संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १६ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १६ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १६ Translation - भाषांतर ॥ सूत उवाच ॥कुंडे हनुमतः स्नात्वा स्वयं रुद्रेण सेविते ॥अगस्तितीर्थं विप्रेंद्रास्ततो गच्छेत्समाहितः ॥१॥एतद्विनिर्मितं तीर्थं साक्षाद्वै कुम्भयोनिना ॥प्रवर्तमाने कलहे पुरा वै मेरुविंध्ययोः ॥२॥निरुद्धभुवनाभोगो ववृधे विंध्यपर्वतः ॥तदा प्राणिषु सर्वेषु निरुच्छ्वासेषु देवताः ॥३॥कैलासं पर्वतं गत्वा शंभवे तद्व्यजिज्ञपन्॥तदा स पार्वतीपाणिग्रहणोत्सुककौतुकी ॥४॥प्रेषयित्वा वसिष्ठादीन्पार्वतीं याचितुं मुनीन्॥कुंभज त्वं निगृह्णीष्व विंध्याद्रिमिति सोऽन्वशात् ॥५॥ततः स कुम्भजः प्राह भगवंतं पिनाकिनम् ॥उद्वाहवेषं ते देव न द्रक्ष्येहं कथं विभो ॥६॥इति विज्ञापितः शंभुः पुनः कुंभजमब्रवीत्॥कुंभजोद्वाहवेषं ते पार्वत्या सहितो ह्यहम् ॥७॥वेदारण्ये महापुण्ये दर्शयिष्याम्यसंशयः ॥तद्गच्छ शीघ्रं विंध्याद्रिं निग्रहीतुं मुनीश्वर ॥८॥एवमुक्तस्ततोगस्त्यो विन्ध्याद्रिं स निगृह्य च ॥पादाक्रमणमात्रेण समीकुर्वन्महीतलम् ॥९॥चरित्वा दक्षि णान्देशान्गन्धमादनमन्वगात् ॥स विदित्वा महर्षिस्तु गन्धमादनवैभवम् ॥१०॥तत्र तीर्थं महापुण्यं स्वनाम्ना निर्ममे मुनिः ॥लोपामुद्रासखस्तत्र वर्ततेऽद्यापि कुंभजः ॥११॥तत्र स्नात्वा च पीत्वा च न भूयो जन्मभाग्भवेत् ॥इह लोके त्रिकालेपि तत्तीर्थसदृशं द्विजाः ॥१२॥तीर्थं न विद्यते पुण्यं भुक्तिमुक्तिफलप्रदम् ॥सर्वाभीष्टप्रदं नृणां यत्तीर्थस्नानवैभवात्॥ १३॥सुदीर्घतमसः पुत्रः कक्षीवान्नाम नामतः ॥लेभे मनोरमां नाम स्वनयस्य सुतां प्रियाम् ॥१४॥कक्षीवतः कथा सेयं पुण्यापापविनाशिनी ॥तां कथां वः प्रवक्ष्यामि तच्छृणुध्वं मुनीश्वराः ॥ १५॥अस्ति दीर्घतमा नाम मुनिः परमधार्मिकः ॥तस्य पुत्रः समभवत्कक्षीवानिति विश्रुतः ॥१६॥उपनीतः स कक्षीवान्ब्रह्मचारी जितें द्रियः ॥वेदाभ्यासाय स गुरोः कुले वासमकल्पयत् ॥१७॥उदंकस्य गुरोर्गेहे वसन्दीर्घतमःसुतः ॥सोऽध्येष्ट चतुरो वेदान्सांगाञ्छास्त्राणि षट् तथा ॥१८॥इतिहासपुराणानि तथोपनिषदोऽपिच ॥उषित्वा षष्टिवर्षाणि कक्षीवान्गुरुसन्निधौ ॥१९॥प्रयास्यन्स्वगृहं विप्रा गुरवे दक्षि णामदात् ॥उवाच वै गुरुर्विद्वान्कक्षीवान्ब्रह्मवित्तमः ॥२०॥॥ कक्षीवानुवाच ॥अहं गृहं प्रयास्यामि कुर्वनुज्ञां महामुने ॥अवलोक्य कृपादृष्ट्या मां रक्षोदंक सांप्रतम् ॥उदंकस्त्वेव मुदितः कक्षीवंतमथाब्रवीत् ॥२१॥॥ उदंक उवाच ॥अनुजानामि कक्षीवन्गच्छ त्वं स्वगृहं प्रति ॥२२॥उद्वाहार्थमुपायं ते वत्स वक्ष्यामि तच्छृणु ॥रामसेतुं प्रयाहि त्वं गंधमादनपर्वतम्॥ २३॥तत्रागस्त्यकृतं तीर्थं सर्वाभीष्टप्रदा यकम् ॥भुक्तिमुक्तिप्रदं पुंसां सर्वपापनिबर्हणम्॥ २४॥विद्यते स्नाहि तत्र त्वं सर्वमंगलसाधने ॥त्रिवर्षं वस तत्र त्वं नियमाचारसंयुतः ॥२५॥वर्षेषु त्रिषु यातेषु चतुर्थे वत्सरे ततः ॥निर्गमिष्यति मातंगः कश्चित्तीर्थोत्तमात्ततः ॥२६॥चतुर्दंतो महाकायः शरदभ्रसमच्छविः ॥तं गजं गिरिसंकाशं स्नात्वा तत्र समारुह ॥२७॥आरुह्य तं गजं वत्स स्वनयस्य पुरीं व्रज ॥चतुर्दंतगजस्थं त्वां दृष्ट्वा शक्रमिवापरम् ॥२८॥राजर्षिः स्वनयो धीमान्हर्षव्याकुललोचनः ॥स्वकन्यायाः कृते दुःखं त्यजेदेव हृदिस्थितम् ॥२९॥पुरा हि प्रतिजज्ञे सा तस्य पुत्री मनोरमा ॥चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ॥३०॥आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥स्वकन्यायाः प्रतिज्ञां तां समाकर्ण्य स भूपतिः ॥३१॥दुःखाकुलमना भूत्वा सततं पर्यचिंतयत् ॥स्वनये चिंतयत्येवं नारदः समुपागमत् ॥३२॥तमागतं मुनिं दृष्ट्वा राजर्षिरतिधार्मिकः ॥प्रत्युद्गम्य मुदा युक्तः पाद्यार्घ्याद्यैरपूजयत् ॥३३॥प्रणम्य नारदं राजा वचनं चेदमब्रवीत् ॥कन्येयं मम देवर्षे प्रतिज्ञामकरोत्पुरा ॥३४॥चतु र्दंतं महाकायं गजं सर्वांगपांडुरम् ॥आरुह्य यः समागच्छेत्स मे भर्ता भवेदिति ॥३५॥चतुर्दंतो महाकायो गजः सर्वांगपांडुरः ॥संभवेदिंद्रभवने भूतले नैव विद्यते ॥३६॥इयं च दुस्तरामेनां प्रतिज्ञां बालिशाऽकरोत् ॥इयं प्रतिज्ञातितरां सततं बाधते हि माम् ॥३७॥अनूढा हि पितुः कन्या सर्वदा शोकमावहेत् ॥इति तस्य वचः श्रुत्वा स्वनये नारदोऽब्रवीत् ॥३८॥मा विषीदस्व राजर्षे तस्या ईदृग्विधः पतिः ॥भविष्यत्यचिरादेव पृथिव्यां ब्राह्मणोत्तमः ॥३९॥कक्षीवानिति विख्यातो जामाता ते भविष्यति ॥इत्युक्त्वा नारदमुनिर्ययावाकाशमार्गतः ॥४०॥स्व नयस्तद्वचः श्रुत्वा नारदेन प्रभाषितम् ॥आकांक्षते दिवारात्रं तादृग्विधसमागमम् ॥४१॥अतः सौम्य महाभाग कक्षीवन्बालतापस ॥अगस्त्यतीर्थमद्य त्वं स्नातुं गच्छ त्वरान्वितः ॥४२॥सर्वमंगलसिद्धिस्ते भविष्यति न संशयः ॥उदंकेनैवमुक्तोऽथ कक्षीवान्द्विजपुंगवः ॥४३॥अनु ज्ञातश्च गुरुणा प्रययौ गंधमादनम् ॥संप्राप्यागस्त्यतीर्थं च तत्र सस्नौ जितेंद्रियः ॥४४॥क्षेत्रोपवासमकरोद्दिनमेकं मुनीश्वरः ॥अपरेद्युः पुनः स्नात्वा पारणामकरोद्द्विजः ॥४५॥रात्रौ तत्रैव सुष्वाप कक्षीवान्धर्मतत्परः ॥एवं नियमयुक्तस्य तस्य कक्षीवतो मुनेः ॥४६॥एकेन दिवसे नोनं वर्षत्रयमथागमत् ॥अथ वर्षत्रयस्यांते तस्मिन्नेव दिने मुनिः ॥४७॥अन्वास्य पश्चिमां संध्यां सुखं सुष्वाप तत्तटे ॥याममात्रावशिष्टायां विभावर्यां महाध्वनिः ॥४८॥उदभूत्प्रलयांभोधिवीचिकोलाहलोपमः ॥तेन शब्देन महता कक्षीवान्प्रत्यबुध्यत ॥४९॥ततस्तु स्वनयो नाम राजा सानुचरो बली ॥मृगयाकौतुकी तत्र मधुरापतिराययौ ॥५०॥विनिघ्नन्स गजान्सिंहान्वराहान्महिषान्नुरून् ॥अन्यान्मृगविशेषांश्च स राजा न्यवधीच्छरैः ॥८५१॥सामात्यो मृगयासक्तो रथवाजिगजैर्युतः ॥अगस्त्यतीर्थसविधमाससाद भटान्वितः ॥५२॥स राजा मृगयाश्रांतः श्रांतसैनिकसंवृतः ॥तत्तीर्थतीरप्रांतेषु निषसाद महीपतिः ॥५३॥ततः प्रभाते विमले कक्षी वान्मुनिसत्तमः ॥अगस्त्यतीर्थे स्नात्वाऽसौ संध्यां पूर्वामुपास्य च ॥५४॥तस्य तीरे जपन्मत्रांस्तस्थौ नियमसंयुतः ॥अत्रांतरे तीर्थवराद्गज एको विनिर्ययौ ॥५५॥चतुर्दंतो महाकायः कैलास इव मूर्तिमान् ॥स समुत्थाय तत्तीर्थादगात्कक्षीवदंतिकम् ॥५६॥तमागतमुदंकोक्त लक्षणैरुपलक्षितम् ॥तदा निरीक्ष्य कक्षीवानारोढुं स्नानमातनोत् ॥५७॥नमस्कृत्य च तत्तीर्थं श्लाघमानो मुहुर्मुहुः ॥आरुरोह च कक्षीवांश्चतुर्दंतं महागजम् ॥५८॥आरुह्य तं चतुर्दंतं रजताचलसंनिभम् ॥स्वनयस्य पुरीमेव कक्षीवान्गंतुमैच्छत ॥५९॥तमारूढं चतुर्दंतं श्वेतदंतावलोत्तमम् ॥स वीक्ष्य निश्चिकायैनं कक्षीवानिति भूपतिः ॥६०॥प्रसन्नहृदयो राजा तस्यांतिकमुपागमत् ॥तदाभ्याशमुपागम्य कक्षीवंतं नृपोऽब्रवीत् ॥६१॥॥ स्वनय उवाच ॥त्वं ब्रह्मन्कस्य पुत्रोऽसि नाम किं तव मे वद ॥गजमेनं समारुह्य कुत्र वा गन्तुमिच्छसि ॥स्वनयेनैवमुक्तस्तु कक्षीवान्वाक्यमब्रवीत् ॥६२॥॥ कक्षीवानुवाच ॥पुत्रोऽहं दीर्घतमसः कक्षीवानिति विश्रुतः ॥६३॥स्वनयस्य तु राजर्षेर्गच्छामि नगरं प्रति ॥अहमुद्वोढुमिच्छामि तस्य कन्या मनोरमाम् ॥६४॥चतुर्दंतगजारूढस्तत्प्रतिज्ञां च पूरयन् ॥स्वनयस्य सुतापाणिं ग्रहीष्यामि नराधिप ॥६५॥तद्भाषितं समाकर्ण्य श्रोत्रपीयूषवर्षणम् ॥हर्षसंफुल्लनयनः स्वनयो वाक्यम ब्रवीत् ॥६६॥कक्षीवन्भोः कृतार्थोस्मि स एव स्वनयो ह्यहम् ॥उद्वोढुमिच्छति भवान्यस्य कन्यां मनोरमाम् ॥६७॥स्वागतं ते मुनिश्रेष्ठ कक्षीवन्बालतापस ॥मम कन्यां गृहाण त्वं तपोधन मनोरमाम् ॥६८॥तया सह चरन्धर्मान्गार्हस्थ्यं प्रतिपालय ॥राज्ञोक्तः स तदोवाच कक्षीवान्धर्मतत्परः ॥राजानं स्वनयं प्रीतं मधुरापुरवासिनम् ॥६९॥॥ कक्षीवानुवाच ॥पिता दीर्घतमानाम वेदारण्ये मम प्रभो ॥७०॥आस्ते तपश्चरन्सौम्यो नियमाचारतत्परः ॥तस्यांतिकं प्रेषय त्वं विप्रमेकं धरापते ॥७१॥तथोक्तः स तदा राजा स्वनयो हृष्टमा नसः ॥अनेकसेनया सार्धं प्राहिणोत्स्वपुरोधसम् ॥७२॥विप्रं सुदर्शनं नाम वेदारण्यस्थलं प्रति ॥सुदर्शनः समादिष्टः स्वनयेन नृपेण सः ॥७३॥महत्या सेनया सार्धं प्रययौ वेदकाननम् ॥तत्रोटजे समासीन तं दीर्घतमसं मुनिम् ॥७४॥तपश्चरतमासीनं ध्यायन्वेदाटवी पतिम् ॥पुरोहितो ददर्शाथ जपंतं मंत्रमुत्तमम् ॥७५॥प्रणाममकरोत्तस्मै मुनये स सुदर्शनः ॥उवाच दीर्घतमसं मुनिं प्रह्लादयन्निव ॥७६॥॥ सुदर्शन उवाच ॥कच्चित्ते कुशलं ब्रह्मन्कच्चित्ते वर्धते तपः ॥आश्रमे कुशलं कच्चित्कच्चिद्धर्मे सुखं वद ॥७७॥पृष्टः सुदर्शनेनैवं मुनिर्दीर्घतमास्तदा ॥सुदर्शनमुवाचेदमर्घ्यादिविधिपूर्वकम् ॥७८॥॥ दीर्घतमा उवाच ॥सर्वत्र कुशलं ब्रह्मन्सुदर्शन महामते ॥मम वेदाटवीनाथकृपया नाशुभं क्वचित्॥ ७९॥तवापि कुशलं ब्रह्मन्किं सुखागमनं तथा ॥किंवाऽऽगमनकार्यं ते सुदर्शन ममाश्रमे ॥८०॥स्वनयस्य पुरोधास्त्वं खलु वेदविदांवरः ॥तं विहाय महाराज मधुरापुरवासिनम् ॥८१॥महत्या सेनया सार्धं किमर्थं त्वमिहागतः ॥इत्युक्तो दीर्घतमसा तदानीं स सुदर्शनः ॥८२॥उवाच तं महात्मानं मुनिं ज्वलिततेजसम् ॥सर्वत्र मे सुखं ब्रह्मन्भवतः कृपया सदा ॥८३॥भगवन्स्व नयो राजा साष्टांगं प्रणिपत्य तु॥त्वां प्राह प्रश्रितं वाक्यं मन्मुखेन शृणुष्व तत् ॥८४॥॥ स्वनय उवाच ॥कक्षीवांस्ते सुतो ब्रह्म न्गंधमादनपर्वते ॥स्नानं कुर्वन्नगस्त्यस्य तीर्थे संप्रति वर्तते ॥८५॥तस्य रूपं तपो धर्ममाचारान्वैदिकांस्तथा ॥वेदशास्त्रप्रवीणत्वमाभि जात्यं च तादृशम् ॥८६॥लोकोत्तरमिदं सर्वं विज्ञाय तव नंदने ॥मनोरमां सुतां तस्मै दातुमिच्छाम्यहं मुने ॥८७॥मृगयाकौतुकी चाहं गंधमादनपर्वतम् ॥आगतो मुनिशार्दूल वर्त्ते युष्मत्सुतांतिके ॥८८॥पित्रनुज्ञां विना नाहमुद्वहेयं सुतां तव ॥इति ब्रूते तव सुतः कक्षीवान्मुनिस त्तम ॥८९॥तद्भावां मत्सुतां तस्मै दातुं मेऽनुग्रहं कुरु ॥प्रैषयं च समीपं ते सेनया च सुदर्शनम् ॥९०॥॥ सुदर्शन उवाच ॥॥इति मां भगवन्राजा प्राहिणोत्तव सन्निधिम्॥तद्भवाननुमन्यस्व राज्ञस्तस्य चिकीर्षितम् ॥९१॥॥ श्रीसूत उवाच ॥इत्युक्त्वा विररामाथ स्वनयस्य पुरोहितः ॥ततो दीर्घतमाः प्राह स्वनयस्य पुरोहितम् ॥९२॥॥ दीर्घतमा उवाच ॥सुदर्शन भवत्वेवं कथितं स्वनयेन यत् ॥ममाभीष्टतमं ह्येतत्पाणिग्रहणमंगलम् ॥९३॥आगमिष्याम्यहं विप्र गन्धमादनपर्वतम् ॥इत्युक्त्वा स मुनिर्विप्रा महादीर्घतमा मुनिः ॥९४॥वेदाटवीपतिं नत्वा भक्तिप्रवणचेतसा ॥सुदर्शनेन सहितः सेतुमुद्दिश्य निर्ययौ ॥९५॥षट्भिर्दिनैर्मुनिः पुण्यं प्रययौ गन्धमादनम् ॥अगस्तितीर्थतीरं च गत्वा दीर्घतमा मुनिः ॥९६॥अथ पुत्रं ददर्शाग्रे कक्षीवंतं महामुनिः ॥कक्षीवान्पितरं दृष्ट्वा ववन्दे नाम कीर्तयन् ॥९७॥ततो दीर्घतमा योगी स्वांकमारोप्य तं सुतम् ॥मूर्ध्न्युपाघ्राय सस्नेहं सस्वजे पुलकाकुलः ॥९८॥कुशलं परिपप्रच्छ तदा दीर्घतमा ऋषिः ॥सर्ववेदास्त्वयाधीताः कक्षीवन्किमु वत्सक ॥९९॥शास्त्राण्यपाठीः किं त्वं वा वत्स सर्वं वदस्व मे ॥इति पृष्टः स्वपित्रा स सर्वं वृत्तं तमव्रवीत् ॥१००॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्येऽगस्तितीर्थप्रशंसायां कक्षीवदुद्वाहोद्योगवर्णनंनाम षोडशोऽध्यायः ॥१६॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP