सेतुखण्डः - अध्याय १३
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
मंगलाख्ये महातीर्थे नरः स्नात्वा विकल्मषः ॥
एकांतरामनाथाख्यं क्षेत्रं गच्छेत्ततः परम् ॥१॥
तत्र रामो जगन्नाथो जानक्या लक्ष्मणेन च ॥
हनुमत्प्रमुखैश्चापि वानरैः परिवारितः ॥२॥
सन्निधत्ते सदा विप्रा लोकानुग्रहकाम्यया ॥
विद्यते पुण्यदा तत्र नाम्ना ह्यमृतवापिका ॥३॥
तस्यां निमज्जतां नृणां न जरांतकजं भयम् ॥
अस्याममृतवाप्यां यः सश्रद्धं स्नाति मानवः ॥४॥
अमृतत्वं भजत्येष शंकरस्य प्रसादतः ॥
महापातकनाशिन्यामस्यां वाप्यां निमज्जताम् ॥५॥
अमृतत्वं हरो दातुं सन्निधत्ते सदा तटे ॥
॥ । ऋषय ऊचुः ॥
इयं ह्यमृतवापीति कुतो हेतोर्निगद्यते ॥६॥
अस्माकमेतद्ब्रूहि त्वं कृपया व्यासशासित ॥
तथैवामृतनामिन्या वापिकायाश्च वैभवम् ॥
तृप्तिर्न जायतेऽस्माकं त्वद्वचोऽमृतपायिनाम् ॥७॥
॥ श्रीसूत उवाच ॥
अस्या अमृतनामत्वं वैभवं च मनोहरम् ॥८॥
प्रवक्ष्यामि विशेषेण शृणुत द्विजसत्तमाः ॥
पुरा हिमवतः पार्श्वे नानामुनिसमाकुले ॥९॥
सिद्धचारणगंधर्वदेवकिन्नरसेविते ॥
सिंहव्याघ्रवराहेभमहिषादिसमाकुले ॥१०॥
तमालतालहिंतालचंपकाशोकसंतते ॥
हंसकोकिलदात्यूहचक्रवाकादिशोभिते ॥११॥
पद्मेंदीवरकह्लारकुमुदाढ्यसरो वृते ॥
सत्यवाञ्छीलवान्वाग्मी वशी कुंभजसोदरः ॥१२॥
आस्ते तपश्चरन्नित्यं मोक्षार्थी शंकरप्रियः ॥
त्रिकालमर्चयञ्छंभु वन्यैर्मूलफलादिभिः ॥ १३॥
आगतान्स्वाश्रमाभ्याशमतिथीन्वन्यभोजनैः ॥
पूजयन्नर्चयन्नग्निं संध्योपासनतत्परः ॥१४॥
गायत्र्यादीन्महामंत्रान्कालेकाले जपन्मुदा ॥
निद्रां परित्यजन्ब्राह्मे मुहूर्ते विष्णुचिंतकः ॥१५॥
स्नानं कुर्वन्नुषःकाले नमन्संध्यां प्रसन्नधीः ॥
गायत्रीं प्रजपन्विप्राः पूजयन्हरिशंकरौ ॥१६॥
वेदाध्यायी शास्त्रपाठी मध्याह्नेऽतिथिपूजकः ॥
श्रोतापुराणपाठानामग्निकार्येष्वतंद्रितः ॥१७॥
पंचयज्ञपरो नित्यं वैश्वदेवबलिप्रदः ॥
प्रत्यब्दं श्राद्धकृत्पित्रोस्तथान्यश्राद्धकृद्द्विजाः ॥१८॥
एवं निनाय कालं स नित्यानुष्ठानतत्परः ॥
तस्यैवं वर्तमानस्य तपश्चरत उत्तमम् ॥१९॥
सहस्रवर्षाण्यगमञ्च्छंकरासक्तचेतसः ॥
तथापि शंकरो नास्याययौ प्रत्यक्षतां तदा ॥२०॥
ततस्त्वगस्त्यभ्रातासौ ग्रीष्मे पंचानिमध्यगः ॥
भास्करं दत्तदृष्टिश्च मौनव्रतसमन्वितः ॥२१॥
तिष्ठन्कनिष्ठिकांगुल्यां वामपादस्य निश्चलः ॥
ऊर्ध्वबाहुर्निरालंबस्तपस्तेपेऽतिदारुणम् ॥२२॥
अथ तस्य प्रसन्नात्मा महादेवो घृणानिधिः ॥
प्रादुरासीत्स्वया दीप्त्या दिशो दश विभासयन् ॥२३॥
ततोऽद्राक्षीन्मुनिः शंभुं सांबं वृषभसंस्थि तम् ॥
दृष्ट्वा प्रणम्य तुष्टाव भवानीपतिमीश्वरम् ॥२४॥
॥ मुनिरुवाच ॥
नमस्ते पार्वतीनाथ नीलकंठ महेश्वर॥
शिव रुद्र महादेव नम स्ते शंभवे विभो ॥२५॥
श्रीकंठोमापते शूलिन्भगनेत्रहराव्यय ॥
गंगाधर विरूपाक्ष नमस्ते रुद्र मन्यवे ॥२६॥
अंतकारे कामशत्रो देवदेव जगत्पते ॥
स्वामिन्पशुपते शर्व नमस्ते शतधन्वने ॥
दक्षयक्षविनाशाय स्नायूनां पतये नमः ॥
निचेरवे नमस्तुभ्यं पुष्टानां पतये नमः ॥२८॥
भूयोभूयो नमस्तुभ्यं महादेव कृपालय ॥
दुस्तराद्भवसिंधोर्मां तारयस्व त्रिलोचन ॥२९॥
अगस्त्यसोदरेणैवं स्तुतः शंभुरभाषत ॥
प्रीणयन्वचसा स्वेन कुंभजस्यानुजं मुनिम् ॥३०॥
॥ ईश्वर उवाच ॥
कुंभजानुज वक्ष्यामि मुक्त्युपायं तवानघ ॥
सेतुमध्ये महातीर्थं गंधमादनपर्वते ॥३१॥
मंगलाख्यस्य तीर्थस्य नातिदूरेण वर्तते ॥
तत्र गत्वा कुरु स्नानं ततो मुक्तिमवाप्स्यसि ॥३२॥
तत्तीर्थसेवनान्नान्योमोक्षो पायो लघुस्तव ॥
न हि तत्तीर्थवैशिष्ट्यं वक्तुं शक्यं मयापि च ॥३३॥
संदेहो नात्र कर्तव्यस्त्वयाद्य मुनिसत्तम॥
तस्मात्तत्रैव गच्छ त्वं यदीच्छसि भवक्षयम् ॥३४॥
इत्युक्त्वा भगवानीशस्तत्रैवांतरधीयत ॥
ततो देवस्य वचनादगस्त्यस्य सहोदरः ॥३५॥
गत्वा सेतुं समुद्रे तु गंधमादनपर्वते॥
ईश्वरणैव गदितं तीर्थं तच्छीघ्रमासदत् ॥३६॥
तत्र तीर्थे महापुण्ये स्नातानां मुक्तिदायिनि ॥
एकांतरामनाथाख्ये क्षेत्रालंकरणे शुभे ॥३७॥
सस्नौ नियमपूर्वं स त्रीणि वर्षाणि वै द्विजः ॥
ततश्चतुर्थवर्षे तु समाधिस्थो महामुनिः ॥३८॥
ब्रह्मनाड्या प्राणवायुं मूर्द्धन्यारोप्ययोगतः ॥
प्राणान्निर्गमयामास ब्रह्मरंध्रेण तत्र सः ॥३९॥
ततोऽगस्त्यानुजः सोयं परित्यज्य कलेवरम् ॥
अवाप मुक्तिं परमां तस्य तीर्थस्य वैभवात् ॥४॥
विनष्टाशेषदुःखस्य तत्तीर्थस्नानवैभवात् ॥
मृतत्वमभूद्यस्मादगस्त्यानुजजन्मनः॥४१॥
ततो ह्यमृतवापीतिप्रथाऽस्यासीन्मुनीश्वराः॥
अत्र तीर्थे नरा ये तु वर्षत्रयमतंद्रिताः॥४२॥
स्नानं कुर्वंति ते सत्यममृतत्वं प्रयांति हि ॥
एवं त्वमृतवापीति प्रथा तद्वैभवं तथा ॥
युष्माकं कथितं विप्राः किंभूयः श्रोतुमिच्छथ ॥४३॥
॥ ऋषय ऊचुः ॥
एकांतरामनाथाख्या तस्य क्षेत्रस्य वै मुने ॥४४॥
कथं समागता सूत वक्तुमेतत्त्वमर्हसि ॥
अस्माकं मुनिशार्दूल तच्छुश्रूषातिभूयसी ॥४५॥
॥ श्रीसूत उवाच ॥
पुरा दाशरथी रामः ससुग्रीवभिभीषणः ॥
लक्ष्मणेन युतो भ्रात्रा मंत्रज्ञेन हनूमता ॥४६॥
वानरैर्बध्यमाने तु सेतावंबुधिमध्यतः ॥
चिंतयन्मनसा सीतामेकांते सममंत्रयत् ॥४७॥
तेषु मंत्र यमाणेषु रावणादिवधं प्रति ॥
उल्लोलतरकल्लोलो जुघोष जलधिर्भृशम् ॥४८॥
अर्णवस्य महाभीमे जृंभमाणे महाध्वनौ ॥
अन्योन्यकथितां वार्तां नाशृण्वंस्ते परस्परम् ॥४९॥
ततः किंचिदिव क्रुद्धो भृकुटीकुटिलेक्षणः ॥
भ्रूभंगलीलया रामो नियम्य जलधिं तदा ॥५०॥
न्यमंत्रयत विप्रेंद्रा राक्षसानां वधं प्रति ॥
एकांतेऽमंत्रयत्तत्र तैः सार्धं राघवो यतः ॥५१॥
एकांतरामनाथाख्यं तत्क्षेत्रमभवद्विजाः ॥
सोयं नियमितो वार्धी रामभ्रूभंगलीलया ॥५२॥
अद्यापि निश्चलजलस्तत्प्रदेशेषु दृश्यते ॥
एकांतरामनाथाख्यं तदेतत्क्षेत्रमुत्तमम् ॥५३॥
आगत्यामृतवाप्यां च स्नात्वा नियमपूर्वकम् ॥
रामादीनपि सेवंते ते सर्वे मुक्तिमाप्नुयुः ॥५४॥
अद्वैतविज्ञानविवेकशून्या विरक्तिहीनाश्च समाधि हीनाः ॥
यागाद्यनुष्ठानविवर्जिताश्च स्नात्वात्र यास्यंत्यमृतं द्विजेंद्राः ॥५५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये अमृतवापीप्रशंसायाम् अगस्त्यभ्रातृविमुक्तिवर्णनंनाम त्रयोदशोऽध्यायः ॥१३॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP