संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ३७ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ३७ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ३७ Translation - भाषांतर ॥ श्रीसूत उवाच ॥भोभोस्तपोधनाः सर्वे नैमिषारण्यवासिनः ॥यावद्रामधनुष्कोटिचक्रतीर्थमुखानि वः ॥१॥चतुर्विंशतितीर्थानि कथितानि मयाधुना ॥इतोऽन्यदद्भुतं यूयं किं भूयः श्रोतुमिच्छथ ॥२॥॥ मुनय ऊचुः ॥क्षीरकुंडस्य माहात्म्यं श्रोतुमिच्छामहे मुने ॥यत्समीपे त्वया चक्रतीर्थमित्युदितं पुरा ॥३॥क्षीरकुंडं च तत्कुत्र कीदृशं तस्य वैभवम् ॥क्षीरकुण्डमिति ख्यातिः कथं वास्य समागता ॥४॥एतन्नः श्रद्दधानानां विस्तराद्वक्तुमर्हसि ॥॥ श्रीसूत उवाच ॥ब्रवीमि मुनयः सर्वे शृणुध्वं सुसमाहिताः ॥५॥देवीपुरान्महापुण्यात्प्रतीच्यां दिश्यदूरतः ॥फुल्लग्राममिति ख्यातं स्थानमस्ति महत्तरम् ॥६॥यत आरभ्य रामेण सेतुबन्धो महार्णवे ॥तद्धि पुण्यतमं क्षेत्रं फुल्लग्रामाभिधं पुरम् ॥७॥क्षीरकुण्डं तु तत्रैव महापातकनाशनम् ॥दर्शनात्स्पर्शनाद्ध्यानात्कीर्तनाच्चापि मोक्षदम् ॥८॥तस्य तीर्थस्य पुण्यस्य क्षीरकुण्डमिति प्रथाम् ॥भवतां सादरं वक्ष्ये शृणुध्वं श्रद्धया सह ॥९॥पुरा हि मुद्गलोनाम मुनिर्वेदोक्तमार्गकृत् ॥दक्षिणांबुनिधेस्तीरे फुल्लग्रामेतिपावने ॥१०॥नारायणप्रीतिकरम करोद्यज्ञमुत्तमम् ॥तस्य विष्णुः प्रसन्नात्मा यागेन परितोषितः ॥११॥प्रादुर्बभूव पुरतो यज्ञवाटे द्विजोत्तमाः ॥तं दृष्ट्वा मुद्गलो विष्णुं लक्ष्मीशोभितविग्रहम् ॥१२॥कालमेघतनुं कांत्या पीतांबरविराजितम् ॥विनतानंदनारूढं कौस्तुभालंकृतोरसम् ॥१३॥शंखचक्रगदापद्मराजद्बाहुचतु ष्टयम् ॥भक्त्या परवशो दृष्ट्वा पुलकांकुरमंडितः ॥मुद्गलः परितुष्टाव शब्दैः श्रोत्रसुखावहैः ॥१४॥॥ मुद्गल उवाच ॥प्रथमं जगतः स्रष्ट्रे पालकाय ततः परम् ॥१५॥संहर्त्रे च ततः पश्चान्नमो नारायणाय ते ॥नमः शफररूपाय कमठाय चिदात्मने ॥१६॥नमो वराहवपुषे नमः पंचास्यरूपिणे ॥वामनाय नमस्तुभ्यं जमदग्निसुताय ते ॥१७॥राघवाय नमस्तुभ्यं बलभद्राय ते नमः ॥कृष्णाय कल्कये तुभ्यं नमो विज्ञानरूपिणे ॥१८॥रक्ष मां करुणासिंधो नारायण जगत्पते ॥निर्लज्जं कृपणं क्रूरं पिशुनं दांभिकं कृशम् ॥१९॥परदारपरद्रव्यपरक्षेत्रैकलो लुपम् ॥असूयाविष्टमनसं मां रक्ष कृपया हरे ॥२०॥इति स्तुतो हरिः साक्षान्मुद्गलेन द्विजोत्तमाः ॥तमाह मुद्गलमुनिं मेघगंभीरया गिरा ॥२१॥ श्रीहरिरुवाच ॥प्रीतोऽस्म्यनेन स्तोत्रेण मुद्गल क्रतुना च ते ॥प्रत्यक्षेण हविर्भोक्तुमहं ते क्रतुमागतः ॥२२॥इत्युक्तो हरिणा तत्र मुद्गलस्तुष्टमानसः ॥उवाचाधोक्षजं विप्रो भक्त्या परमया युतः ॥२३॥॥ मुद्गल उवाच ॥कृतार्थोऽस्मि हृषीकेश पत्नी मे धन्यतां ययौ ॥अद्य मे सफलं जन्म ह्यद्य मे सफलं तपः ॥२४॥अदय मे सफलो वंशो ह्यद्य मे सफलाः सुताः ॥आश्रमः सफलोऽद्यैव सर्वं सफलमद्य मे ॥२५॥यद्भवान्यज्ञवाटं मे हविर्भोक्तुमिहागतः ॥योगिनो योगनिरता हृदये मृगयंति यम् ॥२६॥तमद्य साक्षात्त्वां पश्ये सफ लोऽयं मम क्रतुः ॥इतीरयित्वा तं विष्णुमर्चयित्वाऽऽसनादिभिः ॥२७॥चंदनैः कुसुमैरन्यैर्दत्त्वा चार्घ्यं स विष्णवे ॥प्रददौ विष्णवे प्रीत्या पुरो डाशादिकं हविः ॥२८॥स्वयमेव समादाय पाणिना लोकभावनः ॥हविस्तद्बुभुजे विष्णुर्मुद्गलेन समर्पितम् ॥२९॥तस्मिन्हविषि भुक्ते तु विष्णुना प्रभविष्णुना ॥साग्नयस्त्रिदशाः सर्वे तृप्ताः समभवन्द्विजाः ॥३०॥ऋत्विजो यजमानश्च तत्रत्या ब्राह्मणास्तथा ॥यत्किंचित्प्राणिलोकेऽ स्मिंश्चरं वा यदि वाऽचरम् ॥३१॥सर्वमेव जगत्तृप्तं भुक्ते हविषि विष्णुना ॥ततो हरिः प्रसन्नात्मा मुद्गलं प्रत्यभाषत ॥३२॥प्रीतोऽहं वरदोऽस्म्येष वरं वरय सुव्रत ॥इत्युक्ते केशवेनाथ महर्षिस्तमभाषत ॥३३॥॥ मुद्गल उवाच ॥यत्त्वया मे हविर्भुक्तं यागे प्रत्यक्षरूपिणा ॥अनेनैव कृतार्थोऽस्मि किमस्मादधिकं वरम् ॥३४॥तथापि भगवन्विष्णो त्वयि मे निश्चला सदा ॥भक्तिर्निष्कपटा भूयादिदं मे प्रथमं वरम् ॥३५॥माधवाहं प्रतिदिनं सायंप्रातरिहाग्नये ॥त्वद्रूपाय तव प्रीत्यै सुरभेः पयसा हरे ॥३६॥होतुमिच्छामि वरद तन्मे देहि वरांतरम् ॥पयसा नित्यहोमो हि द्विकालं श्रुतिचोदितः ॥३७॥न मे सुरभयः संति तापसस्याधनस्य च ॥इत्युक्ते मुद्गलेनाथ देवो नारायणो हरिः ॥३८॥आहूय विश्वकर्माणं त्वष्टारममृताशिनम् ॥एकं सरः कारयित्वा शिल्पिना तेन शोभनम् ॥३९॥स्फटिकादि शिलाभेदैस्तेनासौ विश्वकर्मणा ॥समीचकार च पुनस्तत्प्राकाराद्यलंकृतम् ॥तत आहूय भगवान्सुरभिं वाक्यमब्रवीत् ॥४०॥ श्रीहरिरुवाच ॥मुद्गलो मम भक्तोऽयं सुरभे प्रत्यहं मुदा ॥४१॥मत्प्रीत्यर्थं पयोहोमं कर्तुमिच्छति सांप्रतम् ॥मत्प्रीत्यर्थमितो देवि त्वमतो मत्प्रचोदिता ॥४२॥सायंप्रातरिहागत्य प्रत्यहं सुरभे शुभे ॥पयसा त्वत्प्रसूतेन सर एतत्प्रपूरय ॥४३॥तेनासौ पयसा नित्यं सायंप्रातश्च होष्यति ॥ओमित्युक्त्वाथ सुरभिरेवं नारयणेरिता ॥४४॥अथ नारायणो देवो मुद्गलं प्रत्यभाषत ॥सुरभेः पयसा नित्यमस्मिन्सरसि तिष्ठता ॥४५॥सायंप्रातः प्रतिदिनं मत्प्रीत्यर्थमिहाग्नये ॥जुहुधि त्वं महाभाग तेन प्रीणाम्यहं तव ॥४६॥मत्प्रीत्या तेऽखिला सिद्धिर्भविष्यति च मुद्गल ॥इदं क्षीरसरोनाम तीर्थं ख्यातं भविष्यति ॥४७॥अस्मिन्क्षीरसरस्तीर्थे स्नातानां पंचपातकम् ॥अन्यान्यपि च पापानि नाशं यास्यंति तत्क्षणात् ॥४८॥मुद्गल त्वं च मां याहि देहांते मुक्तबंधनः ॥इत्युक्त्वा भगवान्विष्णुस्तं समालिंग्य मुद्गलम् ॥४९॥नमस्कृतश्च तेनायं तत्रैवांतरधीयत ॥मुद्गलोऽपि गते विष्णावनेकशतवत्सरम् ॥५०॥सुरभेः पयसा जुह्वन्नग्नये हरितुष्टये ॥उवास प्रयतो नित्यं फुल्ल ग्रामे विमुक्तिदे ॥देहांते मुक्तिमगमद्विष्णुसायुज्यरूपिणीम् ॥५१॥॥ श्रीसूत उवाच ॥एवमेतद्द्विजवरा युष्माकं कथितं मया ॥५२॥यथा क्षीरसरो नाम तीर्थस्यास्य पुराऽभवत् ॥इदं क्षीरसरः पुण्यं सर्वलोकेषु विश्रुतम् ॥५३॥काश्यपस्य मुनेः पत्नी कद्रूर्यत्र द्विजोत्तमाः ॥स्नात्वा स्वभर्तृवाक्येन नोदिता नियमान्विता ॥५४॥छलेन मुमुचे सद्यः सपत्नीजयदोषतः ॥अतोऽत्र तीर्थे ये स्नांति मानवाः शुदमानसाः ॥५५॥तेषां विमुक्तबंधानां मुक्तानां पुण्यकर्मिणाम् ॥किं यागैः किमु वा वेदैः किं वा तीर्थनिषेवणैः ॥५६॥जपैर्वा नियमैर्वापि क्षीर कुंडविलोकिनाम् ॥क्षीरकुंडस्य वातेन स्पृष्टदेहो नरो द्विजाः ॥५७॥ब्रह्मलोकमनुप्राप्य तत्रैव परिमुच्यते ॥निमग्नाः क्षीरकुंडेऽस्मिन्नवमत्यापि भास्करिम् ॥५८॥तस्य मूर्द्धनि तिष्ठेयुर्ज्वलतः पावकोपमाः ॥मग्नानां क्षीरकुंडेस्मिञ्छीता वैतरणी नदी। ॥५९॥सर्वाणि नरकाण्यद्धा व्यर्थानि च भवंति हि ॥कामधेनुसमे तस्मिन्क्षीरकुंडे स्थितेप्यहो ॥६०॥योन्यत्र भ्रमते स्नातुं स नरो विप्रसत्तमाः ॥गोक्षीरे विद्यमानेऽपि ह्यर्कक्षीराय गच्छति ॥६१॥स्नातानां क्षीरकुंडेऽस्मिन्नालभ्यं किंचिदस्ति हि ॥करप्राप्तैव मुक्तिः स्यात्किमन्यैर्बहुभाषणैः ॥६२॥ब्रवीमि भुजमुद्धत्य सत्यंसत्यं ब्रवीमि वः ॥यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥स क्षीरकुंडस्नानस्य लभते फलमुत्तमम् ॥६३॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये क्षीरकुंडप्रशंसायां क्षीरकुंडस्वरूपकथनं नाम सप्तत्रिंशोऽध्यायः ॥३७॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP