सेतुखण्डः - अध्याय ४६
भगवान स्कन्द (कार्तिकेय) ने कथन केल्यामुळे ह्या पुराणाचे नाव 'स्कन्दपुराण' आहे.
॥ श्रीराम उवाच॥
पंपारण्ये वयं दीनास्त्वया वानरपुंगव॥
आश्वासिताः कारयित्वा सख्यमादित्यसूनुना ॥१॥
त्वां दृष्ट्वा पितरं बन्धून्कौसल्यां जननीमपि ॥
न स्मरामो वयं सर्वान्मे त्वयोपकृतं बहु॥ २॥
मदर्थं सागरस्तीर्णो भवता बहु योजनः ॥
तलप्रहाराभिहतो मैनाकोऽपि नगोत्तमः ॥३॥
नागमाता च सुरसा मदर्थं भवता जिता ॥
छायाग्रहां महाक्रूराम वधीद्राक्षसीं भवान् ॥४॥
सायं सुवेलमासाद्य लंकामाहत्य पाणिना ॥
अयासी रावणगृहं मदर्थं त्वं महाकपे ॥५॥
सीतामन्विष्य लंकायां रात्रौ गतभयो भवान्॥
अदृष्ट्वा जानकीं पश्चादशोकवनिकां ययौ ॥६॥
नमस्कृत्य च वैदेहीमभिज्ञानं प्रदाय च ॥
चूडामणिं समादाय मदर्थं जानकीकरात् ॥७॥
अशोकवनिकावृक्षानभांक्षीस्त्वं महाकपे ॥
ततस्त्वशीतिसाहस्रान्किंकरान्नाम राक्षसान् ॥८॥
रावणप्रतिमान्युद्धे पत्यश्वेभरथाकुलान् ॥
अवधीस्त्वं मदर्थे वै महाबलपराक्रमान् ॥९॥
ततः प्रहस्ततनयं जंबुमालिनमागतम् ॥
अवधीन्मंत्रितनयान्सप्त सप्तार्चिवर्चसः ॥१०॥
पंच सेनापतीन्पश्चादनयस्त्वं यमालयम् ॥
कुमारमक्षमवधीस्ततस्त्वं रणमूर्धनि ॥११॥
तत इन्द्रजिता नीतो राक्षसेंद्र सभां शुभाम् ॥
तत्र लंकेश्वरं वाचा तृणीकृत्यावमन्य च ॥१२॥
अभांक्षीस्त्वं पुरीं लंकां मदर्थं वायुनंदन ॥
पुनः प्रतिनिवृत्तस्त्वमृष्यमूकं महागिरिम् ॥१३॥
एवमादि महादुःखं मदर्थं प्राप्तवानसि ॥
त्वमत्र भूतले शेषे मम शोकमुदीरयन् ॥१४॥
अहं प्राणान्परित्यक्ष्ये मृतोऽसि यदि वायुज ॥
सीतया मम किं कार्यं लक्ष्मणेनानुजेन वा ॥१५॥
भरतेनापि किं कार्यं शत्रुघ्नेन श्रियापि वा ॥
राज्येनापि न मे कार्यं परेतस्त्वं कपे यदि ॥१६॥
उत्तिष्ठ हनुमन्वत्स किं शेषेऽद्य महीतले ॥
शय्यां कुरु महाबाहो निद्रार्थं मम वानर ॥१७॥
कन्दमूलफलानि त्वमाहारार्थं ममाहर ॥
स्नातुमद्य गमिष्यामि शीघ्रं कलशमानय ॥१८॥
अजिनानि च वासांसि दर्भांश्च समुपाहर ॥
ब्रह्मास्त्रेणावबद्धोऽहं मोचितश्च त्वया हरे ॥१९॥
लक्ष्मणेन सह भ्रात्रा ह्यौषधानयनेन वै ॥
लक्ष्मणप्राणदाता त्वं पौलस्त्यमदनाशनः ॥२०॥
सहायेन त्वया युद्धे राक्षसा न्रावणादिकान् ॥
निहत्यातिबलान्वीरानवापं मैथिलीमहम् ॥२१॥
हनूमन्नंजनासूनो सीताशोकविनाशन ॥
कथमेवं परित्यज्य लक्ष्मणं मां च जानकीम् ॥२२॥
अप्रापयित्वायोध्यां त्वं किमर्थं गतवानसि ॥
क्व गतोसि महावीर महाराक्षसकण्टक ॥२३॥
इति पश्यन्मुखं तस्य निर्वाक्यं रघुनंदनः ॥
प्ररुदन्नश्रुजालेन सेचयामास वायुजम् ॥२४॥
वायुपुत्रस्ततो मूर्च्छामपहाय शनैर्द्विजाः ॥
पौलस्त्यभयसंत्रस्तलोकरक्षार्थमागतम्॥२५॥
आश्रित्य मानुषं भावं नारायणमजं विभुम्॥
जानकीलक्ष्मणयुतं कपिभिः परिवारितम्॥२६॥
कालांभोधरसंकाशं रणधूलिसमुक्षितम् ॥
जटामण्डलशोभाढ्यं पुण्डरीकायतेक्षणम् ॥२७॥
खिन्नं च बहुशो युद्धे ददर्श रघुनंदनम् ॥
स्तूयमानममित्रघ्नं देवर्षिपितृकिन्नरैः ॥२८॥
दृष्ट्वा दाशरथिं रामं कृपाबहुलचेतसम् ॥
रघुनाथकरस्पर्शपूर्णगात्रः स वानरः ॥२९॥
पतित्वा दण्डवद्भूमौ कृतांजलिपुटो द्विजाः ॥
अस्तौषीज्जानकीनाथं स्तोत्रैः श्रुतिमनोहरैः ॥३०॥
॥ हनूमानुवाच ॥
नमो रामाय हरये विष्णवे प्रभविष्णवे ॥
आदिदेवाय देवाय पुराणाय गदाभृते ॥३१॥
विष्टरे पुष्पकं नित्यं निविष्टाय महात्मने ॥
प्रहृष्टवानरानीकजुष्टपादांबुजाय ते ॥३२॥
निष्पिष्ट राक्षसेंद्राय जगदिष्टविधायिने ॥
नमः सहस्रशिरसे सहस्रचरणाय च ॥३३॥
सहस्राक्षाय शुद्धाय राघवाय च विष्णवे ॥
भक्तार्तिहारिणे तुभ्यं सीतायाः पतये नमः ॥३४॥
हरये नारसिंहाय दैत्यराजविदारिणे ॥
नमस्तुभ्यं वराहाय दंष्ट्रोद्धृतवसुन्धर ॥३५॥
त्रिविक्रमाय भवते बलियज्ञ विभेदिने ॥
नमो वामनरूपाय नमो मंदरधारिणे ॥३६॥
नमस्ते मत्स्यरूपाय त्रयीपालनकारिणे ॥
नमः परशुरामाय क्षत्रियांतकराय ते ॥३७॥
नमस्ते राक्षसघ्नाय नमो राघवरूपिणे ॥
महादेव महाभीम महाकोदण्डभेदिने ॥३८॥
क्षत्रियांतकरक्रूरभार्गवत्रासकारिणे ॥
नमोऽस्त्वहिल्या संतापहारिणे चापहारिणे ॥३९॥
नागायुतवलोपेतताटकादेहहारिणे ॥
शिलाकठिनविस्तारवालिवक्षोविभेदिने ॥४०॥
नमो माया मृगोन्माथकारिणेऽज्ञानहारिणे ॥
दशस्यंदनदुःखाब्धिशोषणागस्त्यरूपिणे ॥४१॥
अनेकोर्मिसमाधूतसमुद्रमदहारिणे ॥
मैथिलीमानसां भोजभानवे लोकसाक्षिणे ॥४२॥
राजेंद्राय नमस्तुभ्यं जानकीपतये हरे ॥
तारकब्रह्मणे तुभ्यं नमो राजीवलोचन ॥४३॥
रामाय रामचन्द्राय वरेण्याय सुखात्मने ॥
विश्वामित्रप्रियायेदं नमः खरविदारिणे ॥४४॥
प्रसीद देवदेवेश भक्तानामभयप्रद ॥
रक्ष मां करु णासिंधो रामचन्द्र नमोऽस्तु ते ॥४५॥
रक्ष मां वेदवचसामप्यगोचर राघव ॥
पाहि मां कृपया राम शरणं त्वामुपैम्यहम् ॥४६॥
रघुवीर महामोहमपाकुरु ममाधुना ॥
स्नाने चाचमने भुक्तो जाग्रत्स्वप्नसुषुप्तिषु ॥४७॥
सर्वावस्थासु सर्वत्र पाहि मां रघुनंदन ॥
महिमानं तव स्तोतुं कः समर्थो जगत्त्रये ॥४८॥
त्वमेव त्वन्महत्त्वं वै जानासि रघुनंदन ॥
इति स्तुत्वा वायुपुत्रो रामचंद्रं घृणानिधिम् ॥४९॥
सीतामप्यभितुष्टाव भक्तियुक्तेन चेतसा ॥
जानकि त्वां नमस्यामि सर्वपापप्रणाशिनीम् ॥५०॥
दारिद्र्यरणसंहर्त्रीं भक्तानामिष्टदायिनीम् ॥
विदेहराजतनयां राघवानंदकारिणीम् ॥५१॥
भूमेर्दुहितरं विद्यां नमामि प्रकृतिं शिवाम् ॥
पौलस्त्यैश्वर्यसंहर्त्रीं भक्ताभीष्टां सरस्वतीम् ॥५२॥
पतिव्रताधुरीणां त्वां नमामि जनकात्मजाम् ॥
अनुग्रहपरामृद्धिमनघां हरिवल्लभाम् ॥५३॥
आत्मविद्यां त्रयीरूपामुमारूपां नमाम्य हम् ॥
प्रसादाभिमुखीं लक्ष्मीं क्षीराब्धितनयां शुभाम् ॥५४॥
नमामि चन्द्रभगिनीं सीतां सर्वांगसुंदरीम् ॥
नमामि धर्मनिलयां करुणां वेदमातरम् ॥५५॥
पद्मालयां पद्महस्तां विष्णुवक्षस्थलालयाम् ॥
नमामि चन्द्रनिलयां सीतां चन्द्रनिभाननाम् ॥५६॥
आह्लादरूपिणीं सिद्धिं शिवां शिवकरीं सतीम् ॥
नमामि विश्वजननीं रामचन्द्रेष्टवल्लभाम् ॥
सीतां सर्वानवद्यांगीं भजामि सततं हृदा ॥५७॥
॥ श्रीसूत उवाच ॥
स्तुत्वैवं हनुमान्सीतारामचन्द्रौ सभक्तिकम् ॥५८॥
आनंदाश्रुपरिक्लिन्नस्तूष्णीमास्ते द्विजोत्तमाः ॥
य इदं वायुपुत्रेण कथितं पापनाशनम् ॥५९॥
स्तोत्रं श्रीरामचंद्रस्य सीतायाः पठतेऽन्वहम् ॥
स नरो महदैश्वर्यमश्नुते वांछितं स दा ॥६०॥
अनेकक्षेत्रधान्यानि गाश्च दोग्ध्रीः पयस्विनीः ॥
आयुर्विद्याश्च पुत्रांश्च भार्यामपि मनोरमाम् ॥६१॥
एतत्स्तोत्रं सकृ द्विप्राः पठन्नाप्नोत्यसंशयः ॥
एतत्स्तोत्रस्य पाठेन नरकं नैव यास्यति ॥६२॥
ब्रह्महत्यादिपापानि नश्यंति सुमहांत्यपि ॥
सर्वपापविनिर्मुक्तो देहांते मुक्तिमाप्नुयात् ॥६३॥
इति स्तुतो जगन्नाथो वायुपुत्रेण राघवः ॥
सीतया सहितो विप्रा हनूमंतमथाब्रवीत् ॥६४॥
॥ श्रीराम उवाच ॥
अज्ञानाद्वा नरश्रेष्ठ त्वयेदं साहसं कृतम् ॥
ब्रह्मणा विष्णुना वापि शक्रादित्रिदशैरपि ॥६५॥
नेदं लिंगं समुद्धर्तुं शक्यते स्थापितं मया ॥
महादेवापराधेन पतितोऽस्यद्य मूर्च्छितः ॥६६॥
इतः परं मा क्रियतां द्रोहः सांबस्य शूलिनः ॥
अद्यारभ्य त्विदं कुंडं तव नाम्ना जगत्त्रये ॥६७॥
ख्यातिं प्रयातु यत्र त्वं पतितो वानरोत्तम ॥
महापातकसंघानां नाशः स्यादत्र मज्जनात् ॥६८॥
महादेवजटाजाता गौतमी सरितां वरा ॥
अश्वमेधसहस्रस्य फलदा स्नायिनां नृणाम् ॥६९॥
ततः शतगुणा गंगा यमुना च सरस्वती ॥
एतन्नदीत्रयं यत्र स्थले प्रवहते कपे ॥७०॥
मिलित्वा तत्र तु स्नानं सहस्रगुणितं स्मृतम् ॥
नदीष्वेतासु यत्स्नानात्फलं पुंसां भवेत्कपे ॥७१॥
तत्फलं तव कुंडेऽस्मिन्स्नानात्प्राप्नोत्यसंशयम् ॥
दुर्लभं प्राप्य मानुष्यं हनूमत्कुंडतीरतः ॥७२॥
श्राद्धं न कुरुते यस्तु भक्तियुक्तेन चेतसा ॥
निराशास्तस्य पितरः प्रयांति कुपिताः कपे ॥७३॥
कुप्यंति मुनयोऽप्यस्मै देवाः सेंद्राः सचारणाः ॥
न दत्तं न हुतं येन हनूमत्कुंडतीरतः ॥७४॥
वृथाजीवित एवासाविहामुत्र च दुःखभाक् ॥
हनूमत्कुंडसविधे येन दत्तं तिलोदकम् ॥
मोदंते पितरस्तस्य घृतकुल्याः पिबंति च ॥७५॥
॥ श्रीसूत उवाच ॥
श्रुत्वैतद्वचनं विप्रा रामेणोक्तं स वायुजः ॥७६॥
उत्तरे रामनाथस्य लिंगं स्वेनाहृतं मुदा ॥
आज्ञया रामचन्द्रस्य स्थापयामास वायुजः ॥७७॥
प्रत्यक्षमेव सर्वेषां कपिलांगूलवेष्टितम् ॥
हरोपि तत्पुच्छजा तं बिभर्ति च वलित्रयम् ॥
तदुत्तरायां ककुभि गौरीं संस्थापयन्मुदा ॥७८॥
॥ श्रीसूत उवाच ॥
एवं वः कथितं विप्रा यदर्थं राघवेण तु ॥
लिंगं प्रतिष्ठितं सेतौ भुक्तिमुक्तिप्रदं नृणाम् ॥७९॥
यः पठेदिममध्यायं शृणुयाद्वा समाहितः ॥
स विधूयेह पापानि शिवलोके महीयते ॥८०॥
इति श्रीस्कांदे महापुराण एकाशीतिसाहस्र्यां संहितायां तृतीये ब्रह्मखण्डे सेतुमाहात्म्ये रामनाथलिंगप्रतिष्ठाकारणवर्णनंनाम षट्चत्वारिंशोऽध्यायः ॥४६॥
N/A
References : N/A
Last Updated : November 14, 2024
TOP