संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः| अध्याय १९ सेतु खण्डः अध्याय १ अध्याय २ अध्याय ३ अध्याय ४ अध्याय ५ अध्याय ६ अध्याय ७ अध्याय ८ अध्याय ९ अध्याय १० अध्याय ११ अध्याय १२ अध्याय १३ अध्याय १४ अध्याय १५ अध्याय १६ अध्याय १७ अध्याय १८ अध्याय १९ अध्याय २० अध्याय २१ अध्याय २२ अध्याय २३ अध्याय २४ अध्याय २५ अध्याय २६ अध्याय २७ अध्याय २८ अध्याय २९ अध्याय ३० अध्याय ३१ अध्याय ३२ अध्याय ३३ अध्याय ३४ अध्याय ३५ अध्याय ३६ अध्याय ३७ अध्याय ३८ अध्याय ३९ अध्याय ४० अध्याय ४१ अध्याय ४२ अध्याय ४३ अध्याय ४४ अध्याय ४५ अध्याय ४६ अध्याय ४७ अध्याय ४८ अध्याय ४९ अध्याय ५० अध्याय ५१ अध्याय ५२ विषयानुक्रमणिका सेतुखण्डः - अध्याय १९ भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे. Tags : puransanskritskand puranपुराणसंस्कृतस्कंद पुराण अध्याय १९ Translation - भाषांतर ॥ श्रीसूत उवाच ॥तारकब्रह्मणस्तस्य तीर्थे स्नात्वा द्विजोत्तमाः ॥लक्ष्मणस्य ततस्तीर्थमभिगच्छेत्समाहितः ॥१॥श्रीलक्ष्मणस्य तीर्थे तु स्नात्वा पापैर्विमोचिताः ॥मुक्तिं प्रयांति विमलामपुनर्भवलक्षणाम्॥२॥स्नानाल्लक्ष्मणतीर्थे तु दारिद्र्यं नश्यतेखिलम् ॥आयुष्मान्गुणवान्विद्वान्पुत्रश्चैवास्य जायते ॥३॥कूले लक्ष्मणतीर्थस्य तन्मन्त्रं जपते तु यः ॥स सर्वशास्त्रवेत्ता स्याच्चतुर्वेदविदप्यसौ ॥४॥तस्य कूले महल्लिंगं स्थापयामास लक्ष्मणः ॥तत्र तीर्थे तु यः स्नात्वा सेवते लक्ष्मणेश्वरम् ॥५॥इह दारिद्र्यरोगाभ्यां संसाराच्च विमुच्यते ॥स्नात्वा लक्ष्मणतीर्थे तु सेवित्वा लक्ष्मणेश्वरम् ॥बलभद्रः पुरा विप्रा मुमुचे ब्रह्महत्यया ॥६॥॥ ऋषय ऊचुः ॥ब्रह्महत्या कथमभूद्रौहिणेयस्य सूतज ॥कथं चात्र विनष्टा सा तन्नो ब्रूहि महामुने ॥७॥॥ श्रीसूत उवाच ॥शेषावतारो भगवान्बलभद्रः पुरा द्विजाः ॥८॥कुरूणां पांडवानां च युद्धोद्योगं विलोक्य तु ॥बंधूनां स वधं सोढुमसमर्थो हलायुधः ॥९॥विचारमेवमकरोद्बलभद्रो महामतिः ॥यद्यहं कुरुराजस्य करिष्यामि सहायताम् ॥१०॥कोपः स्यात्पांडुपुत्राणां मय्यवार्यः सुदारुणः ॥उपकारं करिष्यामि पांडवानामहं यदि ॥११॥दुर्योधनस्य कोपः स्यादिति बुद्ध्वा हलायुधः ॥तीर्थयात्राच्छलेनासौ मध्यस्थः प्रययौ तदा ॥१२॥प्रभासमभिगम्याथ स्नात्वा संकल्पपूर्वकम्॥देवानृषीन्पितृगणांस्तर्पयामास वारिणा ॥१३॥सरस्वतीं ततः प्रायात्प्रतीच्यभिमुखां हली ॥पृथूदकं बिंदुसरो मुक्तिदं ब्रह्मतीर्थकम्॥ १४॥गंगां च यमुनां सिंधुं शतद्रूं च सुदर्शनम् ॥संप्राप्य बलभद्रोऽयं स्नात्वा तीर्थेषु धर्मतः ॥१५॥प्रपेदे नैमिषारण्यं मुनींद्रैरभिसेवितम् ॥आगतं तं विलोक्याथ नैमिषीयास्तपस्विनः ॥१६॥दीर्घसत्रे स्थिताः सम्यङ्नियता धर्मतत्पराः ॥अभ्युद्गम्य यदुश्रेष्ठं प्रणम्योत्थाय चासनात् ॥१७॥अपूजयन्विष्टराद्यैः कंदमूलफलैस्तदा ॥आसनं परिगृह्यायं पूजितः सपुरःसरः ॥१८॥उच्चासने स्थितं सूतमनमंतमनुत्थितम् ॥अकृतांजलिमासीनं व्यासशिष्यं विलोक्य सः ॥१९॥विप्रांश्चानमतो दृष्ट्वा विलोक्यात्मानमागतम् ॥चुक्रोध रोहिणीसूनुः सूतं पौराणिकोत्तमम्॥२०॥मध्ये मुनीनां सूतोऽयं कस्मान्निंद्योऽनुलोमजः ॥उच्चासने समध्यास्ते न युक्तमिदमंजसा ॥२१॥अवमत्य भृशं चास्मान्धर्मसंरक्षकानयम् ॥आस्तेऽनुत्थाय निर्भीतिर्न च प्रणमते तथा ॥२२॥पठित्वायं पुराणानि द्वैपायनसकाशतः ॥सेतिहासानि सर्वाणि धर्मशास्त्राण्यनेकशः ॥२३॥न मां दृष्ट्वा प्रणमते नैव त्यजति चासनम् ॥द्वैपायनस्य महतः शिष्याः पैलादयो द्विजाः ॥२४॥एवंविधमधर्मं ते नैव कुर्युर्यथा त्वयम् ॥तस्मादेनं वधिष्यामि दुरात्मानमचेतनम् ॥२५॥दुष्टानां निग्रहार्थं हि भूर्लोकमहमागमम् ॥मया हतो हि दुष्टात्मा शुद्धिमेष्यत्यसंशयम् ॥२६॥इत्युक्त्वा भगवान्रामो मुसली प्रबलो हली ॥पाणिस्थेन कुशाग्रेण तच्छिरः प्राच्छिनद्रुषा ॥२७॥तत्रत्या मुनयः सर्वे हा कष्टमिति चुक्रुशुः ॥अवादिषुस्तदा रामं मुनयो ब्रह्मवादिनः ॥२८॥रामाधर्मः कृतः कष्टस्त्वया संकर्षण प्रभो ॥अस्य सूतस्य चास्माभिर्दत्तं ब्रह्मासनं महत् ॥२९॥अक्षयं चायुरस्माभिरस्य दत्तं हलायुध ॥भवताऽऽजानतैवाद्य कृतो ब्रह्मवधो महान् ॥३०॥योगेश्वरस्य भवतो नास्ति कश्चिन्नियामकः ॥अस्यास्तु ब्रह्महत्याया यत्कर्त्तव्यं विचार्य तत् ॥३१॥प्रायश्चित्तं भवानेव लोकसंग्रहणाय तु ॥कुरुष्व भगवन्राम नान्येन प्रेरितः कुरु ॥इत्युक्तो भगवान्रामस्तानुवाच मुनीन्प्रति ॥३२॥॥ राम उवाच ॥प्रायश्चित्तं चरिष्याभि पापशोधकमास्तिकाः ॥३३॥लोकसंग्रहणार्थाय नान्यकामनयाऽधुना ॥यादृशो नियमोऽस्माभिः कर्तव्यः पापशांतये ॥३४॥तादृशं नियमं त्वद्य भवतः प्रब्रुवंतु नः ॥भवद्भिरस्य सूतस्य यदायुर्दत्तमक्षयम् ॥इंद्रियाणि च सत्त्वं च करिष्ये योगमायया ॥३५॥॥ मुनय ऊचुः ॥पराक्रमस्य तेस्त्रस्य मृत्योर्नश्च यथा प्रभो ॥स्यात्सत्यवचनं राम तद्भवान्कर्तुमर्हति ॥३६॥॥ राम उवाच ॥आत्मा वै पुत्ररूपेण भवतीति श्रुतिस्सदा ॥३७॥उद्घोषयति विप्रेंद्रास्तस्मादस्य शरीरतः ॥पुत्रो भवतु दीर्घायुः सत्त्वेंद्रिय बलोर्जितः ॥३९॥कथयिष्यति युष्माकं पुराणादीनि सोऽन्वहम् ॥संभविष्यति सर्वज्ञो योगमायाबलान्मम ॥३९॥इत्युक्त्वा रौहिणेयस्तान्पुनः प्रश्रितमब्रवीत् ॥मनोभिलषितं किं वा युष्माकं करवाण्यहम् ॥४०॥तद्ब्रूत मुनयो यूयं करिष्यामि न संशयः ॥अज्ञानान्मत्कृतस्यास्य पापस्यापि निवर्तकम् ॥प्रायश्चित्तं भवन्तो मे प्रब्रूत मुनिसत्तमाः ॥४१॥॥ मुनय ऊचुः ॥इल्वलस्यात्मजः कश्चिद्दानवो बल्वलाभिधः ॥४२॥स दूषयति नो यागं रामेहागत्य पर्वणि ॥दुष्टं तं दानवं पापं जहि लोकैककण्टकम् ॥४३॥अनेन पूजा ह्यस्माकं कृता स्याद्भवताधुना ॥अस्थिविण्मूत्ररक्तानि सुरामांसानि च क्रतौ ॥४४॥सदाभिवर्षतेऽस्माकमत्रागत्य स दानवः ॥अस्मिन्भारतभूभागे यानि तीर्थानि संति हि ॥४५॥तेषु स्नाह्यब्दमेकं त्वं सर्वेषु सुसमाहितः ॥तेन ते पापशांतिः स्यान्नात्र कार्या विचारणा ॥४६॥॥ श्रीसूत उवाच ॥पर्वकाले तु विप्रेंद्राः समावृत्ते मुनिक्रतौ ॥महाभीमो रजोवर्षो झंझावातश्च भीषणः ॥४७॥प्रादुर्बभूव विप्रेंद्राः पूयरक्तैश्च वर्षणम् ॥ततो विष्ठामया वृष्टिर्बल्वलेन कृताप्यभूत् ॥४९॥असुरं यज्ञशालायां शूलपाणिमथ क्षणात् ॥अपश्यद्बलभद्रोऽसौ महाबलपराक्रमम् ॥४९॥तमालोक्य महादेहं दग्धाद्रिप्रतिमं तदा ॥प्रतप्तताम्रसंकाशश्मश्रुदंष्ट्रोत्कटाननम् ॥५०॥चिंतयामास मुसलं रामः परविदारणम्॥सीरं च दानवहरं गदां दैत्यविदारिणीम् ॥५१॥यान्यायुधानि तं रामं चिंतितान्युपतस्थिरे ॥सीराग्रेण तमाकृष्य बल्वलं खेचरं तदा ॥५२॥मुसलेन निजघ्ने स कुपितो मूर्ध्नि वेगतः ॥पपात भुवि संक्षुण्णललाटो रक्तमुद्वमन् ॥५३॥बल्वलो दीनकथनो गिरिर्वज्रहतो यथा ॥स्तुत्वाथ मुनयो रामं प्रोच्चार्य विमलाशिषः ॥९४॥अभ्यषिंचञ्च्छुभैस्तोयैर्वृत्रशत्रुं यथा सुराः ॥मालां ददुर्वैजयन्तीं श्रीमदंबुज शोभिताम् ॥५५॥माधवाय शुभे वस्त्रे भूषणानि शुभानि च ॥धारयंस्तानि सर्वाणि रौहिणेयो महाबलः ॥५६॥पुष्पितानोकहोपेतः कैलास इव पर्वतः ॥अनुज्ञातोऽथ मुनिभिः सर्वतीर्थेषु स द्विजाः ॥५७॥एकमब्दं चरन्सस्नौ नियमाचारसंयुतः ॥ततः संवत्सरे पूर्णे कालिंदीभेदनो बलः ॥५८॥समाप्ततीर्थयात्रः सन्पुरीं गन्तुं प्रचक्रमे ॥ततस्तमोमयीं छायां पृष्ठतोनुगतां कृशाम् ॥५९॥अपश्यद्बलदेवोयं महानादविराविणीम् ॥अथ वार्ता स शुश्राव समुद्भूतां तदांबरे ॥६०॥रामराम महाबाहो रौहिणेय सितप्रभ ॥तीर्थाभिगमनेनाद्य चरितेन त्वयाऽनघ ॥६१॥न नष्टा ब्रह्महत्या ते निःशेषं रोहिणीसुत ॥इति वार्तां समाकर्ण्य चिंतयामास वै बलः ॥६२॥प्रायश्चित्तं मया चीर्णमेकाब्दं तीर्थ सेवया ॥तथापि ब्रह्महत्या सा न नष्टेति श्रुतं वचः ॥६३॥किं कुर्म इति संचिंत्य नैमिषारण्यमभ्यगात् ॥तत्र गत्वा मुनीनां तन्न्यवेदयदरिंदमः ॥६४॥यच्छ्रुतं गगने वाक्यं या च दृष्टा तमोमयी ॥न्यवेदयत तत्सर्वं मुनीनां रोहिणीसुतः ॥तच्छ्रुत्वा मुनयः सर्वे रामं वाक्यमथाब्रुवन् ॥६५॥॥ मुनय ऊचुः ॥यदि राम न नष्टा ते ब्रह्महत्या तु कृत्स्नशः ॥६६॥तर्हि गच्छ महाभाग गंधमादनपर्वतम् ॥महादुःख प्रशमनं महारोगविनाशनम् ॥६७॥रामसेतौ महापुण्ये गन्धमादनपर्वते ॥अस्ति लक्ष्मणतीर्थाख्यं सरः पापविनाशनम् ॥६८॥स्नानं कुरुष्व तत्र त्वं तल्लिंगं च नमस्कुरु ॥निःशेषं तेन नष्टा स्याद्ब्रह्महत्या न संशयः ॥६९॥॥ श्रीसूत उवाच ॥एवमुक्तस्तदा रामो गन्धमादनपर्वतम् ॥गत्वा लक्ष्मणतीर्थं च प्राप्तवान्मुनिपुंगवाः ॥७०॥स्नात्वा संकल्पपूर्वं तु तत्र तीर्थे हलायुधः ॥ब्राह्मणेभ्यो ददौ वित्तं धान्यं गाश्च वसुन्धराम् ॥७१॥तस्मिन्नवसरे तत्र राममाहाशरीरवाक् ॥निःशेषं राम नष्टा ते ब्रह्महत्याधुना त्विह ॥७२॥संदेहो नात्र कर्तव्यः सुखं याहि पुरीं निजाम् ॥तच्छ्रुत्वा बलभद्रोऽथ तत्तीर्थं प्रशशंस ह ॥७३॥ततस्तत्रत्यतीर्थेषु स्नात्वा सर्वेषु माधवः ॥धनुष्कोटौ तथा स्नात्वा रामनाथं निषेव्य च ॥द्वारकां स्वपुरीं प्रायान्नष्टपातकसंचयः ॥७४॥॥ श्रीसूत उवाच ॥एवं वः कथितं विप्राः श्रीलक्ष्मणसरोऽमलम् ॥७५॥पुण्यं पवित्रं पापघ्नं ब्रह्महत्यादिशोधकम् ॥यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥७६॥स याति मुक्तिं विप्रेंद्राः पुनरावृत्तिवर्जिताम् ॥७७॥इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये लक्ष्मणतीर्थप्रशंसायां बलभद्रब्रह्महत्याविमोक्षणनामैकोनविंशोऽध्यायः ॥१९॥ N/A References : N/A Last Updated : November 14, 2024 Comments | अभिप्राय Comments written here will be public after appropriate moderation. Like us on Facebook to send us a private message. TOP