सेतुखण्डः - अध्याय ८
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ ऋषय ऊचुः ॥
भगवन्सूतसर्वज्ञ कृष्णद्वैपायनप्रिय ॥
त्वन्मुखाद्वै कथाः श्रुत्वा श्रोत्रकामृतवर्षिणीः ॥१॥
तृप्तिर्न जायतेऽस्माकं त्वद्वचोमृतपायिनाम् ॥
अतः शुश्रूषमाणानां भूयो ब्रूहि कथाः शुभाः ॥२॥
वेतालवरदंनाम चक्रतीर्थस्य दक्षिणे ॥
तीर्थमस्ति महापुण्यमित्यवादीद्भवान्पुरा ॥३॥
वेतालवरदाभिख्या तीर्थस्यास्यागता कथम् ॥
किंप्रभावं च तत्तीर्थमेतन्नो वक्तुमर्हसि ॥४॥
॥ श्रीसूत उवाच ॥
साधुपृष्टं हि युष्माभिरतिगुह्यं मुनीश्वराः ॥
शृणुध्वं मनसा सार्द्धं ब्रवीम्यत्यद्भुतां कथाम् ॥५॥
पामरा अपि मोदन्ते यां वै श्रुत्वा कथां शुभाम् ॥
कथा चेयं महापुण्या पुरा कैलासपर्वते ॥६॥
केलिकालेषु पावत्यै शंभुना कथिता द्विजाः ॥
तां ब्रवीमि कथामेनामत्यद्भुततरां हि वः ॥७॥
पुरा हि गालवोनाम महर्षिः सत्यवाक्छुचिः ॥
चिंतयानः परं ब्रह्म तपस्तेपे निजाश्रमे॥ ८॥
तस्य कन्या महाभागा रूपयौवनशालिनी ॥
नाम्ना कांतिमती बाला व्यचरत्पितुरंतिके ॥९॥
आहरंती च पुष्पाणि बल्यर्थं तस्य वै मुनेः ॥
वेदिसंमार्जनादीनि समिदाहरणानि च ॥१०॥
कुर्वती पितरं बाला सम्यक्परिचचार ह ॥
कदाचित्सा तु वल्यर्थं पुष्पाण्याहर्तुमुद्यता ॥११॥
तस्मिन्वने कांतिमती सुदूरमगमत्तदा ॥
तत्र पुष्पाणि रम्याणि समाहृत्य च पेटके ॥१२॥
तूर्णं निववृते बाला पितृशुश्रूषणे रता ॥
निवर्तमानां तां कन्यां विद्याधरकुमारकौ ॥१३॥
सुदर्शनसुकर्णाख्यौ विमानस्थौ ददर्शतुः ॥
तां दृष्ट्वा गालवसुतां रूपयौवनशालिनीम् ॥१४॥
कामस्य पत्नीं ललितां रतिं मूर्तिमतीमिव ॥
सुदर्शनाभिधो ज्येष्ठो विद्याधरकुमारकः ॥१५॥
हर्षसंफुल्लनयनश्चकमे काममोहितः ॥
पूर्णचन्द्राननां तां वै वीक्षमाणो मुहुर्मुहुः ॥१६॥
तया रिरंसुकामोऽसौ विमानाग्रादवातरत् ॥
तामुपेत्य मुनेः कन्यामित्युवाच सुदर्शनः ॥१७॥
॥ सुदर्शन उवाच ॥
कासि भद्रे सुता कस्य रूपयौवनशालिनी ॥
रूपमप्रतिमं ह्येतदाह्लादयति मे मनः ॥१८॥
त्वां दृष्ट्वा रतिसंकाशां बाधते मां मनोभवः ॥
सुकण्ठनामधेयस्य विद्याधरपतेरहम् ॥१९॥
आत्मजो रूपसंपन्नो नाम्ना चैव सुदर्शनः ॥
प्रतिगृह्णीष्व मां भद्रे रक्ष मां करुणादृशा ॥२०॥
भर्तारं मां समासाद्य सर्वान्भोगानवाप्स्यसि ॥
इत्याकर्ण्य वचस्तस्य विद्याधरसुतस्य सा ॥२१॥
तदा कांतिमती वाक्यं धर्मयुक्तमभाषत ॥
सुदर्शन महाभाग विद्याधरपतेः सुत ॥२२॥
आत्मजां मां विजानीहि गालवस्य महात्मनः ॥
कन्या चाहमनूढास्मि पितृशु श्रूषणे रता ॥२३॥
बल्यर्थं हि पितुश्चाहं पुष्पाण्याहर्तुमागता ॥
आहरंत्याश्च पुष्पाणि याम एको न्यवर्तत ॥२४॥
मद्विलंबेन स मुनिर्देव तार्चनतत्परः ॥
कोपं विधास्यते नूनं तपस्वी मुनिपुंगवः ॥२५॥
तच्छीघ्रमद्य गच्छामि पुष्पाण्यप्याहृतानि मे ॥
कन्याश्च पितुराधीना न स्वतन्त्राः कदाचन ॥२६॥
यदि मामिच्छति भवान्पितरं मम याचय ॥
इति विद्याधरसुतमुक्त्वा कांतिमती तदा ॥२७॥
पितुराशंकिता तूर्णमा श्रमं गन्तुमुद्यता ॥
गच्छन्तीं तां समालोक्य विद्याधरकुमारकः ॥२८॥
तूर्णं जग्राह केशेषु धावित्वा मदनार्दितः ॥
अभ्येत्य निजकेशेषु गृह्णन्ते तं विलोक्य सा ॥२९॥
उच्चैश्चक्रंद सहसा कुररीव मुनेः सुता ॥
अस्माद्विद्याधरसुताज्जनक त्राहि मां विभो ॥३०॥
बलाद्गृह्णाति दुष्टात्मा विद्याधरसुतोऽद्य माम् ॥
इत्थमुच्चैः प्रचुक्रोश स्वाश्रमान्नातिदूरतः ॥३१॥
तदाक्रंदितमाकर्ण्य गन्धमादनवासिनः ॥
मुनयस्तु पुरस्कृत्य गालवं मुनिपुंगवम् ॥३२॥
किमेतदिति विज्ञातुं तं देशं तूर्णमाययुः ॥
तं देशं तु समागत्य सर्वे ते ऋषिपुंगवाः ॥३३॥
विद्याधरगृहीतां तां ददृशुर्मु निकन्यकाम् ॥
विद्याधरसुतं चान्यमंतिके समुपस्थितम् ॥३४॥
एतद्दृष्ट्वा महायोगी गालवो मुनिपुंगवः ॥
गतः कोपवशं किंचिद्दुराप्मानं शशाप तम् ॥३५॥
कृतवानीदृशं कार्यं यत्त्वं विद्याधराधम ॥
तद्याहि मानुषीं योनिं स्वस्य दुष्कर्मणः फलम् ॥३६॥
संप्राप्य मानुषं जन्म बहुदुःखसमाकुलम् ॥
अचिरेण तु कालेन तस्मिन्नेव तु जन्मनि ॥३७॥
मनुष्यैरपि निंद्यं तद्वेतालत्वं प्रयास्यसि ॥
मांसानि शोणितं चैव सर्वदा भक्षयिष्यसि ॥३८॥
वेताला राक्षसप्राया बलाद्गृह्णन्ति योषितः ॥
तस्मात्त्वं मानुषो भूत्वा वेतालत्वमवाप्स्यसि ॥३९?॥
तव दुष्कर्मणो योऽसावनुमंता कनिष्ठकः ॥
सुकर्ण इति विख्यातो भविता सोपि मानुषः ॥४०॥
किंतु साक्षान्न कृतवान्यतोऽसावीदृशीं क्रियाम्॥
तन्मानुषत्व मेवास्य वेतालत्वं तु नो भवेत् ॥४१॥
विज्ञप्तिकौतुकाभिख्यं यदा विद्याधराधिपम् ॥
द्रक्ष्यतेऽसौ कनिष्ठस्ते तदा शापाद्विमोक्ष्यते ॥४२॥
ईदृशस्यतु यः कर्ता महापापस्य कर्मणः ॥
स त्वं संप्राप्य मानुष्यं तस्मिन्नेव तु जन्मनि ॥४३॥
वेतालजन्म संप्राप्य चिरं लोके चरिष्यसि ॥
इत्युक्त्वा गालवः कन्यां गृहीत्वा मुनिभिः सह ॥४४॥
विद्याधरसुतौ शप्त्वा स्वाश्रमं प्रति निर्ययौ ॥
ततस्तस्मिन्महाभागे निर्याते मुनिपुंगवे ॥४५॥
सुदर्शनसुकर्णाख्यौ विद्याधरपतेः सुतौ॥
मुनिशापेन दुःखार्तौ चिंतयामासतुर्भृशम् ॥४६॥
कर्तव्यं तौ विनिश्चित्य सुदर्शनसुकर्णकौ ॥
गोविंदस्वामिनामानं यमुनातटवासिनम् ॥४७॥
ब्राह्मणं शीलसंपन्नं पितृत्वे परिकल्प्य तौ ॥
परित्यज्य स्वकं रूपमजायेतां तदा त्मजौ ॥४८॥
विजयाशोकदत्ताख्यौ तस्य पुत्रौबभूवतुः ॥
सुतो विजयदत्ताख्यो ज्येष्ठो जज्ञे सुदर्शनः ॥४९॥
अशोकदत्तनामा तु सुकर्णश्च कनिष्ठकः ॥
विजयाशोकदत्तौ तु क्रमाद्यौवनमापतुः ॥५०॥
एतस्मिन्नेव कालेतु यमुनायास्तटे शुभे ॥
अनावृष्ट्या तु दुर्भिक्षमभूद्द्वादशवार्षि कम् ॥५१॥
गोविंदस्वामिनामा तु ब्राह्मणो वेदपारगः ॥
दुर्भिक्षोपहतां दृष्ट्वा तदानीं स निजां पुरीम् ॥५२॥
प्रययौ काशनिगरं सपुत्रः सह भार्यया ॥
स प्रयागं समासाद्य द्वं दृष्ट्वा महावटम्॥ ५३॥
कपालमालाभरणं सोऽपश्यद्यतिनं पुरः ॥
गोविंदस्वामिनामा तु नमश्चक्रे स तं मुनिम् ॥५४॥
सपुत्रस्य सभार्यस्य सोऽवादीदाशिषो मुनिः ॥
इदं च वचनं प्राह गोविंदस्वामिनं प्रति ॥५५॥
ज्येष्ठेनानेन पुत्रेण सांप्रतं ब्राह्मणोत्तम ॥
क्षिप्रं विजयदत्तेन वियोगस्ते भविष्यति ॥५६॥
इति तस्य वचः श्रुत्वा गोविंदस्वामिनामकः ॥
सूर्ये चास्तं गते तत्र सांध्यं कर्म समाप्य च ॥५७॥
सभार्यः ससुतो विप्रः सुदूराध्वसमाकुलः ॥
उवास तस्यां शर्वर्य्यां शून्ये वै देवतालये ॥५८॥
तदा त्वशोकदत्तश्च ब्राह्मणी च समाकुलौ ॥
वस्त्रेणास्तीर्य पृथिवीं रात्रौ निद्रां समापतुः ॥५९॥
ततो विजयदत्तस्तु दूरमार्गविलंघनात् ॥
बभूवात्यंतमलसो भृशं शीतज्वरार्दितः ॥६०॥
गोविंदस्वामिना पित्रा शीतवबाधानिवृत्तये ॥
गाढमालिंग्यमानोऽपि शीतबाधां न सोऽत्यजत् ॥६१॥
बाधतेऽत्यर्थमधुना तात मां शीतलो ज्वरः ॥
एतद्बाधानिवृत्त्यर्थं वह्निमानय मा चिरम् ॥६२॥
इति पुत्रवचः श्रुत्वा सर्वत्राग्निं गवेषयन् ॥
अलब्धवह्निः प्रोवाच पुन रभ्येत्य पुत्रकम् ॥६३॥
न वह्निं पुत्र विंदामि मार्गमाणोऽपि सर्वशः ॥
रात्रिमध्ये तु संप्राप्ते द्वारेषु पिहितेषु च ॥६४॥
निद्रापरवशाः पौरा नैव दास्यंति पावकम् ॥
इत्थं विजयदत्तोऽसावुक्तः पित्रा ज्वरातुरः ॥६५॥
ययाचे वह्निमेवासौ पितरं दीनया गिरा ॥
शीतज्वरसमुद्भूतशीतबाधाप्रपीडितम् ॥६६॥
हिमशीकरवान्वायुर्द्विगुणं बाधतेऽद्य माम् ॥
वह्निर्न लब्ध इति वै मिथ्यैवोक्तं पितस्त्वया ॥६७॥
दूरादेष पुरोभागे ज्वालामालासमाकुलः ॥
शिखाभिर्लेलिहानोभ्रं दृश्यते पश्य पावकः ॥६८॥
तं वह्निमानय क्षिप्रं तात शीतनिवृत्तये ॥
इत्युक्तवन्तं तं पुत्रं स पिता प्रत्यभाषत ॥६९॥
नानृतं वच्मि पुत्राद्य सत्यमेव ब्रवीम्यहम् ॥
वह्निमान्योऽयमुद्देशो दूरादेव विलोक्यते ॥७०॥
पितृकाननदेशं तं पुत्र जानीहि सांप्रतम् ॥
यद्येषोभ्रंलिहज्वालः पुरस्ताज्ज्वलतेऽनलः ॥७१॥
पुत्र वित्रासजनकं तं जानीहि चितानलम् ॥
अमंगलो न सेव्योऽयं चिताग्निः स्पर्शदूषितः ॥७२॥
तस्य चायुःक्षयं याति सेवते यश्चितानलम् ॥
तस्मात्तवायुर्हानिर्मा भूयादिति मया सुत ॥७३॥
अमंगलस्तथा स्पृश्यो नानीतोऽयं चितानलः ॥
इत्युक्तवंतं पितरं स दीनः प्रत्यभाषत ॥७४॥
अयं शवानलो वा स्यादध्वरानल एव वा ॥
सर्वथानीयतामेष नोचेन्मे मरणं भवेत् ॥७५॥
पुत्रस्नेहाभिभूतोऽथ समाहर्तुं चितानलम् ॥
गोविंदस्वामिनामा तु श्मशानं शीघ्रमभ्यगात् ॥७६॥
गोविंदस्वामिनि गते समाहर्तुं चितानलम्॥
तूर्णं विजयदत्तोऽपि तदा गच्छंतमन्वयात् ॥७७॥
संप्राप्य तापनिकटं विकीर्णास्थि चितानलम् ॥
आलिंगन्निव सोद्वेगं शनैर्निर्वृतिमाप्तवान् ॥७९॥
अथावादीत्स पितरं तदिदं परिवर्तुलम् ॥
अतिदीप्तं विभात्यग्नौ किं रक्तांबुजसन्निभम् ॥७९॥
इति तस्य वचः श्रुत्वा पुत्रस्य ब्राह्मणोत्तमः ॥
निपुणं तं निरूप्यैतद्वचनं पुनरब्रवीत् ॥८०॥
॥ गोविंदस्वाम्युवाच ॥
एतत्कपालमनलज्वालावलयवर्तुलम् ॥
वसाकीकसमांसाढ्यमेतद्रक्तांबुजोपमम् ॥८१॥
द्विजस्य सूनुः श्रुत्वेति काष्ठाग्रेण जघान तत् ॥
येन तत्स्फुटनोद्गीर्णवसासिक्तमुखोऽभवत् ॥८२॥
कपालघट्टनाद्रक्तं यत्संसक्तं मुखे तदा ॥
जिह्वया लेलिहानोऽसौ मुहुस्तद्रक्तमा स्वदत् ॥८३॥
आस्वाद्यैवं समादाय तत्कपालं समाकुलः ॥
पीत्वा वसां महाकायो बभूवातिभयंकरः ॥८४॥
सद्यो वेता लतां प्राप तीक्ष्णदंष्ट्रस्तदा निशि ॥
तस्याट्टहासघोषेण दिशश्च प्रदिशस्तदा ॥८५॥
द्यौरतरिक्षं भूमिश्च स्फुटिता इव सर्वशः ॥
तस्मिन्वेगात्समाकृष्य पितरं हन्तुमुद्यते ॥८६॥
मा कृथाः साहसमिति प्रादुरासीद्वचो दिवि ॥
स दिव्यां गिरमाकर्ण्य वेतालोऽतिभयंकरः ॥८७॥
पितरं तं परित्यज्य महावेगसमन्वितः ॥
तूर्णमाकाशमाविश्य प्रययावस्खलद्गतिः ॥८८॥
स गत्वा दूरमध्वानं वेतालैः सह संगतः ॥
तमागतं समालोक्य वेतोलास्सर्व एव ते ॥८९॥
कपालस्फोटनादेष वेतालत्वं यदाप्तवान् ॥
कपालस्फोटनामानमाह्वयांचक्रिरे ततः ॥९०॥
ततः कपालस्फोटो ऽसौ वेतालैः सर्वतो वृतः॥
नरास्थिभूषणाख्यस्य सद्यो वेतालभूपतेः ॥९१॥
अन्तिकं सहसा प्राप महाबलसमन्वितः॥
नरास्थिभूषणश्चैनं सेनाप तिमकल्पयत् ॥९२॥
तं कदाचित्तु गन्धर्वश्चित्रसेनाभिधो बली ॥
नरास्थिभूषणं संख्ये न्यवधीत्सोऽपि संस्थितः ॥९३॥
नरास्थिभूषणे तस्मि न्गन्धर्वेण हते युधि ॥
तदा कपालस्फोटोऽसौ तत्पदं समवाप्तवान् ॥९४॥
विद्याधरेन्द्रस्य सुतः सुदर्शनो मनुष्यतां वै प्रथमं स गत्वा ॥
वेतालतां प्राप्य महर्षिशापात्क्रमाच्च वेतालपतिर्बभूव ॥९५॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतु माहात्म्ये वेतालवरदतीर्थप्रशंसायां सुदर्शनवेतालत्वप्राप्तिवर्णनं नामाष्टमोऽध्यायः ॥८॥
N/A
References : N/A
Last Updated : November 13, 2024
TOP