संस्कृत सूची|संस्कृत साहित्य|पुराण|श्री स्कंद पुराण|ब्रह्मखण्ड|सेतु खण्डः|

सेतुखण्डः - अध्याय १७

भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.


॥ श्रीसूत उवाच ॥
पुनरित्याह कक्षीवान्पितरं तं मुनीश्वराः ॥
यथोदंकेन गुरुणा प्रेषितोऽहमिहा धुना ॥१॥
समागतोस्मि तीर्थेऽस्मिन्नागस्त्ये मुनिसत्तम ॥
स्वनयस्य सुतोद्वाहसिद्ध्यर्थं गुरुचोदितः ॥२॥
उपायं तन्निगदितमत्र कुर्व न्न्यवर्तिषम् ॥
वर्षत्रयावसाने मामुद्वाहोपायसंयुतम् ॥३॥
स्वनयोत्रैव तिष्ठन्तमाससाद यदृच्छया ॥
स च मामेत्य कन्यां ते दास्यामीति वचोऽब्रवीत् ॥४॥
ततोस्मदनुरोधेन त्वामाह्वयदयं नृपः ॥
इतीरयित्वा पितरं कक्षीवान्विरराम सः ॥५॥
सुदर्शनोऽथ विप्रेंद्रः पुरोधाः स्वन यस्य सः ॥
प्रययौ राजसविधं स्वनयाय निवेदितुम् ॥६॥
राजानं तं समासाद्य स्वनयं स सुदर्शनः ॥
प्राप्तं निवेदयामास तं दीर्घतमसं मुनिम्॥ ७ !।
ततः स राजा स्वनयो मुनिं प्राप्तं पुरोहितात् ॥
श्रुत्वा विनिर्ययौ द्रष्टुं महसा पटमण्डपात् ॥८॥
अगस्त्यतीर्थतीरे तं सपुत्रमृषि सत्तमम्॥
ददर्श राजा स्वनयो ब्रह्माणमिव देवराट् ॥९॥
ववंदे दीर्घतमसश्चरणौ लोकमंगलौ ॥
उत्थाप्य नृपतिं विप्रास्तदा दीर्घतमा मुनिः ॥१०॥
आशिषं प्रयुयोजाथ स्वनयाय नृपाय सः ॥
अत्रांतरे समायात उदंकोऽपि महानृषिः ॥११॥
रामसेतौ धनुष्कोटौ स्नातुं शिष्यगणैर्वृतः ॥
लक्षसंख्यो मुनिगणस्तेन साकं मुनीश्वरः ॥१२॥
उदंकोऽगस्त्यतीर्थेस्मिन्स्नातुं संप्राप्तवान्मुनिः ॥
उदंकमागतं दृष्ट्वा कक्षीवान्प्रणनाम तम् ॥१३॥
अकरोदाशिषं विप्रः शिष्यायाथ गुरुस्तदा ॥
अथ दीर्घतमा विप्रस्तमुदंकं महामुनिम् ॥१४॥
कुशलं परिपप्रच्छ सोऽपि तं मुनि पुंगमम् ॥
उभौ तौ मुनिशार्दूलौ सर्वलोकेषु विश्रुतौ ॥१५॥
कथयामासतुस्तत्र कथाः पापप्रणाशिनीः ॥
अथ राजाप्युदंकं तं प्रणनाम मुनीश्व रम् ॥१६॥
उदंकोप्याशिषं तस्मै प्रायुंक्त स्वनयाय वै ॥
राजाथ स्वनयः प्रीतस्तत्र वाक्यमभाषत ॥१७॥
मुनिं तं दीर्घतमसं विवाहः क्रिय तामिति ॥
तथास्त्वित्यवदत्सोऽपि तदा दीर्घतमा मुनिः ॥१८॥
श्व एव क्रियतां राजन्सुमुहूर्ते महामते ॥
अत्रैव पाणिग्रहणं क्रियतां गन्धमा दने ॥१९॥
तस्मादिहानय क्षिप्रं कन्यामंतःपुरं तथा ॥
इत्युक्तः स्वनयो राजा गत्वा स्वपटमण्डपम् ॥२०॥
आहूय शतसंख्याकान्वृद्धान्वर्ष वरांस्तदा ॥
आनेतुं प्रेषयामास कन्यामंतःपुरं तथा ॥२१॥
ते वर्षवरमुख्यास्तु स्वनयेन प्रचोदिताः ॥
मनोजवान्समारुह्य वाजिनो मधुरां ययुः ॥२२॥
गत्वा चांतःपुरं तूर्णं वृत्तं सर्वं निवेद्यच ॥
कन्ययांतःपुरेणापि सहिताः पुनराययुः ॥२३॥
ततः परस्मिन्दिवसे शुभे दीर्घतमा ऋषिः ॥
गोदानादीनि पुत्रस्य विधिवन्निरवर्तयत् ॥२४॥
निर्वृत्तेष्वथ कक्षीवान्गोदानादिषु कर्मसु ॥
उद्वोढुं राजतनयां पित्रा च गुरुणा सह ॥२५॥
चतुर्दंतं महाकायं गजं सर्वांगपांडुरम् ॥
आरुह्य हर्षसंयुक्तो द्वितीय इव देवराट् ॥२६॥
मनोरमायाः कन्यायाः पूरयंश्च मनोरथम् ॥
ब्राह्मणैर्बहुसाहस्रैः सहितः स्वस्तिवाचकैः ॥२७॥
तोरणालंकृतद्वारं राजर्षे पटमण्डपम् ॥
कृतमंगलकृत्योऽसौ कक्षीवान्मुदितो ययौ ॥२८॥
ततः स्वनयकन्या सा कृतमंगलभूषणा ॥
चतुर्दंतमहाकायश्वेतदंतावलस्थितम्॥ २९॥
कक्षीवंतं समायांतं दृष्ट्वा स्वोद्वाहनोत्सुकम् ॥
प्रतिज्ञा मत्कृते दानीं निर्वृत्तेति मुदं ययौ ॥३०॥
कक्षीवान्दीर्घतमसा तथोदंकेन संयुतः ॥
पटाकारबहिर्द्वारं क्रमाद्राज्ञः समाययौ ॥३१॥
स्वनयस्तु ततो दृष्ट्वा कक्षीवंतं समागतम् ॥
प्रत्युज्जगाम सहितः सुदर्शनपुरोधसा ॥३२॥
कक्षीवतो वरस्याथ कन्यकापरिचारिकाः ॥
राजतैः स्वर्णपात्रैश्च चक्रु र्नीराजनाविधिम् ॥३३॥
स्वनयेन समाहूतो ब्राह्मणैः परिवारितः ॥
प्रविवेशाथ लक्ष्मीवान्कक्षीवान्राजमंदिरम् ॥३४॥
ततो वरेण सहितं तं दीर्घतमसं मुनिम् ॥
सोदंकमनयद्राजा स्वगृहं विनयान्वितः ॥३५॥
उदंकदीर्घतमसोरर्घ्यं च प्रददौ नृपः ॥
अलंकृते प्रपामध्ये वस्त्रचामरतोरणैः ॥३६॥
वरो दीर्घतमाश्चान्ये सोदंका मुनयस्तदा ॥
न्यषीदन्स्वनयश्चापि सामात्यः सपुरोहितः ॥३७॥
ततो दुहितरं कन्यां सुकेशीं तां मनो रमाम् ॥
भूषणालंकृतां गात्रे दिव्यवस्त्रधरां शुभाम् ॥३८॥
बिंबोष्ठीं चारुसर्वांगीं पीनोन्नतपयोधराम् ॥
प्रपायामध्यमनयन्महाजनसमाकुलम् ॥३९॥
ततो वरस्य कंठे सा मालां चंपकनिर्मिताम् ॥
निवेशयामास शुभा जनमध्ये मनोरमा ॥४०॥
उदंकस्तत आगत्य प्रतिष्ठाप्यानलं स्थले ॥
कृत्वाग्निमुखपर्यंतं लाजाहोमादिकं तथा ॥४१॥
पाणिमग्राहयत्तस्याः कन्यायाश्च वरेण तु ॥
उदंकः सर्वकर्माणि कारयामास तत्र वै ॥४२॥
वरवध्वोस्तदा विप्राः प्रायुंजत तदाशिषः ॥
ततः स राजा स्वनयो वरं दीर्घतमोमुनिम्॥४३॥
उदंकं वरपक्षीयान्स्वपक्षीयांस्तथाद्विजाः ॥
त्रिलक्षं ब्राह्मणानन्नैर्भोजयामास षड्रसैः ॥४४॥
ततः संभावयामास तांबूलाद्यैरनेकधा ॥
अथामंत्र्य मुनिश्रेष्ठमुदंकः स्वाश्रमं ययौ ॥४५॥
अन्ये च ब्राह्मणाः सर्वे स्वदेशान्प्रययुस्तदा ॥
एवं विवाहे निर्वृत्ते कक्षीवद्राजकन्ययोः ॥४६॥
प्रविश्यागस्त्यतीर्थं स तिरोधत्त गजोत्तमः ॥
ततो दीर्घतमा विप्राः पुत्रेण स्नुषया सह ॥४७॥
अगस्त्यस्य महातीर्थे स्नानं कृत्वेष्टदायिनि ॥
श्लाघमानश्च तत्तीर्थं सर्वलोकेषु विश्रुतम् ॥४८॥
प्रयातुं स्वा श्रमं पुण्यं वेदारण्यं मनो दधे ॥
राजानं च तमागंतुमापृच्छन्मुनिसत्तमः ॥४९॥
स्वनयोऽपि तदा राजा स्वदुहित्रे मुदान्वितः ॥
ददौ शतसहस्राणि स्वर्णानि स्त्रीधनं तदा ॥५०॥
गवां सहस्रं प्रददौ दासीनां च सहस्रकम् ॥
ग्रामं पंचशतं चापि ददौ दुहितृवत्सलः ॥५१॥
दिव्यवस्त्रा युतं चापि शतं भूषणपेटिकाः ॥
हारमालासहस्रं च ददौ दुहितृसौहृदात् ॥५२॥
एतत्सर्वं समादाय स पुत्रः सस्नुषो मुनिः ॥
राज्ञा च समनुज्ञातः प्रययौ वेदकाननम् ॥५३॥
वेदारण्यं समासाद्य तदा दीर्घतमा मुनिः ॥
उवास ससुखं विप्राः पुत्रेण स्नुषया सह ॥५४॥
सेवन्वेदाटवीनाथं भुक्तिमुक्तिफलप्रदम् ॥
न्यवसत्तु चिरं कालं कक्षीवानपि भार्यया ॥५५॥
स्वनयोपि स राजर्षिः स्नात्वा कुंभजनिर्मिते ॥
तत्र तीर्थे महापुण्ये सहितः सर्वसैनिकैः ॥५६॥
अतःपुरं समादाय मुदितः स्वपुरं ययौ ॥
अगस्त्यतीर्थमाहात्म्यादेवं कक्षीवतो मुनेः ॥
अनन्यसुलभो विप्रा विवाहः समजायत ॥५७॥
॥ श्रीसूत उवाच ॥
इतिहासस्त्वयं पुण्यो वेदसिद्धो मुनीश्वराः ॥५८॥
धन्यो यशस्य आयुष्यः कीर्तिसौभाग्य वर्द्धनः ॥
श्रोतव्यः पठितव्योऽयं सर्वथा मानवैर्द्विजाः ॥५९॥
पठतां शृण्वतां चेममितिहासं पुरातनम् ॥
नेहामुत्रापि वा क्लेशो दारिद्यं चापि नो भवेत् ॥६०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये कक्षीवद्विवाहनिष्पत्तिवर्णनंनाम सप्त दशोऽध्यायः ॥१७॥

N/A

References : N/A
Last Updated : November 14, 2024

Comments | अभिप्राय

Comments written here will be public after appropriate moderation.
Like us on Facebook to send us a private message.
TOP