संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय ४९

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
अथातः संप्रवक्ष्यामि रामनाथस्य शूलिनः ॥
स्तोत्राध्यायं महापुण्यं शृणुत श्रद्धया द्विजाः ॥१॥
रामः प्रतिष्ठिते लिंगे तुष्टाव परमेश्वरम् ॥
लक्ष्मणो जानकी सीता सुग्रीवाद्याः कपीश्वराः ॥२॥
ब्रह्मप्रभृतयो देवाः कुम्भजाद्या महर्षयः ॥
अस्तुवन्भक्तिसंयुक्ताः प्रत्येकं राघवेश्वरम् ॥३॥
तद्वक्ष्याम्यानुपूर्व्येण शृणुतादरपूर्वकम् ॥
एतच्छ्रवणमात्रेण मुक्तः स्या न्मानवो द्विजाः ॥४॥
॥ श्रीराम उवाच ॥
नमो महात्मने तुभ्यं महामायाय शूलिने ॥
स्वपदांबुजभक्तार्तिहारिणे सर्प हारिणे ॥५॥
नमो देवाधिदेवाय रामनाथाय साक्षिणे ॥
नमो वेदांतवेद्याय योगिनां तत्त्वदायिने ॥६॥
सर्वदानंदपूर्णाय विश्वनाथाय शंभवे ॥
नमो भक्तभयच्छेदहेतुपादाब्जरेणवे ॥७॥
नमस्तेऽखिलनाथाय नमः साक्षात्परात्मने ॥
 नमस्तेऽद्भुतवीर्याय महापातकनाशिने ॥८॥
कालकालाय कालाय कालातीताय ते नमः ॥
नमोऽविद्यानिहंत्रे ते नमः पापहराय च ॥९॥
नमः संसारतप्तानां तापनाशैकहेतवे ॥
नमो मद्ब्रह्महत्याविनाशिने च विषाशिने ॥१०॥
नमस्ते पार्वतीनाथ कैलासनिलयाव्यय ॥
गंगाधर विरूपाक्ष मां रक्ष सकलापदः ॥११॥
तुभ्यं पिनाकहस्ताय नमो मदनहारिणे ॥
भूयोभूयो नमस्तुभ्यं सर्वावस्थासु सर्वदा ॥१२॥
॥ लक्ष्मण उवाच ॥
नमस्ते रामनाथाय त्रिपुरघ्नाय शंभवे ॥
पार्वतीजीवितेशाय गणेशस्कन्दसूनवे ॥१३॥
नमस्ते सूर्यचद्राग्निलोचनाय कपर्दिने ॥
नमः शिवाय सोमाय मार्कंडेय भयच्छिदे ॥१४॥
नमः सर्वप्रपंचस्य सृष्टिस्थित्यंतहेतवे ॥
नम उग्राय भीमाय महादेवाय साक्षिणे ॥१५॥
सर्वज्ञाय वरेण्याय वरदाय वराय ते ॥
श्रीकण्ठाय नमस्तुभ्यं पंचपातकभेदिने ॥१६॥
नमस्तेऽस्तु परानंदसत्यविज्ञानरूपिणे ॥
नमस्ते भवरोगघ्न स्नायूनां पतये नमः ॥१७॥
पतये तस्कराणां ते वनानां पतये नमः ॥
गणानां पतये तुभ्यं विश्वरूपायसाक्षिणे ॥१८॥
कर्मणा प्रेरितः शम्भो जनिष्ये यत्रयत्र तु ॥
तत्रतत्र पदद्वंद्वे भवतो भक्तिरस्तु मे ॥१९॥
असन्मार्गे रतिर्मा भूद्भवतः कृपया मम ॥
वैदिकाचारमार्गे च रतिः स्याद्भवते नमः ॥२०॥
॥ सीतोवाच ॥
परमकारण शंकर धूर्जटे गिरिसुतास्तनकुंकुमशोभित ॥
मम पतौ परिदेहि मतिं सदा न विषमां परपूरुषगोचराम् ॥२१॥
गंगाधर विरूपाक्ष नीललोहित शंकर ॥
रामनाथ नमस्तुभ्यं रक्ष मा करुणाकर ॥२२॥
नमस्ते देवदेवेश नमस्ते करुणालय ॥
नमस्ते भवभीतानां भवभीतिविमर्दन ॥२३॥
नाथ त्वदीयचरणांबुजचिंतनेन निर्द्धूय भास्करसुताद्भयमाशु शम्भो ॥
नित्यत्वमाशु गतवान्स मृकंडुपुत्रः किं वा न सिध्यति तवाश्रयणात्परेश ॥२४॥
परेशपरमानंद शरणागतपालक ॥
पातिव्रत्यं मम सदा देहि तुभ्यं नमोनमः ॥२५॥
॥ हनूमानुवाच ॥
देवदेव जगन्नाथ रामनाथ कृपानिधे ॥
त्वत्पादांभोरुहगता निश्चला भक्तिरस्तु मे ॥२६॥
यं विना न जगत्सत्ता तद्भानमपि नो भवेत्॥
नमः सद्भानरूपाय रामनाथाय शंभवे ॥२७॥
अंगद उवाच ॥
यस्य भासा जगद्भानं यत्प्रकाशं विना जगत् ॥
न भासते नमस्तस्मै रामनाथाय शंभवे ॥२८॥
॥ जांबुवानुवाच ॥
सर्वानंदो यदानंदो भासते परमार्थतः ॥
नमो रामेश्वरायास्मै परमानंदरूपिणे ॥२९॥
॥ नील उवाच ॥
यद्देशकालदिग्भेदैरभिन्नं सर्वदा द्वयम् ॥
तस्मै रामेश्वरायास्मै नमोऽभिन्नस्व रूपिणे ॥३०॥
॥ नल उवाच ॥
ब्रह्मविष्णुमहेशाना यदविद्याविजृंभिताः ॥
नमोऽविद्याविहीनाय तस्मै रामेश्वराय ते ॥३१॥
॥ कुमुद उवाच ॥
यस्त्वरूपापरिज्ञानात्प्रधानं कारणत्वतः ॥
कल्पितं कारणायास्मै रामनाथाय शंभवे ॥३२॥
॥ पनस उवाच ॥
जाग्रत्स्वप्नसुषुप्त्यादियदविद्याविजृंभितम् ॥
जाग्रदादिविहीनाय नमोऽस्मै ज्ञानरूपिणे ॥३३॥
॥ गज उवाच ॥
यत्स्वरूपापरिज्ञानात्कार्याणां परमा णवः ॥
कल्पिताः कारणत्वेन तार्किकापसदैर्वृथा ॥३४॥
तमहं परमानंदं रामनाथं महेश्वरम् ॥
आत्मरूपतया नित्यमुपासे सर्वसाक्षिणम् ॥३५॥
॥ गवाक्ष उवाच ॥
अज्ञानपाशबद्धानां पशूनां पाशमोचकम् ॥
रामेश्वरं शिवं शांतमुपैमि शरणं सदा ॥३६॥
॥ गवय उवाच ॥
साध्वस्तजगदाधारं चंद्रचूडमुमापतिम् ॥
रामनाथं शिवं वन्दे संसारामयभेषजम् ॥३७॥
शरभ उवाच ॥
अंतःकरणमात्मेति यदज्ञानाद्विमोहितैः ॥
भण्यते रामनाथं तमात्मानं प्रणमाम्यहम् ॥३८॥
॥ गन्धमादन उवाच ॥
रामनाथमुमानाथं गणनाथं च त्र्यंबकम् ॥
सर्वपातकशुद्ध्यर्थमुपासे जगदीश्वरम् ॥३९॥
॥ सुग्रीव उवाच ॥
संसारांभोधि मध्ये मां जन्ममृत्युजले भये ॥
पुत्रदारधनक्षेत्रवीचिमालासमाकुले ॥४०॥
मज्जद्ब्रह्मांडखंडे च पतितं नाप्तपारकम् ॥
क्रोशंतमवशं दीनं विषयव्या लकातरम् ॥४१॥
व्याधिनक्रसमुद्विग्नं तापत्रयझषार्तिदम् ॥
मां रक्ष गिरिजानाथ रामनाथ नमोऽस्तु ते ॥४२॥
॥ विभीषण उवाच ॥
संसारवनमध्ये मां विनष्टनिजमार्गके ॥
व्याधिचौरे क्रोधसिंहे जन्मव्याघ्रे लयोरगे ॥४३॥
बाल्ययौवनवार्धक्यमहाभीमांधकूपके ॥
क्रोधेर्ष्या लोभवह्नौ च विषयक्रूरपर्वते ॥४४॥
त्रासभूकंटकाढ्ये च सीदंतमधुनांधकम् ॥
शोभनां पदवीं शंभो नय रामेश्वराधुना ॥४५॥
॥ सर्वे वानरा ऊचुः ॥
निंद्यानिंद्येषु सर्वत्र जनित्वा योनिषु प्रभो ॥
कुंभीपाकादिनरके पतित्वा च पुनस्तथा ॥४६॥
जनित्वा च पुनर्योनौ कर्मशेषेण कुत्सिते ॥
संसारे पतितानस्मान्रामनाथ दयानिधे ॥४७॥
अनाथान्विवशान्दीनान्क्रोशतः पाहि शंकर ॥
नमस्तेस्तु दयासिंधो रामनाथ महेश्वर ॥४८॥
॥ ब्रह्मोवाच ॥
नमस्ते लोकनाथाय रामनाथाय शंभवे ॥
प्रसीद मम सर्वेश मदविद्यां विनाशय ॥४९॥
॥ इंद्र उवाच ॥
यस्य शक्तिरुमा देवी जगन्माता त्रयीमयी ॥
तमहं शंकरं वंदे रामनाथमुमापतिम् ॥५०॥
॥ यम उवाच ॥
पुत्रौ गणेश्वरस्कंदौ वृषो यस्य च वाहनम् ॥
तं वै रामेश्वरं सेवे सर्वाज्ञाननिवृत्तये ॥५१॥
॥ वरुण उवाच ॥
यस्य पूजाप्रभावेन जित मृत्युर्मृकंडुजः॥
मृत्युंजयमुपासेऽहं रामनाथं हृदा तु तम् ॥५२॥
॥ कुबेर उवाच ॥
ईश्वराय लसत्कर्णकुंडलाभरणाय ते ॥
लाक्षारुणशरीराय नमो रामेश्वराय वै ॥५३॥
॥ आदित्य उवाच ॥
नमस्तेऽस्तु महादेव रामनाथ त्रियंबक ॥
दक्षाध्वरविनाशाय नमस्ते पाहि मां शिव ॥५४॥
॥ सोम उवाच ॥
नमस्ते भस्मदिग्धाय शूलिने सर्पमालिने ॥
रामनाथ दयांभोधे स्मशाननिलयाय ते ॥५५॥
॥ अग्निरुवाच ॥
इन्द्राद्यखिलदिक्पालसंसेवितपदांबुज ॥
रामनाथाय शुद्धाय नमो दिग्वाससे सदा ॥५६॥
॥ वायुरुवाच ॥
हराय हरिरूपाय व्याघ्रचर्मांबराय च ॥
रामनाथ नमस्तुभ्यं ममाभीष्टप्रदो भव ॥५७॥
॥ बृहस्पतिरुवाच ॥
अहंतासाक्षिणे नित्यं प्रत्यगद्वयवस्तुने ॥
रामनाथ ममाज्ञानमाशु नाशय ते नमः ॥५८॥
॥ शुक्र उवाच ॥
वंचकानामलभ्याय महामंत्रार्थरूपिणे ॥
नमो द्वैतविहीनाय रामनाथाय शंभवे ॥५९॥
॥ अश्विनावूचतुः ॥
आत्मरूपतया नित्यं योगिनां भासते हृदि ॥
अनन्य भानवेद्याय नमस्ते राघवेश्वर ॥६०॥
॥ अगस्त्य उवाच ॥
आदिदेव महादेव विश्वेश्वर शिवाव्यय ॥
रामनाथांबिकानाथ प्रसीद वृष भध्वज ॥६१॥
अपराधसहस्रं मे क्षमस्व विधुशेखर ॥
ममाहमिति पुत्रादावहंतां मम मोचय ॥६२॥
॥ सुतीक्ष्ण उवाच ॥
क्षेत्राणि रत्नानि धनानि दारा मित्राणि वस्त्राणि गवाश्वपुत्राः ॥
नैवोपकाराय हि रामनाथ मह्यं प्रयच्छ त्वमतो विरक्तिम् ॥६३॥
॥ विश्वामित्र उवाच ॥
श्रुतानि शास्त्राण्यपि निष्फलानि त्रय्यप्यधीता विफलैव नूनम् ॥
त्वयीश्वरे चेन्न भवेद्धि भक्तिः श्रीरामनाथे शिव मानुषस्य ॥६४॥
॥ गालव उवाच ॥
दानानि यज्ञा नियमास्तपांसि गंगादितीर्थेषु निमज्जनानि ॥
रामेश्वरं त्वां न नमंति ये तु व्यर्थानि तेषामिति निश्चयोऽत्र ॥६५॥
॥ वसिष्ठ उवाच ॥
कृत्वापि पापान्यखिलानि लोकस्त्वामेत्य रामेश्वर भक्तियुक्तः ॥
नमेत चेत्तानि लयं व्रजेयुर्यथांधकारो रवितेजसाऽद्धा ॥६६॥
॥ अत्रिरुवाच ॥
दृष्ट्वा तु रामेश्वरमेकदापि स्पृष्ट्वा नमस्कृत्य भवंतमीशम् ॥
पुनर्न गर्भं स नरः प्रयायात्किं त्वद्वयं ते लभतं स्वरूपम् ॥६७॥
अंगिरा उवाच ॥
यो रामनाथं मनुजो भवंतमुपेत्य बंधून्प्रणमन्स्मरेत ॥
संतारयेत्तानपि सर्वपापात्किम द्भुतं तस्य कृतार्थतायाम् ॥६८॥
॥ गौतम उवाच ॥
श्रीरामनाथेश्वर गूढमेत्तद्रहस्यभूतं परमं विशोकम् ॥
त्वत्पादमूलं भजतां नृणां ये सेवां प्रकुर्वंति हि तेऽपि धन्याः ॥६९॥
॥ शतानंद उवाच ॥
वेदांतविज्ञानरहस्यविद्भिर्विज्ञेयमेतद्धि मुमुक्षुभिस्तु ॥
शास्त्राणि सर्वाणि विहाय देव त्वत्सेवनं यद्रघुवीरनाथ ॥७०॥
॥ भृगुरुवाच ॥
रामनाथ तव पादपंकजं द्वंद्वचिंतनविधूतकल्मषः ॥
निर्भयं व्रजति सत्सुखाद्वयं[१] सुप्रभं त्वथ अमोघचिद्धनम् ॥७१॥
॥ कुत्स उवाच ॥
रामनाथ तव पादसेवनं भोगमोक्षवरदं नृणां सदा ॥
रौरवादिनरकप्रणाशनं कः पुमान्न भजते रसग्रहः ॥७२॥
॥ काश्यप उवाच ॥
रामनाथ तव पादसेविनां किं व्रतैरुत तपोभिरध्वरैः ॥
वेदशास्त्र जपचिन्तया च किं स्वर्गसिन्धुपयसापि किं फलम् ॥७३॥
श्रीरामनाथ त्वमागत्य शीघ्रं ममोत्क्रांतिकाले भवान्या च साकम् ॥
मां प्रापय स्वात्मपादारविन्दं विशोकं विमोहं सुखं चित्स्वरूपम् ॥७४॥
॥ गन्धर्वा ऊचुः ॥
रामनाथ त्वमस्माकं भजतां भवसागरे ॥
अपारे दुःखकल्लोले न त्वत्तोन्या गतिर्हि नः ॥७५॥
॥ किन्नरा ऊचुः ॥
रामनाथ भवारण्ये व्याधिव्याघ्रभयानके ॥
त्वामंतरेण नास्माकं पदवीदर्शको भवेत् ॥७६॥
॥ यक्षा ऊचुः ॥
रामनाथेंद्रियारातिबाधा नो दुःसहा सदा ॥
तान्विजेतुं सहायस्त्वमस्माकं भव धूर्जटे ॥७७॥
॥ नागा ऊचुः ॥
अचिन्त्यमहिमानं त्वा रामनाथ वयं कथम्॥
स्तोतुमल्पधियः शक्ता भविष्यामोंऽबिकापते ॥७८॥
॥ किंपुरुषा ऊचुः ॥
नानायोनौ च जननं मरणं चाप्यनेकशः ॥
विनाशय तथाऽज्ञानं रामनाथ नमोऽस्तु ते ॥७९॥
॥ विद्याधरा ऊचुः ॥
अंबिकापतये तुभ्यमसंगाय महात्मने॥
नमस्ते रामनाथाय प्रसीद वृषभध्वज ॥८०॥
॥ वसव ऊचुः ॥
रामनाथगणेशाय गणवृंदार्चितांघ्रये ॥
गंगाधराय गुह्याय नमस्ते पाहि नः सदा ॥८१॥
॥ विश्वेदेवा ऊचुः ॥
ज्ञप्तिमात्रैकनिष्ठानां मुक्तिदाय सुयोगिनाम् ॥
रामनाथाय सांबाय नमोऽस्मान्रक्ष शंकर ॥८२॥
॥ मरुत ऊचुः ॥
परतत्त्वाय तत्त्वानां तत्त्वभूताय वस्तुतः ॥
नमस्ते रामनाथाय स्वयंभानाय शंभवे ॥८३॥
॥ साध्या ऊचुः ॥
स्वातिरिक्तविहीनाय जगत्सत्ताप्रदायिने ॥
रामेश्वराय देवाय नमोऽविद्या विभेदिने ॥८४॥
॥ सर्वे देवा ऊचुः ॥
सच्चिदानंदसंपूर्णं द्वैतवस्तुविवर्जितम् ॥
ब्रह्मात्मानं स्वयंभानमादिमध्यांतवर्जितम् ॥८५॥
अविक्रियमसंगं च परिशुद्धं सनातनम् ॥
आकाशादिप्रपंचानां साक्षिभूतं परामृतम्॥८६॥
प्रमातीतं प्रमाणानामपि बोधप्रदायिनम्॥
आविर्भावतिरोभाव संकोचरहितं सदा ॥८७॥
स्वस्मिन्नध्यस्तरूपस्य प्रपंचस्यास्य साक्षिणम् ॥
निर्लेपं परमानंदं निरस्तसकलक्रियम्॥ ८८॥
भूमानंदं महात्मानं चिद्रूपं भोगवर्जितम् ॥
रामनाथं वयं सर्वे स्वपातकविशुद्धये ॥८९॥
चिन्तयामः सदा चित्ते स्वात्मानंदबुभुत्सवः ॥
रक्षास्मान्करुणासिन्धो राम नाथ नमोऽस्तु ते ॥९॥
रामनाथाय रुद्राय नमः संसारहारिणे ॥
ब्रह्मविष्ण्वादिरूपेण विभिन्नाय स्वमायया ॥९१॥
विभीषणसचिवा ऊचुः ॥
वरदाय वरेण्याय त्रिनेत्राय त्रिशूलिने ॥
योगिध्येयाय नित्याय रामनाथाय ते नमः ॥९२॥
॥ सूत उवाच ॥
इति रामादिभिः सर्वैः स्तुतो रामेश्वरः शिवः ॥
प्राह सर्वान्समाहूय रामादीन्द्विजसत्तमाः ॥९३॥
रामराम महाभाग जानकीरमण प्रभो ॥
सौमित्रे जानकि शुभे हे सुग्रीव मुखास्तथा ॥९४॥
अन्ये ब्रह्ममुखा यूयं शृणुध्वं सुसमास्थिताः ॥
स्तोत्राध्यायमिमं पुण्यं युष्माभिः कृतमादरात् ॥९५॥
ये पठंति च शृण्वंति श्रावयंति च मानवाः ॥
मदर्चनफलं तेषां भविष्यति न संशयः ॥९६॥
रामचंद्रधनुष्कोटिस्नानपुण्यं च वै भवेत् ॥
वर्षमेकं रामसेतौ वासपुण्यं भविष्यति ॥९७॥
गन्धमादनमध्यस्थसर्वर्तीर्थाभिमज्जनात् ॥
यत्पुण्यं तद्भवेत्तेन नात्र संशयकारणम् ॥९८॥
उक्त्वैवं रामनाथोऽपि स्वात्मलिंगे तिरोदधे ॥
स्तोत्राध्यायमिमं पुण्यं नित्यं संकीर्तयन्नरः ॥९९॥
जरामरणनिर्मुक्तो जन्मदुःखविवर्जितः ॥
रामनाथस्य सायुज्यमुक्तिं प्राप्नोत्यसंशयः ॥१००॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामादिभी रामनाथस्तोत्रकथनंनामैकोनपंचाशत्तमोऽध्यायः ॥४९॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP