सेतुखण्डः - अध्याय २०
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीसूत उवाच ॥
लक्ष्मणस्य महातीर्थे ब्रह्महत्याविनाशने ॥
स्नात्वा स्वचित्तशुद्ध्यर्थं जटातीर्थं ततो व्रजेत् ॥१॥
जन्ममृत्युजराक्रांतसंसारातुरचेतसाम् ॥
अज्ञाननाशकं नास्ति जटातीर्थादृते द्विजाः ॥२॥
लोके मुमुक्षवः केचिच्चित्तशुद्धिमभीप्सवः ॥
वाचा पठंति वेदांतांस्तूष्णीन्नानुभवंति ते ॥३॥
पूर्वपक्षमहाग्राहे सिद्धांतझषसंकुले ॥
वेदांताब्धाविहाज्ञानं मुह्यंति पतिता द्विजाः ॥४॥
प्रथमं चित्तशुद्ध्यर्थं वेदांतान्संपठंति ये ॥
विवदंते पठित्वा ते कलहं च वितन्वते ॥५॥
चित्तशुद्धिर्न वेदांताद्बहुव्यामोहकारणात् ॥
ततो वयं न वेदांतान्मुनींद्रा बहु मन्महे ॥६॥
चित्तशुद्धिं यदीच्छध्वं लघूपायेन तापसाः ॥
उद्घोषयामि सर्वेषां जटातीर्थं निषेवत ॥७॥
पुरा सर्वोपकारार्थं तीर्थमज्ञाननाशनम् ॥
एतद्विनिर्मितं साक्षाच्छम्भुना गन्धमादने ॥८॥
निहते रावणे विप्रा जटां रामस्तु धार्मिकः ॥
क्षालयामास यत्तोये तज्जटातीर्थमुच्यते ॥९॥
वर्षाणां षष्टिसाहस्रं जाह्नवीजलमज्जनम् ॥
गोदावर्यां सकृत्स्नानं सिंहस्थे च बृहस्पतौ ॥१०॥
तावत्सहस्रस्नानानि सिंहं देवगुरौ गते ॥
गोमत्यां लभ्यते वर्षैस्तज्जटातीर्थदर्शनात् ॥११॥
जटातीर्थे मनुष्याणां स्नातानां द्विजपुंगवाः ॥
अन्तःकरणशुद्धिः स्यात्ततोऽज्ञानं विनश्यति ॥१२॥
अज्ञाननाशे ज्ञानं स्यात्ततो मुक्तिमवाप्स्यसि ॥
अखण्डसच्चिदानंदसंपूर्णः स्यात्ततः परम् ॥१३॥
अत्राप्युदाहरंतीममितिहासं पुरातनम् ॥
पितुः पुत्रस्य संवादं व्यासस्य च शुकस्य च ॥१४॥
पुरा मुनिवरं कृष्णं भावि तात्मानमच्युतम् ॥
पारंपर्यविशेषज्ञं सर्वशास्त्रार्थकोविदम् ॥
प्रणम्य शिरसा व्यासं शुकः पप्रच्छ वै द्विजाः ॥१५॥
॥ श्रीशुक उवाच ॥
भगवंस्तात सर्वज्ञ ब्रूहि गुह्यमनुत्तमम् ॥१६॥
अन्तःकरणशुद्धिः स्यात्तथाज्ञानविनाशनम् ॥
ज्ञानोदयश्च येन स्यादंते मुक्तिश्च शाश्वती ॥१७॥
तमुपायं वदस्वाद्य स्नेहान्मम महामुने ॥
वेदांताश्चेतिहासाश्च पुराणादीनि कृत्स्नशः ॥१८॥
अधीतानि मया त्वत्तः शोधयंति न मानसम् ॥
अतो मे चित्तशुद्धिः स्याद्यथा तात तथा वद ॥१९॥
इति पृष्टस्तदा व्यासः शुकेन मुनिसत्तमाः ॥
रहस्यं कथयामास येनाविद्या विन श्यति ॥२०॥
॥ व्यास उवाच ॥
शुक वक्ष्यामि ते गुह्यमविद्याग्रन्थिभेदनम् ॥
बुद्धिशुद्धिप्रदं पुंसां जन्मादिभयनाशनम् ॥२१॥
रामसेतौ महापुण्यं गन्धमादनपर्वते ॥
विद्यते पापसंहारि जटातीर्थमिति श्रुतम् ॥२२॥
जटां स्वां शोधयामास यत्र रामो हरिः स्वयम् ॥
रामो दाशरथिः श्रीमांस्तीर्थाय च वरं ददौ ॥२३॥
स्नाति येऽत्र समागत्य जटातीर्थेऽतिपावने ॥
अन्तःकरणशुद्धिश्च तेषां भूयादिति स्म सः ॥२४॥
विना यज्ञं विना ज्ञानं विना जाप्यमुपोषणम् ॥
स्नानमात्राज्जटातीर्थे बुद्धिशुद्धिर्भवेन्नृणाम् ॥२५॥
सर्वदानसमं पुण्यं स्नानादत्र भविष्यति ॥
दुर्गाण्यनेन तरति पुण्यलोकान्समश्नुते ॥२६॥
महत्त्वमश्नुते स्नानाज्जटातीर्थे शुभोदके ॥
जटातीर्थं विना नान्यदंतःकरण शुद्धये ॥२७॥
विद्यते नियमो वापि जपो वा नान्यदेवता ॥
धन्यं यशस्यमायुष्यं सर्वलोकेषु विश्रुतम् ॥२८॥
पवित्राणां पवित्रं च जटातीर्थं शुकाधुना ॥
सर्वपापप्रशमनं मंगलानां च मंगलम् ॥२९॥
भृगुर्वै वारुणिः पूर्वं वरुणं पितरं शुक ॥
बुद्धिशुद्धिप्रदोपायमपृच्छत्पावनं शुभम् ॥
प्रोवाच वरुणस्तस्मै बुद्धिशुद्धिप्रदं शुभम् ॥३०॥
॥ वरुण उवाच ॥
रामसेतौ भृगो पुण्ये गन्धमादनपर्वते ॥३१॥
Esoteric aspect of Jata
Temple details at Jataa Teertha
स्नानमात्राज्जटा तीर्थे बुद्धिशुद्धिर्भवेद्ध्रुवम् ॥
स पितुर्वचनात्सद्यो भृगुर्वै वरुणात्मजः ॥३२॥
गत्वा स्नात्वा जटातीर्थे बुद्धिशुद्धिमवाप्तवान् ॥
विनष्टाज्ञानसंतानस्तया शुद्ध्या तदा भृगुः ॥३३॥
उत्पन्नाद्वैतविज्ञानः स्वपितुर्वरुणादयम् ॥
अखण्डसच्चिदानंदपूर्णाकारोऽभवच्छुक ॥३४॥
शंकरांशोऽपि दुर्वासा जटातीर्थेऽभिषेकतः ॥
मनःशुद्धिमवाप्याशु ब्रह्मानंदमयोऽभवत् ॥३५॥
दत्तात्रेयोऽपि विष्ण्वंशस्तीर्थेऽस्मिन्नभिषेचनात् ॥
शुद्धांतःकरणो भूत्वा ब्रह्माकारोऽभवच्छुक ॥३६॥
इच्छेदज्ञाननाशं यः स स्नायात्तु जटाभिधे ॥
तीर्थे शुद्धतमे पुण्ये सर्वपापविनाशने ॥३७॥
जटातीर्थमतस्त्वं च शुक गच्छ महामते ॥
मनःशुद्धिप्रदं तस्मिन्स्नानं च कुरु पुण्यदे ॥३८॥
पित्रैवमुक्तो व्यासेन शुकः पुत्रस्तदा द्विजाः ॥
रामसेतुं महापुण्यं गन्धमादनपर्वतम् ॥३९॥
अगमत्स्नातुकामः सञ्जटातीर्थे विशुद्धिदे ॥
स्नात्वा संकल्पपृर्वं च जटातीर्थे शुको मुनिः ॥४०॥
मनःशुद्धिमनुप्राप्य तेन चाज्ञाननाशने ॥
स्वस्वरूपं समापन्नः परमानंदरूपकम् ॥४१॥
ये चाप्यन्ये मनःशुद्धिकामाः संति द्विजोत्तमाः ॥
जटातीर्थे तु ते सर्वे स्नातुं भक्तिपुरःसरम ॥४२॥
अहो जना जटातीर्थे कामधेनुसमे शुभे ॥
विद्यमानेऽपि किं तुच्छे रमंतेन्यत्र मोहिताः ॥४३॥
भुक्तिकामो लभेद्भुक्तिं मुक्तिकामस्तु तां लभेत् ॥
स्नानमात्राज्जटातीर्थे सत्यमुक्तं मया द्विजाः ॥४४॥
वेदानुवच नात्पुण्याद्यज्ञाद्दानात्तपोव्रतात्॥
उपवासाज्जपाद्योगान्मनःशुद्धिर्नृणां भवेत् ॥४५॥
विनाप्येतानि विप्रेंद्रा जटातीर्थेऽतिपावने ॥
स्नानमात्रान्मनःशुद्धिर्ब्राह्मणानां ध्रुवं भवेत् ॥४६॥
जटातीर्थस्य माहात्म्यं मया वक्तुं न शक्यते ॥
शंकरो वेत्ति तत्तीर्थं हरिर्वेत्ति विधिस्तथा ॥४७॥
जटातीर्थसमंतीर्थं न भूतं न भविष्यति॥
जटातीर्थस्य तीरे यः क्षेत्रपिंडं समाचरेत्॥४८॥
गयाश्राद्धसमंपुण्यंतस्य स्यान्नात्र संशयः॥
जटातीर्थे नरः स्नात्वा न पापेन विलिप्यते॥
दारिद्र्यं न समाप्नोति नेयाच्च नरकार्णवम्॥४९॥
श्रीसूत उवाच॥
एवं वः कथितं विप्रा जटातीर्थस्य वैभवम् ॥५०॥
यत्र व्याससुतो योगी स्नात्वा पापविमोचने ॥
अवाप्तवान्मनःशुद्धिमद्वैतज्ञानसाधनाम् ॥५१॥
यस्त्विमं पठतेऽध्यायं शृणुते वा समाहितः ॥
स विधूयेह पापानि लभते वैष्णवं पदम् ॥५२॥
इति श्रीस्कान्दे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीयेब्रह्मखण्डे सेतुमाहात्म्ये जटातीर्थप्रशंसायां शुकचित्तशुद्धिवर्णनंनाम विंशोऽध्यायः ॥२०॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP