व्याप्तद्विरदचीत्कारं वराहमहिषाकुलम् ॥तस्मिन्वने महाघोरे क्षुधया परिपीडितः ॥२३॥अयाचतान्नं पितरं मनोजवसुतः शिशुः ॥अंब मेन्नं प्रयच्छ त्वं क्षुधा मां बाधते भृशम् ॥२४॥एवं स्वजननीं चापि प्रार्थयामास बालकः ॥तन्मातापितरौ तत्र श्रुत्वा पुत्रस्य भाषितम् ॥२५॥शोकाभिभूतौ सहसा मोहं समुपजग्मतुः ॥भार्यामथाब्रवीद्राजा सुमित्रानाम नामतः ॥२६॥मुह्यमानश्च स मुहुः शुष्ककंठौष्ठतालुकः ॥सुमित्रे किं करिष्यामि कुत्र यास्यामि का गतिः ॥२७॥मरिष्यत्यचिरादेष सुतो मे क्षुधयार्दितः ॥किमर्थं ससृजे वेधा दुर्भाग्यं मां वृथा प्रिये ॥२८॥को वा मोचयिता दुःखमेतद्दुष्कर्मजं मम ॥न पूजितो मया शंभुर्हरिर्वा पूर्वजन्मसु ॥२९॥तथान्या देवताः सूर्यविभावसुमुखाः प्रिये ॥तेन पापेन चाद्याहमस्मिञ्जन्मनि शोभने ॥३०॥अहंकाराभिभूतोऽस्मि विप्रक्षेत्राण्यपाहरम् ॥शिवविष्ण्वादिदेवानां वित्तं चापहृतं मया ॥३१॥एवं दुष्कर्मबाहुल्याद्गोलभेन पराजितः ॥वनं यातोस्मि विजनं त्वया सह सुतेन च ॥३२॥निरन्नो निर्धनो दुःखी क्षुधितो ऽहं पिपासितः ॥कथमन्नं प्रदास्यामि क्षुधिताय सुताय मे ॥३३॥न मयान्नानि दत्तानि ब्राह्मणेभ्यः शुचिस्मिते ॥न मया पूजितः शंभुर्विष्णुर्वा देवतांतरम् ॥३४॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥न मयाग्नौ हुतं पूर्वं न तीर्थमपि सेवितम् ॥३५॥मातृश्राद्धं पितृश्राद्धं मृताह दिवसे तयोः॥नैकोद्दिष्टविधानेन पार्वणेनापि वै प्रिये ॥३६॥कृतं न हि मया भद्रे भूरिभोजनमेव वा ॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥३७॥चैत्रमासे प्रिये चित्रानक्षत्रे पानकं मया ॥पनसानां फलं स्वादु कदलीफलमेव वा ॥३८॥तथा छत्रं सदंडं च रम्यं पादुकयोर्द्वयम् ॥तांबूलानि च पुष्पाणि चंदनं चानुलेपनम् ॥३९॥न दत्तं वेदविद्भ्यस्तु चित्रगुप्तस्य तुष्टये ॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥४०॥नाश्वत्थश्चूतवृक्षो वा न्यग्रोधस्तिंतिणी तथा ॥पिचुमंदः कपित्थो वा तथैवामलकीतरुः ॥४१॥नारिकेलतरुर्वापि स्थापितोऽध्वगशांतये ॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥४२॥सम्मार्जनं च न कृतं शिवविष्ण्वालये मया ॥न खानितं तटाकं च न कूपोपि ह्रदोऽपिवा ॥४३॥न रोपितं पुष्पवनं तथैव तुलसीवनम् ॥शिवविष्ण्वालयौ वापि निर्मितो न मया प्रिये ॥४४॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥न मया पैतृके मासि पितॄनुद्दिश्य शोभने ॥महालयं कृतं श्राद्धमष्टकाश्राद्धमेव वा ॥४५॥नित्यश्राद्धं तथा काम्यं श्राद्धं नैमित्तिकं प्रिये ॥न कृताः क्रतवश्चापि विधिवद्भूरिदक्षिणाः ॥४६॥मासोपवासो न कृतः एकादश्यामुपोषणम् ॥धनुर्मासेप्युषःकाले शंभुविष्ण्वादिदेवताः ॥४७॥संपूज्य विधिवद्भद्रे नैवेद्यं न कृतं मया ॥तेन पापेन मे त्वद्य दुःखमेतत्समा गतम् ॥४८॥हरिशंकरयोर्नाम्नां कीर्तनं न मया कृतम् ॥उद्धूलनं त्रिपुण्ड्रं च जाबालोक्तैश्च सप्तभिः ॥४९॥न धृतं भस्मना भद्रे रुद्राक्षं न धृतं मया ॥जपश्च रुद्रसूक्तानां पंचाक्षरजपस्तथा ॥५०॥तथा पुरुषसूक्तस्य जपोऽप्यष्टाक्षरस्य च ॥नैवकारि मया भद्रे नैवान्यो धर्मसंचयः ॥५१॥तेन पापेन मे त्वद्य दुःखमेतत्समागतम् ॥एवं स विलपन्राजा भार्यामाभाष्य खिन्नधीः ॥५२॥मूर्च्छामुपाययौ विप्राः पपात च धरातले ॥सुमित्रा पतितं दृष्ट्वा भार्या सा पतिमंगना ॥५३॥आलिंग्य विललापाथ सपुत्रा भृशदुःखिता ॥मम नाथ महाराज सोमान्वयधुरंधर ॥५४॥मां विहाय क्व यातोऽसि सपुत्रां विजने वने ॥अनाथां त्वामनुगतां सिंहत्रस्तां मृगीमिव ॥५५॥मृतोऽसि यदि राजेंद्र तर्हि त्वामहमप्यरम् ॥अनुव्रजामि विधवा न स्थास्ये क्षणमप्युत॥ ५६॥पितरं पश्य पतितं चन्द्रकांत सुत क्षितौ ॥इत्युक्तश्चंद्रकांतोऽपि सुतो राज्ञः क्षुधार्दितः ॥५७॥पितरं परिरभ्याथ निःशब्दं प्ररुरोद सः ॥एतस्मिन्नंतरे विप्रा जटावल्कलसंवृतः ॥५८॥भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रांकितमस्तकः ॥रुद्राक्षमालाभरणः सितयज्ञोपवीतवान् ॥५९॥पराशरोनाम मुनिराजगाम यदृच्छया ॥तं शब्दमभिलक्ष्यासौ साधुसज्जनसंमतः ॥६०॥ततः सुमित्रा तं दृष्ट्वा पराशरमुपागतम् ॥ववंदे चरणौ तस्य सपुत्रा सा पतिव्रता ॥६१॥ततः पराशरेणेयं सुमित्रा परिसांत्विता ॥आश्वासिता च मुनिना मा शोचस्वेति भामिनि ॥ततः सुमित्रां पप्रच्छ शक्तिपुत्रो महामुनिः ॥६२॥॥ पराशर उवाच ॥का त्वं सुश्रोणि कश्चासौ यश्चायं पतितोऽग्रतः ॥६३॥अयं शिशुश्च कस्ते स्याद्वद तत्त्वेन मे शुभे ॥पृष्टैवं मुनिना साध्वी तमुवाच महामुनिम् ॥६४॥॥ सुमित्रोवाच ॥पतिर्ममायमस्याहं भार्या वै मुनिसत्तम ॥आवाभ्यां जनितश्चायं चंद्रकांताभिधः सुतः ॥६५॥अयं मनोजवो नाम राजा सोमकुलोद्भवः ॥विक्रमाढ्यस्य तनयः शौर्ये विष्णुसमो बली ॥६६॥सुमित्रा नाम तस्याहं भार्या पतिमनुव्रता ॥युद्धे विनिर्जितो राजा गोलभेन मनोजवः ॥६७॥राज्याद्भ्रष्टो निरालंबो मया पुत्रेण चान्वितः ॥वनं विवेश ब्रह्मर्षे क्रूरसत्त्वभयानकम् ॥६८॥क्षुधया पीडितः पुत्रो ह्यावामन्नमयाचत ॥निरन्नो विधुरो राजा दृष्ट्वा पुत्रं क्षुधार्दितम् ॥६९॥शोकाकुलमना ब्रह्मन्मूर्च्छितः पतितो भुवि ॥इति तद्वचनं श्रुत्वा शोकपर्याकुलाक्षरम् ॥७०॥शक्तिपुत्रो मुनिः प्राह सुमित्रां तां पतिव्रताम् ॥मनोजवस्य नृपतेर्भार्यामग्निशिखोपमाम् ॥७१॥॥ पराशर उवाच ॥मनोजवस्य भार्ये ते मा भीर्भूयात्कथंचन ॥युष्माकमशुभं सत्यमचिरान्नाशमेष्यति ॥७२॥मूर्च्छां विहाय ते भद्रे क्षणादुत्थास्यते पतिः ॥ततः पराशरो विप्रः पाणिना तं नराधिपम् ॥७३॥पस्पर्श मंत्रं प्रजपन्ध्यात्वा देवं त्रियंबकम् ॥ततो मनोजवो राजा करस्पृष्टो महामुनेः ॥७४॥उत्थितः सहसा तत्र त्यक्त्वा मूर्च्छां तमोमयीम् ॥ततः पराशरमुनिं प्रणम्य जगतीपतिः ॥उवाच परमप्रीतः प्रांजलिर्विप्रसत्तमम् ॥७५॥॥ मनोजव उवाच ॥पराशरमुने त्वद्य त्वत्पादाब्जनिषेवणात् ॥७६॥मूर्च्छा मे विगता सद्यः पातकं चैव नाशितम् ॥त्वद्दर्शनमपुण्यानां नैव सिध्येत्कदाचन ॥७७॥रक्ष मां करुणादृष्ट्या च्यावितं शत्रुभिः पुरात् ॥इत्युक्तः स मुनिः प्राह राजानं तं मनोजवम् ॥७८॥॥ पराशर उवाच ॥उपायं ते प्रवक्ष्यामि राजञ्च्छत्रुजयाय वै ॥रामसेतौ महापुण्ये गंधमादनपर्वते ॥७९॥विद्यते मंगलं तीर्थं सर्वैश्वर्यप्रदायकम् ॥सर्वलोकोपकाराय तस्मिन्सरसि राघवः ॥८०॥सन्निधत्ते सदा लक्ष्म्या सीतया राजसत्तम ॥सपुत्रभार्यस्त्वं तत्र गत्वा स्नात्वा सभक्तिकम् ॥८१॥क्षेत्रश्राद्धादिकं चापि तत्तीरे कुरु भूपते ॥एवं कृते त्वया राजन्नलक्ष्मीः क्लेशकारिणी ॥९२॥वैभवात्तस्य तीर्थस्य नाशं यास्यत्यसंशयम् ॥मंगलानि च सर्वाणि प्राप्स्यसे न चिरान्नृप ॥८३॥विजित्य शत्रूंश्च रणे पुनर्भूमिं प्रपत्स्यसे ॥अतस्त्वं भार्यया सार्द्धं पुत्रेण च मनोजव ॥८४॥गच्छ मंगलतीर्थं तद्गन्धमादनपर्वते ॥अहमप्यागमिष्यामि तवानुग्रहकाम्यया ॥८५॥पराशरस्त्वेवमुक्त्वा राजमुख्यैस्त्रिभिः सह ॥प्रायात्सेतुं समुद्दिश्य स्नातुं मंगलतीर्थके ॥८६॥राजादिभिः सह मुनिर्विलंघ्य विविधं वनम् ॥वनप्रदेशदेशांश्च दस्युग्रामाननेकशः ॥८७॥प्रययौ मंगलं तीर्थं गन्धमादनपर्वते ॥तत्र संकल्प्य विधिवत्सस्नौ स मुनिपुंगवः ॥८८॥तानपि स्नापयामास राजादीन्विधिपूर्वकम् ॥तत्र श्राद्धं च भूपालश्चकार पितृतृप्तये ॥८९॥तत्र मासत्रयं सस्नौ राजा पत्नीसुतस्तथा ॥ततः पराशरमुनिः सस्नौ नियमपूर्वकम् ॥ ॥९०॥एवं मासत्रयं सस्नौ तैः साकं मुनिपुंगवः ॥मंगलाख्ये महापुण्ये सर्वामंगलनाशने ॥९१॥ततः पराशरमुनिः सर्वानर्थविनाशनम् ॥रामस्यैकाक्षरं मंत्रं तदंते समुपादिशत् ॥९२॥चत्वारिंशद्दिनं तत्र मंत्रमेकाक्षरं नृपः ॥तत्र तीर्थे जजापासौ मुन्युक्तेनैव वर्त्मना ॥९३॥एवमभ्यसतस्तस्य मंत्रमेकाक्षरं द्विजाः ॥मुनिप्रसादात्पुरतो धनुः प्रादुरभूद्दृढम् ॥९४॥अक्षयाविषुधी चापि खड्गौ च कनकत्सरू ॥एकं चर्म गदा चैका तथैको मुसलोत्तमः ॥९५॥एकः शंखो महानादो वाजियुक्तो रथस्तथा ॥ससारथिः पताका च तीर्थादुत्तस्थुरग्रतः ॥९६॥कवचं कांचनमयं वैश्वानरसमप्रभम् ॥प्रादुर्बभूव तत्तीर्थात्प्रसादेन मुनेस्तथा ॥९७॥हारकेयूरमुकुटकटकादिविभूषणम्॥तीर्थानां प्रवरात्तस्मादुत्थितं नृपतेः पुरः ॥९८॥दिव्यांबरसहस्रं च तीर्थात्प्रादुरभूत्तदा ॥माला च वैजयंत्याख्या स्वर्णपंकजशोभिता ॥९९॥एतत्सर्वं समालोक्य मुनयेऽसौ न्यवेदयत् ॥ततः पराशरमुनिर्जलमादाय तीर्थतः ॥१००॥अभ्यषिंचन्नरपतिं मंत्रपूतेनवारिणा ॥ततोऽभिषिक्तो नृपतिर्मुनिना परिशोभितः ॥१०१॥सन्नद्धः कवची खड्गी चापबाणधरो युवा ॥हारकेयूरमुकुटकटकादिविभूषितः ॥१०२॥दिव्यांबरधरश्चापि वाजियुक्त रथस्थितः ॥शुशुभेऽतीव नृपतिर्मध्याह्न इव भास्करः ॥१०३॥तस्मै नृपतये तत्र ब्रह्माद्यस्त्रं महामुनिः ॥सांगं च सरहस्यं च सोत्सर्गं सोप संहृति ॥१०४॥उपादिशच्छक्तिपुत्रः सुमित्राजानये तदा ॥मनोजवोऽथ मुनिना ह्याशीर्वादपुरःसरम् ॥१०५॥प्रेरितो रथमास्थाय प्रणम्य मुनिपुंगवम् ॥प्रदक्षिणीकृत्य तदाभ्यनुज्ञातो महर्षिणा ॥१०६॥सार्द्धं पत्न्या च पुत्रेण प्रययौ विजयाय सः ॥स गत्वा स्वपुरं राजा प्रदध्मौ जलजं तदा ॥१०७॥ततः शंखरवं श्रुत्वा गोलभस्तु ससैनिकः ॥युद्धाय निर्ययौ तूर्णं मनोजवनृपेण सः ॥१०८॥दिनत्रयं रणं जज्ञे गोलभेन नृपस्य वै ॥ततश्चतुर्थे दिवसे गोलभं तु ससैनिकम् ॥१०९॥मनोजवो नृपो युद्धे ब्रह्मास्त्रेण व्यनाशयत् ॥ततः सपुत्र भार्योऽयं पुरं प्राप्य निजं नृपः ॥११०॥पालयन्पृथिवीं सर्वां बुभुजे भार्यया सह ॥तदाप्रभृति राजासौ नाहंकारं चकार वै ॥१११॥असूयादींस्तथा दोषान्वर्जयामास भूपतिः ॥अहिंसानिरतो दांतः सदा धर्मपरोऽभवत् ॥११२॥सहस्रं वत्सरानेवं ररक्ष स महीपतिः ॥ततो विरक्तो राजेन्द्रः पुत्रे राज्यं निधाय तु ॥११३॥जगाम मंगलं तीर्थं गन्धमादनपर्वते ॥तपश्चचार तत्रासौ ध्यायन्हृदि सदाशिवम् ॥११४॥ततोऽचिरेण कालेन त्यक्त्वा देहं मनोजवः ॥शिवलोकं ययौ राजा तस्य तीर्थस्य वैभवात् ॥११५॥तस्य भार्या सुमित्रापि तस्यालिंग्य तनुं तदा ॥अन्वारूढा चितां विप्राः प्राप तल्लोकमेव सा ॥११६॥॥ श्रीसूत उवाच ॥एवं प्रभावं तत्तीर्थं श्रीमन्मंगलनामकम् ॥मनोजवो नृपो यत्र स्नात्वा तीर्थे महत्तरे ॥११७॥शत्रून्विजित्य देहांते शिवलोकं ययौ स्त्रिया ॥तस्मात्सर्वप्रयत्नेन सेव्यं मंगलतीर्थकम् ॥११८॥तीर्थमेतदतिशोभनं शिवं भुक्तिमुक्तिफलदं नृणां सदा ॥पापराशितृणतूलपावकं सेवत द्विजवरा विमुक्तये ॥११९॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये मंगलतीर्थप्रशंसायां मनोजवालक्ष्मीविनाशवर्णनंनाम द्वादशोऽध्यायः ॥१२॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP