ज्योतिःशास्त्रसमुद्रं प्रमथ्य मतिमन्दराद्रिणाऽथ मया । लोकस्य आलोककरः शास्त्रशशांकः समुत्क्षिप्तः ॥१॥
पूर्वाचार्यग्रन्था नौत्सृष्टाः कुर्वता मया शास्त्रम् । तान् अवलोक्यैदं च प्रयतध्वं कामतः सुजनाः ॥२॥
अथवा कृशं ( भृशं) अपि सुजनः प्रथयति दोषार्णवाद् गुणं दृष्ट्वा । नीचः तद्विपरीतः प्रकृतिः इयं साध्वसाधूनाम् ॥३॥
दुर्जनहुताशतप्तं काव्यसुवर्णं विशुद्धिमायाति । श्रावयितव्यं तस्माद् दुष्टजनस्य प्रयत्नेन ॥४॥
ग्रन्थस्य यत् प्रचरतोऽस्य विनाशमेति लेख्याद् बहुश्रुतमुखाधिगमक्रमेण । यद्वा मया कुकृतमल्पमिहाकृतं वा कार्यं तदत्र विदुषा परिहृत्य रागम् ॥५॥
दिनकरमुनिगुरुचरणप्रणिपातकृतप्रसादमतिना इदम् । शास्त्रमुपसंगृहीतं नमोऽस्तु पूर्वप्रणेतृभ्यः ॥६॥