संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय १

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीगणेशाय नमः ॥
श्रीवेदव्यासायनमः ॥
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् ॥
प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतये ॥१॥
नैमिषारण्यनिलया ऋषयः शौनकादयः ॥
अष्टांगयोगनिरता ब्रह्मज्ञानैकतत्पराः ॥१॥
मुमुक्षवो महात्मानो निर्ममा ब्रह्मवादिनः ॥
धर्मज्ञा अनसूयाश्च सत्यवतपरायणाः ॥२॥
जितेंद्रिया जितक्रोधाः सर्वभूतदयालवः ॥
भक्त्या परमया विष्णुमर्चयंतः सनातनम् ॥३॥
तपस्तेपुर्महापुण्ये नैमिषे मुक्तिदायिनि ॥
एकदा ते महात्मानः समाजं चक्रुरुत्तमम् ॥४॥    
कथयंतो महापुण्याः कथाः पापप्रणाशिनी ॥
भुक्तिमुक्त्योरुपायं च जिज्ञासंतः परस्परम् ॥५॥
षड्विंशतिसहस्राणामृषीणां भावितात्मनाम् ॥
तेषां शिष्यप्रशिष्याणां संख्या कर्तुं न शक्यते ॥६॥      
अत्रांतरे महाविद्वान्व्यासशिष्यो महामुनिः ॥
आगमन्नैमिषारण्यं सूतः पौराणिकोत्तमः ॥७॥
तमागतं मुनिं दृष्ट्वा ज्वलंतमिव पावकम् ॥
अर्घ्याद्यैः पूजयामासुर्मुनयः। शौनकादयः ॥८॥
सुखोपविष्टं तं सूतमासने परमे शुभे ॥
पप्रच्छुः परमं गुह्यं लोकानुग्रहकांक्षया ॥९॥
सूत धर्मार्थतत्त्वज्ञ स्वागतं मुनिपुंगव ॥
श्रुतवांस्त्वं पुराणानि व्यासात्सत्यवतीसुतात् ॥१०॥
अतः सर्वपुराणानामर्थज्ञोऽसि महामुने ॥
कानि क्षेत्राणि पुण्यानि कानि तीर्थानि भूतले ॥११॥
कथं वा लप्स्यते मुक्तिर्जीवानां भवसागरात् ॥
कथं हरे हरौ वापि नृणां भक्तिः प्रजायते ॥१२॥
केन सिध्येत च फलं कर्मणास्त्रिविधा त्मनः ॥
एतच्चान्यच्च तत्सर्वं कृपया वद सूतज ॥१३॥
ब्रूयुः स्निग्धाय शिष्याय गुरवो गुह्यमप्युत ॥
इति पृष्टस्तदा सूतो नैमिषारण्यवासिभिः ॥१४॥
वक्तुं प्रचक्रमे नत्वा व्यासं स्वगुरुमादितः ॥
श्रीसूत उवाच ॥
सम्यक्पृष्टमिदं विप्रा युष्माभिर्जगतो हितम् ॥१५॥
रहस्यमे तद्युष्माकं वक्ष्यामि शृणुतादरात् ॥
मया नोक्तमिदं पूर्वं कस्यापि मुनिपुंगवाः ॥१६॥
मनो नियम्य विप्रेंद्राः शृणुध्वं भक्तिपूर्वकम् ॥
अस्ति रामेश्वरं नाम रामसेतौ पवित्रितम् ॥१७॥
क्षेत्राणामपि सर्वेषां तीर्थानामपि चोत्तमम् ॥
दृष्टमात्रे रामसेतौ मुक्तिः संसारसागरात् ॥१८॥
हरे हरौ च भक्तिः स्यात्तथा पुण्यसमृद्धिता ॥
कर्मणस्त्रिविधस्यापि सिद्धिः स्यान्नात्र संशयः ॥१९॥
यो नरो जन्ममध्ये तु सेतुं भक्त्यावलोकयेत् ॥
तस्य पुण्यफलं वक्ष्ये शृणुध्वं मुनिपुंगवाः ॥२०॥
मातृतः पितृतश्चैव द्विकोटिकुलसंयुतः ॥
निर्विश्य शंभुना कल्पं ततो मोक्षं समश्नुते॥ २१॥
गण्यंते पांसवो भूमेर्गण्यंते दिवि तारकाः ॥
सेतुदर्शनजं पुण्यं शेषेणापि न गण्यते ॥२२॥
समस्तदेवतारूपः सेतुवंधः प्रकीर्तितः ॥
तद्दर्शनवतः पुंसः कः पुण्यं गणितुं क्षमः ॥२३॥
सेतुं दृष्ट्वा नरो विप्राः सर्वयागकरः स्मृतः ॥
स्नातश्च सर्वतीर्थेषु तपोऽतप्यत चाखिलम् ॥२४॥
सेतुं गच्छेति यो ब्रूयाद्यं कं वापि नरं द्विजाः ॥
सोऽपि तत्फलमाप्नोति किमन्यैर्बहुभाषणः ॥२५॥
सेतुस्नानकरो मर्त्यः सप्तकोटिकुलान्वितः ॥
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ॥२६॥
सेतुं रामेश्वरं लिंगं गंधमादनपर्वतम् ॥
चिंतयन्मनुजः सत्यं सर्वपापैः प्रमुच्यते ॥२७॥
मातृतः पितृतश्चैव लक्षकोटिकुलान्वितः ॥
संप्राप्य विष्णुभवनं तत्रैव परिमुच्यते ॥
कल्पत्रयं शंभुपदे स्थित्वा तत्रैव मुच्यते ॥२८॥
मूषावस्थां वसाकूपं तथा वैतरणी नदीम् ॥
श्वभक्षं मूत्रपानं च सेतुस्नायी न पश्यति ॥२९॥
तप्तशूलं तप्तशिलां पुरी षह्रदमेव च ॥
तथा शोणितकूपं च सेतुस्नायी न पश्यति ॥३०॥
शाल्मल्यारोहणं रक्तभोजनं कृमिभोजनम् ॥
स्वमांसभोजनं चैव वह्निज्वालाप्रवेशनम् ॥३१॥
शिलावृष्टिं वह्निवृष्टिं नरकं कालसूत्रकम् ॥
क्षारोदकं चोष्णतोयं नेयात्सेत्ववलोककः ॥३२॥
सेतुस्नायी नरो विप्राः पंचपातकवानपि ॥
मातृतः पितृतश्चैव शतकोटिकुलान्वितः ॥३३॥
कल्पत्रयं विष्णुपदे स्थित्वा तत्रैव मुच्यते ॥
अधःशिरःशोषणं च नरकं क्षारसेवनम् ॥३४॥
पाषाणयन्त्रपीडां च मरुत्प्रपतनं तथा ॥
पुरीषलेपनं चैव तथा क्रकचदारणम् ॥३५॥
पुरीषभोजनं रेतःपानं संधिषु दाहनम् ॥
अंगारशय्याभ्रमणं तथा मुसलमर्द्दनम् ॥३६॥
एतानि नरकाण्यद्धा सेतुस्नायी न पश्यति ॥
सेतु स्नानं करिष्येऽहमिति बुद्ध्या विचिंतयन् ॥३७॥
गच्छेच्छतपदं यस्तु स महापातकोऽपि सन् ॥
बहूनां काष्ठयंत्राणां कर्षणं शस्त्रभेदनम् ॥३८॥      
पतनोत्पतनं चैव गदादण्डनिपीडनम् ॥
गजदन्तैश्च हननं नानाभुजगदंशनम् ॥३९॥
धूमपानं पाशबन्धं नानाशूलनिपीडनम् ॥
मुखे च नासिकायां च क्षारोदकनिषेचनम् ॥४०॥
क्षारांबुपानं नरकं तप्तायः सूचिभक्षणम् ॥
एतानि नरकान्यद्धा न याति गतपातकः ॥४१॥
क्षारांबुपूर्णरंध्राणां प्रवेशं मलभोजनम् ॥
स्नायुच्छेदं स्नायुदाहमस्थिभेदनमेव च ॥४२॥
श्लेष्मादनं पित्तपानं महातिक्तनिषेवणम् ॥
अत्युष्ण तैलपानं च पानं क्षारोदकस्य च ॥४३॥
कषायोदकपानं च तप्तपाषाणभोजनम् ॥
अत्युष्णसिकतास्नानं तथा दशनमर्दनम् ॥४४॥
तप्तायःशयनं चैव संतप्तांबुनिषेचनम् ॥
सूचिप्रक्षेपणं चैव नेत्रयोर्मुखसंधिषु ॥४५॥
शिश्ने सवृषणे चैव ह्ययोभारस्य बन्धनम् ॥
वृक्षाग्रात्पतनं चैव दुर्गंधपरिपूरिते ॥४६॥
तीक्ष्णधारास्त्रशय्यां च रेतःपानादिकं तथा ॥
इत्यादि नरकान्घोरासेतुस्नायी न पश्यति ॥४७॥
सेतुसैकतमध्ये यः शेते तत्पांसुकुंठितः ॥
यावन्तः पांसवो लग्नास्तस्यांगे विप्रसत्तमाः ॥४८॥
तावतां ब्रह्महत्यानां नाशः स्यान्नात्र संशयः ॥
सेतुमध्यस्थ वातेन यस्यांगं स्पृश्यतेऽखिलम् ॥४९॥
सुरापानायुतं तस्य तत्क्षणादेव नश्यति ॥
वर्तंते यस्य केशास्तु वपनात्सेतुमध्यतः ॥५०॥
गुरुतल्पा युतं तस्य तत्क्षणादेव नश्यति ॥
यस्यास्थि सेतुमध्ये तु स्थापितं पुत्रपौत्रकैः ॥
स्वर्णस्तेयायुतं तस्य तत्क्षणादेव नश्यति ॥५१॥
स्मृत्वा यं सेतुमध्ये तु स्नानं कुर्याद्द्विजोत्तमाः ॥
महापातकिसंसर्गदोषस्तस्य लयं व्रजेत् ॥५२॥
मार्गभेदी स्वार्थपाकी यतिब्राह्मणदूषकः ॥
अत्याशी वेदविक्रेता पंचैते ब्रह्मघातकाः ॥५३॥
ब्राह्मणान्यः समाहूय दास्यामीति धनादिकम् ॥
पश्चान्नास्तीति यो ब्रूते ब्रह्महा सोपि कीर्तितः ॥५४॥
परिज्ञाय यतो धर्मांस्तस्मै यो द्वेषमाचरेत् ॥
अवजानाति वा विप्रान्ब्रह्महा सोपि कीर्तितः ॥५५॥
जलपानार्थमायातं गोवृन्दं तु जलाशये ॥
निवारयति यो विप्रा ब्रह्महा सोपि कीर्तितः ॥५६॥
सेतुमेत्य तु ते सर्वे मुच्यंते दोषसंचयैः ॥
ब्रह्मघातकतुल्या ये संति चान्ये द्विजोत्तमाः ॥५७॥
ते सर्वे सेतुमागत्य मुच्यंते नात्र संशयः ॥
औपासनपरित्यागी देवतान्नस्य भोजकः ॥५८॥
सुरापयोषित्संसर्गी गणिकान्नाशनस्तथा ॥
गणान्नभोजकश्चैव पतितान्नरतश्च यः ॥५९॥
एते सुरापिनः प्रोक्ताः सर्वकर्मबहिष्कृताः ॥
सेतुस्नानेन मुच्यंते ते सर्वे हतकिल्बिषाः ॥६०॥
सुरापतुल्या ये चान्ये मुच्यंते सेतुमज्जनात् ॥
कन्दमूलफलानां च कस्तूरीपट्टवाससाम् ॥६१॥
पयश्चंदनकर्पूरक्रमुकाणां तथैव च ॥
मध्वाज्यता म्रकांस्यानां रुद्राक्षाणां तथैव च ॥६२॥
चोरकास्तु परिज्ञेया सुवर्णस्तेयिनः समाः ॥
ते सेतुक्षेत्रमागत्य मुच्यन्ते नात्र संशयः ॥६९॥
अन्ये च स्तेयिनः सर्वे सेतुस्नानेन वै द्विजाः ॥
मुच्यंते सर्वपापेभ्यो नात्र कार्या विचारणा ॥६४॥
भगिनीं पुत्रभार्यां च तथैव च रजस्वलाम् ॥
भ्रातृभार्यां मित्रभार्यां मद्यपां च परस्त्रियम् ॥६५॥
हीनस्त्रियं च विश्वस्तां योऽभिगच्छति रागतः ॥
गुरुतल्पी स विज्ञेयः सर्वकर्मबहिष्कृतः ॥६६॥
एते चान्ये च ये संति गुरुतल्पगतुल्यकाः ॥
ते सर्वे प्रविमुच्यंते सेतुस्नानेन वै द्विजाः ॥६७॥
एतैः संसर्गिणो विप्रा ये चान्ये संति पापिनः ॥
सेतुस्नानेन महता तेऽपि मोक्षमवाप्नुयुः ॥६९॥      
यागं विना देवलोके घृताचीमेनकादिभिः॥
संभोगकामिनो विप्राः स्नातुं संतावघापहे ॥६९॥
अनिषेव्य रविं वह्निमनुपास्य परान्सुरान् ॥
शुभकामी जनः सेतौकुर्यात्स्नानं सभक्तिकम् ॥७०॥
तिलान्भूमिं सुवर्णं च धान्यं तंदुलमेव च ॥
अदत्त्वेच्छंति ते स्वर्गं स्नातुं सेतौ तु ते द्विजाः ॥७१॥
उपवासैर्व्रतैः कृत्स्नैरसंताप्य निजां तनुम् ॥
स्वर्गाभिलाषिणः पुंसः स्नांतु सेतौ विमुक्तिदे ॥७२॥      
सेतुस्नानं मोक्षदं हि मनःशुद्धिप्रदं तथा ॥
जपाद्धोमात्तथा दानाद्यागाच्च तपसोऽपि च ॥७३॥
सेतुस्नानं विशिष्टं हि पुराणे परिपठ्यते ॥
अकामनाकृतं स्नानं सेतौ पापविनाशने ॥७४॥
अपुनर्भवदं प्रोक्तं सत्यमुक्तं द्विजोत्तमाः ॥
यः संपदं समुद्दिश्य स्नाति सेतौ नरो मुदा ॥७५॥
स संपदमवाप्नोति विपुलां द्विजपुंगवाः ॥
शुद्ध्यर्थं स्नाति चेत्सेतौ तदा शुद्धिमवाप्नुयात् ॥७६॥
रत्यर्थं यदि च स्नायादप्सरोभिर्नरो दिवि ॥
तदा रतिमवाप्नोति स्वर्गलोकेऽमरीजनैः ॥७७॥
मुक्त्यर्थं यदि च स्नायात्सेतौ मुक्तिप्रदायिनि ॥
तदा मुक्तिमवाप्नोति पुनरावृत्तिवर्जिताम् ॥७८॥
सेतुस्नानेन धर्मः स्यात्सेतुस्नानादघक्षयः ॥
सेतुस्नानं द्विजश्रेष्ठाः सर्वकामफलप्रदम् ॥७९॥
सर्वव्रताधिकं पुण्यं सर्वयज्ञोत्तरं स्मृतम् ॥
सर्वयोगाधिकं प्रोक्तं सर्व तीर्थाधिकं स्मृतम् ॥८०॥
इंद्रादिलोकभोगेषु रागो येषां प्रवर्तते ॥
स्नातव्यं तैर्द्विजश्रेष्ठाः सेतौ रामकृते सकृत् ॥८१॥
ब्रह्मलोके च वैकुण्ठे कैलासेऽपि शिवालये ॥
रंतुमिच्छा भवेद्येषां ते सेतौ स्नांतु सादरम् ॥८२॥
आयुरारोग्यसंपत्तिमतिरूपगुणाढ्यताम् ॥
चतुर्णामपि वेदानां सांगानां पारगामिनाम् ॥८३॥
सर्वशास्त्राधिगंतृत्वं सर्वमंत्रेष्वभिज्ञताम् ॥
समुद्दिश्य तु यः स्नायात्सेतौ सर्वार्थसिद्धिदे ॥८४॥
तत्तत्सिद्धिम वाप्नोति सत्यं स्यान्नात्र संशयः ॥
दारिद्र्यान्नरकाद्ये च मनुजा भुवि बिभ्यति ॥८५॥
स्नानं कुर्वंतु ते सर्वे रामसेतौ विमुक्तिदे ॥
श्रद्धया सहितो मर्त्यः श्रद्धया रहितोऽपि वा ॥८६॥
इहलोके परत्रापि सेतुस्नायी न दुःखभाक् ॥
सेतुस्नानेन सर्वेषां नश्यते पापसंचयः ॥८७॥
वर्द्धते धर्मराशिश्च शुक्लपक्षे यथा शशी ॥
यथा रत्नानि वर्द्धंते समुद्रे विविधान्यपि ॥८८॥
तथा पुण्यानि वर्द्धंते सेतुस्नानेन वै द्विजाः ॥
काम धेनुर्यथा लोके सर्वाकामान्प्रयच्छति ॥८९॥
चिंतामणिर्यथा दद्यात्पुरुषाणां मनोरथान् ॥
यथाऽमरतरुर्दद्यात्पुरुषाणामभीप्सितम् ॥९०॥
सेतुस्नानं तथा नृणां सर्वाभीष्टान्प्रदास्यति ॥
अशक्तः सेतुयात्रायां दारिद्र्येण च मानवः ॥९१॥
याचित्वा स धनं शिष्टात्सेतौ स्नानं समाच रेत् ॥
सेतुस्नानसमं पुण्यं तत्र दाता समश्नुते ॥९२॥
तथा प्रतिगृहीतापि प्राप्नोत्यविकलं फलम् ॥
सेतुयात्रां समुद्दिश्य गृह्णीयाद्ब्राह्मणाद्ध नम् ॥९३॥
क्षत्रियादपि गृह्णीयान्न दद्युर्ब्राह्मणा यदि ॥
वैश्याद्वा प्रतिगृह्णीयान्न प्रयच्छंति चेन्नृपाः ॥९४॥
शूद्रान्न प्रतिगृह्णीयात्कथंचिदपि मानवः ॥
यः सेतुं गच्छतः पुंसो धनं वा धान्यमेव वा ॥९५॥
दत्त्वा वस्त्रादिकं वापि प्रवर्तयति मानवः ॥
सोऽश्वमेधादियज्ञानां फलमाप्तो त्यनुत्तमम् ॥९६॥
चतुर्णामपि वेदानां पारायणफलं लभेत् ॥
तुलापुरुषमुख्यानां दानानां फलमश्नुते ॥९७॥
ब्रह्महत्यादिपापानां नाशः स्या न्नात्र संशयः ॥
बहुना किं प्रलापेन सर्वान्कामान्समश्नुते ॥९८॥
एवं प्रतिगृहीतापि तत्तुल्यफलमश्नुते ॥
याचतः सेतुयात्रार्थं न प्रतिग्रहकल्मषम् ॥९९॥
सेतुं गच्छ धनं तेऽहं दास्यामीति प्रलोभ्य यः ॥
पश्चान्नास्तीति च ब्रूयात्तमाहुर्ब्रह्मघातकम् ॥१००॥
लोभेन सेतुयात्रार्थं संपन्नोऽपि दरिद्रवत् ॥
मानवो यदि याचेत तमाहुस्तेयिनं बुधाः ॥१०१॥
गमिष्ये सेतुमिति वै यो गृहीत्वा धनं नरः ॥
न याति सेतुं लोभेन तमाहुर्ब्रह्मघा तकम् ॥१०२॥
येन केनाप्युपायेन सेतुं गच्छेन्नरो मुदा ॥
अशक्तो दक्षिणां दत्त्वा गमयेद्वा द्विजोत्तमम् ॥१०३॥
याचित्वा यज्ञकरणे यथा दोषो न विद्यते ॥
याचित्वा सेतुयात्रायां तथा दोषो न विद्यते ॥१०४॥
याचित्वाप्यन्यतो द्रव्यं सेतुस्नाने प्रवर्तयेत् ॥
सोऽपि तत्फलमाप्नोति सेतु स्नायी नरो यथा ॥१०५॥
ज्ञानेन मोक्षमभियांति कृते युगे तु त्रेतायुगे यजनमेव विमुक्तिदायि ॥
श्रेष्ठं तथान्ययुगयोरपि दानमाहुः सर्वत्र सेत्व भिषवो हि वरो नराणाम् ॥१०६॥
इति श्रीस्कांदे महापुराणे एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये सेतुगमनफलादिवर्णनं नाम प्रथमोऽध्यायः ॥१॥

N/A

References : N/A
Last Updated : November 13, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP