संस्कृत सूची|संस्कृत स्तोत्र साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय ५० सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय ५० भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय ५० Translation - भाषांतर ॥ श्रीसूत उवाच ॥अथातः संप्रवक्ष्यामि सेतुमाधववैभवम्॥शृणुध्वं मुनयो भक्त्या पुण्यं पापहरं परम्॥ १॥पुरा पुण्यनिधिर्नाम राजा सोमकुलोद्भवः ॥मधुरां पालयामास हालास्येश्वरभूषिताम् ॥२॥कदाचित्स महीपालश्चतुरंगबलान्वितः ॥सांऽतःपुरपरीवारो मधुरायां निजं सुतम् ॥३॥स्थापयित्वा रामसेतुं प्रययौ स्नानकौतुकी ॥तत्र गत्वा धनुष्कोटौ स्नात्वा संकल्पपूर्वकम् ॥४॥अन्येष्वपि च तीर्थेषु तत्रत्येषु नृपोत्तमः ॥सस्नौ रामेश्वरं देवं सिषेवे च सभक्तिकम् ॥५॥एवं स बहुकालं वै तत्रैव न्यवसत्सुखम् ॥रामसेतौ वसन्पुण्ये गन्धमादनपर्वते ॥६॥विष्णुप्रीतिकरं यज्ञं कदाचिदकरोन्नृपः ॥यज्ञावसाने राजासौ मुदावभृथकौतुकी ॥७॥सस्नौ रामधनुष्कोटौ सदारः सपरिच्छदः ॥सेवित्वा रामनाथं च स वेश्म प्रययौ द्विजाः ॥८॥एवं निवसमानेऽस्मिन्राज्ञि पुण्यनिधौ तदा ॥कदाचिद्धरिणा लक्ष्मीर्विनोदकलहाकुला ॥९॥हरिणा समयं कृत्वा नृपभक्तिं परीक्षितुम् ॥विष्णुना प्रेषिता लक्ष्मीर्वैकुंठात्कमलालया ॥१०॥अष्टवर्षवयोरूपा प्रययौ गंधमादने ॥तत्रागत्य धनुष्कोटौ तस्थौ सा कमलालया ॥११॥तस्मिन्नवसरे राजा ययौ गुणनिधिर्द्विजाः ॥स्नातुं रामधनुष्कोटौ सदारः सहसैनिकः ॥१२॥तत्र गत्वा स राजाऽयं स्नात्वा नियमपूर्वकम्॥तुलापुरुषमुख्यानि कृत्वा दानानि कृत्स्नशः ॥१३॥प्रयातुकामो भवनं कन्यां कांचिद्ददर्श सः ॥अतीवरूपसंपन्नामष्टवर्षां शुचिस्मिताम्॥ १४॥दृष्ट्वा नृपस्तां पप्रच्छ कन्यां चारुविलोचनाम् ॥चारुस्मितां चारुदतीं बिंबोष्ठीं तनुमध्यमाम् ॥१५॥॥ पुण्यनिधिरुवाच ॥का त्वं कन्ये सुता कस्य कुतो वा त्वमिहागता ॥अत्रागमेन किं कार्यं तव वत्से शुचिस्मिते ॥१६॥एवं नृपस्तां पप्रच्छ कन्यामुत्पललोच नाम्॥एवं पृष्टा तदा कन्या नृपं तमवदद्विजाः ॥१७॥न मे माता पिता नास्ति न च मे बांधवास्तथा ॥अनाथाहं महाराज भविष्यामि च ते सुता ॥१८॥त्वद्गृहेऽहं निवत्स्यामि तात त्वां पश्यतीसदा ॥हठात्कृष्यति यो वा मां ग्रहीष्यति करेण तम् ॥१९॥यदि शासिष्यसे भूप तदाहं तव मंदिरे ॥वत्स्यामि ते सुता भूत्वा पितर्गुणनिधे चिरम् ॥२०॥एवमुक्तस्तदा प्राह कन्यां गुणनिधिर्नृपः ॥अहं सर्वं करिष्यामि त्वदुक्तं कन्यके शुभे ॥२१॥ममापि दुहिता नास्ति पुत्रोऽस्त्येकः कुलोद्वहः ॥तव यस्मिन्रुचिर्भद्रे त्वां तस्मै प्रददाम्यहम् ॥२२॥आगच्छ मद्गृहं कन्ये मम चांतःपुरे वस ॥मद्भार्यायाः सुता भूत्वा यथाकाममनिंदिते ॥२३॥इत्युक्ता सा नृपेणाथ कन्या कमललोचना ॥तथा स्त्विति नृपं प्रोच्य तेन साकं ययौ गृहम् ॥२४॥राजा स्वभार्याहस्ते तां प्रददौ कन्यकां शुभाम् ॥अब्रवीच्च स्वकां भार्यां राजा विन्ध्यावलिं तदा ॥२५॥आवयोः कन्यका चेयं राज्ञि विंध्यावले शुभे ॥रक्षेमां सर्वथा त्वं वै पुरुषांतरतः प्रिये ॥२६॥इतीरिता नृपेणासौ भार्या विंध्या वलिस्तदा ॥ओमित्युक्त्वाथ तां कन्यां पुत्रीं जग्राह पाणिना ॥२७॥पोषिता पालिता राज्ञा सुतवत्कन्यका च सा ॥न्यवात्सीत्सुसुखं राज्ञो भवने लालिता सदा ॥२८॥अथ विष्णुर्जगन्नाथो लक्ष्मीमन्वेष्टुमादरात् ॥आरूढविनतानन्दो वैकुंठान्निर्ययौ द्विजाः ॥२९॥विनिर्गत्य स वैकुंठा द्विलंघितवियत्पथः ॥बभ्राम च बहून्देशाल्लँक्ष्मीं तत्र न दृष्टवान्॥३०॥रामसेतुमथागच्छद्गंधमादनपर्वते ॥अन्विष्य सर्वतो रामसेतुं बभ्राम चेंदि राम् ॥३१॥एतस्मिन्नेव काले सा पुष्पावचयकौतुकात् ॥सखीभिः कन्यकायासीद्भवनोद्यानपादपान् ॥३२॥पुष्पाण्यवचिनोति स्म सखीभिः सह कानने ॥तत्रागत्य ततो विष्णुर्विप्ररूपधरो द्विजाः ॥३३॥गंगांभो विदधत्स्कंधे वहञ्छत्रं करंण च ॥गंगास्नायिद्विजस्येव रचयन्वेषमात्मनः ॥३४॥धारयन्दक्षिणे पाणौ कुशाग्रंथिपवित्रकम् ॥भस्मोद्धूलितसर्वांगस्त्रिपुण्ड्रावलिशोभितः ॥३५॥प्रजपञ्छिवनामानि धृतरुद्राक्ष मालिकः ॥सोत्तरीयः शुचिर्विप्राः समायातो जनार्दनः ॥३६॥तमागतं द्विजं दृष्ट्वा स्तब्धाऽतिष्ठत कन्यका ॥अपश्यदष्टवर्षां तां वल्लभां पुष्प हारिणीम् ॥३७॥दृष्ट्वा स त्वरया विप्रः कन्यां मधुरभाषिणीम् ॥हठात्कृत्य करेणासौ जग्राह गरुडध्वजः ॥३८॥तदा चुक्रोश सा कन्या सखीभिः सह कानने ॥तमाक्रोशं समाकर्ण्य राजा स तु समागतः ॥३९॥प्रययौ भवनोद्यानं वृतः कतिपयैर्भटैः ॥गत्वा पप्रच्छ तां कन्यां तत्सखीरपि भूपतिः ॥४०॥किमर्थमधुना क्रुष्टं सखीभिः सह कन्यके ॥त्वया तु भवनोद्याने तत्र कारणमुच्यताम् ॥४१॥केन त्वं परिभूतासि हठात्कृष्य सुते मम ॥इति पृष्टा तमाचष्ट कन्या गुणनिधिं नृपम् ॥बाष्पपूर्णानना खिन्ना रुषिता भृशकातरा ॥४२॥॥ कन्योवाच ॥अयं विप्रो हठात्कृत्य जगृहे पांड्यनाथ माम् ॥४३॥तातात्र वृक्षमूलेऽसौ स तिष्ठत्यकुतोभयः ॥तदाकर्ण्य वचस्तस्या राजा गुणनिधिः सुधीः ॥४४॥जग्राह तरसा विप्रमविद्वांस्तद्बलं हठात् ॥रामनाथालयं नीत्वा निगृह्य च हठात्तदा ॥४५॥बद्ध्वा निगडपाशाभ्या मानयन्मंडपं च तम् ॥आत्मपुत्रीं समाश्वास्य शुद्धांतमनयन्नृपः ॥४६॥स्वयं च प्रययौ रम्यं भवनं नृपपुंगवः ॥ततो रात्रौ स्वपन्राजा स्वप्ने विप्रं ददर्श तम् ॥४७॥शंखचक्रगदापद्मवनमालाविभूषितम् ॥कौस्तुभालंकृतोरस्कं पीतांबरधरं हरिम् ॥४८॥कालमेघच्छविं कांतं गरुडोपरि संस्थितम् ॥चारुस्मितं चारुदंतं लसन्मकरकुण्डलम् ॥४९॥विष्वक्सेनप्रभृतिभिः किंकरैरुपसेवितम् ॥शेषपर्यंकशयनं नारदादि मुनिस्तुतम् ॥५०॥ददर्श च स्वकां कन्यां विकासिकमलस्थिताम् ॥धृतपंकजहस्तां तां नीलकुञ्चितमूर्धजाम् ॥५१॥विष्णुवक्षस्थल्रावासां समुन्नतपयोधराम् ॥दिग्गजैरभिषिक्तांगीं श्यामां पीतांबरावृताम् ॥५२॥स्वर्णपंकजसंक्लृप्तमालालंकृतमूर्धजाम् ॥दिव्याभरणशोभाढ्यां चारुहा रविभूषिताम् ॥५३॥अनर्घरत्नसंक्लृप्तनासाभरणशोभिताम् ॥सुवर्णनिष्काभरणां कांचीनूपुरराजिताम् ॥५४॥महालक्ष्मीं ददर्शासौ राजा रात्रौ स्वकां सुताम् ॥एवं दृष्ट्वा नृपः स्वप्ने विप्रं तं स्वसुतामपि ॥५५॥उत्थितः सहसा तल्पात्कन्यागृहमवाप च ॥तथैव दृष्टवान्कन्यां यथा स्वप्ने ददर्श ताम् ॥५६॥अथोदिते सवितरि कन्यामादाय भूमिपः ॥रामनाथालयं प्राप ब्राह्मणं न्यस्तवान्यतः ॥५७॥स मंडपवरे विप्रं ददर्श हरिरूपिणम् ॥यथा ददर्श स्वप्ने तं वनमालादिचिह्नितम् ॥विष्णुं विज्ञाय तुष्टाव नृपतिर्हरिमीश्वरम् ॥५८॥॥ पुण्यनिधिरुवाच ॥नमस्ते कमलाकांत प्रसीद गरुडध्वज ॥५९॥शार्ङ्गपाणे नमस्तुभ्यमपराधं क्षमस्व मे ॥नमस्ते पुण्डरीकाक्ष चक्रपाणे श्रियःपते ॥६०॥कौस्तुभालंकृतांकाय नमः श्रीवत्सलक्ष्मणे ॥नमस्ते ब्रह्मपुत्राय दैत्यसंघविदारिणे ॥६१॥ अशेषभुवनावासनाभिपंकजशालिने ॥मधुकैटभसंहर्त्रे रावणांतकराय ते ॥६२॥प्रह्रादरक्षिणे तुभ्यं धरित्रीपतये नमः ॥निर्गुणायाप्रमेयाय विष्णवे बुद्धिसाक्षिणे ॥६३॥नमस्ते श्रीनिवासाय जग द्धात्रे परात्मने॥नारायणाय देवाय कृष्णाय मधुविद्विषे ॥६४॥नमः पंकजनाभाय नमः पंकजचक्षुषे॥नमः पंकजहस्तायाः पतये पंकजांघ्रये ॥६५॥भूयोभूयो जगन्नाथ नमः पंकजमालिने ॥दयामूर्त्ते नमस्तुभ्यमपराधं क्षमस्व मे ॥६६॥मया निगडपाशाभ्यां यः कृतो मधुसूदन ॥अनयस्त्वत्स्वरूपमविदित्वा कृतः प्रभो ॥६७॥अतो मदपराधोऽयं क्षंतव्यो मधुसूदन ॥एवं स्तुत्वा महाविष्णुं राजा पुण्यनिधिर्द्विजाः ॥६८॥लक्ष्मीं तुष्टाव जननीं सर्वेषां प्राणिनां मुदा ॥नमो देवि जगद्धात्रि विष्णुवक्षस्थलालये ॥६९॥नमोब्धिसंभवे तुभ्यं महालक्ष्मि हरिप्रिये ॥सिद्ध्यै पुष्ट्यै स्वधायै च स्वाहायै सततं नमः ॥७०॥संध्यायै च प्रभायै च धात्र्यै भूत्यै नमोनमः ॥श्रद्धायै चैव मेधायै सरस्वत्यै नमोनमः ॥७१॥यज्ञविद्ये महाविद्ये गुह्यविद्येतिशोभने ॥आत्मविद्ये च देवेशि मुक्तिदे सर्वदेहिनाम् ॥७२॥त्रयीरूपे जगन्मातर्जगद्रक्षाविधायिनि ॥रक्ष मां त्वं कृपादृष्ट्या सृष्टिस्थित्यंतकारिणि ॥७३॥भूयोभूयो नमस्तुभ्यं ब्रह्ममात्रे महेश्वरि ॥इति स्तुत्वा महालक्ष्मीं प्रार्थयामास माधवम् ॥७४॥यदज्ञानान्मया विष्णो त्वयि दोषः कृतोऽधुना ॥पादे निगडबंधेन स द्रोहः क्षम्यतां त्वया ॥७६॥लोकास्ते शिशवः सर्वे त्वं पिता जगतां हरे॥सुताऽपराधः पितृभिः क्षंतव्यो मधुसूदन ॥७६॥अपराधिनां च दैत्यानां स्वरूपमपि दत्तवान् ॥भवान्विष्णो ममापीममपराधं क्षमस्व वै ॥७७॥जिघांसयापि भगवन्नागतां पूतनां पुरा ॥अनयस्त्वत्पदांभोजं तन्मां रक्ष कृपानिधे ॥लक्ष्मीकांत कृपादृष्टिं मयि पातय केशव ॥७८॥॥ श्रीसूत उवाच ॥इति संप्रार्थितो विष्णु राज्ञा तेन द्विजोत्तमाः ॥प्राह गंभीरया वाचा नृपं पुण्यनिधिं ततः ॥७९॥॥ विष्णुरुवाच ॥राजन्न भीस्त्वया कार्या मद्बंधननिमित्तजा ॥८०॥भक्तवश्यत्वमधुना तव प्रतिहितं मया ॥मम प्रीतिकरं यज्ञमकरोद्यद्भवानिह ॥९१॥अतस्त्वं मम भक्तोसि राजन्पुण्यनिधेऽधुना ॥तेनाहं तव वश्योऽस्मि भक्तिपाशेन यंत्रितः ॥८२॥भक्तापराधं सततं क्षमाम्यहमरिं दम ॥त्वद्भक्तिं ज्ञातुकामेन मया संप्रेरिता त्वियम् ॥८३॥लक्ष्मीर्मम प्रिया राजंस्त्वयासंरक्षिताऽधुना ॥तेनाहं तव तुष्टोऽस्मि मत्स्वरूपा त्वियं सदा ॥८४॥अस्यां यो भक्तिमांल्लोके स मद्भक्तोऽभिधीयते ॥अस्यां यो विमुखो राजन्स मद्द्वेषी स्मृतः सदा ॥८५॥ त्वमिमां भक्तिसं युक्तो यस्मात्पूजितवानसि ॥मत्पूजापि कृता तस्मान्मदभिन्ना त्वियं यतः ॥८६॥अतस्त्वया नापराधः कृतो मयि नरेश्वर ॥किं तु पूजैव विहिता तां त्वयार्चयता मम ॥९७॥त्वया मद्भार्यया साकं संकेतोऽकारि यत्पुरा ॥तत्संकेताभिगुत्यर्थं मां यद्बंधितवानसि ॥८८॥तेन प्रीतोस्मि ते राजँल्लक्ष्मीः संरक्षिताऽधुना ॥मत्स्वरूपा च सा लक्ष्मीर्जगन्माता त्रयीमयी ॥८९॥तद्रक्षां कुर्वता भूप त्वया यद्बंधनं मम ॥तत्प्रियं मम राजेंद्र मा भयं क्रियतां त्वया ॥९०॥इयं लक्ष्मीस्तव सुता सत्यमेव न संशयः ॥इतीरितेऽथ हरिणा लक्ष्मीः प्रोवाच भूपतिम् ॥९१॥॥ लक्ष्मीरुवाच ॥राजन्प्रीतास्मि ते चाहं रक्षिता यद्गृहे त्वया ॥त्वद्भक्तिशोधनार्थं वा अहं विष्णुरुभावपि ॥९२॥विनोद कलहव्याजादागताविह भूपते ॥तव योगेन भक्त्या च तुष्टावावां परंतप ॥९३॥आवयोः कृपया राजन्सुखं ते भवतात्सदा ॥सर्वभूमंडलैश्वर्यं सदा ते भवतु ध्रुवम् ॥९४॥आवयोः पादयुगले भक्तिर्भवतु ते ध्रुवा ॥देहांते मम सायुज्यं पुनरावृत्तिवर्जितम् ॥९५॥नित्यं भवतु ते राजन्मा भूत्ते पापधीस्तथा ॥सदा धर्मे भव धीर्विष्णुभक्तियुता तव ॥९६॥एवमुक्त्वा नृपं लक्ष्मीर्विष्णोर्वक्षस्थलं ययौ ॥अथ विष्णुरुवाचेदं राजानं द्विज पुंगवाः ॥९७॥यथा त्वयात्र बद्धोहं निगडेन नृपोतम ॥तद्रूपेणैव वत्स्यामि सेतुमाधवसंज्ञितः ॥९८॥मयैव कारितः सेतुस्तद्रक्षार्थमहं नृप ॥भूतराक्षससंघेभ्यो भयानामुपशांतये ॥९९॥ब्रह्मापि सेतुरक्षार्थं वसत्यत्रदिवानिशम्॥शंकरो रामनाथाख्यो नित्यं सेतौ वसत्यथ ॥१००॥इंद्रादिलोकपालाश्च वसंत्यत्रमुदान्विताः ॥अतोऽहमत्रवत्स्यामि सेतुमाधवसंज्ञया ॥१॥सेतुसंरक्षणार्थं वै सर्वोपद्रवशांतये ॥सर्वेषामिष्टसिद्ध्यर्थं सर्वपापोपशांतये ॥२॥त्वया निगडबद्धं मां सेवते येऽत्र मानवाः ॥ते यांति मम सायुज्यं सर्वाभीष्टं तथा नृप ॥३॥मम लक्ष्म्यास्तव तथा चरितं ये पठंति वै॥न ते यास्यंति दारिद्र्यं किं त्वैश्वर्यं व्रजंति ते ॥४॥त्वत्कृतं यदिदं स्तोत्रं मम लक्ष्म्या विशांपते ॥ये पठंति च शृण्वंति लिखंति च मुदान्विताः ॥५॥न तेषां पुनरावृत्तिर्मम लोकात्कदाचन ॥इत्युक्त्वा स हरिस्तत्र नृपं पुण्यनिधिं तदा ॥६॥तत्रैव पूर्णरूपेण संनि धत्ते स्म सर्वदा ॥नृपः पुण्यनिधिर्विप्राः सेतुमाधवरूपिणम्॥ ७॥विष्णुं प्रणम्य भक्त्या तु महापूजां विधाय च ॥सेवित्वा रामनाथं च स्वमेव भवनं ययौ ॥८॥यावज्जीवमसौ तत्र सेतौ न्यवसदुत्तमे ॥मधुरायां निजं पुत्रं स्थापयामास पालकम् ॥९॥तत्रैव निवसन्राजा देहांते मुक्तिमाप्तवान् ॥ विंध्यावलिश्च तत्पत्नी तमेवानुममार सा ॥पतिव्रता पतिप्राणा प्रययौ सापि सद्गतिम् ॥११०॥॥ श्रीसूत उवाच ॥येत्र भक्तियुता नित्यं सेवंते सेतुमाधवम् ॥११॥न तेषां पुनरावृत्तिः कैलासाज्जातु जायते ॥सेतुमाधवसेवा ये न कुर्वंत्यत्र मानवाः ॥१२॥न तेषां रामनाथस्य सेवा फलवती भवेत् ॥गृहीत्वा सैकतं सेतोर्गंगायां निक्षिपेद्यदि ॥१३॥विभज्य माधवपुरे वैकुंठे स वसेन्नरः ॥गंगां जिगमिषुर्विप्राः सेतुमाधवसन्निधौ ॥१४॥संकल्प्य गंगां निर्गच्छेत्सा यात्रा सफला भवेत्॥आनीय गंगासलिलं रामेशमभि षिच्य च ॥१५॥सेतौ निक्षिप्य तद्भारं ब्रह्म प्राप्नोत्यसंशयः ॥इति वः कथितं विप्राः सेतुमाधववैभवम् ॥१६॥एतत्पठन्वा शृण्वन्वा वैकुंठे लभते गतिम् ॥११७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीय ब्रह्मखण्डे सेतुमाहात्म्ये सेतुमाधवप्रशंसायां पुण्य निधिचरितकथनंनाम पंचाशत्तमोऽध्यायः ॥५०॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP