सेतुखण्डः - अध्याय ११
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
पापनाशे नरः स्नात्वा सर्वपापनिबर्हणे ॥
ततः सीतासरो गच्छेत्स्नातुं नियमपूर्वकम् ॥१॥
यानि कानि च पुण्यानि ब्रह्मांडांतर्गतानि वै ॥
तानि गंगादितीर्थानि स्वपापपरिशुद्धये ॥२॥
सीतासरसि वर्तंते महापातकनाशने ॥
क्षेत्राण्यपि महार्हाणि काश्यादीनि दिवानिशम् ॥३॥
सीतासरोत्र सेवंते स्वस्वकल्मषशांतये ॥
तस्याः सरसि संगीतगुणेनाकृष्य बालिशः ॥४॥
पंचाननोऽपि वसते पंचपातकनाशनः ॥
तदेतत्तीर्थमागत्य स्नात्वा वै श्रद्धया सह ॥
पुरंदरः पुरा विप्रा मुमुचे ब्रह्महत्यया ॥५॥
॥ ऋषय ऊचुः ॥
ब्रह्महत्या कथमभूद्वासवस्य पुरा मुने ॥
सीतासरसि स्नानात्कथं मुक्तोऽभवत्तया ॥६॥
॥ श्रीसूत उवाच ॥
कपालाभरणोनाम राक्षसोऽभूत्पुरा द्विजाः ॥७॥
अवध्यः सर्वदेवानां सोऽभवद्ब्रह्मणो वरात् ॥
शवभक्षणनामा तु तस्यासीन्मंत्रिसत्तमः ॥८॥
अक्षौहिणीशतं तस्य हयेभरथसंकुलम् ॥
अस्ति तस्य पुरं चापि वैजयंतमिति श्रुतम् ॥९॥
वसत्यस्मिन्पुरे सोऽयं कपालाभरणो बली ॥
शवभक्षं समाहूय बभाषे मंत्रिणं द्विजाः ॥१०॥
शवभक्ष महावीर्य मंत्रशास्त्रेषु कोविद ॥
वयं देवपुरीं गत्वा विनिर्जित्य सुरान्रणे ॥११॥
शक्रस्य भवने रम्ये स्थास्यामस्सैनिकैः सह ॥
रमावो नंदने तस्य रंभाद्यप्सरसां गणैः ॥१२॥
कपालाभरणस्येदं निशम्य वचनं तदा ॥
शवभक्षोऽब्रवीद्विप्रा वचस्तत्र तथास्त्विति ॥१३॥
ततः कपालाभरणः पुत्रं दुर्मेधसं बली ॥
प्रतिष्ठाप्य पुरे शूरं सेनया परिवारितः ॥१४॥
युयुत्सुरमरैः साकं प्रययावमरावतीम् ॥
गजाश्वरथपादातैरुद्धतै रेणुसंचयैः ॥१५॥
शोषयञ्जलधीन्सिंधूंश्चूर्णयन्पर्वतानपि ॥
निःसाणध्वनिना विप्रा नादयन्रोदसी तथा ॥१६॥
अश्वानां हेषितरवैर्गजानामपि बृंहितैः ॥
रथनेमिस्वनैरुग्रैः सिंहनादैः पदातिनाम् ॥१७॥
श्रोत्राणि दिग्गजानां च वितन्वन्बधिराणि सः ॥
अगमद्देवनगरीं युयुत्सुरमरैः सह ॥१८॥
तत इन्द्रादयो देवाः सेनाकलकलध्वनिम् ॥
श्रुत्वाभिनिर्य्ययुः पुर्या युद्धाभिमनसो द्विजाः ॥१९॥
ततो युद्धं समभवद्देवानां राक्षसैः सह ॥
अदृष्टपूर्वं जगति तथैवाश्रुतपूर्वकम् ॥२०॥
तत इन्द्रादयो देवा राक्षसाञ्जघ्नुराहवे ॥
राक्षसाश्च सुराञ्जघ्नुः समरे विजिगीषवः ॥२१॥
द्वन्द्वयुद्धं च समभूदन्योन्यं सुररक्षसाम् ॥
कपालाभरणेनाजौ युयुधे बलवृत्रहा ॥२२॥
यमेन शवभक्षश्च वरुणेन च कौशिकः ॥
कुबेरो रुधिराक्षेण युयुधे ब्राह्मणोत्तमाः ॥२३॥
मांसप्रियो मद्यसेवी क्रूरदृष्टिर्भयावहः ॥
चत्वार एते विक्रांताः कपालाभरणानुजाः ॥२४॥
अश्विभ्यामग्निवायुभ्यां युद्धे युयुधिरे मिथः ॥
ततो यमो महावीर्यः कालदण्डेन वेगवान् ॥२५॥
शवभक्षं निहत्याजावनयद्यमसादनम्॥
तस्य चाक्षौहिणीस्त्रिंशन्निजघ्ने समरे यमः ॥२६॥
वरुणः कौशिकस्याजौ प्रासेन प्राहरच्छिरः ॥
कुबेरो रुधिराक्षस्य कुन्तेनाभ्यहरच्छिरः ॥२७॥
अश्विभ्यामग्निवायुभ्यां कपालाभरणानुजाः ॥
निहताः समरे विप्राः प्रययुर्यमसादनम् ॥२८॥
अक्षौहिणीशतं चापि देवेन्द्रेण मृधे द्विजाः ॥
यामार्द्धेन हतं युद्धे प्रययौ यमसादनम् ॥२९॥
ततः कपालाभरणः प्रेक्ष्य सेनां निजां हताम् ॥
चापमादाय निशिताञ्छरांश्चापि महाजवान् ॥३०॥
अभ्ययात्समरे शक्रं तिष्ठतिष्ठेति चाब्रवीत् ॥
ततः शक्रस्य शिरसि व्यधमच्छरपंचकैः ॥३१॥
तानप्राप्तान्प्रचिच्छेद शरैर्युद्धे स वृत्रहा ॥
ततः शूलं समादाय कपालाभरणो मृधे ॥३२॥
देवेंद्राय प्रचिक्षेप तं शक्त्या निजघान सः ॥
ततः कपालाभरणः शतहस्तायतां गदाम् ॥३३॥
आयसीं पंचसाहस्रतुलाभारेणनिर्मिताम् ॥
आददे समरे शक्रं वक्षोदेशे जघान च ॥३४॥
ततः स मूर्च्छितः शक्रो रथोपस्थ उपाविशत् ॥
मृतसंजीविनीं विद्यां जपित्वाथ बृहस्पतिः ॥३५॥
पुलोमजापतिं युद्धे समजीवयदद्भुतम् ॥
ऐरावतं तदारुह्य कपालाभरणांतिकम् ॥३६॥
आजगाम शचीभर्ता प्रहर्तुं कुलिशेन तम् ॥
एकप्रहारेण तदा महेंद्रः पाकशासनः ॥३७॥
कपालाभरणं युद्धे वज्रेण सरथाश्वकम् ॥
सचापं सध्वजं चैव सतूणीरं सवर्मकम् ॥३८॥
चूर्णयामास कुपितस्तिलशः कणशस्तथा ॥
हते तस्मिन्महावीरे कपालाभरणे रणे॥३९॥
सुखं सर्वस्य लोकस्य बभूव चिरदुःखिनः ॥
राक्षसस्य वधोत्पन्ना ब्रह्महत्या पुरंदरम् ॥
अन्वधावत्तदा भीमा नादयंती दिशो दश ॥४०॥
॥ ऋषय ऊचुः ॥
न विप्रो राक्षसः सूत कपालाभरणो मुने ॥
तत्कथं ब्रह्महत्येंद्रं तद्वधात्समुपाद्रवत् ॥४१॥
॥ श्रीसूत उवाच ॥
वक्ष्यामि परमं गुह्यं मुनींद्राः परमाद्भुतम् ॥४२॥
शृणुत श्रद्धया यूयं समाधाय स्वमानसम् ॥
पुरा विंध्यप्रदेशेषु त्रिवक्रो नाम राक्षसः ॥४३॥
तस्य भार्या गुणोपेता सौंदर्यगुणशालिनी ॥
सुशीला नाम सुश्रोणी सर्वलक्षणलक्षिता ॥४४॥
सा कदाचिन्मनोज्ञांगी सुवेषा चारुहासिनी ॥
विंध्यपादवनोद्देशे विचचार विलासिनी ॥४५॥
तस्मिन्वने शुचिर्नाम वर्ततेस्म महामुनिः ॥
तपसमाधिसंयुक्तो वेदाध्ययनतत्परः ॥४६॥
तस्याश्रमसमीपं तु सा ययौ वरवर्णिनी ॥
तां दृष्ट्वा स मुनिर्धैर्यं मुमोचानंगपीडितः॥
तामासाद्य वरारोहां बभाषे मुनिसत्तमः ॥४७॥
॥ शुचिरुवाच ॥
ललने स्वागतं तेऽस्तु कस्य भार्या शुचिस्मिते ॥४८॥
किमागमनकृत्यं ते वनेऽस्मिन्नतिभीषणे ॥
श्रांतासि त्वं वरारोहे वसास्मिन्नुटजे मम ॥४९॥
तथोक्ता सा तु सुश्रोणी तं मुनिं प्रत्यभाषत ॥
त्रिवक्ररक्षोभार्याहं सुशीला नामतो मुने ॥५॥
पुष्पावचयकामेन वनमेतत्समागता ॥
अपुत्राहं मुने भर्त्रा प्रेरिता पुत्रमिच्छता ॥५१॥
शुचिं मुनिं समाराध्य तस्मात्पुत्रमवाप्नुहि ॥
इति प्रतिसमादिष्टा पतिना त्वां समागता ॥५२॥
पुत्रमुत्पादय त्वं मे कृपां कुरु मुने मयि ॥
एवमुक्तः स तु शुचिः सुशीलां तामभाषत ॥५३॥
॥ शुचिरुवाच ॥॥
त्वां दृष्ट्वा मम च प्रीतिः सुशीले विद्यतेऽधुना॥
मनोरथमहांभोधिं त्वमापूरय मामकम् ॥५४॥
इत्युक्त्वा स मुनिस्तत्र तया रेमे दिनत्रयम् ॥
तामुवाच मुनिः प्रीतः सुशालां सुन्दराकृतिम् ॥५५॥
तवोदरे महावीर्यः कपालाभरणाभिधः ॥
भविष्यति चिरं राज्यं पालयिष्यति मेदिनीम् ॥५६॥
सहस्रं वत्सरान्वत्सस्तपसा प्रीणयन्विधिम् ॥
पुरंदरं विनान्येभ्यो देवेभ्यो नास्य वध्यता ॥५७॥
ईदृशस्ते सुतो भूयादिंद्रतुल्यपराक्रमः ॥
इत्युक्त्वा स मुनिर्नारीं काशीं शिवपुरीं ययौ ॥५८॥
सुशीला सापि सुषुवे कपालाभरणं सुतम् ॥
तं जघान मृधे शक्रो वज्रेण मुनिपुंगवाः ॥५९॥
शुचेर्बीजसमुद्भूतं तमिंद्रो न्यवधीद्यतः ॥
ततः पुरंदरः शक्रो जगृहे ब्रह्महत्यया ॥६०॥
धावति स्म तदा शक्रः सर्वांल्लोकान्भयाकुलः॥
धावंतमनुधावंती ब्रह्महत्या तमन्वगात् ॥६१॥
अनुद्रुतो हि विप्रेंद्राः शक्रोऽयं ब्रह्महत्यया ॥
पितामहसदः प्राप संतप्तहृदयो भृशम् ॥६२॥
न्यवेदयद्ब्रह्महत्यां ब्रह्मणे स पुरंदरः ॥
भगवँल्लोकनाथेयं ब्रह्महत्याति भीषणा ॥६३॥
बाधते मां प्रजानाथ तस्या नाशं ब्रवीहि मे ॥
पुरंदरेणैवमुक्तो ब्रह्मा प्राह दिवस्पतिम् ॥६४॥
ब्रह्मोवाच ॥
सीताकुण्डं प्रयाहींद्र गंधमादनपर्वते॥
सीताकुण्डस्य तीरे त्वं इष्ट्वा यागैः सदाशिवम् ॥६५॥
तस्मिन्सरसि च स्नायाः सर्वपापहरे शुभे ॥
ततः पूतो भवेश्शक्र बह्महत्याविमोचितः ॥६६॥
देवलोकं पुनर्यायाः सर्वदुःखविवर्जितः ॥
सर्वपापहरं पुण्यं सीताकुण्डं विमुक्तिदम् ॥६७॥
महापातकसंघानां नाशकं परमामृतम् ॥
सर्वदुःखप्रशमनं सर्वदारिद्र्यनाशनम् ॥६९॥
धनधान्यप्रदं शुद्धं वैकुण्ठादिपदप्रदम्॥
तस्मात्तत्र कुरुष्वेष्टिं सीतासरसि वृत्रहन् ॥६९॥
इत्युक्तः सुरराजोऽसौ प्रययौ गंधमादनम् ॥
प्राप्य सीतासरो विप्राः स्नात्वेष्ट्वा च तदंतिके ॥७०॥
प्रययौ स्वपुरीं भूयो ब्रह्महत्याविमोचितः ॥
एवं प्रभावं तत्तीर्थं सीतायाः कुण्डमुत्तमम् ॥७१॥
राघवप्रत्ययार्थं हि प्रविश्य हुतवाहनम् ॥
संनिधौ सर्वदेवानां मैथिली जनकात्मजा ॥७२॥
विनिर्गता पुनर्वह्नेः स्थिता सर्वांगशोभना ॥
निर्ममे लोकरक्षार्थं स्वनाम्ना तीर्थमुत्तमम् ॥७३॥
तत्र सस्नौ स्वयं सीता तेन सीतासरः स्मृतम् ॥
तत्र यो मानवः स्नाति सर्वान्कामाँल्लभेत सः ॥७४॥
तस्मिन्नुपस्पृश्य नरो द्विजेंद्रा दत्त्वा च दानानि पृथग्विधानि ॥
कृत्वा च यज्ञान्बहुदक्षिणाभिर्लोकं प्रयायात्परमेश्वरस्य ॥७५॥
युष्माकमेवं प्रथितं मुनींद्राः सीतासरो वैभवमेतदुक्तम् ॥
शृण्वन्पठन्वै तदिहैव भोगान्भुक्त्वा परत्रापि सुखं लभेत ॥७६॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये सीतासरःप्रशंसायामिंद्रब्रह्महत्याविमोक्षणनामैकादशोऽध्यायः ॥११॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP